मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 261, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३१
अथ प्रोक्तवद्बुद्धेरप्यानर्थक्यप्रसङ्गतया व्य-
ञ्जकान्तरसद्भावे व्यञ्जकस्यानर्थक्यं प्रसज्यत इ-
त्येवं न पर्यनुयुज्यते, किंतु करणत्वविवक्षयैवं
केचिद्ब्रुवते चोद्यं कुर्वन्ति—यदुत बुद्ध्याख्ये
करणे सत्यपि किं विद्याभिधानेन करणेन ।
यथोक्तं
‘...............सा विद्या तत्परं करणम् ।’ (त० सं० १२)
इति । इहाप्युक्तं
‘तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ।’ (१।१०।९)
इति । सोऽप्ययं पक्षो मनःषष्ठैर्बुद्धीन्द्रियैरनै-
कान्तिकः । तथाहि बुद्धीन्द्रियपञ्चकस्य स्वस्व-
विषयग्रहणक्रियायां करणस्य सतः षष्ठेन मनसा
करणान्तरेणाङ्गीक्रियमाणेनानैकान्तिकीकृतमे-
तत्—यत्करणान्तरसद्भावे करणानर्थक्यमिति ।
प्रत्युत करणान्तरापेक्षस्य कासुचित्क्रियासूप-
लम्भः । उक्तं च श्रीमत्पराख्ये
‘करणं करणापेक्षमाजाविभकरास्त्रवत् ।’
इति । यथा चैषां श्रोत्रादीनां पञ्चानां मनः-
षष्ठत्वं करणत्वे सामान्येऽप्यात्मवादिभिरिष्टं,
तथा बुद्धौ सत्यामपि तद्ग्राहिका विद्या सेत्स्य-
तीति न कश्चिद्दोषः ॥ ११ ॥