मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ९९
माणत्वं देहस्य न दृष्टमिति कर्तृदर्शनापह्नवो
न युक्तः, तस्यानुमेयत्वेन दर्शनाविषयत्वात् ।
देहस्य तु क्रियमाणत्वं कथं न दृष्टं ? अ-
भूत्वा भावित्वमेव हि कार्यत्वं, तच्च देहस्योपल-
भ्यत एव । तथाहि शुक्रशोणितकललाद्युपा-
दानात् 'दिह उपचये' इति धात्वर्थगत्या प्रति-
मासोपचीयमानो गर्भस्थो देहः प्रतीयते इति
कथमेष कार्यत्वमतिक्रामेत् । किंच संनिवेश-
विशेषवत्त्वाद्विनश्वरत्वाच्च देहादेः कार्यत्वमप-
ह्नोतुमशक्यम् । यद्यत्संनिवेशविशेषवद्विनश्वरं,
तत्तत्कार्यं यथा घटादि । तथा चैते देहादयः
पदार्थाः, तस्मादेतेऽपि कार्याः । एवं च सति
देहादि वस्तुजातं धर्मि बुद्धिमत्कर्तृपूर्वकमिति
साध्यो धर्मः कार्यत्वात् । यद्यत्कार्यं, तत्तद्बुद्धि-
मत्कर्तृपूर्वकं दृष्टं यथा रथादि । यत्तु नैवंविधं,
न तत्कार्यं यथात्मादि । ननु घुणाक्षरे कार्ये-
ऽपि न बुद्धिमत्कर्तृपूर्वकत्वमस्तीत्यनैकान्तिकः
कार्यत्वहेतुः । नैवं, तत्र कार्यताया एवानन्व-
यात् । यथेष्टसंचारमात्र एव किल घुणस्य
कर्तृता, नतु विशिष्टसंनिवेशाक्षरनिर्मितौ । स
तु संनिवेशस्तथा अन्यथास्य परिसर्पतः स्वभा-
वत एवोपपद्यते । ननु तद्भावे भावात् तद-
भावे चाभावात् घुणकर्तृकमेवाक्षरम् । यद्येवं,
तत्तथाचारित्वे भावात् अतथाचारित्वे चाक्षर-
स्यानभिव्यक्तेरव्यवधानेन घुणाक्षरस्य बुद्धि-
मत्कर्तृपूर्वकत्वमस्तीति कुतः कार्यत्वहेतोरनै-
कान्तिकत्वम् । न चायमकृष्टजातैः शाल्यादि-
भिर्वनद्रुमादिभिर्वा नैकान्तिकः, तेषु कर्तृभाव-
स्यानिश्चयात् तेषां च पक्षीभूतत्वात् । नन्व-
सिद्धव्याप्तिकस्य पक्षीकरणमात्रेण यदि हेत्वा-
भासानां निरासस्तर्हि न केचन हेतवो हेत्वा-
भासाः । भवेदेतद्यद्ययं कार्यत्वहेतुरसिद्धव्या-
प्तिकः स्यात् । यावता दृष्टान्तीकृतदृष्टकर्तृकघटा-
दिव्यतिरिक्तास्त्रैलोक्योदरवर्तिनस्तनुकरणभु-
वनादयो भावा धर्मिणः कर्तृपूर्वकाः कार्यत्वादुप-
लभ्यमानकर्तृकघटादिवदित्यनुमाने क्रियमाणे
किमन्यदवशिष्यते, यत्र कार्यत्वस्य व्याप्तिर्न
सिद्धा स्यात् । ननु चात्रानुमाने य एव
घटादिर्दृष्टान्ते धर्मी, स दृष्टकर्तृकत्वान्न तावत्
सिषाधयिषितेश्वरनिर्वर्त्यः, तस्य तु कुम्भकार-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १०१
कार्यत्वेनेशस्यासर्वकर्तृत्वम्, अथेश्वरकर्तृत्वं दृ-
ष्टान्तधर्मिणो घटादेरिष्टं, तत्साध्यभ्रष्टो दृष्टान्तः
प्रतीतिबाधश्च । नहि घटादिकमर्थं कुलालाद्य-
न्वयव्यतिरेकानुविधायिनमीश्वरकर्तृकत्वेन क-
श्चिदप्यवैति । विरुद्धश्चायं हेतुः, यादृशो हि
घटादेः कर्ता कुलालादिः क्लेशादिभागनीशो
विनश्वरश्च, तादृक् जगतोऽपि कर्ता प्राप्नोति ।
तदुक्तं जैमिनीयैः
'कुम्भकाराद्यधिष्ठानं घटादौ यदि चेष्यते ।
नेश्वराधिष्ठितत्वं स्यादस्ति चेत्साध्यहीनता ॥
तथा सिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता ।
अनीश्वरविनाश्यादिकर्तृकत्वं प्रसज्यते ॥' (श्लो० वा०)
इति । स्यादेष सर्वदोषावकाशो यद्यस्माभिर-
सर्वविषयमीश्वराधिष्ठानमुपगम्यते, यावता ये-
ऽपि तु कुम्भादीनां कर्तारः कुलालादयस्तेऽपि
तत्प्रत्यवेक्षणानुगृहीतशक्तयस्तत्तत्कार्यनिर्वर्तन-
समर्था भवन्तीति ब्रूमः । ननु कुत्रैतत् दृष्टं य-
त्कुलालतन्तुवायादिसद्भावे भावात् तद्भावे
चाभावादपि घटादि कार्यजातमीश्वराधिष्ठित-
मिति । कुत्र वा न दृष्टं किं न श्रुतं भगवता
१०२ मृगेन्द्रतन्त्रे । [ १।३
स्वयमादिष्टं सर्वजनप्रसिद्धेष्वपि शास्त्रेषूद्धुष्य-
माणं भवद्भिः
'गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥'
(गी० १५।१३)
इति,
'न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ।'
(गी० १०।३९)
इति, श्रुतावपि
'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाविवेश ।' ( क० शा० ४०।५ )
इति । अत एव भवदुद्भावितः प्रतीतिविरो-
धोऽपि निरस्तः
'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥'
इत्येवंविधायाः प्रत्युत प्रतीतेः सिद्धत्वात् । न
चायं विरुद्धो हेतुर्विपर्ययव्याप्यभावात् दृष्टा-
न्तधर्मिणि घटादौ स्वसाध्येन बुद्धिमत्कर्तृपूर्व-
कत्वेन व्याप्तेः सिद्धत्वात् बुद्धिमत्कर्तृपूर्वकत्व-
विरहिणो विपक्षादात्मादेर्व्यावृत्तत्वात् । स
विरुद्ध उच्यते यः सपक्षनिवृत्तोऽपि विपक्षमेव
व्याप्नोति यथा नित्यः शब्दः कृतकत्वा-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १०३
दिति । बुद्धिमत्कर्तृपूर्वकत्वं च घटस्य कुम्भ-
कारककार्यत्वात्सिद्धमिति का साध्यभ्रष्टता । न
च सर्व एव दृष्टान्तधर्माः साध्यधर्मिणि क्वाप्य-
नुमाने भवन्ति, येनानीश्वरविनाश्यादिकर्तृक-
त्वप्रसङ्गः स्यात् । तथाहि—अनित्यः शब्दः
कृतकत्वात् घटादिवदित्यत्रापि शब्दस्य कुम्भ-
कारककार्यत्वरौहित्यपारिवर्तुल्यादयो घटधर्माः
किमिति न भवन्तीति भवद्भिर्वक्तव्यमिति
न किंचिदेतत् । नन्वेते कार्यत्वसंनिवेशादि-
मत्त्वादयो हेतवः कार्यस्यानेककर्तृतामपि
साधयन्तीति धर्मिस्वरूपविपरीतसाधनत्वाद्वि-
रुद्धाः । तथाच मण्डनः
'संनिवेशादिमत्सर्वं बुद्धिमद्धेतुमद्यदि ।
प्रसिद्धसंनिवेशादेरेककारणता कुतः ॥
रथाद्यवयवा नानातक्षनिर्मापिता अपि ।
'दृश्यन्ते जगति प्राय उपकार्योपकारकाः ॥'
इति । तदप्ययुक्तं रथादीनां कार्याणामने-
कतक्षविरचितानामपि एकस्थपतीच्छानुवर्तनं
विना निष्पत्त्यदर्शनात् । तदेवं कार्यत्वहेतुना
जगतो बुद्धिमत्कर्तृपूर्वकत्वसिद्धौ योऽसौ तत्तद्धै-
चित्र्यसंपादिकेच्छाज्ञानक्रियाशक्तियुक्तः, कर्ता
स इत्यस्मदादिकार्यविलक्षणक्षित्यादिकार्यवि-
शेषजनककारणविशेषावगमो युक्तः । न चैत-
दप्रसिद्धं यस्माद्वैशिष्ट्यं कार्यवैशिष्ट्याद्दृष्टं लो-
कस्थितावपि, लोकव्यवहारेऽपि विशिष्टं कार्यं
दृष्ट्वा विशिष्टमेव कारणमनुमीयते, यथा विचि-
त्रभावनादिवस्तुचित्रलेपादिकलाकलापस्यामु-
ख्यतां मध्यत्वमनुपमसौन्दर्यसंपदं च दृष्ट्वा, तत्त-
त्कर्तुरपि तद्गतवैलक्षण्याद्वैशिष्ट्यमवसीयते ॥
अतश्च
यद्यथा यादृशं याव-
त्कार्यं तत्कारणं तथा ।
यत् कार्यं धूमादि, यथेति येन प्रकारेण
गिरिगुहागतत्वेन तदुत्सङ्गवर्तितया तदपर-
पार्श्ववर्तित्वेन चोपलब्धं, यादृशं च तार्णपर्णा-
दिना स्वरूपेण विशिष्टं, यावत्परिमाणं तनुतर-
रेखाकारमम्बुदनिवहबहलं वा, तत्कारणं वह्नि-
लक्षणं, तथेति पर्वतोत्सङ्गस्थं वा तच्छिखरनि-
विष्टं वा तत्पश्चाद्भागगतं वा, तादृशं च ताव-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १०५
त्प्रमाणकं वाल्पत्वबहुत्वेन यथानुमीयते । एवं
जगल्लक्षणकार्यस्य तत्तत्प्रकाराकारवैचित्र्यमुप-
लभ्य तत्तद्विशेषविषयनिरतिशयज्ञानक्रियाश-
क्तियुक्तं कारणमनुमीयते ॥
तच्च
नित्यं कालानवच्छेदा-
द्वैतत्यान्न प्रदेशगम् ॥ २ ॥
क्रमाक्रमसमुत्पत्तेः
क्रमाद्युत्पत्तिशक्तिमत् ।
यस्याभूत्वा भवनं भूत्वा चाभवनं, तस्य
कालेनावच्छेदादनित्यत्वम् । यत्तु पूर्वापरकोटि-
द्वयविरहात् कालानवच्छिन्नं, तत् नित्यम् । किं
च न तत्क्वचिदवस्थितं, अपितु वैतत्यान्मह-
त्त्वाद्दिग्देशानवच्छिन्नत्वात् सर्वगं सर्वत्र त-
त्कार्योपलब्धेश्च विभु, तथा क्रमयौगपद्या-
भ्यां तनुकरणादिकार्यस्योत्पादनात् क्रमेण यु-
गपच्चोत्पादिकयां शक्त्या युक्तम् ॥
ननु जगत्सृष्टिस्थित्यादिका तत्क्रिया नाक-
१४
१०६ मृगेन्द्रतन्त्रे । [ १।३
रणिका क्रियात्वात् छिदिक्रियावत् अतस्त-
स्यापि करणेन भवितव्यमित्याह
तस्यास्ति करणं येन
दृष्टा नाकरणा कृतिः ॥ ३ ॥
अनागामि च तज्ज्ञेयं
कार्यस्यानादिसंस्थितेः ।
यस्मादकरणिका क्रिया न संभवति, अत-
स्तस्य भगवतः किमप्यवश्यं करणमस्ति । तच्च
कृत्यस्य सर्गादेरनादित्वेनावस्थानादनागामि
अनागन्तुकम् ॥
अथ किं तत्करणमित्युच्यते
करणं च न शक्त्यन्य-
च्छक्तिर्नाचेतना चितः ॥ ४ ॥
शक्तिरेवास्य विश्वेशितुः करणं तयैतत्क्रि-
यानिष्पादनात्, सा चेच्छादिरूपेति वक्ष्यामः ।
उक्तं च श्रीमत्किरणे
'इच्छैव करणं तस्य यथा सद्योगिनो मता ।'
इति । शक्तिश्च चेतनरूपा, नहि चित्स्वभाव-
स्याचिद्रूपा शक्तिर्भवति ॥ ४ ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १०७
यच्चैतच्छक्त्यात्मकं करणं
विषयानियमादेकं
बोधे कृत्ये च तत्तथा ।
यस्य ज्ञेयानां करणीयानां चानन्त्यं, तस्य
करणैरप्यनन्तैर्भवितव्यम्। अपरिमितविषयं च
परमेश्वरस्य ज्ञानं कृत्यं च। यद्वक्ष्यति
‘.......................शाङ्करम्। (५ पट०)
ज्ञानम्............................॥’
इति प्रक्रम्य
‘तदेकं विषयानन्त्याद्भेदानन्त्यं प्रपद्यते।
कर्तृत्वं तदभिन्नत्वात्तद्गदेवोपचारतः॥’ (५ पट०)
इति। तस्माद्विषयस्य ज्ञेयस्य करणीयस्य चा-
नियतत्वादनवच्छिन्नत्वादेकमपि तच्छक्तिरूपं
करणं बोधविषये कृत्यविषये च तथेत्यनवच्छि-
न्नमनन्तमेवेत्यर्थः ॥
अथ मतान्तरनिरनुभाषणेनेश्वरास्तित्वमेव
द्रढयति
कार्यं न स्थितिजन्मादि
बीजस्य प्रकृतेरणोः ॥ ५ ॥
परिशेष्यान्महेशस्य
मुक्तस्य शिव एव सः ।
ननु किमत्र करणापेक्षणेश्वरेण कल्पितेन
तस्मिन् कर्मनैरपेक्ष्येण कर्तृत्वानभ्युपगमात्,
तच्चरितानि कर्माप्येव सृष्टिस्थित्यादिकारण-
तया भवन्त्विति जैमिनीयाः । यदाहुः
‘कथंचिद्धेतुमात्रस्य यद्यधिष्ठातृतोच्यते ।
कर्मभिः सर्वजीवानां तत्सिद्धेः सिद्धसाधनम् ॥’ (श्लो०वा०)
इति । यद्वा बीजमिवाङ्कुरादीनां कलादिका-
र्याणामुपादानं मायैवान्यानपेक्षिणी सृष्ट्यादि-
कृद्भवतु, प्रकृतिरेव वाव्यक्ताख्या एतत्कर्तृत्वे-
नास्तु यां विना तस्येश्वरस्यापि तत्कार्यानिष्प-
त्तिरूपलभ्यते, क्षित्याद्यात्मना परार्थप्रवृत्ता
अन्यानपेक्षिणी प्रकृतिरेव, अतः किमीश्वरे-
णेति कापिलाः । तथाहि
‘यद्यथापरिणामैकस्वभावं तत्र तत्ततः ।
अन्यानपेक्षि बीजादिसामग्री यद्वदङ्कुरे ॥
महदादिविकारौघपरिणामस्वभावकम् ।
त्रिगुणात्म प्रधानं च तेन सांख्यमनीश्वरम् ॥’ (ई० सि० २५)
इति । यदि वा
‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।’ (ऋ० १०।९०।२)
इति अणोः पुरुषादेव विवर्ततया चिदचि-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १०९
ल्लक्षणविश्वप्रादुर्भावादि भविष्यति, किमीश्वरे-
णेति । तदसत् बहिर्बीजभूतानां कर्मणां माया-
दीनां चाचेतनानां बुद्धिमदधिष्ठितानां सृ-
ष्ट्यादि कृत्यमुपपन्नमित्युक्तत्वात् । प्रकृतेरप्यौ-
त्सुक्यनिवृत्त्यर्थं कार्येषु प्रवृत्तिर्नितरामयुक्ता
तस्या आचैतन्यादौत्सुक्यस्य च चेतनधर्मत्वात्।
पुरुषस्यापि परिणामित्वाद्यनेकदोषोपनिपातात्
स्वतन्त्रस्य चाभिरुचितहानेरनिष्टोपनिपातस्य
चानुपपत्तेरखवशत्वात्स्थितिजन्मप्रलयकर्तृत्व-
निरासे सति पारिशेष्यान्महेश्वरस्यैवैतत्स्थि-
तिजन्मादि कार्यमिति पारिशेष्यानुमानमनव-
द्यमिति गमकमेतत् । इदमिदानीं विविच्यते-
यदि तावत् परमेश्वरः कारुण्यात् संसारि-
जनोज्जिहीर्षया जगतां स्थितिजन्मादौ प्रव-
र्तते, तत्किमर्थं प्रत्युत सांसारिकेषु दुःखेषु
वराकानिमान् प्राणिनो नियोजयति, अथ
तस्यैवंविध एव स्वभावः, तन्मुक्तमपि जन्तुं
किं न संसारयतीत्याह 'मुक्तस्य शिव एव सः'
सत्यं, कारुण्यादेव भगवान् प्राणिनोऽनुग्रहीतुं
प्रवर्तते । यत्तु दुःखमोहादिना निरयाद्युपभोगेन
११० मृगेन्द्रतन्त्रे । [ १३.
वा तान्संयोजयति, तन्निजकर्मानुरूप्यवशात् ।
नच कर्मापेक्षितया ईश्वरस्य स्वातन्त्र्यहानि-
रित्याशङ्कनीयं करणापेक्षया कर्तुः स्वातन्त्र्यव्या-
घातादर्शनात् भाण्डागारिकापेक्षस्य राज्ञः प्र-
सादादिदानवत् । यदुक्तं सिद्धगुरुभिः
'स्वतन्त्रान्याप्रयोज्यत्वं करणादिप्रयोक्तृता ।
कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षिता ॥'
इति । नचाभुक्तस्य कर्मणः क्षयो भवति । तत्त-
द्योनिशरीरोपभोगमुक्तविचित्रकर्मक्षयतस्तत्सा-
म्याद्वा अत्युत्कटमलपरिपाकवशप्रवृत्तशक्तिपा-
तापसारितमलस्यावाप्तानुग्रहस्य जन्तोर्निरस्त-
समस्तपाशत्वादाविर्भूतसत्रार्थतत्त्वकर्तृकस्य मु-
क्तात्मनः संसार्यताहेतोः पशुत्वस्याभावाच्छि-
वस्वरूप एव भगवान् भवति, नतु पशोरिवास्य
कुत्सितभवभोगोपभोगहेतुर्भवतीति भावः ॥
पुनरपीश्वरकर्तृकत्वमेव जगतो घटयितु-
मनुमानं प्रतिसमाधातुमाक्षिपति
संबन्धाग्रहणे बाधा
मानस्याभ्येति कस्यचित् ॥ ६ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १११
नन्वस्य स्थितिजन्मादेः कार्यस्याविनाभाव-
लक्षणसंबन्धो यदि कदाचिज्जगत्कर्त्रा सह
केनचिदपि गृहीतः स्यात्तदैतदनुमानं सिध्येत्
संबन्धस्यैव तु अग्रहणात् कथं नास्य बाधेति
यदि कस्यचिन्मतं स्यात्, तदिदमप्यसौ प्रत्यनु-
योज्य इत्याह
सा परस्यापि धूमोऽन्यो
गिरौ माहानसायतः ।
सैषा बाधा सर्वस्याप्यनुमानवादिनः प्र-
सक्ता । तथाहि महानसादिगतानां विशिष्ट-
देशकालाकाराणामेव धूमाग्निव्यक्तीनां संबन्ध-
ग्रहणे धूममात्राच्च पर्वतादौ वह्निमात्रानुमा-
नमित्यगृहीतसंबन्धैव धूमव्यक्तिः कथं तथा-
विधवह्निव्यक्तिं गमयेदिति संबन्धग्रहपर्यनु-
योगः समानः । ततश्च
'यत्र स्यादुभयोर्दोषः परिहारश्च वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविनिश्चये ॥'
इति नैतदस्माकमेव चोद्यम् । अथ धूममात्र-
स्यैव वह्निमात्राविनाभावलक्षणः संबन्धो गृ-
हीतः, तदिहापि कार्यमात्रात् कर्तृमात्रानुमान-
मदुष्टम्। अन्यथा सर्वानुमानोच्छेद एव स्यात्।
तदुक्तं
'साध्यसाधनसामान्येनाविनाभावनिश्चयात् ।
प्रवृत्तिरनुमानस्य तद्भावस्तदन्यथा ॥'
इति । इत्थं च विचित्रतत्तत्कर्माशयाधिवा-
सितभोक्तृभोगतत्साधनतदुपादानादिविशेषज्ञः
कर्ता अनुमानान्तरेणानुमीयत इति न कश्चि-
द्दोषः । तदिदमुक्तं तत्रभवद्बृहस्पतिपादैः
'भवभोक्तृभोगसाधनतदुपादानादि यो विजानाति ।
तमृते भवेन्नहीदं पुंस्कर्माशयविपाकज्ञम् ॥'
इति ॥
अस्तु तर्हि ईश्वरः कर्ता, सतु न तावद्-
शरीरः प्रत्येतव्यः
'कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।'
इत्यादिना देहविरहिणः कर्तृत्वायोगास्योक्त-
त्वात् । तथाहि
लोके वपुष्मतो दृष्टं
कृत्यं
घटपटादि कार्यं शरीरवतैव क्रियमाणं दृष्टं
नाशरीरेणेति ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ११३
किंचातः
सोऽप्यस्मदादिवत् ॥ ७ ॥
एवं च सति अस्मदादिवत्क्लेशादियुक्तोऽस-
र्वज्ञः परिमितशक्तिर्देशाद्यवच्छिन्नः सोऽपीश्वरः
शरीरित्वात्प्राप्नोतीति पूर्वः पक्षः ॥ ७ ॥
सिद्धान्तस्तु
मूलाद्यसंभवाच्छाक्तं
वपुर्नो तादृशं प्रभोः ।
अशरीरस्यापि तावत् स्वदेहस्पन्दादौ क-
र्तृत्वं दृष्टमिति । 'कार्यं शरीरयुक्तेन कर्त्रा व्या-
प्तम्' इत्युक्तमभ्युपगम्यापि ब्रूमः शरीरवत्त्वेऽपि
भगवतो न प्रागुक्तदोषप्रसङ्गः । कुत इत्याह
मूलाद्यसंभवादिति मूलं मलः सर्वानर्थमूल-
त्वात्, अविद्यावृतिरुग्ग्लानिपापमूलक्षयादिभिः
पर्यायैर्वक्ष्यमाणत्वाच्च, आदिग्रहणात्कर्माणि
रोधशक्तिश्च, तदसंभवात् । नहि परमेश्वरस्य
मलकर्मादि पाशजालं संभवति यन्निमित्तं प्रा-
कृतं वपुः कल्प्यते, अपितु शाक्तमिति शक्ति-
स्वरूपैः सद्योजातादिभिः पञ्चभिर्मन्त्रैः स्वेच्छा-
१५
११४ मृगेन्द्रतन्त्रे। [ ११३
विनिर्मितमपरिमितसामर्थ्यमदिग्देशकालाका-
रव्यवच्छिन्नमनुपममहिम तच्छरीरं, नत्वस्म-
दादिशरीरसदृशम्॥
अत एव हि
तद्वपुः पञ्चभिर्मन्त्रैः
पञ्चकृत्योपयोगिभिः॥ ८॥
ईशतत्पुरुषाघोर-
वामाजैर्मस्तकादिकम्।
यथाक्रममनुग्रहतिरोभावादानरक्षणोत्पत्ति-
लक्षणकृत्यपञ्चकेऽवश्यमुपयोगो येषां तैरीशा-
नादिभिः पञ्चभिर्मन्त्रैस्तत् मूर्धादि वपुः ‘देव-
स्योच्यते’ इत्यध्याहारः। वरैः पुष्णाति ध्यायिनः
इति वपुःशब्दस्यान्वर्थता, भक्तानुग्रहणाय त-
त्तदाकारग्रहणस्यागमेषूपदिष्टत्वात्। तथाचोक्तं
श्रीमत्पौष्करे
‘साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम्।’
इति॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ११५
अथ कथं भगवत ईशानमूर्धत्वमित्याह
ईष्टे येन जगत्सर्वं
गुणेनोपरिवर्तिना ॥ ९ ॥
स मूर्धसमदेशत्वा-
न्मूर्धा नावयवस्तनोः ।
येन गुणेन मन्त्रेण सर्वस्रोतोऽनुस्रोतसा-
मूर्ध्वस्थितत्वात् सर्वानुग्रहहेतुत्वाद्वा उपरिव-
र्तिना जगच्चिदचिदात्मकं विश्वमीष्टे, स उत्त-
माङ्गवत्सर्वोर्ध्वस्थितत्वान्मूर्धेव मूर्धा, न परमा-
र्थतो देहावयवः ॥
तत्पुरुषवक्त्रं व्याचष्टे
तस्य तस्य तनुर्या पू-
स्तस्यामुषति येन सः ॥ १० ॥
तत्राणाद्व्यञ्जनाच्चापि
स तत्पुरुषवक्त्रकः ।
तस्य तस्य अमरनरादेर्या पूः पुरी तनु-
स्तस्यां पुरि यजमानस्वरूपेणाधिष्ठानभावेनो-
षितस्तत्पुरुषः । तदुक्तं
११६ मृगेन्द्रतन्त्रे । [ १।३
'स्वात्मैवायं वसति सकलप्राणिनामीश्वरोऽन्तः ।'
(ई० सि० ५६)
इति । तत्पुरुष इति यस्माद्व्यनक्ति ज्ञानक्रिये,
त्रायते जन्मादिभयात्ततस्तत्पुरुषवक्त्रः
'व्यञ्जनत्राणरूपत्वाद्वक्त्रमित्यभिधीयते ।'
इति श्रुतेः ॥
अघोरहृदयत्वं वक्तुमाह
हृदयं बोधपर्यायः
सोऽस्य घोरः शिवो यतः ॥ ११ ॥
परिग्रहस्य घोरत्वा-
द्घोरोक्तिरुपचारतः ।
हृदयमाशयो बोध इति पर्यायः । शिवो
बोधो यस्माद्भगवतस्तस्मादघोरहृदयः । ननु
घोरमश्रेयोरूपं यदुच्यते तद्घोररूपता कथं
देवस्येत्याह परिग्रहस्य घोरत्वादिति । येयं पर-
मेश्वरस्य घोररूपोक्तिः सा न वास्तवी, किंतु
परिग्रहस्य स्वशक्त्युत्तेजितसामर्थ्यस्याशुद्धाध्वा-
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ११७
धिकारिनिकुरम्बस्य घोरत्वाद्घोरशक्तिरेव उप-
चारादुच्यते । तथाचोक्तं
‘विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् ।
रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपरास्तु ताः ॥’
( मा० वि० ३।३१ )
इति ॥
वामदेवगुह्यत्वमभिधत्ते
वामस्त्रिवर्गवामत्वा-
द्रहस्यश्च स्वभावतः ॥ १२ ॥
वामं धाम परं गुह्यं
यस्यासौ वामगुह्यकः ।
धर्मार्थकामलक्षणेन त्रिवर्गेण प्रलोभ्य व-
मति अधो निक्षिपतीति वामः। स्वभावेन रह-
स्यो गुह्यो भावः कथ्यते । इत्थं पृथगनयोः
पदयोरर्थं प्रदर्श्य विग्रहं करोति वामं धामेति ।
दिवेर्धातोर्द्युत्यर्थत्वाद्देवशब्देन तेजोऽभिमतम् ।
तेन वाममधस्तनेऽध्वनि वमनशीलं यत्तेज-
स्तद्गुह्यमप्रकटमस्येति वामदेवगुह्यः परमेश्वरः॥
११८ मृगेन्द्रतन्त्रे । [ १३
सद्योजातमूर्तित्वं निरूपयति
सद्योऽणूनां मूर्तयः संभवन्ति
यस्येच्छातस्तेन सद्योऽभिधानः ।
सद्यो मूर्तीयोगिनां वा विधत्ते
सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥
पत्युरिच्छया हि कर्मप्रक्षयाय क्षिप्रमेवा-
त्मनां तास्ता मूर्तयो जाता इति सद्योजात-
मूर्तिर्देवः । यद्वक्ष्यति दीक्षाप्रकरणे
'सद्येन जनयेत्सद्यो नानानिष्पन्नविग्रहम् ।'
इति । यद्वा योगिनां तत्तत्समाधिभाजां सद्य-
स्तत्क्षणं मूर्तीर्विधत्ते प्रोक्तवन्मन्त्रमयस्वमूर्तिस-
दृशीं तनुं संपादयतीति अचिरात्स्वसमताभि-
व्यञ्जकत्वात्सद्योमूर्तित्वं, नतु शीघ्रसंजातस्व-
देहत्वादित्यर्थः ॥ १३ ॥
एतदेव द्रढयति
इत्थं शक्तिः कुर्वती देहकृत्यं
देहाभावादुच्यते देहशब्दैः ।