मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 140, कुल 448 में से
संदर्भ में पढ़ें११० मृगेन्द्रतन्त्रे । [ १३.
वा तान्संयोजयति, तन्निजकर्मानुरूप्यवशात् ।
नच कर्मापेक्षितया ईश्वरस्य स्वातन्त्र्यहानि-
रित्याशङ्कनीयं करणापेक्षया कर्तुः स्वातन्त्र्यव्या-
घातादर्शनात् भाण्डागारिकापेक्षस्य राज्ञः प्र-
सादादिदानवत् । यदुक्तं सिद्धगुरुभिः
'स्वतन्त्रान्याप्रयोज्यत्वं करणादिप्रयोक्तृता ।
कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षिता ॥'
इति । नचाभुक्तस्य कर्मणः क्षयो भवति । तत्त-
द्योनिशरीरोपभोगमुक्तविचित्रकर्मक्षयतस्तत्सा-
म्याद्वा अत्युत्कटमलपरिपाकवशप्रवृत्तशक्तिपा-
तापसारितमलस्यावाप्तानुग्रहस्य जन्तोर्निरस्त-
समस्तपाशत्वादाविर्भूतसत्रार्थतत्त्वकर्तृकस्य मु-
क्तात्मनः संसार्यताहेतोः पशुत्वस्याभावाच्छि-
वस्वरूप एव भगवान् भवति, नतु पशोरिवास्य
कुत्सितभवभोगोपभोगहेतुर्भवतीति भावः ॥
पुनरपीश्वरकर्तृकत्वमेव जगतो घटयितु-
मनुमानं प्रतिसमाधातुमाक्षिपति
संबन्धाग्रहणे बाधा
मानस्याभ्येति कस्यचित् ॥ ६ ॥