कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( १७७ )
नु सहिष्यते । न कथंचिदपि सहिष्यते इत्यर्थः । अग्रतो यद्भावि
तद्दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ॥ ६६ ॥
PROSE ORDER -(हे) अवस्तुनिर्बन्धपरे । आमुक्तविवाह-
कौतुकः अयं ते करः शंभोः वलयीकृताहिना करेण तत्प्रथमाव-
लम्बनं कथं नु सहिष्यते ? ॥ ६६ ॥
NOTES —अवस्तुनिर्बन्धपरे—न वस्तु अवस्तु (तुच्छवस्तु),
तस्मिन् निर्बन्ध (आग्रहः ) परः (प्रधानः ) यस्याः सा अवस्तु-
निर्बन्धपरा, तस्याः सम्बोधने अवस्तुनिर्बन्धपरे one who is
solely attached to an unworthy object , who is
desirous of an unworthy object अवस्तु an unworthy
object, i.e., Shiva. Here the negative अ ( न )
is in the sense of अप्राशस्त्य ( not good : disparage-
ment ), which is one of its six senses—' तत्सादृश्यम-
भावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट्
प्रकीर्तिताः ।' निर्बन्ध—persistence in ; obstinacy for.
आमुक्तविवाहकौतुकः—आमुक्तं (धारित ) विवाहस्य कौतुकं
(मङ्गलसूत्रं ) यस्मिन् स आमुक्तविवाहकौतुकः round which
the nuptial string has been tied. आमुक्तं—( आ+
√मुञ्च्+क्तः ) tied विवाहकौतुकम्—the nuptial thread.
‘ कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । A
coloured thread is tied round the wrist on the
occasion of marriage and other solemn ceremonies.
शंभो —of Shiva. वलयीकृताहिना—( वलय+च्वि·+कृतः=
वलयीकृतः ) अवलयो वलयो यथा संपद्यते तथा कृतः वलयी
कृतः ( वलयरूपेण धृतः ) ; वलयीकृतः अहिः ( सर्पः ) यस्मिन् स
वलयीकृताहि. तेन round which a snake has been borne
( १७८ )
as a bracelet, i.e decked with snakes , girdled with
a serpent as with a bracelet Shiva wears Vâsuki
round his wrist as a bracelet वलय—a bracelet
‘आवापकः पारिहार्य्यं कटको वलयोऽस्त्रियाम्’ इत्यमरः । For
the formation of वलयीकृत with च्विः see notes
on मुकुलीकृत in verse 63 तत्प्रथमावलम्बनम्—तदेव प्रथमं
तत्प्रथमम् ; तत्प्रथमं च तदवलम्बनं (तत् ग्रहणं) तत्प्रथमावलम्बनम्
the first clasp कथं नु सहिष्यते—how will it bear ?
i e., it will not be able to hear Cf ‘तस्योद्वाहनकाले
च हा हा कर्त्तुं भविष्यति । फणिकंकणसंयोगं यदा ते कंकणं
भवेत् ।' शिवपुराणम् ॥ ६६ ॥
Change of Voice .—( हे ) अवस्तुनिर्बन्धपरे ' आमुक्त-
विवाहकौतुकेन अनेन ते करेण शंभो वलयीकृताहिना करेण
तत्प्रथमावलम्बनं कथं नु सहिष्यते ॥ ६६ ॥
Hindi Translation :—हे तुच्छ वस्तु के पीछे पड़ी हुई
(पार्वति) ! विवाह के धागे (कल्लावे) से युक्त यह तेरा हाथ,
जिसमें सांप कड़े की तरह पहना हुआ है ऐसे शिव के हाथ
से पहिले पहिल पकड़ने को किस प्रकार सहन कर सकेगा ?
॥ ६६ ॥
English Translation —O one who is intent on an
unworthy object, how will this thy hand, with the
marriage-string tied round it, bear the first clasp of
Shambhu's hand girdled with a serpent as with a
bracelet ? 66
Purport in Sanskrit :—हे तुच्छपदार्थे आग्रहवति
पार्वति ! अशुभवस्तुधारी शिवः स्वहस्ते सर्पं कङ्कणात्वेन धारयति,
( १७६ )
तस्मात् यदा स विवाहकाले मङ्गलसूत्रधारिणं तव पाणि
स्वकरेण ग्रहीष्यति तदा त्व तस्य करस्पर्शमसहमाना भीता
स्वं पाणिमपनेष्यसि येन पाणिग्रहणसंस्कारे एव विघ्नो भविता ।
एवं ' प्रथमग्रास एव मत्तिकापातः ' अन्यत्किमपि तु दूरे
आस्ताम् ॥ ६६ ॥
त्वमेव तावत्परिचिन्तय स्वयं
कदाचिदेते यदि योगमर्हतः ।
वधूदुकूलं कलहंसलक्षणं
गजाजिनं शोणितविन्दुवर्षि च ॥ ६७ ॥
त्वमेवेति । हे गौरि । त्वं एव स्वयं आत्मना । तावत् इति
मानार्थे । यावन्मात्रं विचारणीयंतावन्मात्रमित्यर्थः । इदमेवोदाहृतं
च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंस-
लक्षणं कलहंसचिह्नम् । ' चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । वध्वा
नवोढाया दुकूलं वधूदुकूलम् । ' वधू स्नुषा नवोढा स्त्री ' इति
विश्वः । तथा शोणितबिन्दुवर्षि शोणितबिन्दून्वर्षतीति तथोक्तम् ।
आर्द्रमित्यर्थः । गजाजिन च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः ।
एते कदाचित् जात्वपि योगं संगति अर्हतः यदि अर्हतः किम् ।
एतत्त्वमेव चिन्तयेति पूर्वेणान्वय । पाणिग्रहणकाले वधूवरयोर्व-
स्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकूल-
धारिण्यास्तव स कथं संघटिष्यत इति भावः ॥ ६७॥
PROSE ORDER :—( हे गौरि ) त्वमेव स्वयं तावत् परि-
चिन्तय ( यत् ) कलहंसलक्षणं वधूदुकूलं शोणितविन्दुवर्षि गजा-
जिनं च—एते कदाचिद् योगं अर्हतः यदि ॥ ६७ ॥
NOTES :—तावत्—तद् परिमाणमस्य इति तावत् ( तत् +
वतुप् )—यावदावश्यकं तावत् adequately ; fully. It may
also mean ' in the first place. ' In तावत्, तत् is
( १८० )
made ता by ‘ आ सर्वनाम्नः ’ पा० ६ ३ ६१ । कलहंसलक्षण—
कलहंसः लक्षणं यस्य तत् कलहंसलक्षणम् on which the
figures of swans are painted ‘ चिह्नं लक्ष्म च लक्षणम् ’
इत्यमरः । or, कलहंसवत् लक्षणं ( स्वरूपं ) यस्य तत् कलहंस-
लक्षणम् which is ( white ) like a swan कलहंस is a name
of several species of goose ‘ कादम्बः कलहंस स्यात् ’
इत्यमरः । वधूदुकूलं—वध्वाः दुकूलं ( पट्टवस्त्रम् ) the fine
raiment or cloth of a newly married woman ‘ वधू—
a newly married woman ‘ वधू स्नुषा नवोढा स्त्री ’ इति
विश्वः दुकूलम्—a kind of plant and also very fine cloth
or raiment made of the inner bark of this plant.
शोणितबिन्दुवर्षि—( √वर्ष+णिनिः ) शोणितस्य बिन्दून् वर्ष-
तीति शोणितबिन्दुवर्षि dripping blood-drops गजाजिनम्—
गजस्य अजिनं ( चर्म ) गजाजिनम् hide of an elephant
‘ अजिनं कृत्तिः चर्म ’ इत्यमरः । It is mentioned in my-
thological books that Shiva after killing Gajasura
danced with his body covered with the skin of the
demon which was dripping with blood, and used it
afterwards as a trophy कदाचित्—कस्मिन्नपि काले even
in the least. योगम्—सङ्गतिम् coming together The
ascetic means to say that leaving other things aside
even the articles of dresses of Parvati and Shiva
differ very much from each other, and when there is
so much incongruity about the outer things how far
it was proper for Parvati to have a yearning for
Shiva 67.
( १८१ )
Change of Voice —( हे गौरि ) त्वया एव स्वयं तावत्
परिचिन्त्यतां ( यत् ) कलहंसलक्षणेन वधूदुकूलेन शोणितबिन्दु-
वर्षिणा गजाजिनेन च—एताभ्यां कदाचिद् योगो अर्ह्यते
यदि ॥ ६७ ॥
Hindi Translation :—( हे गौरि ) तुम ही स्वयं अच्छी
तरह सोचो कि कहीं हंसों के चित्रों से युक्त नव विवाहिता बहू
का रेशमी वस्त्र और रक्त से सनी हुई ( महादेव की ) हाथी की
खाल—ये दोनों कभी भी एक साथ रहने योग्य हैं ॥ ६७ ॥
English Translation —Do thou thyself think over
sufficiently, if these two things ever deserve to be brought
together fine garment of a newly married woman,
with the figures of swans painted on it and ( Shiva's )
elephant-hide dripping blood-drops ? 67.
Purport in Sanskrit —हे पार्वति, मे कथनमेकतः
कृत्वा त्वमेव स्वयं विचारय यत् विवाहसंस्कारे ग्रन्थिबन्धनकाले
ते महार्हस्य हंसचित्रयुक्तस्य क्षौमवस्त्रस्य शिवस्य च रक्तबिन्दून्
क्षरता हस्तिचर्मणा सह संयोगः ( ग्रन्थिबन्धनं वा ) कथं
भविष्यति । तव तु महार्हं पट्टवस्त्रं शिवस्य च हस्तिनश्चर्म,
तयोः संयोग एव नार्हति । युवयोर्वस्तुषु महान् भेद इति
तात्पर्यम् ॥ ६७ ॥
चतुष्कपुष्पप्रकरावकीर्णयोः
परोऽपि को नाम तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पादयो-
र्विकीर्णकेशासु परेतभूमिषु ॥ ६८ ॥
( १८२ )
चतुष्केति । चतुष्कपुष्पप्रकरावकीर्णयोः चतुष्के गृहविशेषे
य पुष्पप्रकरस्तत्रावकीर्णयोर्न्यस्तयो । कुसुमास्तृतदिव्यभवनभूसं-
चारोचितयोरित्यर्थः । तव पादयोः अलक्तकाङ्कानि लाक्षारञ्जितानि
पदानि पादाकाराणि पादन्यासचिह्नानि । 'पदं शब्दे च वाक्ये च
व्यवसायापदेशयोः । पादत्तचिद्मयोः ' इति विश्वः । विकीर्णाः
विक्षिप्ता केशाः शवशिरोरुहाः यासु तासु विकीर्णकेशासु ।
' अतस्थं नत्र दृष्ट च ' इति वचनात् ' स्वाङ्गाच्चोपसर्जनादसंयो-
गोपधात् ' इति विकल्पात्र ङीप् । प्रेतभूमिषु प्रेतभूमिषु । श्मशाने
ष्वित्यर्थः । परः अपि शत्रुरपि कः नाम अनुमन्यते । न कोऽपी-
त्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य
प्रेतभूसंचारित्वेन साहचर्यात्तत्रापि तत्र संचारोऽवश्यम्भावीति
भावः ॥ ६८ ॥
PROSE ORDER —परः अपि कः नाम चतुष्कपुष्पप्रकराव-
कीर्णयोः तव पादयोः अलक्तकाङ्कानि पदानि विकीर्णकेशासु प्रेत-
भूमिषु अनुमन्यते ? ॥ ६८ ॥
NOTES —परः-शत्रुः an enemy 'अभिघातिपराराति-
प्रत्यर्थिपरिपन्थिन ' इत्यमरः । नाम—It is used in the sense
of कुत्सा ( reproach ) चतुष्कपुष्पप्रकरावकीर्णयोः । चतुष्कं—
चत्वारो अवयवा यस्य तत् चतुष्कं (चतुर्+कन्) a quadran-
gular courtyard (used for receiving guests) ; a hall
supported by four pillars ; a house consisting of four
halls (चतुःशालम्) । कन् suffix is add to form a noun
by 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ' पा० ५.१ ५८ । प्रकरः—
(√कृ+अप्)—समूहः group or heap. अवकीर्णा—(अव
+कृ+क्तः Past part ) scattered ; here—'placed.' चतुष्के
(गृहविशेषे) पुष्पाणां प्रकरे अवकीर्णयोः placed on groups of
( १८३ )
flowers in the quadrangular courtyard It is an Adj.
of पादयोः and so the sense is that the feet which are
accustomed to tread in courtyards or rooms where
flowers are scattered in abundance. अलक्तकाङ्कितानि—
अलक्तक ( लाक्षारस ) अङ्कः ( चिह्नं ) येषु तानि having
marks of red dye See notes on अलक्तक in verse 34.
It is well-known that red dye is applied to feet by
ladies to decorate them. पदानि—पदचिह्नानि foot-prints.
‘पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतचिह्नयोः’ इति
विश्वः । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ’ इत्यमर ।
विकीर्णकेशासु—( वि + √कॄ + क्तः ) विकीर्णाः केशाः यासु ताः
विकीर्णकेशाः, तासु spread over with the hair ( of
corpses ) परेतभूमिषु । परेतः—( परा,/इ to go + क्त ) परं
लोकं इतः ( गत ) परेतः or परा ( दूरं ) इतः इति परेतः a dead
person ; lit gone away. प्रेत ( प्र + √इ + क्तः ) has also
the same meaning परेतानां भूमिषु परेतभूमिषु in the
grounds of the dead, i e, burning-grounds कः अनु-
मन्यते—who would consent or approve of it ? Shiva
is said to live in the cemetery grounds ( Cf. ‘वासः
पितॄणां वने ’ and so if Párvati was wedded to him she
too would have to tread there, which would be in
great contrast with his walking in the flower-covered,
apartments of her palace 68.
CHANGE OF VOICE :—परेण अपि केन नाम चतुष्कपुष्प-
प्रकरावकीर्णयोः तव पादयो अलक्ताङ्कनि पदानि विकीर्णकेशासु
परेतभूमिषु अनुमन्यन्ते ? ॥ ६८ ॥
( १८४ )
HINDI TRANSLATION —चतुष्कोण आंगन अथवा कमरों
में (बिखरे) फूलों पर पड़ने वाले तुम्हारे पैरों के लाक्षारस के चिह्नों
को बनाने वाले पदचिह्नों के (मुर्दों के) बालों से युक्त श्मशान-
भूमि में पड़ने की अनुमति कौन सा शत्रु भी दे सकता
है ? ॥ ६८ ॥
ENGLISH TRANSLATION —Who, even an enemy,
would consent the foot-prints, leaving marks of red
dye, of thy feet treading upon groups of flowers
(scattered in quadrangular courtyard, being placed
upon cemetery grounds spread over with the hair ? 68
PURPORT IN SANSKRIT —हे गौरि त्वं स्वपितुर्गृहे पुष्पा-
स्तृतेषु प्राङ्गणादिषु भागेषु चलसि शिवश्च श्मशानवासी। तस्माद्वि-
वाहानन्तरं तस्य वासस्थानं गत्वा लाक्षारसयुक्ताभ्यां पादाभ्यां
मृतपुरुषाणां केशादिभिः संकृन्नासु श्मशानभूमिषु ते सञ्चलनं
कश्चिच्छत्रुरपि नानुज्ञास्यति मित्रस्य तु का कथा ? न त्वं श्मशान-
वासयोग्या, तत्र ते वासः शत्रूणामपि दुःखकारकः ॥ ६८ ॥
अयुक्तरूपं किमतः परं वद
त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे
पदं चिताभस्मरजः करिष्यति ॥ ६९ ॥
अयुक्तेति । त्रिनेत्रवक्षः त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्सम्ब-
न्धितया सुलभं अपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी ।
‘न लोकाव्यय०—’ इत्यादिना कृद्योगलक्षणाषष्ठ्या निषेधात् । अतः
पर अस्मात्त्रिनेत्रवक्षोलाभादन्यद् अयुक्तरूपं अत्यन्तायुक्तं किं वद ।
न किंचिदित्यर्थः । ‘प्रशंसायां रूपम्’ इति रूपप्प्रत्ययः । कुतः । यत्
( १८५ )
यस्मात्कारणात् हरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूते
अस्मिन् स्तनद्वये चिताभस्मरजः चिताभस्म श्मशानभस्म तदेव
रजश्चूर्णम् । कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य
भस्माङ्गरागादिति भावः ॥ ६६ ॥
PROSE ORDER :—( त्वमेव ) वद अतः परं अयुक्तरूपं किं
यत् त्रिनेत्रवक्षः सुलभं चिताभस्मरजः तव अपि हरिचन्दनास्पदे
अस्मिन् स्तनद्वये पदं करिष्यति ? ॥ ६६ ॥
NOTES :—अतः परम् more than this अयुक्तरूपं—अति-
शयेन युक्तं युक्तरूपम्, तन्न भवतीति अयुक्तरूपम् ( न+युक्त+
रूपप् ) अत्यन्तमनुचितम् or, न युक्तं अयुक्तं, प्रशस्तं अयुक्तं अयुक्त-
रूपम् excessively unfit · unsuitable. रूपम् is added in the
sense of प्रशंसा ( praise or excessiveness of something )
by ' प्रशंसायां रूपम् ' पा० ५.३.६६ । Here it expresses
excessiveness of unsuitableness त्रिनेत्रवक्षःसुलभम्—त्रीणि
नेत्राणि यस्य सः त्रिनेत्र (शिवः) तस्य वक्षः त्रिनेत्रवक्षः, तत्र सुलभं
त्रिनेत्रवक्षःसुलभम् which is easily found on the bosom of
the three-eyed God ( i e, Shiva ) or, which is easy to
be obtained from the bosom of the three-eyed God. It
is an Adj. of चिताभस्मरजः । The न of त्रिनेत्र is not
changed to ण because it is included in the group
known as क्षुम्नादि—'क्षुम्नादिषु च' पा० ८.४ ३९ । Mallinátha
has construed it in a different way, viz, त्रिनेत्रवक्षः तव
अपि सुलभं अतः परं अयुक्तरूपं किम् ? What can be more
unsuitable than that the ( embrace of the ) bosom of
the three-eyed God be easily obtainable for you. In
this case त्रिनेत्रवक्षः is separated from सुलभं while in
( १८६ )
the former the whole त्रिनेत्रवक्षःसुलभं is one compound
चिताभस्मरजः—चितायाः भस्म एव रज the ashes of the
funeral pyres (which are applied to his body by
Shiva) Cf आलेपो भसितं quoted in notes on verse 65
हरिचन्दनास्पदे—हरे. विष्णोरिन्द्रस्य वा चन्दनं हरिचन्दनं, तस्य
आस्पदं तस्मिन् हरिचन्दनास्पदे a place for sandal-wood paste.
‘हरिचन्दनमस्त्री स्यात् त्रिदशानां महीरुहे । नपुंसकं तु गोशीर्षे
ज्योत्स्नाकुङ्कुमयोरपि' इति मेदिनी । स्तनद्वये—स्तनयोः (कुचयोः)
द्वयं (युगलं) स्तनद्वयं, तस्मिन् on your breasts पद—
स्थानं place According to Mallinátha the latter half of
the verse is to be construed as—यत् हरिचन्दनास्पदे
अस्मिन् स्तनद्वये चिताभस्मरजः पदं करिष्यति i e, because
the powder of the ashes of funeral pyres will make its
abode in the pair of your breasts which have hitherto
been a place for sandal-wood paste Though the
construction is different the sense remains the
same 69.
CHANGE OF VOICE :—(त्वयैव) उच्यतां, अतः परं अयुक्त-
रूपं किम् यत् त्रिनेत्रवक्षः सुलभेन चिताभस्मरजसा तव अपि
हरिचन्दनास्पदे अस्मिन् स्तनद्वये पदं करिष्यते ॥ ६६ ॥
HINDI TRANSLATION :—(तुम ही) बताओ, इससे बढ़-
कर और अनुचित क्या हो सकता है कि तीन नेत्रों वाले (शिव
जी) की छाती पर लगी हुई चिता की राख तुम्हारे भी इन दोनों
स्तनों पर, जो कि चन्दन के स्थान हैं, जगह बना लेगी ॥ ६६ ॥
ENGLISH TRANSLATION —Say, what can be more
improper than that the powder of the ashes of the
( १८७ )
funeral pyres, easy to be obtained from the bosom
of the three-eyed God, will make its home on the
pair of thy breasts which have been a place for sandal
paste 69
PURPORT IN SANSKRIT :—हे पार्वति ! महादेवः स्वशरीरे
चितायाः भस्म लिम्पति । तस्मात् समागमकाले यदा स त्वामा-
लिङ्गिष्यति तदा चन्दनलेपयोग्यं ते वक्षो भस्मयुक्तं भविष्यति,
यद्धि नितरामनुचितं प्रतिभाति ॥ ६९ ॥
इयं च तेऽन्या पुरतो विडम्बना
यदूढया वारणराजहार्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥
इयमिति । इयं च ते तव पुरतः आदावेव अन्या विडम्बना ।
परिहास इत्यर्थः । का सेत्यत्राह—ऊढया परिणीतया । वहेः कर्मणि
क्तः । वारणराजहार्यया त्वया अधिष्ठितं आरूढं वृद्धं उक्षाणं वृद्धा-
क्षम् । ‘अचतुर’—इत्यादिना निपातः । विलोक्य महाजनः साधु-
जनः स्मेरमुखः स्मितमुखः भविष्यति उपहसिष्यति यत् । इयमिति
पूर्वेण सम्बन्धः । स्मेरेति ‘नमिकम्पिस्म्यज०’—इत्यादिना
रप्रत्ययः ॥ ७० ॥
PROSE ORDER :—(किं) च पुरतः इयं अन्या ते विडम्बना
यद् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य
महाजनः स्मेरमुखः भविष्यति ॥ ७० ॥
NOTES :—पुरतः—सर्वस्मात् पूर्वमेव first of all, i. e.,
before you go to the house of Shiva and live with
him It is an indeclinable formed by adding तस् to
( १८८ )
धुर । विडम्बना—( वि + √डम्ब् to throw + युच् - अन + आ )
हास्यकारणं matter for laughing ; disgrace ऊढया—
( √वह् to carry + क्तः + आ = ऊढा ) कृतविवाहया by her
who had been married. Passive past part of √वह्
in the sense of ‘to marry.’ Adj of त्वया । वारणराज-
हार्यया—वारणानां (हस्तीनां) राजा वारणराज , तेन हर्तुं (नेतुं)
योग्या वारणराजहार्या, तया fit to be borne by the lord
of elephants. Because she was a princess. In वारण-
राज, राजन् is made राज by adding टच् to it by ‘ राजाहः-
सखिभ्यष्टच् ’ पा० ५.४.९१. i. e., the words राजन्, अहन्
and सखि, when at the end of a Tatpurusha, drop
the final vowel together with the following consonant,
if there be any, and add अ. The compound then is
declined like the words ending in अ. हार्यया—Instru-
mental sing. of हार्या—√हृ + ण्यत् fit to be borne. अधि-
ष्ठितं—( अधि + √स्था + क्त ) आरूढं ridden by ; occupied
by वृद्धोक्षम्—वृद्धं उक्षं वृद्धोक्षं or वृद्धश्चासौ उक्षा ( वृषभः )
च वृद्धोक्षः, तं an old bull. The reference is to the bull
of Shiva. The word उक्षन् ( a bull ) is changed to उक्ष
at the end of a Karmadháraya compound by adding
अ to it by ‘ अचतुर०...जातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ’
पा० ५.४.७७. महाजनः—महांश्चासौ जनः महाजनः ( सभ्य
लोकः ) great men. It gives the idea of many as well
as of great or respectable. स्मेरमुखः । स्मेर—( √स्मि to
smile + र ) स्मयते इति स्मेरः smiling. र is added by
‘ नमिकम्पिस्म्यजसकमहिंसदीपो रः ’ पा० ३.२.१६७. स्मे˙
( १८६ )
( मन्दहासयुक्तं ) मुखं यस्य स स्मेरमुखः with smiling coun-
tenance 70
CHANGE OF VOICE :-(कि) च पुरतः अनया अन्यया
ते विडम्बनया (भूयते) यद् ऊढया वारणराजहार्यया
त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनेन स्मेरमुखेन भवि-
ष्यते ॥ ७० ॥
HINDI TRANSLATION :—सबसे पहिले यह तुम्हारी और
दूसरी हँसी होगी कि श्रेष्ठ हाथी पर चढ़ने योग्य, विवाहित
तुमको (शिवजी के) बुड्ढे बैल पर बैठे देखकर बड़े आदमी
मुस्कराने लग जावेंगे ॥ ७० ॥
ENGLISH TRANSLATION :—Then, first of all, there
will be another humiliation for thee when great men
will have smiling countenances on seeing thee, fit to be
borne by a lordly elephant, riding an old bull, after
marriage 70
PURPORT IN SANSKRIT :—हे पार्वति ! शिवस्य वाहनं
वृषभोऽस्ति, तस्माद्विवाहानन्तरं यदा हस्तिराजवहनयोग्या त्वं
तस्य वृद्धं वृषभमारुह्य तत्स्थानं गमिष्यसि तदा सर्वेऽपि प्रेक्ष-
कास्त्वां दृष्ट्वा हसिष्यन्ति ॥ ७० ॥
द्वयं गतं सम्प्रति शोचनीयतां
समागमप्रार्थनया पिनाकिनः ।
कला च सा कान्तिमती कलावत—
स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥७१॥
द्वयमिति । पिनाकिन. ईश्वरस्य समागमप्रार्थनया प्राप्तिकाम-
कु० सं०-१४
( १६० )
नया क्रियमाणयेति शेषः । सम्प्रति द्वयं शोचनीयतां शोच्यत्वं
गतम् । किं तदाह—सा प्रागेव दृग्शिरोगता । अत्र सेति प्रसिद्धा-
र्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे—‘प्रक्रान्तप्रसिद्धानु-
भूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते ।’ इति । कान्तिमती ।
नित्ययोगे मतुप् । कलावतः चन्द्रस्य कला षोडशो भागः च ।
अस्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्ति-
मतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या ।
संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यत्वं
च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥
PROSE ORDER :—पिनाकिनः समागमप्रार्थनया सम्प्रति
कलावतः सा कान्तिमती कला च अस्य लोकस्य नेत्रकौमुदी त्वं
च द्वयं शोचनीयतां गतम् ॥ ७१ ॥
NOTES :—पिनाकिनः—of the holder of the Pináka
bow. Some books read instead of it कपालिनः—(कपाल
+इनिः=कपालिन्) कपालं (मृतमुण्डं) अस्यास्तीति कपा-
लिन्, तस्य of one who bears skulls, i. e. of Shiva. It
fits in the context better than पिनाकिनः । समागम-
प्रार्थनया—समागमस्य (सहवासस्य) प्रार्थना समागमप्रार्थना,
तया by the desire for union (with Shiva) सम्प्रति—
अधुना now. कलावतः—(कला+मतुप्=कलावत्) प्रशस्ताः
प्रचुराः वा कलाः सन्ति अस्य इति कलावान् (चन्द्रः) तस्य
of the moon (possessed of digits). The म of मतु
is changed to व when affixed to words ending in म्
or अ, short or long, or having either for their
penultimate ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ पा० ८ २ ६
सा—प्रसिद्धा which is well-known to be held by Shiva
( १६१ )
on his forehead Here सा is not followed by, या, which
should have been according to the general rule
'यत्तदोर्नित्यसम्बन्धः', because 'when the sense can be
easily known the relative pronoun may be left -
understood Cf 'प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदु-
पादानं नापेक्षते ।' कान्तिमती—( कान्ति+मतुप्+ङीप् )
कान्तिः( द्युतिः ) अस्याः अस्तीति कान्तिमती bright ; possessed
of lustre Adj of कला as well as of त्वं ( पार्वती ) कला
—a digit of the moon, which is borne on his forehead
by Shiva नेत्रकौमुदी । कौमुदी—चन्द्रप्रभा the moon-light.
'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । It is also used for
a thing which is pleasant like the moon-light नेत्र-
कौमुदी—नेत्रयोः कौमुदी like moon-light for the eyes of
people A handsome woman is often called as such,
because she is regarded agreeable to the eyes like the
moon-light Cf 'त्वं कौमुदी नयनयोः अमृतं त्वमङ्गे ' उत्तर-
रामचरितम् ३ २६ It is an Adj. of त्वं as well as of
कला । द्वयं—two things शोचनीयताम् ( √शुच्+अनीय+
ता ) शोकविषयताम् deplorableness गतम्—प्राप्तम् have
become.
In the Kāvya Prakash this verse has been quoted
as an instance of the fault अक्रमत्व i e, the absence of
the syntactical order of words, because the particle च
has been placed after लोकस्य instead of त्वं, which is
its proper position, for it is the word त्वं and not
लोक that is meant to be conjoined with कला ।
( १६२ )
Change of Voice :—पिनाकिनः समागमप्रार्थनया सम्प्रति
कलावतः तया कान्तिमत्या कलया अस्य लोकस्य नेत्रकौमुद्या
त्वया च ( इति ) द्वयेन शोचनीयतां गतेन ( अभावि ) ॥ ७१ ॥
Hindi Translation :—महादेव के साथ रहने की इच्छा
से अब चन्द्रमा की वह चमकती हुई कला और इस संसार के
नेत्रों की चन्द्रिका तू दोनो ही शोचनीय हो गयीं ॥ ७१ ॥
Purport in Sanskrit :—हे गौरि ! मृतमुण्डधारी
महादेवस्तु तादृशोऽमाङ्गलिको यत् शुभमपि वस्तु तत्ससर्गेण
शोकविषयतां याति । तथा हि—पूर्वस्मिन् काले तु तस्य मस्तके
वासाच्चन्द्रमसः कला शोचनीयाऽभूत्, इदानीञ्च ज्योत्स्नेव सर्व-
जगतः नेत्राणामानन्दकारिणी त्वं तत्सहवासेच्छां कुर्वन्ती शोच-
नीया भविष्यसि । किमतः परं दुःखकरम् ? ॥ ७१ ॥
वपुर्विरूपाक्षमलक्ष्यजन्मता
दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥
( ११३ )
‘ कन्या मृगयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुल-
मिच्छन्ति मिष्टान्नमितरे जनाः ।’ इति लोकानामाभाषणम् । तत्र
किञ्चिदपि नास्तीत्याह—वपुरिति । वपु तावदस्य विरूपाक्षि
विकृतरूपायत्यक्षीणि नेत्राणि यस्य तद् विरूपाक्षम् । ‘ बहुव्रीहौ
सक्थ्यक्षणो स्वाङ्गात्षच् ’ इति षच् प्रत्ययः । वैरुप्यं च त्रिनेत्रत्वा-
दिति क्षीरस्वामी । अतो न सौन्दर्यवार्त्तापीत्यर्थः । अलक्ष्यमज्ञातं
जन्म यस्य तस्य भावस्तत्ता । कुलमपि न ज्ञायत इत्यर्थः । ‘ अल-
क्षिता जनि ’ इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । ‘ जनि-
रुत्पत्तिरुद्भव ’ इत्यमर । वसु वित्तं दिगम्बरत्वेन एव निवेदितम् ।
नास्तीति ज्ञापितमित्यर्थ । यदि वित्तं भवति तदा कथं दिगम्बरो
भवति । अतो ज्ञेयं निर्धनोऽयमिति । कि बहुना । हे बालमृगाक्षि
पार्वति वरेषु वोढृषु । ‘ वरौ जामातृवोढारौ ’ इति विश्वः । यत्
रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत् त्रिलोचने
त्र्यम्बके व्यस्तं एकं अपि । समस्तं मा भूदिति भावः । अस्ति
किम् नास्त्येवेत्यर्थ ॥ ७२ ॥
PROSE ORDER :—( अस्य ) वपु. विरूपाक्षम्, अलक्ष्य-
जन्मता, वसु दिगम्बरत्वेन निवेदितम् । ( हे ) बालमृगाक्षि ! यद्
वरेषु मृग्यते तत् त्रिलोचने व्यस्तं अपि अस्ति किम् ? ॥ ७३ ॥
NOTES :—वपु —शरीरं the body. विरूपाक्षम्—( विरूप
+अक्षि +षच् ) विरूपं ( विकृतं ) अक्षि ( नेत्रं ) यस्य यस्मिन्
वा तद् विरूपाक्षम् having deformed eye. Shiva’s third
eye is described as fiery and tawny-coloured. When
explained thus the compound refers to the third eye
only, but when explained in the following way it will
refer to the state of possessing three eyes—विरूपाणि
अक्षीणि यस्मिन् having odd number of eyes. अक्षि is
made अक्ष by dropping इ and adding अ ( षच् ) instead
of it, when at the end of a Bahuvrīhi compound.
' बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ' पा० ५ ४ ११३ । अलक्ष्य-
जन्मता—न लक्ष्यं अलक्ष्यं ( अज्ञातम् ), अलक्ष्यं जन्म यस्य स
अलक्ष्यजन्मा, तस्य भाव अलक्ष्यजन्मत्ता ( जन्म+तल् ) whose
birth or parentage is unknown Some books read
अलक्षिता जनि for अलक्ष्यजन्मत्ता। जनि means उत्पत्ति
birth वसु—धनम् wealth 'रत्ने धने वसु' इत्यमरः Decline
वसु as वसु, वसुनी, वसूनि । वसु, वसुनी, वसूनि । वसुना,
वसुभ्यां, वसुभिः । etc दिगम्बरत्वेन—दिश एव अम्बराणि
( वस्त्राणि ) यस्य स दिगम्बर, तस्य भावः दिगम्बरत्वम्,
तेन by his having the quarters for his garments ;
by his nudity Shiva is described naked and
putting on only the elephant's hide निवेदितं—
विज्ञापितम् is indicated , is shown. When he cannot
afford to have proper garments he must be an extreme-
ly poor man बालमृगाक्षि—( बालमृग+अक्षि+षच्+ङीप् )
बालश्चासौ मृग बालमृग , बालमृगइव अक्षिणी यस्या सा
बालमृगाक्षी, तस्या सम्बोधने O thou possessing eyes like
those of a young fawn. यद्—whatever qualities.
These are mentioned in the verse—" कन्या मृगयते रूपं
माता वित्तं पिता श्रुतम्। बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे
जनाः।" वरेषु—व्रियते इति वर ( √वृ+अप् ) तेषु with
regard to bridegrooms. मृग्यते—is sought. Passive
present of √मृग् to seek. त्रिलोचने—त्रीणि लोचनानि
यस्य सः त्रिलोचनः, तस्मिन् in the three-eyed God ( i e.,
( १६५ )
Shiva ). व्यस्तम्—( वि+√अस् to throw+क्तः ) एकैकम्
even one ; separately ; scattered. It is the opposite
of समस्तम्. The ascetic means to say that even one of
the required qualities of a bridegroom is not found
in Shiva, to say nothing of the aggregate of all of
them. 72.
CHANGE OF VOICE :—( अस्य ) वपुषा विरूपाक्षेण
( भूयते ) अलक्ष्यजन्मतया ( भूयते ) वसु दिगम्बरत्वं निवेदितवत्;
( हे ) बालमृगाक्षि यत् ( जनाः ) वरेषु मृगयन्ते तेन त्रिलोचने
व्यस्तेन अपि भूयते ? ॥ ७२ ॥
HINDI TRANSLATION :—( इस महादेव का ) शरीर विकृत
आंख वाला है, जन्म अज्ञात है, धन उसकी नग्नता बताती है ;
( हे ) मृगशावक के समान नेत्र वाली, जो बातें वरों में
खोजी जाती हैं, क्या उनमें से एक भी इस तीन आंखों वाले में
है ? ॥ ७२ ॥
ENGLISH TRANSLATION :—His body possesses de-
formed eyes, his birth is unknown, ( and his ) wealth
is shown by his having the quarters for a garment
( i.e., nudity ). O thou possessing eyes like those of
a young fawn, whatever is sought in a bridegroom,
is that even in part found in the three-eyed
one ? 72.
PURPORT IN SANSKRIT :—हे मृगशावकनयने पार्वति !
सौन्दर्य, धनं, विद्या, कुलञ्चेति चत्वारि वस्तूनि परीक्ष्य कन्यार्थे
वराः स्वीक्रियन्ते, परं महादेवे त्वेतेषु एकमपि वस्तु नास्ति चतुर्णां
( १६६ )
तु का कथा ? यतस्तस्य शरीरं पिङ्गलनेत्रयुक्तं नेत्रत्रययुक्तं वाऽस्ति
तस्मान्न स सुन्दर, यतस्तस्योत्पत्तिविषये न किमपि ज्ञायते
तस्मात् स कुलीन इति कथयितुं न शक्यते, यतश्च स नग्नो विवस्त्रो
वाऽस्ति तस्मात्स निर्धन इति विज्ञायते। शिवो न केनापि प्रकारेण ते
योग्य इति तात्पर्यम् ॥ ७२ ॥
निवर्त्तयास्मादसदीप्सितान्मनः
क्व तद्विधस्त्वं क्व च पुण्यलक्षणा ।
अपेक्ष्यते साधुजनेन वैदिकी
श्मशानशूलस्य न यूपसत्क्रिया ॥ ७३ ॥
निवर्त्तयेति । अस्मात् असदीप्सितात् अनिष्टमनोरथात् मनः
निवर्त्तय निवारय । तद्विधः स पूर्वोक्ता विधा प्रकारो यस्य
तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्य-
लक्षणा प्रशस्तभाग्यचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः ।
तथा हि । साधुजनेन । ‘साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् ’
इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य मध्यशङ्कोः
वैदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतं संस्कृतदारुविशे-
षस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कार यूपसत्क्रिया न
अपेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा
त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ ७३ ॥
PROSE ORDER :—(हे गौरि) अस्माद् असदीप्सिताद् मनः
निवर्तय, तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशान-
शूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ॥ ७३ ॥
NOTES :—असदीप्सितात् । ईप्सितात्—( √आप् + सन् +
क्तः ) मनोरथात् desire. For the formation of ईप्सित see