सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 199, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 199

( १८२ )
चतुष्केति । चतुष्कपुष्पप्रकरावकीर्णयोः चतुष्के गृहविशेषे
य पुष्पप्रकरस्तत्रावकीर्णयोर्न्यस्तयो । कुसुमास्तृतदिव्यभवनभूसं-
चारोचितयोरित्यर्थः । तव पादयोः अलक्तकाङ्कानि लाक्षारञ्जितानि
पदानि पादाकाराणि पादन्यासचिह्नानि । 'पदं शब्दे च वाक्ये च
व्यवसायापदेशयोः । पादत्तचिद्मयोः ' इति विश्वः । विकीर्णाः
विक्षिप्ता केशाः शवशिरोरुहाः यासु तासु विकीर्णकेशासु ।
' अतस्थं नत्र दृष्ट च ' इति वचनात् ' स्वाङ्गाच्चोपसर्जनादसंयो-
गोपधात् ' इति विकल्पात्र ङीप् । प्रेतभूमिषु प्रेतभूमिषु । श्मशाने
ष्वित्यर्थः । परः अपि शत्रुरपि कः नाम अनुमन्यते । न कोऽपी-
त्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य
प्रेतभूसंचारित्वेन साहचर्यात्तत्रापि तत्र संचारोऽवश्यम्भावीति
भावः ॥ ६८ ॥
PROSE ORDER —परः अपि कः नाम चतुष्कपुष्पप्रकराव-
कीर्णयोः तव पादयोः अलक्तकाङ्कानि पदानि विकीर्णकेशासु प्रेत-
भूमिषु अनुमन्यते ? ॥ ६८ ॥
NOTES —परः-शत्रुः an enemy 'अभिघातिपराराति-
प्रत्यर्थिपरिपन्थिन ' इत्यमरः । नाम—It is used in the sense
of कुत्सा ( reproach ) चतुष्कपुष्पप्रकरावकीर्णयोः । चतुष्कं—
चत्वारो अवयवा यस्य तत् चतुष्कं (चतुर्+कन्) a quadran-
gular courtyard (used for receiving guests) ; a hall
supported by four pillars ; a house consisting of four
halls (चतुःशालम्) । कन् suffix is add to form a noun
by 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ' पा० ५.१ ५८ । प्रकरः—
(√कृ+अप्)—समूहः group or heap. अवकीर्णा—(अव
+कृ+क्तः Past part ) scattered ; here—'placed.' चतुष्के
(गृहविशेषे) पुष्पाणां प्रकरे अवकीर्णयोः placed on groups of