कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)
Krishi-Parashara of Maharshi Parashara
महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा
xviii KṚṢI-PARĀŚARA
one should be an eye-opener to those who decry the study of Sanskrit
as having no practical utility. But the fact remains that many things
of great scientific value lie buried in Sanskrit, and it is time that we
dived deep into this literature and rescued the indigenous materials of
national importance from unmerited oblivion and saw the India of
our own in the proper perspective.
TEXT
The provided image is completely blank and contains no text to transcribe.
CONTENTS
Topic Page
राजानयनम् ... 3
मेघानयनम् ... 6
जलाढकनिर्णयः ... 6
पौषवृष्टिज्ञानम् ... 8
माघवृष्टिज्ञानम् ... 9
फाल्गुनवृष्टिज्ञानम् ... 11
चैत्रवृष्टिज्ञानम् ... 11
वैशाखवृष्टिज्ञानम् ... 12
ज्यैष्ठवृष्टिलक्षणम् ... 15
आषाढवृष्टिलक्षणम् ... 16
श्रावणवृष्टिलक्षणम् ... 17
सद्योवृष्टिज्ञानम् ... 17
ग्रहसंचारे वृष्टिज्ञानम् ... 19
अनावृष्टिलक्षणम् ... 21
कृष्यवेक्षणम् ... 22
वाहनविधानम् ... 23
गोपर्वकथनम् ... 26
गोयात्त्राप्रवेशां ... 28
गोमयकूटोद्धारः ... 28
हलसामग्रीकथनम् ... 29
हलप्रसारणम् ... 31
बीजस्थापनविधिः ... 39
बोजवपनविधिः ... 42
मयिकादानम् ... 45
रोपणविधिः ... 45
धान्यकत्तनविधिः ... 46
( ii )
धान्यनिस्तृणीकरणम् ... 47
भाद्रजलमोक्षणम् ... 48
धान्यव्याधिखण्डनमन्त्रः ... 48
जलरक्षणम् ... 49
मार्गे मुष्टिग्रहणम् ... 51
मार्गे मेधिरोपणम् ... 53
पौषे पुष्ययात्राकथनम् ... 55
आढकलक्षणम् ... 58
धान्यस्थापनम् ... 59
DESCRIPTION OF MSS. AND PUBLISHED TEXT
A—Transcript of Dacca University paper MS. No. 4558.
Title : Kṛṣi-parāśara.
Characters—Bengali.
Beginning — जयति पराशरनामा मुनिरिह कृषिकर्मतत्त्ववेदोशः ।
End—समृद्धिं च परां कुर्यात् ततो लक्ष्मीं प्रपूजयेत् ।
Colophon—इति पराशरमुनिविरचितं कृषिपरशरनाम पुस्तकं समाप्तम् ।
Post-colophon statement—
राधिकाचरणद्वन्द्वं भावितं चाहर्निशम् । लिखित्वा बहुयत्ने यथोरयति
पुस्तिका (?) शूक़री तस्य माता पिता तस्य गर्दभः ॥
Scribe—गोलकचन्द्रदेवशर्मा ।
Date—Śaka 1719 ( = C. 1797 A. D. )
B—Vaṅgavāsī ed. of the Kṛṣi-Saṃgraha, Calcutta, 1322 B. S. ( p. p.
1-52 ) Ed. Tārākānta Kā
( iv )
"The MS. is in a deplorable condition of decay and is `also
very inaccurate and often illegible". We, therefore, did not
think it worth while to utilise this MS. ]
D—"Copy of a transcript of a MS. in the Mandlik Section in the
Wadia Library, Fergusson College, Poona. The Mandlik MS.
is itself a copy made on 4th February, 1886, from a Bengali
original in the Sanskrit Pāṭhaśālā, Calcutta." These are the
remarks found on the copy obtained from Bhandarkar Oriental
Research Institute, Poona 4, India.
The post-colophon statement is as follows :—
इदं पुस्तकं कलकत्ता संस्कृतपाठशालास्थवङ्गाक्षर पुस्तकाल्लिखितम् ॥ पोषव (?) ३०
शके १८०७ इसवी तारिख माहे फेब्रुवारि सन १८८६ इसवी...समाप्त ।
The date of the MS. appears to be 1886 A. D.
[ The original MS. could not be traced in the Govt. Sanskrit
College Library, Calcutta. ]
common with 'अलक्ष्म्या' (tormented by Alakṣmī)!
Wait, is the first letter 'द' without any vowel, or with vowel?
Look at the first letter:
It's just 'द'! Wait, does it have a bottom stroke?
Wait, look at 'द' in 'वेद' (line 13): 'द' has a little tail at the bottom.
Does the letter have a u-matra?
Wait, look at the tail of 'द': it just has a tiny serif or tail!
Wait, look at the whole word:
द (da) + ह्य (hya) + ते (te) = दह्यते!
Wait, let's look at the ligature:
Compare it to 'ह्य' in 'गृह्यते' right next to it:
In 'गृह्यते', the 'ह्य' is: 'ह' on top, 'य' on bottom-right.
In the word before 'for':
It has 'द', then... wait, look at 'ह्य': the letter after 'द' is EXACTLY 'ह्य'!
Wait, is there a vowel on 'द'?
Wait, look below 'द': there is a small curl? No, wait, look at line 4:
"4 B दह्यते for गृह्यते" or "दुह्यते"?
Wait, why would it be 'दह्यते'?
In Sanskrit: "अलक्ष्म्या दह्यते सोऽपि प्रार्थनाला
३ कृषिपराशरः
कण्ठे कर्णे च हस्ते च सुवर्णं' विद्यते यदि ।
उपवासस्तथापि स्यादन्नाभावेन देहिनाम् ॥५॥
अन्नं' प्राणा बलं चान्न मन्नं' सर्वार्थसाधनम् ।
देवासुरमनुष्याश्च सर्वे चान्नोपजीविनः ॥६॥
अन्नं हि धान्यसंजातं धान्यं कृष्या विना न च । 5
तस्मात् सर्वं परित्यज्य कृषिं यत्नेन कारयेत् ॥७॥
कृषिर्धन्या कृषिर्मेध्या जन्तूनां जीवनं' कृषिः ।
हिंसादिदोषयुक्तोऽपि मुच्यतेऽतिथिपूजनात् ॥८॥
तेनार्चितं जगत् सर्वमतिथिर्येन पूजितः ।
अर्चितास्तेन देवाश्च स एव पुरुषोत्तमः ॥९॥ 10
तथा च पराशरः—
वृष्टिमूला कृषिः सर्वा वृष्टिमूलं च जीवनम् ।
तस्मादादौ प्रयत्नेन वृष्टिज्ञानं समाचरेत् ॥१०॥
अतो वत्सरराजानं' मन्त्रिणं मेघमेव च ।
आढकं सलिलस्यापि वृष्टिज्ञानाय शोधयेत् ॥११॥ 15
1 A यदि तिष्ठति for विद्यते यदि । B, D transpose कर्णे च हस्ते च and
विद्यते यदि । D हस्ते कण्ठे च कर्णे च for कण्ठे...च । D स्वर्णं तिष्ठति
यद्यपि for सुवर्णं...यदि ।
2 D भ्रूदासस्तथापि स्यादन्नदोषेण देहिनाम् ।
3 B साधकं, C धारणं for साधनं । C प्राणस्य for सर्वार्थ ।
4 D सुर for देव ।
5 A हि for च ।
10 C अतिथिः पूजितो येन for अर्चिता...स । D स्युः for च ।
11 Omitted by A and C.
12 B कृषिमूलं for वृष्टिमूलं । C, D हि for च ।
14 B, C ततो for अतो । C राजानौ for राजानं ।
15 B सलिलं चापि for सलिलस्यापि । C ज्ञानेन for ज्ञानाय, साधयेत् for
शोधयेत् ।
कृषिपरशरः ३
अथ राजानयनम्—
शाकं त्रिगुणितं कृत्वा द्वियुतं मुनिना हरेत् ।
भागशिष्टो नृपो ज्ञेयो नृपान्मन्त्री चतुर्थकः ॥१२॥
चित्तलार्के नृपे वृष्टिर्वृष्टिरुग्रा निशापतौ ।
वृष्टिर्मन्दा सदा भौमे चन्द्रजे वृष्टिरुत्तमा ॥१३॥
गुरौ च शोभना वृष्टिर्भार्गवे वृष्टिरुत्तमा ।
पृथिवी धूलिसंपूर्णा वृष्टिहीना शनौ भवेत् ॥१४॥
चक्षूरोगो ज्वरारिष्टं सर्वोपद्रव एव च ।
मन्दावृष्टिः सदा वातो यत्राब्दे भास्करो नृपः ॥१५॥
1 Omitted by D.
2 C शाकं तु त्रिगुणं ( D शाकाब्दं त्रिगुणं ) for शाकं त्रिगुणितं । D द्विर्हता
for द्वियुतं ।
2-3 For these lines, A reads :—
शाकस्य कालस्य त्रिगुणीकृतस्य भुजबाणवेदवसुभिर्युतस्य ।
राजा च मन्त्री च वर्षाधिपश्च सप्तकृता भवन्ति ॥
4 Before this line, C reads the following :—
तथा च—
राजा मन्त्री जलस्वामी शस्याधिपतयस्तथा ।
वर्षेशो मेघनाथश्च मासनाथो दिनाधिपः ॥
In this line, C चिवित्ता for चित्तला ।
5 A वृष्टिः and मन्दा transposed. A विधुजे for चन्द्रजे ।
6 C, D सुरेज्ये for गुरौ । D वृष्टिर्हि उत्तमा भृगौ for भार्गवे...उत्तमा ।
7 B, C नृपे for भवेत् ।
8 A ज्वरो व्याधिः for ज्वरारिष्टम् । D सर्वोपद्रवमाचरेत् for सर्वो.. ...च ।
9 D reads it thus मन्दवृष्टिं महावातं राजा संवत्सरे रविः ।
8 9 Instead of these lines, B reads:—
यस्मिन् संवत्सरे चैव अर्के राजा भविष्यति ।
शस्यहानिर्भवेत्तत्र नित्यं रोगश्च जायते ॥
४ कृषिपराशरः
यस्मिन् संवत्सरे चैव चन्द्रो राजा भवेद् ध्रुवम् ।
कुर्यात् शस्यान्वितां पृथ्वीं नैरुज्यं चापि मानवे ॥१६॥
शस्यहानिर्भवेत्तत्र नित्यं रोगश्च मानवे ।
यस्मिन्नब्दे कुजो राजा शस्यशून्या च मेदिनी ॥१७॥
नैरुज्यं सुप्रचारश्च सुभिक्षं क्षितिमण्डले । 5
यत्राब्दे चन्द्रजो राजा सर्वशस्या च मेदिनी ॥१८॥
1 A reads it thus—शस्यपूर्णा भवेत् पृथ्वी राजा संवत्सरे विधुः ।
B reads—यस्मिन्नब्दे विधू राजा शस्यपूर्णा च मेदिनी ।
2 B reads the line thus - नैरुज्यं च सुवृष्टिश्च सुभिक्षं क्षितिमण्डले ।
A reads—प्लवते चाधिकं वारि पृथिवीं नात्र संशयः । C reads—पूर्यते
चाधिकं वारि कुर्यादन्योन्यघातनम् ।
3-4 A संग्रामो वातवृष्टिश्च रोगोपद्रव एव च ।
यस्मिन्नब्दे नृपो मन्दः सर्वशस्या च मेदिनी ॥
[ 'Manda' denotes 'Saturn' whose influence is described
below. Here one naturally expects the influence of
Mars ].
B यस्मिन्नब्दे कुजो राजा सर्वशून्या च मेदिनी ।
नैरुज्यं सुप्रचारश्च दुर्भिक्षं क्षितिमण्डले ॥
[ The effects, described in the same verse, are self-contradic-
tory. ]
D संग्रामो वा भवेद्वृष्टि' ( वृष्टिः ? ) राज्योपद्रव एव च ।
वर्षाधिपो महीपुत्रः कुर्यादन्योन्यघातनम् ॥
5-6 A कुर्यात् शस्यवती' पृथ्वीं नैरुज्यं सर्वमानवे ।
यस्मिन्नब्दे बुधो राजा वसुधा धर्मशालिनी ॥
B यत्राब्दे चन्द्रजो राजा सर्वशस्या च भूर्भवेत् ।
धर्मे स्थितिर्मनःस्थैर्य' वृष्टिकारणमुत्तमम् ॥
D नैरुज्यमुपचारं च सुवृष्टि' क्षितिमण्डले ।
यस्मिन्नब्दे बुधो राजा शस्यलाभं विनिर्दिशेत् ॥
वर्षा-पूर्वानुमान, मेघ-प्रकार एवं वार्षिक वृष्टि-निर्णय (श्लोक ११-८०)
कृषिपराशरः ५
धर्मस्थितिर्मनःस्थैर्यं' वृष्टिकारणमुत्तमम् ।
यस्मिन्नब्दे गुरु राजा सर्वा वसुमती मही ॥१९॥
नृणां वर्धनं नित्यं धनधान्यादिकं फलम् ।
राजा दैत्यगुरुः कुर्यात् सर्वशस्यं रसातलम् ॥२०॥
5 संग्रामो वातवृष्टिश्च रोगोपद्रव एव च ।
मन्दावृष्टिः सदा वातो नृपे संवत्सरे शनौ ॥२१॥
यथा वृष्टिफलं प्रोक्तं वत्सरग्रहभूपतौ ।
तद्वद्वृष्टिफलं ज्ञेयं विज्ञैर्वत्सरमन्त्रिणि ॥२२॥
1-2 A नैरुज्यं सुप्रचारश्च सुभिक्षं क्षितिमण्डले ।
यस्मिन्नब्दे गुरु राजा सर्वशस्यान्विता क्षितिः ॥
B यताब्दे च गुरु राजा सर्वा रसवती मही ।
नृणां वर्धनं नित्यं धनधान्यादिकं फलम् ॥
D नृपः स्त्रीवर्धनं नित्यं धनधान्यसमाकुलम् ।
संवत्सराधिपो जीवः सुभिक्षं कुरुते सदा ॥
3-4 A धर्मस्थितिः सदा वृष्टिर्मनुष्या नीरुजस्तथा ।
यस्मिन्नब्दे भृगु राजा सर्वशस्या च मेदिनी ॥
B राजा दैत्यगुरुः कुर्यात् सर्वशस्यं धरातलम् ।
संग्रामो वातवृष्टिश्च रोगोपद्रव एव च ॥
D धर्मान्वितं मनःस्थैर्यं' वृष्टिकारकमुत्तमम् ।
राजा दैत्यगुरुः कुर्यात् सर्वसम्पत्कर' भुवि ॥
5-6 D वृष्टिहानि प्रजापीडां ... ... ... ... (?)
अग्निभयं च सन्तापं राजा संवत्सरे शनिः ॥
5 is omitted by B.
6 B यस्मिन्नब्दे शनौ राजा भवेत् संवत्सरोऽशुभः ।
B, D राजा संवत्सरे शनिः for नृपे ... ... शनौ ।
7 B वत्सरे for वत्सर । D वत्सरस्य धराधिपेः for वत्सर...पतौ
8 A reads—तथैव हि गुणं वाच्यं फलं सर्वत्र मन्त्रिणि । B तथा for तद्वत् ।
D राज्ञां वत्सरमन्त्रिणां for विज्ञै ... मन्त्रिणि ।
६ कृषिपरारशः
अथ मेघानयनम्—
शकाब्दं वह्निसंयुक्तं वेदभागसमाहृतम् ।
शेषं मेघं विजानीयादावर्तादि यथाक्रमम् ॥२३॥
आवर्तंश्चैव संवर्तः पुष्करो द्रोण एव च ।
चत्वारो जलदाः प्रोक्ता आवर्तादि यथाक्रमम् ॥२४॥ 5
एकदेशेन चावर्तः संवर्तः सर्वतो जलम् ।
पुष्करे दुष्करं वारि द्रोणे बहुजला मही ॥२५॥
अथ जलाढकनिर्णयः—
शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रितम् ।
आढकस्य भवेन्मानं मुनिभिः परिकीर्तितम् ॥२६॥ 10
1 A omits अथ, and D the entire line.
2 B शाकं for शकाब्दं, वेदेन भागमाहृतम् for वेद...तम् ।
3 A, C क्रमेण च for यथाक्रमम् ।
5 A एते for प्रोक्ता ।
B आवर्ताद्या मनीषिभिः for आवर्तादि यथाक्रमम् ।
6 B चावर्ते for चावर्तः, संवर्ते for संवर्तः ।
C reads—अतिवृष्टिस्तु संवर्ते आवर्ते निर्जलं भवेत् ।
7 C reads—पुष्करे दुष्करा वृष्टिर्द्रोणो बहुजलप्रदः ।
7-8 Between these lines, C reads—
आवर्तो दशमेशेशः संवर्तः षोडशान्वितः ।
पुष्करोऽष्टादशाधीशो द्रोणश्चाप्येकविंशतेः ॥
8 A अथाढकलक्षणम् । B अथ जलाढकनिर्णयकथनम् ।
D omits the line.
9 C आयतं for उच्छ्रितं ।
D विंशत् (an obvious error) for त्रिंशत् ।
9-10 Attributed to Varāha by Raghunandana in Jyotistattva (Smṛti-
tattva, i. p. 701) with त्रिंशद्योजनविस्तीर्णं शतयोजनमायतम् for
line 9.
कृषिपराशरः
युग्माजगोमत्स्यगते शशाङ्के
रविर्यदा कर्कटकं प्रयाति ।
जलं शताढं हरिकार्मुकेऽङ्कं
वदन्ति कन्यामृगयोरशीतिम् ॥२७॥
कुलीरकुम्भालितुलाभिधाने
जलाढकं षण्णवतिं वदन्ति ।
अनेन मानेन तु वत्सरस्य
निरूप्य नीरं कृषिकर्म कार्यम् ॥२८॥
समुद्रे दशभागांश्च षड्भागानपि पर्वते ।
पृथिव्यां चतुरो भागान् सदा वर्षति वासवः ॥२९॥
1 B, C मीन for मत्स्य ।
3 B शताढकं कं for जलं शताढं ।
4 A, D युक्तं तु ( D च ) कन्यामृगयोरशीतिः ।
5 A ०धानेः for ०धाने ।
1-6 Attributed by Raghunandana to Varāha in Jyotistattva
(Smṛti-tattva, I. p. 701) with मीन for मत्स्य, तुले शशाङ्के for तु...
ने, षड्भिश्च युक्तां नवतिं वदन्ति for line 6.
7 D चतुर्वत्सरस्य (the च, offending the metre, is clearly an error)
for तु वत्सरस्य ।
8 A सर्वं for नीरं ।
C निरूपणीयं for निरूप्य नीरं ।
D कृषिकार्यमुक्तं for कृषिकर्म कार्यम् ।
9 C शत for दश, भागांश्चापि for भागानपि, D भागांश्चापि ।
10 C सम्यग् for सदा ।
9-10 Attributed by Raghunandana to Varāha in Jyotistattva
(Smṛti-tattva, I. p. 701), with ०भागाःस्युः for ०भागांश्च, भागांश्चापि
for भागानपि ।
६ कृषिपरशारः
अथ पौषवृष्टिज्ञानम्—
सार्द्धं दिनद्वयं मानं कृत्वा पौषादिना बुधः ।
गणयेन्मासिकीं वृष्टिमवृष्टिं वानिलक्रमात् ॥३०॥
सौम्यवारुणयोर्वृष्टिरवृष्टिः पूर्वयाम्ययोः ।
निर्घाते वृष्टिहानिः स्यात् संकुले संकुलं जलम् ॥३१॥ ०
एकैकं पञ्चदण्डेन मासस्य दिवसो मतः ।
पूर्वार्द्धे वासरी वृष्टिरुत्तरार्द्धे च नैशिकी ॥३२॥
1 A पौषस्य ( C पौषमासीय ) for पौष, B reads—अथ पौषादिमासीयवृष्टि-
लक्षणम् । Before this line, D reads—अतो विंशतिभागिका वृष्टिरिति
नृपतिमन्त्रिणे आढकसलिलज्ञानम्, and C reads as follows :—
अथ सर्पानयनम्
शाकं रसाग्निसंयुक्तमष्टभिर्भागशेषितम् । अनन्ताद्याः क्रमेणैव नागा अष्टौ प्रकीर्तिताः॥
अथ वातानयम्
शाकं शशाङ्कसंयुक्तं मुनिभिर्भागमाहरेत् । आवहाद्याः क्रमाच्छेषे सप्तवाताः प्रकीर्तिताः॥
आवहः प्रवहश्चैव संवहो निवहस्तथा । उद्दहो विवहो वायुः सप्तवाताः प्रकीर्तिताः ॥
अथ समुद्रानयनम्
शाकं वेदसमायुक्तं पर्वतेन समाहृतम् ।
शेषमब्धिं विजानीयाल्लवणाद्यं यथाक्रमम् ॥
लवणोक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः ।
एते स्युः सिन्धवः काले जलाधाराः प्रकीर्तिताः ॥
2 A सार्द्धद्वयदिनं for सार्द्धं... द्वयं, पौषादिनां विधेर्बुधः for मानं... बुधः ।
C transposes मानं कृत्वा ।
3 A omits वा ।
2-3 This verse, with सार्द्ध for सार्द्धं, कृत्वापौषे for मानंकृत्वा, कालिकीं
for मासिकीं, is attributed to Varāha in the Jyotiṣtattva
(p. 701).
5 C निधाते for निर्घाते ।
6 D याम्यस्य for मासस्य ।
7 A अपरार्द्धे for उत्तरार्द्धे । D तु for च ।
कृषिपराशरः ६
दत्त्वा दण्डे पताकां तु वातस्यानुक्रमेण च ।
विज्ञेया मासिकी वृष्टिः कृत्वा यत्नमहर्निशम् ॥३३॥
धूलीभिरेव धवलीकृतमन्तरिक्षं
विद्युच्छटाच्छुरितवारुणदिग्विभागम् ।
पौषे यदा भवति मासि सिते च पक्षे
तोयेन तन्न सकला प्लवते धरित्री ॥३४॥
पौषे मासि यदा वृष्टिः कुज्झटिका यदा भवेत् ।
तदादौ सप्तमे मासि वारिपूर्णा भवेन्मही ॥३५॥
यदा पौषे सिते पक्षे नभो मेघावृतं भवेत् ।
तोयावृता धरित्री च भवेत् संवत्सरे तदा ॥३६॥
मीनवृश्चिकयोर्मध्ये यदि वर्षति वासवः ।
तदादौ सप्तमे मासि तत्तिथौ प्लवते मही ॥३७॥
अथ माघवृष्टिज्ञानम्—
माघस्य सितसप्तम्यां वृष्टिर्वा मेघदर्शनम् ।
तदा संवत्सरो धन्यः सर्वशस्यफलप्रदः ॥३८॥
1 A, C दण्डपताकासु for दण्डे...तु ।
2 C ज्ञेया तु for विज्ञेया । A चित्तं समाहितं for यत्न...निशम् ।
B दृष्ट्वा वातं दिवानिशं for कृत्वा...निशम् ।
3 A, C धरणी for धवली । D—portion after एव corrupt.
4 A चकित for छुरित । C स्फुरति वारुणादिग्विभागे for छुरित...विभागम् ।
6 C reads the line thus—तोयाचला भवति वै सकला धरित्री ।
D शस्य for तन्न ।
7 A भवेद्यदि for यदा भवेत् । C पौषे यदि ध्रुवा वृष्टिः for पौषे...वृष्टिः ।
8 A तस्यैव for तदादौ । B तां तिथिं प्लाव्यते मही for वारि...मही ।
7-8 Omitted by D.
9-10 Not found in A, B, D.
11 Not found in B, D. C यो च for यदि ।
12 A तस्यैव for तदादौ । C तां तिथिं प्लाव्यते मही for तत्तिथौ...मही ।
12-13 Bet. these lines, C reads: —
मासि पौषे त्वमावस्या रविसौरिकुजे यदि ।
तदा महार्घता ज्ञेया अन्यैर्वारैस्तु मृतसमा ॥
13 D माघे for माघ । B omits the line.
२
१० कृषिपराशरः
माघे बहुलसप्तम्यां तथैव फाल्गुनस्य च ।
चैत्रे शुक्लतृतीयायां वैशाखे प्रथमेऽहनि ॥३९॥
एतासु चण्डवातो वा तडिद्वृष्टिरथापि वा ।
तदा स्याच्छोभना प्रावृड् भवेत् शस्यवती मही ॥४०॥
सप्तम्यां स्वातियोगे यदि पतति जलं माघपक्षेऽन्धकारे ५
वायुर्वा चण्डवेगः सजलजलधरो गर्जितो वासवो वा ।
विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
तावद्वर्षन्ति मेघा धरणितलगता यावदाकार्तिकान्तम् ॥४१॥
माघे मासि निरन्तरं यदि भवेत् प्रालेयतोयागमो
वाता वान्ति च फाल्गुने जलधरैश्चित्रे च छन्नं नभः । १०
वैशाखे करकाः पतन्ति सततं ज्येष्ठे प्रचण्डातपाः
तावद्वर्षति वासवो रविरसौ यावत्तुलायां व्रजेत् ॥४२॥
1 A माघस्य सित (should the words be माघस्यासित ? ) for माघे बहुल ।
2 B चैत्ने for चैत्रे । A कृष्ण for शुक्ल । चैतमास्यापि (obviously corrupt)
for चैत्रे...तृतीयायाम् ।
3 Omitted by B, D. B reads it with च for final वा ।
D reads it in the same place as B with वात for तडित् ।
4 B क्षितिः for मही and in B it is followed by धनुर्मकरकुम्भेषु यदा वर्षति
वासवः । तदादिसप्तमे मासि वारिपूर्णा भवेन्मही ॥
5 A योगात् for योगे । D भवति for पतति । A, D पक्ष for पक्षे ।
6 B वासरे for वासवो । C खराण्डमेधाः सजलजलमुचो for चण्ड...धरो ।
D वाखराण्डमेघाः for वाचण्डवेगः ।
7 A विद्युन्माला विशाला यदि भवति वियत् for विद्युन्माला...नभः ।
5-7 These lines occur in the Bṛhat-saṃhitā (xxv. 5) with the
following variations: —
हिमं for जलं, मास for पक्षे, वापि गर्जन्यजस्रम् for गर्जितो...वा ।
8 A इह धरणितले for धरणितलगता । B प्लुतधरणितले ( D धरणितलगतां )
for the same portion.
9-12 Omitted by A, B and D.
कृषिपराशरः ११
अथ फाल्गुनवृष्टिज्ञानम्—
पञ्चम्यादिषु पञ्चसु कुम्भेऽर्के यदि भवति रोहिणीयोगः ।
अधमतमाधममध्यममहदतिमहाम्भसां निपातः ॥४३॥
अथ चैत्रवृष्टिज्ञानम्—
प्रतिपदि मधुमासे भानुवारः सितायां
यदि भवति तदा स्याच्चित्तला वृष्टिरब्दे ।
अविरलपृथुधारासान्द्रवृष्टिप्रवाहै
र्धरणितलमशेषं प्लावयते सोमवारे ॥४४॥
अवनितनयवारे वारिवृष्टिर्न सम्यग्
बुधगुरुभृगुजानां शस्यसम्पत्प्रमोदः ।
जलनिधिरपि शोषं याति वारे च शौरे
र्भवति खलु धरित्री धूलिजालैरदृश्या ॥४५॥
1-3 Omitted by A, B and D.
2-3 This verse is attributed to Varāha by Raghunandana in
Jyotistattva (Smṛti-tattva, I. p. 700) with मतिमहदम्भसां पातः for
महद्...निपातः ।
4 A, B अथ चैतलक्षणम् । D चैत्रे for चैत्र ।
5 C वारे for वारः ।
6 D आकुला for चित्तला ।
5-6 Attributed by Raghunandana, in the same work, to Varāha,
with निर्जला for चित्तला ।
7 C प्रवाहे for प्रवाहै ।
9 B नास्ति वृष्टिर्न शस्यं for वारि...सम्यग् ।
10 B reads—कविगुरुभृगुजानां वासरे शस्यपूर्तिः । C भृगुवारे for भृगुजानां ।
D बुधगुरुजानां शस्यसम्यक्प्रमोदः; obviously a corrupt reading from
metrical standpoint.
7-10 Attributed in Jyotistattva to Varāha (Smṛti-tattva, I. p. 700)
with अविरत for अविरल, जल for पृथु, बिन्दु for वृष्टि, व्याप्यते for
प्लावयते, सितवारे for भृगुजानां ।
11 A inserts च bet. अपि and शोषं. B वारेण for वारे च. C अविशोष'
for अपि शोष'
12 D अवश्या for अदृश्या
१२ कृषिपराशरः
चैत्राद्यभागे चित्त्रायां भवेच्च चित्तला क्षितिः ।
शेषे नीचैर्न वात्यर्थं क्ष्मामध्ये बहुवर्षिणी ॥४६॥
मूलस्यादौ यमस्यान्ते चैत्रे वायुरहर्निशम् ।
आर्द्रादीनि च ऋक्षाणि वृष्टिहेतोर्विशोधयेत् ॥४७॥
अथ वैशाखवृष्टिज्ञानम्— 5
प्रवाहयुतनद्यां तु दण्डं न्यस्य जले निशि ।
वैशाखशुक्लप्रतिपत्थितौ वृष्टिं निरूपयेत् ॥४८॥
ओँ सिद्धिरिति मन्त्रेण मन्त्रयित्वा शतद्वयम् ।
अङ्कयित्वा तु तद्दण्डमङ्गतुल्ये जले क्षिपेत् ॥४९॥
प्रातरुत्थाय सहसा तदङ्कं तु निरूपयेत् । 10
समं चैवाधिकं न्यूनं भविष्यज्जलकाङ्क्षया ॥५०॥
1 B भवेच्चेत् for भवेच्च. C चित्तत्तें for चित्त्रायां, भवेद् बहुजला for भवेच्च
चित्तला. D reads the line as—तथा चैत्रादिभागे चेच्चित्रा बहुजला क्षितिः ।
2 B शेषेऽपि चैव चात्यर्थं for शेषे...वात्यर्थं. C reads the line thus—
शेषे वै जलहीना स्यान्मध्ये च बहुवर्षणा. D पूरिता नदनद्यश्च for
शेषे...वात्यर्थं ।
3-4 Omitted by B and D.
5 B, D वैशाखनिरूपणम् ( A वैशाखलक्षणम् ) ।
6 D च for तु ।
7 C वैशाखे for वैशाख, वृष्टिनिरूपणम् for वृष्टिं निरूपयेत् । D वैशाखशुक्ल-
पक्षादौ तन्न for वैशाख...तिथौ ।
8 C ओमित्यनेन ( D ओँ प्रणवेन तु ) for ओँ...इति ।
9 B तं for तत्. C अर्द्धयित्वा and अर्द्धं for अङ्कयित्वा and अङ्क
respectively. D reads the line thus—अकल्पयित्वा तं दण्डं जले
निवेशयेत्ततः ।
10 Omitted by A. C तदईं च for तदङ्कं तु, D तदाङक विनिरूपयेत् for
तदङ्कं तु निरूपयेत् ।
11 C वापि for चैव. D वैवाधिकं for चैवाधिकं ।
कृषिपराशरः १३
गतवत्सरवद्वारि वन्या चैव समे भवेत् ।
हीने हीनं भवेद्वारि भवेद् वन्या च तादृशी ॥५१॥
अङ्गाधिक्ये च द्विगुणा वृष्टिर्वन्या च जायते ।
इति पराशरेणोक्तं भविष्यद्वृष्टिलक्षणम् ॥५२॥
5 सूर्योदये विषुवतो जगतां विपत्ति
मध्यं गते दिनकरे बहुशस्यहानिः ।
अस्तं गते दिनकरे तु तदर्द्धशस्यं
ऐश्वर्यभोगमतुलं खलु चार्द्धरात्रे ॥५३॥
1 A समे न गमं for गतवत्सरवत्, चैवासमे for चैव समे. C तथा
for भवेत् ।
2 A वन्या च तादृशी परा for भवेत्...तादृशी.
C तथा for भवेत्, न for च.
D होनेन च तथा वारि वदेऽन्या न for होने...च ।
3 A reads रूड़काधिकेऽधिका वृष्टिर्वन्या च द्विगुणा भवेत्. C reads it thus—
अधिके द्विगुणा वृष्टिर्वन्या च द्विगुणा भवेत्. D अधिके for आधिक्ये, वन्या
वृष्टिश्च for वृष्टिर्वन्या च ।
4 Omitted by A. C पराशरोक्तं for पराशरेणोक्तं.
D इदं for इति ।
5 C, D प्रातर्दिने for सूर्योदये ।
6 C मध्यंदिने विक (क ?) लतां for मध्यं...करे, D मध्यंदिने विषुवतो for the
same portion.
7 C च तथा for तुतद्.
D बहुशस्यवृद्धि for तु...शस्यं ।
8 B रात्रौ for रात्रे.
D निशिचार्द्धरात्रौ for खलु...रात्रे ।
5-8 A reads these lines after verse 56 with the following
variants:—मध्यंदिने for मध्यंगते ( 1 6 ), खलु चार्द्ध वार्द्धशस्य for
तु...शस्यं ( 1 7 ).