कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)
Krishi-Parashara of Maharshi Parashara
महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा
पृष्ठ 36, कुल 160 में से
संदर्भ में पढ़ेंकृषिपराशरः ५
धर्मस्थितिर्मनःस्थैर्यं' वृष्टिकारणमुत्तमम् ।
यस्मिन्नब्दे गुरु राजा सर्वा वसुमती मही ॥१९॥
नृणां वर्धनं नित्यं धनधान्यादिकं फलम् ।
राजा दैत्यगुरुः कुर्यात् सर्वशस्यं रसातलम् ॥२०॥
5 संग्रामो वातवृष्टिश्च रोगोपद्रव एव च ।
मन्दावृष्टिः सदा वातो नृपे संवत्सरे शनौ ॥२१॥
यथा वृष्टिफलं प्रोक्तं वत्सरग्रहभूपतौ ।
तद्वद्वृष्टिफलं ज्ञेयं विज्ञैर्वत्सरमन्त्रिणि ॥२२॥
1-2 A नैरुज्यं सुप्रचारश्च सुभिक्षं क्षितिमण्डले ।
यस्मिन्नब्दे गुरु राजा सर्वशस्यान्विता क्षितिः ॥
B यताब्दे च गुरु राजा सर्वा रसवती मही ।
नृणां वर्धनं नित्यं धनधान्यादिकं फलम् ॥
D नृपः स्त्रीवर्धनं नित्यं धनधान्यसमाकुलम् ।
संवत्सराधिपो जीवः सुभिक्षं कुरुते सदा ॥
3-4 A धर्मस्थितिः सदा वृष्टिर्मनुष्या नीरुजस्तथा ।
यस्मिन्नब्दे भृगु राजा सर्वशस्या च मेदिनी ॥
B राजा दैत्यगुरुः कुर्यात् सर्वशस्यं धरातलम् ।
संग्रामो वातवृष्टिश्च रोगोपद्रव एव च ॥
D धर्मान्वितं मनःस्थैर्यं' वृष्टिकारकमुत्तमम् ।
राजा दैत्यगुरुः कुर्यात् सर्वसम्पत्कर' भुवि ॥
5-6 D वृष्टिहानि प्रजापीडां ... ... ... ... (?)
अग्निभयं च सन्तापं राजा संवत्सरे शनिः ॥
5 is omitted by B.
6 B यस्मिन्नब्दे शनौ राजा भवेत् संवत्सरोऽशुभः ।
B, D राजा संवत्सरे शनिः for नृपे ... ... शनौ ।
7 B वत्सरे for वत्सर । D वत्सरस्य धराधिपेः for वत्सर...पतौ
8 A reads—तथैव हि गुणं वाच्यं फलं सर्वत्र मन्त्रिणि । B तथा for तद्वत् ।
D राज्ञां वत्सरमन्त्रिणां for विज्ञै ... मन्त्रिणि ।