कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)
Krishi-Parashara of Maharshi Parashara
महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा
पृष्ठ 37, कुल 160 में से
संदर्भ में पढ़ें६ कृषिपरारशः
अथ मेघानयनम्—
शकाब्दं वह्निसंयुक्तं वेदभागसमाहृतम् ।
शेषं मेघं विजानीयादावर्तादि यथाक्रमम् ॥२३॥
आवर्तंश्चैव संवर्तः पुष्करो द्रोण एव च ।
चत्वारो जलदाः प्रोक्ता आवर्तादि यथाक्रमम् ॥२४॥ 5
एकदेशेन चावर्तः संवर्तः सर्वतो जलम् ।
पुष्करे दुष्करं वारि द्रोणे बहुजला मही ॥२५॥
अथ जलाढकनिर्णयः—
शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रितम् ।
आढकस्य भवेन्मानं मुनिभिः परिकीर्तितम् ॥२६॥ 10
1 A omits अथ, and D the entire line.
2 B शाकं for शकाब्दं, वेदेन भागमाहृतम् for वेद...तम् ।
3 A, C क्रमेण च for यथाक्रमम् ।
5 A एते for प्रोक्ता ।
B आवर्ताद्या मनीषिभिः for आवर्तादि यथाक्रमम् ।
6 B चावर्ते for चावर्तः, संवर्ते for संवर्तः ।
C reads—अतिवृष्टिस्तु संवर्ते आवर्ते निर्जलं भवेत् ।
7 C reads—पुष्करे दुष्करा वृष्टिर्द्रोणो बहुजलप्रदः ।
7-8 Between these lines, C reads—
आवर्तो दशमेशेशः संवर्तः षोडशान्वितः ।
पुष्करोऽष्टादशाधीशो द्रोणश्चाप्येकविंशतेः ॥
8 A अथाढकलक्षणम् । B अथ जलाढकनिर्णयकथनम् ।
D omits the line.
9 C आयतं for उच्छ्रितं ।
D विंशत् (an obvious error) for त्रिंशत् ।
9-10 Attributed to Varāha by Raghunandana in Jyotistattva (Smṛti-
tattva, i. p. 701) with त्रिंशद्योजनविस्तीर्णं शतयोजनमायतम् for
line 9.