सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

देवयाज्ञिकभाष्यसमेतम् । २३
सामर्थ्येन न सर्वाग्निकार्यार्थता विज्ञायते, तस्माच्छ्रौतं स्मार्तं च यद् गृह्यसूत्रोक्तम्,
स्मृत्युक्तं च पाकादिकं तत्सर्वं गार्हपत्यादिषु भवतीति ॥ १८ ॥
दर्शनाच्च ॥ १ । १ । १९ ॥
दृश्यते चायमर्थो यत्स्मार्तमपि होमपाकादिकं वैतानिकेषु क्रियत इति ।
दक्षिणाग्निं प्रकृत्य श्रूयते—“ मांसं तु तत्र न पचयेयुः ” इति । अत एव
प्रतिषेधात्प्राप्तिरनुमीयते, प्रतिषेधस्य प्राप्तिपूर्वकत्वात् । नच श्रौतो मांसपाको
दक्षिणाग्नौ विहितोऽस्ति, तस्यैव प्रतिषेधः स्यात्, यतः स १शामित्रेऽग्नौ विहितः ।
अस्तित्वविहिताप्रतिषिद्धः स्मार्तो मांसपाकः, तस्यायं प्रतिषेधो विज्ञायते । स्मृ-
तावपि दर्शश्राद्धं प्रकृत्याग्नौकरणार्थमभिमाह मार्कण्डेयः—
आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः ।
अनाहिताग्निस्त्वौपासनेऽग्न्यभावे तथाप्सु (स्तु ?) वा ॥ इति ।
शङ्खलिखितौ-“ धूपगन्धमाल्यैरलङ्कृत्य ब्राह्मणान् सघृतमन्नमनुज्ञाप्य
दभ्रं दक्षिणाग्निं परिस्तीर्य जुहुयादग्नये कव्यवाहनाय ” इत्यादि ।
वायुपुराणेऽपि-
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । इति
अतोऽस्माद्दर्शनात्स्मार्तमपि वैतानिकेषु कर्तव्यमिति पूर्वः पक्षः ।
सिद्धान्तमाह-
‘नौपासनश्रुतेः ॥ १ । १ । २० ॥
यदुक्तं वैतानिकेष्वेवाग्निषु श्रौतं स्मार्तं च कर्तव्यमिति, तन्न, कुतः ? औपा-
सनश्रुतेः । यतः, अहिताग्नेरपि औपासनः श्रूयते पितृमेधे “ ३अद्वारेणौपासनं
निरस्यति ” इति । यदि स्मार्तमेव वैतानिकेषु क्रियेत, तदाऽऽहिताग्नेः पितृमेधे
औपासनदर्शनं न स्यात् । अस्ति च । तस्मात्तान्यौपासने कर्तव्यानीति ।
१ शामित्रः पशुश्रपणोऽग्निरुच्यते, तथाचापस्तम्बः—अभिपर्यग्निकृते देश उल्मुकं
निदधाति स शामित्रः । २ कात्यायनश्रौतसूत्र एव वक्ष्यत्येकविंशाध्याये चतुर्थकण्डिका-
यामेकोनत्रिंशत्तमं सूत्रम् । ३ अत्र पूर्वतन्त्रोक्तं विहाराग्नेर्वैदिककर्ममात्राधिकरणं (१२ ।
२।१) अनुसन्धेयं विशेषजिज्ञासुभिः ।

२४ कात्यायनश्रौतसूत्रम् ।
तथा च ( याज्ञवल्क्य )स्मृतिः—
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ इति ॥
‘तस्मिन् गृहाणि’ इत्यापस्तम्बस्मरणाच्च । अतश्च यत्किञ्चिद्दम्पत्योर्विहितं
कर्म शान्तिकपौष्टिकव्रताङ्गहोमादिकं स्मार्तं तत्सर्वमावसथ्येऽग्नौ भवतीति ।
अत एवाह कात्यायनः—
न स्वेऽग्नावन्वयोहोमः स्यान्मुक्त्वाैकां समिदाहुतिम् ।
स्वस्य गर्भक्रियार्थांश्च यावन्नासौ प्रजायते ॥
अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः ।
न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥
अतश्च सीमन्तोन्नयनमपि स्मार्ताग्नावेव कार्यम् ।
अपिच, आधानेनोत्पादितानां गार्हपत्यादीनामग्नीनां प्रयोजनापेक्षायां स-
त्यां गार्हपत्ये हवींषि श्रपयन्त्याहवनीये जुह्वति, दक्षिणाग्नावन्वाहार्यं पचन्तीति
प्रत्यक्षवचननिर्दिष्टैरेव प्रयोजनैर्निराकाङ्क्षाणां न सामर्थ्यमात्रेणोक्तादन्यत्र
विनियोगः कल्पयितुं शक्यते ।
ननु माभूत्सामर्थ्यमात्रेण विनियोगः, वाक्येनैव स्मार्तेष्वपि पार्वणस्थाली-
पाकादिहोमेषु भवत्विति चेत्, न; न च स्मार्तहोमास्तेषु विधातुं शक्याः, ते हि
सहैवाधानेनावसथ्येनोत्पाद्यन्ते, यथा होमादयः। अत्राह जैमिनिः "सति चौपा-
सनस्य दर्शनात् ” ( १२-२-१-४) इति । सति च विहारे औपासनेऽग्नि-
र्दृश्यते । “ यः कामयेत राष्ट्रमस्यै प्रजायाै स्यादिति तस्यौपासने प्रजुहुयात् ”
इति राजसूये प्रवृत्ते कर्मण्येेतद्वचनम् । तस्मिंश्च काले विहारोऽस्ति । यदि च
विहार एव स्मार्तान्यपि कर्माणि स्युस्तदा कार्याभावादौपासनदर्शनं न स्यात् ।
अस्ति च । तस्मात्स्मार्तान्यौपासन एव कार्याणि ॥ २० ॥
यद्येवं तर्हि मांसपाकप्रतिषेधस्य का गतिरित्यत आह—
अधिश्रपणीये मांसप्रतिषेधः ॥ १ । १ । २१ ॥
य एष उक्तो मांसपाकप्रतिषेधो “ मांसं तत्र न पचयेयुः”इति सोऽधि-
श्रपणीयेऽहनि ज्ञेयः। नवगृहे यदा वासः क्रियते तदा तस्मिन्नेवाहनि । तत्र
CC.0- Jangamwadi Math Collection. Digitized by eGangotri

देवयाज्ञिकभाष्यसमेतम् । २६
दक्षिणाग्नेराहरणं कार्यं नाहवनीयवत्प्रतिहोममिति विकल्पं वक्ष्यति-“नवावसिते
वा ” इति । श्रूयते च-“ नवावसिते वैनमाहरेयुः ” इति । तदा च तस्मि-
न्नवगृहे दक्षिणाग्नावविशेषेण भोजनार्हस्यानियतद्रव्यस्य पाको विहितोऽस्ति
“ तस्मिन्पचेयुस्तद्ब्राह्मणा अश्रीयुः” इति । तत्र कदाचिन्मांससम्पत्तौ तस्यापि
पाकस्तत्र प्राप्नोति तस्यैष प्रतिषेधो ‘ मांसं तत्र न पचेयुः ’ इति ।
पक्षान्तरमपि दुग्धाधिश्रयणरूपमेतस्य विद्यते “ यद्धृतं न विन्देद्यत्पचेद-
पि गोरेव दुग्धमधिश्रयीत वै ब्रूयात् ” इति । तेनाधिश्रयणं सम्बन्धि अहः
अधिश्रयणीयम्, तात्सम्बन्धिश्रयण इति । अनेन च सम्बन्धि दक्षिणाग्न्याहरण-
दिनं लभते । अतः श्रौतान्येव वैतानिकेषु गार्हपत्यादिषु कर्तव्यानि । स्मार्तानि
त्वावसथ्येऽग्नावेवेति सिद्धम् ।
यत्तु स्मृतौ दक्षिणाग्नावग्नौकरणहोम उक्तः, स सर्वाधानपक्षे त्वावस-
थ्याग्नावेवेति तत्रैव निर्णीतमांस्त ॥ २१ ॥
॥ इति प्रथमा कण्डिका ॥
कर्मणां फलवत्त्वोक्तिपूर्वकं तेष्वधिकारो निरूपितः । अधुना तस्यैव साङ्गस्य
फलवतः कर्मणो निरूपणमाह—
( यागस्वरूपनिरूपणप्रतिज्ञा )
यज्ञं व्याख्यास्यामः ॥ १ । २ । १ ॥
यज्ञो यागो यजनमिष्टिरिति पर्यायाः । यज्ञं यागं व्याख्यास्यामः, याग-
स्वरूपं कथयिष्यामः ॥१॥
( यागस्वरूपनिरूपणम् )
तदेवाह—
द्रव्यं देवतात्यागः ॥ १ । २ । २ ॥
द्रव्यं देवतात्यागो यज्ञः । द्रव्यं पुरोडाशचरुसान्नाय्यपशुसोमादिकम् ।
देवता अग्निसोमेन्द्रविष्ण्वादिकाः । तद्धितचतुर्थी मन्त्रवर्णान्यतमा बोध्या । तत्रा-
ग्न्यादिकां देवतामुद्दिश्य यो द्रव्यस्य पुरोडाशादेस्त्याग उत्सर्गः स यज्ञः स याग
इत्यर्थः । तथा चोक्तम्-
तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन चेष्यते ।
देवतासङ्गतिस्तत्र दुर्बलं तु परं परम् ॥ इति ।

२६ कात्यायनश्रौतसूत्रम्।
तत्र तद्धितेन देवता सङ्गतिर्यथा-आग्नेयोऽष्टाकपालः, अग्नीषोमीय उ-
पांशुयागः, अग्नीषोमीयः पुरोडाशः, ऐन्द्राग्नः पुरोडाशः, ऐन्द्रं दधि, ऐन्द्रं पयः,
‘ अग्नीषोमीयं पशुमालभेत ’ इत्यादौ ।
चतुर्थ्या देवतासङ्गतिर्यथा-अग्नयेऽनीकवतेऽष्टाकपालम्, मरुद्भ्यः सा-
न्तपनेभ्यः, अथ मरुद्भ्यो गृहमेधिभ्यः, इत्यादौ ।
मन्त्रवर्णेन देवतासङ्गतिर्यथा उत्तराघारे, यथाच प्रयाजेषु ।
क्वचित्प्राकरणिकदेवतासम्बन्धोऽपि भवति तद्धितादीनामभावे, यथा-
उलूखले मुसल इत्यत्र कर्काचार्याणां....(?)
अत एवोच्यते यास्केन “ यद्यनादिष्टदेवतामन्त्रास्तेषु यद्दैवतोपरिष्ठाद्य-
दैवतः स यज्ञो वा यज्ञाङ्गं वा तद्देवता भवन्त ” इत्यादि । तेनैतत्

देवयाज्ञिकभाष्यसमेतम् । २७
व्याहारादेव योग्यत्वमालोच्य शेषशेषित्वं कल्प्यते । यथा ' स्वर्गकामो यजेत '
इति । अत्र वाक्येन विनियोग इति । न ह्यत्र स्वर्गस्य साध्यत्वं केनचिदुपात्तम् ।
अतः पदद्वयसमभिव्याहारादेव कल्प्यते ।
प्रकरणं चोभयाकाङ्क्षा । तथाहि–दर्शपूर्णमासाभ्यां स्वर्गं साधयेत् ।
कथमित्येतस्यामाकाङ्क्षायामविद्यमानायां च श्रुतप्रयोजनान्यग्न्यन्वाधानादीनि
ब्राह्मणतर्पणान्तानि कर्माणि पठ्यन्ते । दर्शपूर्णमासयोश्चोपकारकापेक्षा, अग्न्य-
न्वाधानादीनां चास्माभिः किं कर्तव्यमिति कार्यापेक्षा । न च दर्शपूर्णमासयोरुप-
कारकं किञ्चिद्दृश्यते, न चाग्न्यन्वाधानादीनामपि कार्यं किञ्चिद्दृश्यते, अवश्य-
मुभयेनापि कुतश्चिद्भवितव्यम् । यदि तु केनचित्प्रमाणेन ज्ञायते तदा नास्तीति
बुद्धिर्भवति, अस्ति च प्रमाणम् । न ह्यत्यन्तसन्निकर्ष एव सम्बन्धकारणम् । यदा
सन्निकृष्टं न लभ्यते, तदा विप्रकृष्टे वेदस्याशक्तिः सञ्चरति । तदिहोपकारकक-
ल्पनाप्रमाणं सन्निकृष्टं श्रुतिलिङ्गवाक्यलक्षणप्रलब्धाद्विप्रकृष्टमभ्यनुज्ञातमित्युभया-
काङ्क्षावशेनैव विज्ञायते–यद्दर्शपूर्णमासावुपकारमाकाङ्क्षतः, स नूनमेभिरग्न्य-
न्वाधानादिभिः क्रियते । यच्चाग्न्यन्वाधानादयः कर्तव्यमपेक्षन्ते तद्दर्शपूर्णमास-
योरुपकार इति । नह्युभयोरन्यत्सन्निकृष्टतरमस्ति । यच्चान्यफलादि कल्प्येत
तस्यान्येन सह सम्बन्धेन निराकाङ्क्षीभूतस्य नेह सम्बन्धाकाङ्क्षा विद्यते ।
तेनाग्न्यन्वाधानादीनां न विश्वजिदादिवत्फलकल्पनम्, नापि दर्शपूर्णमासानु-
षङ्गः । उभयाकाङ्क्षालक्षणसम्बन्धाभावे ह्यन्यतराकाङ्क्षालक्षणः सम्बन्धो गृह्यते,
न सम्भवे; तस्मान्नष्टाश्वदग्धरथवदेव परस्परनियमः, सिद्धिः ।
किञ्चाग्न्यन्वाधानादेः फलान्तरकल्पने ऋतुक्रत्वोः फलमित्युपकारका-
काङ्क्षाऽनिवृत्तैव स्यात् । अस्ति चासावाकाङ्क्षा, यागेन स्वर्गं कुर्यादित्येवं करण-
त्वेन विधानात् । तदुक्तम्–
न हि तत्करणं लोके वेदे वा किञ्चिदीदृशम् ।
इतिकर्तव्यता साध्ये यस्य नानुग्रहेऽर्पिता ॥ इति ।
एवमुभयाकाङ्क्षावत्वे सति सम्बन्ध प्रतिपादकं वाक्यं कल्प्यते । अग्न्य-
न्वाधानादिभिरुपकृतेन यागेन स्वर्गं कुर्यादित्येवम् । ततो वाक्याल्लिङ्गमग्न्यन्वा-
धानादिगतं सामर्थ्यं कल्प्यते । लिङ्गाच्च विनियोक्त्री श्रुतिः कल्प्यते । एभिः
प्रधानस्योपकारः कार्य इति ।

२८ | कात्यायनश्रौतसूत्रम् ।
ननु सूत्रकारेणाङ्गत्वे प्रमाणद्वयमेव कथमुक्तम् ? जैमिनिना तु *श्रुति-
लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यासंज्ञानि षट् प्रमाणान्युक्तानि सन्ति। नैष-
दोषः । प्रमाणचतुष्टयस्यसोदाहरणस्याग्रे ✕वक्ष्यमाणात् ।
तत्र स्वार्थाभिधाने +निरपेक्षं वचनं श्रुतिः । सा त्रिविधा-[१] विधात्री,
[२] अभिधात्री, [३] विनियोक्त्री च ।
तत्र विनियोक्त्री लिङाद्यात्मिका । अभिधात्री व्रीह्यादिश्रुतिः । विनि-
योक्त्री त्रिधा-[१] एकाभिधानरूपा, [२] एकपदरूपा, [३] विभक्तिरूपा
च । यस्य च श्रवणादेव सम्बन्धः प्रतीयते सा विनियोगश्रुतिः । तत्र, यत्राने-
कार्थाभिधानमेकेन शब्देन युगपद्भवति विभक्त्यैव लिङ्गसङ्ख्याकारकाणां तत्र
तेषामन्वितानामेवाभिधानं तदेकाभिधानम् । यथा पशुनेति पशुः प्रतीयते तयैक-
त्वं च । अतः सङ्ख्यादेरेकशब्दोपादानलक्षणया श्रुत्या कारकसम्वन्धः । प्रति-
पदिकार्थस्य तु पदश्रुत्या । यजेतेत्यत्र यागस्य प्रकृत्यर्थस्यैकपदेनोपात्ततया याग-
स्य प्रकृत्यर्थस्यैकपदेनोपात्ततया स्वर्गादिकं प्रति करणत्वम् , विभक्तिस्तु सम्ब-
न्धमेव साध्यत्वं वा प्रतिपादयन्ती विनियोगकरणम् । तत्र द्वितीया साध्यत्वं
प्रतिपादयति, तृतीयाद्यस्तु साधनत्वम् । तत्र " व्रीहीनवहन्ति " इति द्वितीयां
साध्यत्वेन व्रीहीनभिधानावघातस्य तेषु विनियोगकारणं भवति ।
सर्ववस्तु ·| सामर्थ्यं लिङ्गम् । तद्यथा- " श्रुवेणावद्यति " " स्वधितिना-
वद्यति " " हस्तेनावद्यति " " कोष्ठेनावद्यति " इति अवदानसाधनत्वेन श्रु-
तानां लिङ्गेन वस्तुसामर्थ्यात्मकेन विशेषविनियोगो भवति । तदुक्तम्-
सामर्थ्यात्स्वधितिर्मांसे द्रवेषु स्यात्स्रुवस्तथा ।
हस्तकेन पुरोडाशमवदातुं प्रकल्प्यते ॥
मन्त्राणां च लिङ्गेन पदार्थस्मारकत्वे विनियोगः ।
वाक्यं तु पदसङ्घातात्मकं प्रागुक्तम् ।

  • तृतीयाध्याये । ✕ तत्तत्स्थलेषु । +श्रुतिर्नामाङ्गत्वघटकीभूतोद्देश्यताकृतिकार-
    कत्वयोरन्यतस्य प्राधान्येन वाचकः शब्दः । ·| लिङ्गं नामाङ्गत्वघटकीभूतपरोद्देश्यताकृ-
    तिकारकत्ववाचकपदकल्पनानुकूला क्लृप्त पदपदार्थनिष्ठा योग्यता । ऽ समभिव्याहारो
    वाक्यम् ।

? No, it's र्ना(repha onना). Then मorनै? It looks like म, but wait, why is there a diagonal stroke? That diagonal stroke is from line 10's भ्रातृव्यंanusvara/halanta, or is it a matra? Wait, aboveमin line 11, line 10 hasअग्नीषामौ! Under अग्नी, there is nothing hanging down. Wait! Let's look at दन्धिर्यानैर्कर्मायुधम्: Could it be: दन्धिर्यानैर्कर्मायुधम्? Wait, why would it be र्यानैर्? No, look at द, then न्धि, then र्, then या? No, that's ना! Wait, look at नinमन्त्र: न्त्. Look at नाinनामास्य: ना. In line 11, it is र्ना! Then next letter: म! Then क र्मा यु ध म् । Wait, is there any reason to think it's notदन्धिर्नाम कर्मायुधम् ।orदब्धिर्नाम कर्मायुधम् ।`?

representation. In Unicode, standard Sanskrit spelling is सङ्ख्य or संङ्ख्य? Standard is सङ्ख्य (or संंख्य / सङ्ख्य). Let's check how faithful transcription should be: usually, transcription normalizes this printing convention to सङ्ख्य or संङ्ख्य? Let's check standard practice: सङ्ख्य is the true reading, but writing संङ्ख्य or सङ्ख्य? Wait, is it ङ्ख or ङ्ख्य? It is ङ्ख + य = ङ्ख्य. In Unicode, सङ्ख्य doesn't have the redundant anusvara, but if the user wants pure Devanagari as printed, wait: "Do NOT transcribe handwritten marginalia... Transcribe the text from the provided image... pure, clean Markdown in Unicode Devanagari."
Let's see if line 4 has साकाङ्क्षं: साकाङ्क्षं or साकांङ्क्षं? Writing साकाङ्क्षं is the standard transcription of that ligature. Let's look at सङ्ख्या: standard is सङ्ख्य. Wait, look at सङ्ख्या vs सङ्ख्य:
Line 17: यथासङ्ख्यलक्षणश्च
Line 21: यथासङ्ख्य-
Line 23: यथासङ्ख्यम्
Line 25

तेषामारम्भेऽर्थतो व्यवस्थानवचनत्वादिति । “मन्त्रलिङ्गाच्च” इति च लिङ्गमु-
क्तम् । “वत्सजानुं त्रिवृतं मूतकार्यं वा पशुब्रह्मवर्चसान्नाद्यकामा यथासङ्ख्यम्”
इति यथासङ्ख्यरूपं स्थानमुक्तम् । “प्रयोजेषु सन्निधेर्दुर्गमेवासन्निधेः” इति
सन्निधिपाठलक्षणं स्थानम् । “शेषमितरे यथासङ्ख्यमुन्नेतोन्नयति समाख्यानात्”
इति समाख्या ।
एतेषां श्रुत्यादीनां परस्परविरोधे, उत्तरोत्तरस्य दौर्बल्यम् । तदुक्तं जैमि-
निना—“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्र-
कर्षात्” इति । तत्र श्रुतिलिङ्गयोर्विरोधे “अनपेक्षमेत्य शालाद्वार्योपस्थानं
निवेशने” इति । अत्र श्रुतिः “प्रत्येत्याग्निमुपतिष्ठते यद्वेत्योपतिष्ठते यं वै लोको
गार्हपत्ये” इति । निवेशन इति ।

३२ कात्यायनश्रौतसूत्रम् ।
ननु “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यनेन यागमात्रस्य फलस-
म्बन्ध उक्तः, कुतोऽफलयुक्ता यजतय इति ? अत्रोच्यते--नात्र यागमात्रस्य फल-
सम्बन्ध उच्यते । किं ताह, ? ये यागा दर्शपूर्णमाससंज्ञास्तेषामेव । के च ते
दर्शपूर्णमाससंज्ञाः? ये दर्शपूर्णमाससंयोगेनोत्पन्नाः । तद्यथा- “ आग्नेयोष्टाकपालः
पौर्णमास्याममावास्यायां चाच्युतो भवति” इत्याग्नेयस्य दर्शपूर्णमाससंयोगेनो-
त्पत्तिः । तथा “तावब्रूतामग्नीषोमावाज्यस्यैव नोपांऽशु पौर्णमास्यां यजन्” इति
उपांशुयाजस्य पौर्णमासयोगेनोत्पत्तिः । “ताभ्यामेतमग्नीषोमीयमेकादशकपालं
पौर्णमास्यां प्रायच्छत्” इत्यग्नीषोमीयस्य च । तथा- “ऐन्द्रं दध्यमावास्यायाम्”
“ऐन्द्रं पयोमावास्यायाम्” इत्यनयोर्दर्शसंयोगेनोत्पत्तिः । अमावास्यां प्रकृत्य
“तस्मादैन्द्राग्नोद्वादशकपालः पुरोडाशो भवतीत्यैन्द्राग्नस्य च । एते चाग्नेयादयो
यागा दर्शपूर्णमाससम्बन्धाद्दर्शपूर्णमासपदेन लक्ष्यन्ते । तेषामेव च फलसम्बन्धोऽ-
नेन “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति वाक्येन क्रियते । अत एव
फलवन्तः प्रधानभूताश्च । इतरे प्रयाजादयो निष्फलाः । अतः फलवतां प्रधान-
भूतानामङ्गं भवति, उपकारका भवन्ति, प्रकरणात् । तदुक्तं “फलवत्सन्निधा-
वफलं तदङ्गम्” इति । तदङ्गमित्यनुवर्तमानॆऽपि पुनस्तदङ्गग्रहणं प्रयाजादीनां
केवलादृष्टार्थत्वज्ञापनार्थम् । इतराणि चाङ्गानि कानिचिद्दृष्टार्थानि, कानिचिदुभ-
यार्थानि । प्रयाजादीनित्वदृष्टार्थान्येव भवन्ति । तदुक्तम्—
दृष्टादृष्टोभयार्थं वा त्रिधाङ्गानि प्रचक्षते ।
दृष्टार्थानि चतुर्द्धास्युर्जातिद्रव्यगुणक्रियाः ॥
अदृष्टार्थं द्विधा कर्म द्वयार्थमपि तन्मतम् ।
दृष्टार्थेष्वपि सर्वेषु नियमादृष्टमिष्यते ॥ इति
त्रिविधमङ्गजातं दृष्टार्थमदृष्टार्थमुभयार्थमिति । दृष्टार्थमपि जातिद्रव्य-
गुणक्रियात्मकम् । तत्र जातिगुणौ “पशुना यजेत” “अरुणया क्रीणाति”
इति क्रियासाध्यत्वेन विनियुक्तौ । तत्साधनद्रव्यावच्छेदेन दृष्टेनैवोपकारेण तस्याः
शेषभावमनुभवतः । द्रव्यस्य तु साक्षादेव क्रियानिर्वृत्तिर्दृष्टमेव प्रयोजनम् । क्रिया-
पि चावघातादिर्दृष्टार्थैव । या सन्निपत्योपकारकरूपत्वेनोच्यते । अदृष्टार्थत्वं तु
क्रियाया एव । सा च द्वेधा । सन्निपत्योपकाररूपा प्रोक्षणादिका । आरादुपका-
ररूपा प्रयाजादिका । सन्निपत्योपकारकाणि च दृष्टार्थानि कर्माणि स्वकारकाणां
कर्मादीनामुत्पत्तिं प्राप्तिं विकारं वा कुर्वन्ति, तत्साध्यस्य प्रधानस्योपकुर्वन्ति ।

तथा सम्पवनं पिण्डस्योत्पत्तिं दोहनं पयसः प्राप्तिम् । अवघातो व्रीहीणां विकार-
मदृष्टार्थं तु सन्निपाति संस्कारं स्वकारकस्य कुर्वत्प्रधानेनोपकारि भवति । तदेव-
मुत्पत्त्यादिसाध्यभेदासन्निपाति चतुर्विधं भवति । तच्च कर्मादीनामन्यतमे कारके
यथायथमुत्पत्त्यादि करोति । कर्मण्यवघातः । कर्तरि व्रतम् । करणे प्रयाजे शेषा-
भिधारणम् । सम्प्रदाने पशुपुरोडाशयागः । अपादाने “अग्नेस्तृणान्यपचिनो-
ति” इति । अधिकरणे दध्यानयनम् ।
आरादुपकारकं तु न कारकद्वारम् । अपूर्वद्वारं तु प्रधानस्योपकरोतीति ।
दृष्टादृष्टार्थं च किञ्चित्कर्म, यथा पशुपुरोडाशयागः । स हि त्यागांशेनादृष्टमुपदे-
शांशेन देवतास्मरणं करोतीत्युभयार्थः । एवमेव स्विष्टकृद्यागादयोऽप्युभयार्थाः।
तत्रापि त्यागांशेनादृष्टमुत्पद्यते । प्रधानयागोपयुक्तहविरुत्तरार्धा च प्रतिपाद्यते ॥४॥
यजतयश्चाफलयुक्ता इत्यत्र यजतिजुहोतयः प्रस्तुताः, अतस्तयोर्विवेकं
पृच्छति—
यजतिजुहोतीनां को विशेषः ॥ १ । २ । ५ ॥
यजतीनां यागानां जुहोतीनां होमानां को भेद इति प्रश्नः ॥ ५ ॥
तत्र यजतीनां विशेषमाह—
( यागानां विवेचनम् )
तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः
॥ १ । २ । ६ ॥
तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतय उच्यन्ते,
इति विशेषः । तिष्ठता होमो येषु ते तिष्ठद्धोमाः, वषट्कारेण प्रदानं येषु ते
वषट्कारप्रदानाः, तथा, याज्यावन्तः पुरोडाशवन्तश्च ये, ते यजतय उच्यन्ते ॥६॥
अथ जुहोतीनां विशेषमाह—
( होमानां विवेचनम् )
उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः ॥ १ । २ । ७ ॥
उपविष्टेन कर्त्रा होमो येषु ते उपविष्टहोमाः, स्वाहाकारेण प्रदानं येषु
ते स्वाहाकारप्रदानाः । ये उपविष्टहोमाः स्वाहाकारप्रदानाश्च ते जुहोतयः, इत्यु-
च्यन्ते ॥ ७ ॥

पूर्वमग्न्यन्वाधानादानां चाङ्गत्वं सप्रमाणकमुक्तम् । तानि चाङ्गानि ऋत्वि-
जः कुर्वन्तीति वक्ष्यति । “शेषमितरे यथाख्यम्” इति कर्माणि पुरुषाणामि-
ति च । तत्रेदं चिन्त्यते-दर्शपूर्णमासज्योतिष्टोमादिषु किं त्रयोऽपि वर्णा ब्राह्मण-
क्षत्रियवैश्या ऋत्विजो भवन्ति, उत ब्राह्मणा एवेति । किं तावत्प्राप्तम् ? त्रयो-
ऽपि वर्णा ऋत्विजो भवेयुरिति । कुतः ? प्रभुत्वात् । सर्वेप्यध्ययनवन्तो विद्वांस-
श्चेत्यतः सर्वेपि कर्तुं शक्नुवन्ति । यजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव वृत्त्युपाया
इति नियमः पुरुषार्थतया स्मर्यते, न क्रत्वर्थतया । तेन क्षत्रियवैश्यावार्त्विज्यं
कुर्वन्तौ नियमातिक्रमात्कामं प्रत्यवेयाताम्, न तावता क्रतोः काचिद्गुणहानिः ।
तस्मात्त्रयोऽपि वर्णा ऋत्विजो भवन्तीति पूर्वपक्षे सिद्धान्तमाह—

( ब्राह्मणानामेवार्त्विज्येऽधिकारः )

ब्राह्मणा ऋत्विजो भक्षप्रतिषेधादितरयोः ॥ १ । २ । ८ ॥

ब्राह्मणा एव ऋत्विजो भवेयुः, न क्षत्रियवैश्याः । कुतः ? इतरयोः क्षत्रि-
यवैश्ययोर्भक्षप्रतिषेधात् । अग्निहोत्रशेषं प्रकृत्य श्रूयते— “ते. होचुः, को न
इद ९ होष्यति” इति प्रकृत्य “तस्मात्तद्य एव कश्च पिबेत्तद्वै नाब्राह्मणः पिबे-
दग्नौ ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत्” इति, किम्पुनरग्निहोत्रोच्छिष्टमिति ।
ननु स्थाल्यामपि यदवशिष्टं तदप्यग्निहोत्रोच्छिष्टमेव स्यात् । नेत्याह ।
अथ यत्स्थाल्यामिति । यत्स्थाल्यां परिशिष्टं तद्यथा परिमहः । अनग्नौ निर्वपेत् ।
तद्यथा कुटुम्बार्थे सर्वसाधारणं तादृशं तद्यत्स्थाल्यां परितोद्धपरिश्रितं चान्यं पूर्णं
शकटस्योपरिष्टान्नं परिणत् । यथा ततो हविषो निर्वायेपि तद्गतं धान्यं न
शेषः । किं तर्हि ? पुनरपि योगान्तरयोग्यमेव । एवमेव तद्यत्स्थाल्यां पय इत्य-
र्थः । तस्मात्तद्यः कश्चिदकर्मसम्बन्धोऽपि पिबेत् । तथापि त्वग्नावधिश्रितत्वाद-
ब्राह्मणो न पिबेत् । ब्राह्मणस्त्वसम्बन्धोऽपि पिबेदिति । शाखान्तरे तयोः सान्ना-
य्यभक्षप्रतिषेधः श्रूयते । “न राजन्यो न वैश्यो वा सान्नाय्यं पिबेदसोमपीथी
ह्येषः” इति । तथा दर्शपूर्णमासयोः शाखान्तरे चतुर्थाकरणे ब्राह्मणा एव नि-
र्दिश्यन्ते । “ब्राह्मणानामेवेदं हविः सोम्यानां सोमपानां नेहाब्राह्मणस्यास्ति”
इति शेषभक्षणार्थं हि चतुर्थाकरणम् । शेषभक्षाश्चर्त्विजाम् । यदि च राजन्यवैश्य-
योरप्यार्त्विज्यं स्यान्न ब्राह्मणानामेवेदं हविः स्यात् । राजन्यवैश्ययोरपि पक्षे
स्यात् । तत्रेदमवधारणमसङ्गतं भवेत् ॥ ८ ॥

२. अध्याय ६-१०: अग्निहोत्र, चातुर्मास्य एवं पशुबन्ध विधान

देवयाज्ञिकभाष्यसमेतम् । ३५
दर्शनाच्च ॥ १ । २ । ९ ॥
श्रुतावप्ययमर्थो दृश्यते, यत्, ब्राह्मणा एवर्त्विजो भवन्ति, न क्षत्रियवैश्या
इति । तथाहि-“ द्वया वै देवा-देवा आहैव देवा अथ ये ब्राह्मणाः शुश्रुवाꣳ-
सोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एवं यज्ञ आहुतय एवं देवानां
दक्षिणा मनुष्यदेवानां ब्राह्मणानाꣳ शुश्रुषुषामनूचानानामाहुतिभिरेव देवान्प्री-
णाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणान् ” इति “ तस्मादृत्विग्भ्य एव दक्षिणा
दद्यान्नानृत्विग्भ्यः ” इति । ऋत्विग्भ्यो यद्दीयते परिक्रयार्थं तद्दक्षिणाशब्दाभि-
धेयम् । “ दक्षिणाभिर्ब्राह्मणान् प्रीणाति ” इत्यनेन दक्षिणानां ब्राह्मणसम्बन्धो
दृश्यते । अतोऽपि ब्राह्मणा एवर्त्विजः ।
किञ्च, दर्शपूर्णमासिक्यां चान्वाहार्यदक्षिणायां ब्राह्मणा एव दृश्यन्ते ।
तदेवं “ ते वै देवा अहुतादो यद्ब्राह्मणायान्वाहार्यमाहरति ” इति । दक्षिणा
चार्त्विग्भ्यो दीयते । तस्माद्ब्राह्मणा एवर्त्विजो न क्षत्रियवैश्या इति सिद्धान्तः।
ब्राह्मणा एवर्त्विज इति नियमः क्रत्वर्थः । यतोऽब्राह्मणस्यार्त्विज्ये क्रतु-
वैगुण्यापत्तेः । तथाहि रामायणे-
“ क्षत्रियो याजको यस्य चाण्डालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ” इति ।
तथा-“ राजयाजकयाज्यस्य विनश्यति तथा हविः ” इति चाब्राह्मणा-
र्त्विज्ये हविर्विनाशः स्मृतः । तथा-“ प्रतिग्रहोऽधिको विप्रो याजनाध्यापने
तथा ” इतिस्मृतिश्च । अत एवाग्न्यधिश्रितस्य भक्षणप्रतिषेधात् क्षत्रियवैश्ययो-
र्ऋतौ यजमान भागस्यापि होम एव विहितो न भक्षणमिति ॥९॥
इदानीमिदं विचार्यते “चित्रया यजेत पशुकामः” “ द्वादशाहमृद्धिकामा
उपेयुः” “ स्वर्गकामस्यर्तयेयः” इत्येवमादीनां फलयुक्तानां कर्मणामारम्भे किं
कर्तुर्यथाकाम्यतांवश्यं तेषां करणमिति । तत्र विधिबलादवश्यकरणे प्राप्त
आह-
( फलयुक्तकर्मानुष्ठाने याथाकाम्यम् )
फलयुक्तानामारम्भे याथाकामी फलार्थित्वात् ॥ १ । २ । १० ॥
फलयुक्तानां फलसम्बन्धवतामारम्भे कर्मकर्तुर्याथाकाम्यं भवेत् । इच्छयां

प्रवृत्तिः स्यादित्यर्थः । कुतः ? फलार्थित्वात् । फलमर्थयते याचत इति फलार्थी ।
यतस्तस्य फलार्थिनः फलमाप्त्यर्थं कर्म विधीयते, नान्यस्य । तेन यः फलं प्राप्तुं
वाञ्छति स फलयुक्तानि कर्माणि तत्प्राप्त्यर्थं करोति नान्यः । काममनतिक्रम्य
यथाकामम्। यथाकाममित्यस्य भावो याथाकामी याथाकाम्यमित्यर्थः। ब्राह्मणत्वा-
द्यथाकामशब्दस्य “गुणवचनब्राह्मणादिभ्यः कर्मणि च” इतिष्यञ्प्रत्ययः । यथा
स्त्रियां स्वभावात्तलन्तं वर्तते, एवं ष्यञन्तमपि क्वचिस्त्रियां वर्तते यथा चिती
वैदग्धी यथाकामीति पदवृत्तौ । तेन क्वचित्तदन्तं स्त्रियां नपुंसके च वर्तते ।
यदा स्त्रियां तदा ष्यञः ञित्त्वात् “षिद्गौरादिभ्यश्च” इति ङीष् । “यस्ये-
ति च” इत्यकारलोपः । “हलस्तद्धितस्य” इति यकारलोपः । यथा चित्यं
विततीति,

अग्निहोत्रेऽपि न याथाकाम्यम्। कुतः ? “यावज्जीवमग्निहोत्रं जुहुयात्”
इति श्रुतेः। न चाग्निहोत्रफलसाधनत्वं श्रूयते “अग्निहोत्रं जुहुयात्स्वर्गकामः”
इति। ततश्च फलयुक्तत्वाद्याथाकाम्यं स्यात्। अत्र कस्मिंश्चिद्ब्राह्मणे काम्यं प्रयोगं
विधाय “यावज्जीवमग्निहोत्रं जुहुयात्” इति पठ्यते। तत्रायं सन्देहः-यावज्जी-
वप्रयोगः काम्यप्रयोगश्च भिन्नः, उत एक एवायं प्रयोगः, स एव यावज्जीवकाल-
परिमित इति। तत्र यदि यावज्जीवकालः कर्मधर्मत्वेन विधीयते, ततः “सायंजु-
होति” “प्रातर्जुहोति” इति वाक्यवशेन तत्कालसमानयनमग्निहोत्रं न शक्नोति
तावन्तं कालं पूरयितुमित्यर्थाज्ज्योतिष्टोमवदभ्यस्तरूपमेकमेव प्रयोगं प्रतिवक्ष्यते।
यदि पुनर्जीवनं निमित्तत्वेन व्यपदिश्य कर्म विधीयते, ततो यावत्कर्तृगामि, नियते
निमित्ते विना कामसम्बन्धेन चोद्यमानमकरणे दोषप्रसक्तेरवश्यं पुरुषेण जीवता
स्वार्थसिद्धयर्थमनर्थपरिहाराय च कर्तव्यमिति कर्तृधर्मो नियमोऽनेन वचनेन चो-
दितो भवति। तदा सायम्प्रातर्होमयोर्जीवनस्य च संहतानां निमित्तत्वात्प्रतिदिवसं
निमित्ते पर्यवसितं कर्म निवृत्तावृत्तित्वशात्पुनः पुनः क्रियत इति प्रयोगात्यत्वमिति।
तत्र किं तावत्प्राप्तम् ? एकः प्रयोगोऽभ्यस्तरूपः कर्मधर्मो यावज्जीविकता।
यावज्जीवशब्दो मरणावधिकः कालपरः। तत्कालसम्बन्धश्च प्रकृते काम्याग्निहो-
त्रपूर्वमप्राप्तत्वाद्विधीयते। तथासत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन
वाक्यान्तरविहितः काम्यप्रयोग एवाग्निहोत्रस्य पर्यवस्यति। स च काम्यप्रयो-
गोऽभ्यसितव्यः। सकृदनुष्ठानस्य “अग्निहोत्रं जुहुयात्स्वर्गकामः” इत्यनेनैव
सिद्धेर्यावज्जीवमिति कालविधिवैयर्थ

'? No, it looks like 'द्दे' or 'द्धे'? It's 'तद्ध्येवात्रापि' or 'तद्देवात्रापि'?
Wait: "तद्देवात्रापि वाक्यद्वयस्य श्रवणात् ।" - wait, "तद्देवात्रापि" or "तद्ध्येवात्रापि" (तद् हि एव अत्रापि -> तद्ध्येवात्रापि)?
Look at line 18: 'त' then 'द्' and 'ध'? It looks like 'द्धे' with an extra stroke: 'द्ध्ये' or 'द्दे'?
Wait, let's look at the word: "तद्देवात्रापि वाक्यद्वयस्य श्रवणात्" - like "तथैवात्रापि"?
Wait, "तद्देवात्रापि" is not standard Sanskrit unless it's "तद्ध्येवात्रापि" or "तद्देवात्रापि" (tad eva -> tad deva? no, tad dhi eva -> taddhyeva).
Wait, could it be "तद्ध्येवात्रापि"?
Wait, look at 'वाक्यद्वयस्य' right after it: 'द्' + 'व' in 'द्वयस्य'.
In line 18: 'त' then 'द्' + 'ध' + 'े' = 'द्धे'?
Wait, look at the loop: it has 'द्' on top, and below it is 'ध'? No, it's 'द्' and 'द': '

नात्काम्यत्वाशङ्काव्युदासार्थं पृथग्दाक्षायणग्रहणमित्यदोषः । प्रजादिकं फलं च
गुणात्, न तु दाक्षायणादिति वक्ष्यामः । अतो दाक्षायणेऽपि न याथाकाम्यम् ।
आग्रयणेऽपि न याथाकाम्यम् । “अनयोर्वा अयं द्यावापृथिव्यो रसोऽस्य
रसस्य हुत्वा देवेभ्योऽथेममश्नामेति तस्माद्वा आग्रयणेष्ट्या यजते” इतिश्रवणात् ।
अत्र द्यावापृथिव्यो रसस्यान्नस्य देवेभ्यो होमानन्तरमशनं विधीयते । अशनं च
नित्यमवश्यं कार्यम् । अन्यथा जीवनासम्भवात् । न चाहुत्वैतत्कर्तव्यं शक्यम् ।
“हुत्वा देवेभ्योऽथेममश्नामः” इत्युक्तत्वात् । तस्मादशनवदाग्रयणादिनित्यता ।
तेन न याथाकाम्यम् । किञ्च, अकृताग्रयणस्य नवान्नभोजने प्रायश्चित्तं विहित-
मस्ति “अनिष्ट्वाऽऽग्रयणेन नवस्याश्नीयाद्वैश्वानरं द्वादशक

४० कात्यायनश्रौतसूत्रम् ।
मनुः-
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शने चार्द्धमासान्ते पूर्णमासेन चैव हि ॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यादौ सोमान्ते सौमिकैर्मखैः ॥
आद्यन्ते द्युनिशोः सायम्प्रातरित्यर्थः । अध्वरैश्चातुर्मास्यैरिति ॥ ११ ॥
सोमे चैके ॥ १ । २ । १२ ॥
सोमयागे-अग्निष्टोमाख्ये न याथाकाम्यम् । कुतः ? “ वसन्ते वसन्ते
ज्योतिषा यजेत ” इति श्रुतेः ।
नन्वग्निहोत्रदर्शपूर्णमासयोश्च यावज्जीवग्रहणात्कर्तृधर्मनिमित्तत्वं भवतु,
सोमादिषु कथम् ?
उच्यते-अत्रापि वीप्सासंयुक्तं कालशास्त्रमेव निमित्तम् । “वसन्ते वसन्ते
ज्योतिषा यजेत ” इत्यादिकम् । न तावदेतत्काम्यस्योपदिश्यते, तस्य हि
यथेच्छमनुष्ठानस्योक्तत्वात् । नैवं वक्तुं युक्तम् । अथापि नित्यस्य सकृत्प्रयोगः
स्यात्तदा वीप्सा व्यर्था स्यात् । न च वसन्त इयत्तावधारणे प्रमाणमस्ति ।
तस्माद्यावज्जीवं ये वसन्तास्तेष्विति विज्ञायते । सप्तम्यपि च भिन्ने जुहोतीतिव-
चिन्नियमार्थैव । अत एवंजातीयके सर्वत्र कर्तृधर्मनिमित्तत्वावधारणात्कालशास्त्रमेव
प्रत्येत्तव्यम् । एवं सर्वत्र चातुर्मास्यादौ बोध्यम् ।
ननु “ ज्योतिष्टोमेन स्वर्गकामो यजेत ” इति काम्यत्वमप्यस्य श्रूयते ।
सत्यम्, “ वसन्ते ज्योतिषा यजेत ” इति नित्यत्वमपि श्रूयत एव । अतः प्रयो-
गभेद एवायम् । अत्रापि अग्निहोत्रादिवज्ज्ञेयम् । एकः स्वर्गकामप्रयोगः, अपरस्तु
नित्य इति । अत एव गवामयने कारणान्तरेण सोमानन्तरायः श्रुतावुच्यते “क-
थमेषां सोमोऽनन्तरितो भवतीति, सवनैरिति ब्रूयात् ” इति । यदि सोमस्याव-
श्यककर्तव्यता न स्यात्तर्हि कारणान्तरायवचनं न स्यात् । अस्ति च । तस्मात्सो-
मेऽपि न याथाकाम्यम् । एके ग्रहणं तु पूजार्थम् । मतान्तरस्याभावात् ।
अत्राह वसिष्ठः-अलमग्न्याधेयाय नानाहिताग्निः स्यात् । अलं च सोमाय
नासोमयाजीति । अलं समर्थः । सामर्थ्यं च याज्ञवल्क्येनोक्तम्-
“ त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ”

देवयाज्ञिकभाष्यसमेतम् । ४१
मनुः—" यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥”
एतत्कालस्य सोमयागविषये । ऋणश्रुतेर्नित्यस्यावश्यकर्तव्यत्वादकरणे
प्रायश्चित्तविधानाच्च ।
शङ्खोऽपि—" त्रैवार्षिकाधिकान्नस्तु (?) पिबेत्सोममनन्दितः ।
इष्टिं वैश्वानरीं कुर्यात्तथैवाल्पधनो द्विजः ॥”
याज्ञवल्क्यः— “ प्राक्सौमिकीः क्रियाः कुर्याद्यस्य त्रैवार्षिकं भवेत् ।”
मनुः— “ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
नत्वल्पदक्षिणैर्यज्ञैर्यजन्ते ह कथञ्चन ॥
इन्द्रियाणि यशः स्वर्गमायुः कीर्तिः प्रजाः पशून् ”
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ”
मत्स्यः— “ अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तथर्त्विजः ।
याज्यं तु दक्षिणाहीनो नारित यज्ञसमो रिपुः ॥” इति ।
अन्नपरिमाणमपि शङ्खेनोक्तम्—“सहस्रं भोजयेत्सोमे ब्राह्मणानां शतं पशौ ।
चातुर्मास्येषु सर्वेषु शतं पर्वणि पर्वणि ”
यत्तु, श्रुतौ दातव्यैव यज्ञे दक्षिणा भवत्यल्पिकापीति, तन्नित्याभिप्रायम् ।
अत एव बौधायनः—" यस्य नित्यानि लुप्तानि तथैवाजस्रिकानि च ।
ऽवपथस्थो न हि स्वर्गं न गच्छत्यपितो हि सः ॥
तत्स्मात्कन्दः फलैर्मूलैर्मधुना पयसाऽपि वा ।
नित्यं नित्यानि कुर्वन्ति न च नित्यानि लोपयेत् ॥”
इति ।
तेनाल्पधनस्यापि आधानमेवाधिकारः । तथाच प्रजापतिः—
सर्वसंस्थाधिकारी स्यादाहिताग्निर्धने सति ।
आदध्यान्निर्धनोऽप्यग्निं न तु पापभयाद्द्विजः ॥
न पापभयादाहिताग्निः संस्थाधिकारी । किन्तु धने सत्येव । तासां
काम्यत्वात् ।
कूर्मपुराणे— “ नास्तिक्यादथवालस्याद्योऽग्निं नाधातुमिच्छति ।
यजते यो न यज्ञेन स याति नरकान्बहून् ॥

४२ कात्यायनश्रौतसूत्रम् ।
तस्मात्सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।
आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥” इति ।
तथा च स्मृतौ पशुसोमादिना शक्याकरणसम्भवे प्रत्याम्नाय उपदिश्यते ।
“ क्लृप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे ।
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ॥”
क्लृप्तानामारब्धानां पशुसोमानामनुष्ठानासम्भवे तस्मिन् निष्कृत्य त-
त्प्रत्याम्नायत्वेनाब्दपर्यये वर्षस्यान्ते वैश्वानरीमिष्टिं निर्वपेदवश्यं निर्वपेदित्यन्वयः।
तथा याज्ञवल्क्योऽपि “ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ।
एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः ॥” इति ।
स्वस्वकाले तत्प्रत्याम्नायरूपां वैश्वानरीमिष्टिं कुर्यादित्यर्थः ॥१२॥
चातुर्मास्येषु चर्तुमुखश्रुतेः ॥ १ । २ । १३ ॥
चातुर्मास्येषु च न याथाकाम्यम् । कुतः ? ऋतुमुखश्रुतेः । “ ऋतुमुखे
ऋतुमुखे चातुर्मास्यैर्यजेत” इति वीप्साश्रवणात् । ऋतोर्मुखं प्रथमदिनम्प्रतिपत्तत्रे-
त्यर्थः । अतएव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि पतिपद्येव क्रियन्ते ।
न पौर्णमास्यामित्यवसीयते । यतः प्रतिपदेवर्तुमुखं न पौर्णमासीति । तथाच
श्रूयते- “ एषाह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी योत्तरा एषो-
त्तमा या पूर्वा ” इति ॥१३॥
नित्यत्वे कारणान्तरमाह—
नियतसहपाठात् ॥ १ । २ । १४ ॥
नियतैर्नित्यैरग्निहोत्रादिकर्मभिः सहपाठादपि चातुर्मास्यान्यपि तद्वदव-
श्यं कर्तव्यानीत्यवसीयते । तेषु न याथाकाम्यं प्रतीयते । तथाहि- “ त एवा-
न्वज्ञक्रतूँस्तेनिरेऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धऽ सौम्यमध्वरम्”
इति नित्यैः सहपाठेन तत्सदृशत्वमवगम्यत इत्येतदभिप्रायः ॥१४॥
दर्शनाच्च ॥ १ । २ । १५ ॥
गवामयनेषूपायन्तरेण श्रुतौ चातुर्मास्यानामनन्तराद्दर्शनाच्च चातुर्मास्येषु