कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 37, कुल 114 में से
संदर्भ में पढ़ेंतेषामारम्भेऽर्थतो व्यवस्थानवचनत्वादिति । “मन्त्रलिङ्गाच्च” इति च लिङ्गमु-
क्तम् । “वत्सजानुं त्रिवृतं मूतकार्यं वा पशुब्रह्मवर्चसान्नाद्यकामा यथासङ्ख्यम्”
इति यथासङ्ख्यरूपं स्थानमुक्तम् । “प्रयोजेषु सन्निधेर्दुर्गमेवासन्निधेः” इति
सन्निधिपाठलक्षणं स्थानम् । “शेषमितरे यथासङ्ख्यमुन्नेतोन्नयति समाख्यानात्”
इति समाख्या ।
एतेषां श्रुत्यादीनां परस्परविरोधे, उत्तरोत्तरस्य दौर्बल्यम् । तदुक्तं जैमि-
निना—“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्र-
कर्षात्” इति । तत्र श्रुतिलिङ्गयोर्विरोधे “अनपेक्षमेत्य शालाद्वार्योपस्थानं
निवेशने” इति । अत्र श्रुतिः “प्रत्येत्याग्निमुपतिष्ठते यद्वेत्योपतिष्ठते यं वै लोको
गार्हपत्ये” इति । निवेशन इति ।