कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 43, कुल 114 में से
संदर्भ में पढ़ेंअग्निहोत्रेऽपि न याथाकाम्यम्। कुतः ? “यावज्जीवमग्निहोत्रं जुहुयात्”
इति श्रुतेः। न चाग्निहोत्रफलसाधनत्वं श्रूयते “अग्निहोत्रं जुहुयात्स्वर्गकामः”
इति। ततश्च फलयुक्तत्वाद्याथाकाम्यं स्यात्। अत्र कस्मिंश्चिद्ब्राह्मणे काम्यं प्रयोगं
विधाय “यावज्जीवमग्निहोत्रं जुहुयात्” इति पठ्यते। तत्रायं सन्देहः-यावज्जी-
वप्रयोगः काम्यप्रयोगश्च भिन्नः, उत एक एवायं प्रयोगः, स एव यावज्जीवकाल-
परिमित इति। तत्र यदि यावज्जीवकालः कर्मधर्मत्वेन विधीयते, ततः “सायंजु-
होति” “प्रातर्जुहोति” इति वाक्यवशेन तत्कालसमानयनमग्निहोत्रं न शक्नोति
तावन्तं कालं पूरयितुमित्यर्थाज्ज्योतिष्टोमवदभ्यस्तरूपमेकमेव प्रयोगं प्रतिवक्ष्यते।
यदि पुनर्जीवनं निमित्तत्वेन व्यपदिश्य कर्म विधीयते, ततो यावत्कर्तृगामि, नियते
निमित्ते विना कामसम्बन्धेन चोद्यमानमकरणे दोषप्रसक्तेरवश्यं पुरुषेण जीवता
स्वार्थसिद्धयर्थमनर्थपरिहाराय च कर्तव्यमिति कर्तृधर्मो नियमोऽनेन वचनेन चो-
दितो भवति। तदा सायम्प्रातर्होमयोर्जीवनस्य च संहतानां निमित्तत्वात्प्रतिदिवसं
निमित्ते पर्यवसितं कर्म निवृत्तावृत्तित्वशात्पुनः पुनः क्रियत इति प्रयोगात्यत्वमिति।
तत्र किं तावत्प्राप्तम् ? एकः प्रयोगोऽभ्यस्तरूपः कर्मधर्मो यावज्जीविकता।
यावज्जीवशब्दो मरणावधिकः कालपरः। तत्कालसम्बन्धश्च प्रकृते काम्याग्निहो-
त्रपूर्वमप्राप्तत्वाद्विधीयते। तथासत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन
वाक्यान्तरविहितः काम्यप्रयोग एवाग्निहोत्रस्य पर्यवस्यति। स च काम्यप्रयो-
गोऽभ्यसितव्यः। सकृदनुष्ठानस्य “अग्निहोत्रं जुहुयात्स्वर्गकामः” इत्यनेनैव
सिद्धेर्यावज्जीवमिति कालविधिवैयर्थ