सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 46, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 46

४० कात्यायनश्रौतसूत्रम् ।
मनुः-
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शने चार्द्धमासान्ते पूर्णमासेन चैव हि ॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यादौ सोमान्ते सौमिकैर्मखैः ॥
आद्यन्ते द्युनिशोः सायम्प्रातरित्यर्थः । अध्वरैश्चातुर्मास्यैरिति ॥ ११ ॥
सोमे चैके ॥ १ । २ । १२ ॥
सोमयागे-अग्निष्टोमाख्ये न याथाकाम्यम् । कुतः ? “ वसन्ते वसन्ते
ज्योतिषा यजेत ” इति श्रुतेः ।
नन्वग्निहोत्रदर्शपूर्णमासयोश्च यावज्जीवग्रहणात्कर्तृधर्मनिमित्तत्वं भवतु,
सोमादिषु कथम् ?
उच्यते-अत्रापि वीप्सासंयुक्तं कालशास्त्रमेव निमित्तम् । “वसन्ते वसन्ते
ज्योतिषा यजेत ” इत्यादिकम् । न तावदेतत्काम्यस्योपदिश्यते, तस्य हि
यथेच्छमनुष्ठानस्योक्तत्वात् । नैवं वक्तुं युक्तम् । अथापि नित्यस्य सकृत्प्रयोगः
स्यात्तदा वीप्सा व्यर्था स्यात् । न च वसन्त इयत्तावधारणे प्रमाणमस्ति ।
तस्माद्यावज्जीवं ये वसन्तास्तेष्विति विज्ञायते । सप्तम्यपि च भिन्ने जुहोतीतिव-
चिन्नियमार्थैव । अत एवंजातीयके सर्वत्र कर्तृधर्मनिमित्तत्वावधारणात्कालशास्त्रमेव
प्रत्येत्तव्यम् । एवं सर्वत्र चातुर्मास्यादौ बोध्यम् ।
ननु “ ज्योतिष्टोमेन स्वर्गकामो यजेत ” इति काम्यत्वमप्यस्य श्रूयते ।
सत्यम्, “ वसन्ते ज्योतिषा यजेत ” इति नित्यत्वमपि श्रूयत एव । अतः प्रयो-
गभेद एवायम् । अत्रापि अग्निहोत्रादिवज्ज्ञेयम् । एकः स्वर्गकामप्रयोगः, अपरस्तु
नित्य इति । अत एव गवामयने कारणान्तरेण सोमानन्तरायः श्रुतावुच्यते “क-
थमेषां सोमोऽनन्तरितो भवतीति, सवनैरिति ब्रूयात् ” इति । यदि सोमस्याव-
श्यककर्तव्यता न स्यात्तर्हि कारणान्तरायवचनं न स्यात् । अस्ति च । तस्मात्सो-
मेऽपि न याथाकाम्यम् । एके ग्रहणं तु पूजार्थम् । मतान्तरस्याभावात् ।
अत्राह वसिष्ठः-अलमग्न्याधेयाय नानाहिताग्निः स्यात् । अलं च सोमाय
नासोमयाजीति । अलं समर्थः । सामर्थ्यं च याज्ञवल्क्येनोक्तम्-
“ त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ”