सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 41, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 41

देवयाज्ञिकभाष्यसमेतम् । ३५
दर्शनाच्च ॥ १ । २ । ९ ॥
श्रुतावप्ययमर्थो दृश्यते, यत्, ब्राह्मणा एवर्त्विजो भवन्ति, न क्षत्रियवैश्या
इति । तथाहि-“ द्वया वै देवा-देवा आहैव देवा अथ ये ब्राह्मणाः शुश्रुवाꣳ-
सोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एवं यज्ञ आहुतय एवं देवानां
दक्षिणा मनुष्यदेवानां ब्राह्मणानाꣳ शुश्रुषुषामनूचानानामाहुतिभिरेव देवान्प्री-
णाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणान् ” इति “ तस्मादृत्विग्भ्य एव दक्षिणा
दद्यान्नानृत्विग्भ्यः ” इति । ऋत्विग्भ्यो यद्दीयते परिक्रयार्थं तद्दक्षिणाशब्दाभि-
धेयम् । “ दक्षिणाभिर्ब्राह्मणान् प्रीणाति ” इत्यनेन दक्षिणानां ब्राह्मणसम्बन्धो
दृश्यते । अतोऽपि ब्राह्मणा एवर्त्विजः ।
किञ्च, दर्शपूर्णमासिक्यां चान्वाहार्यदक्षिणायां ब्राह्मणा एव दृश्यन्ते ।
तदेवं “ ते वै देवा अहुतादो यद्ब्राह्मणायान्वाहार्यमाहरति ” इति । दक्षिणा
चार्त्विग्भ्यो दीयते । तस्माद्ब्राह्मणा एवर्त्विजो न क्षत्रियवैश्या इति सिद्धान्तः।
ब्राह्मणा एवर्त्विज इति नियमः क्रत्वर्थः । यतोऽब्राह्मणस्यार्त्विज्ये क्रतु-
वैगुण्यापत्तेः । तथाहि रामायणे-
“ क्षत्रियो याजको यस्य चाण्डालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ” इति ।
तथा-“ राजयाजकयाज्यस्य विनश्यति तथा हविः ” इति चाब्राह्मणा-
र्त्विज्ये हविर्विनाशः स्मृतः । तथा-“ प्रतिग्रहोऽधिको विप्रो याजनाध्यापने
तथा ” इतिस्मृतिश्च । अत एवाग्न्यधिश्रितस्य भक्षणप्रतिषेधात् क्षत्रियवैश्ययो-
र्ऋतौ यजमान भागस्यापि होम एव विहितो न भक्षणमिति ॥९॥
इदानीमिदं विचार्यते “चित्रया यजेत पशुकामः” “ द्वादशाहमृद्धिकामा
उपेयुः” “ स्वर्गकामस्यर्तयेयः” इत्येवमादीनां फलयुक्तानां कर्मणामारम्भे किं
कर्तुर्यथाकाम्यतांवश्यं तेषां करणमिति । तत्र विधिबलादवश्यकरणे प्राप्त
आह-
( फलयुक्तकर्मानुष्ठाने याथाकाम्यम् )
फलयुक्तानामारम्भे याथाकामी फलार्थित्वात् ॥ १ । २ । १० ॥
फलयुक्तानां फलसम्बन्धवतामारम्भे कर्मकर्तुर्याथाकाम्यं भवेत् । इच्छयां