कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 47, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । ४१
मनुः—" यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥”
एतत्कालस्य सोमयागविषये । ऋणश्रुतेर्नित्यस्यावश्यकर्तव्यत्वादकरणे
प्रायश्चित्तविधानाच्च ।
शङ्खोऽपि—" त्रैवार्षिकाधिकान्नस्तु (?) पिबेत्सोममनन्दितः ।
इष्टिं वैश्वानरीं कुर्यात्तथैवाल्पधनो द्विजः ॥”
याज्ञवल्क्यः— “ प्राक्सौमिकीः क्रियाः कुर्याद्यस्य त्रैवार्षिकं भवेत् ।”
मनुः— “ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
नत्वल्पदक्षिणैर्यज्ञैर्यजन्ते ह कथञ्चन ॥
इन्द्रियाणि यशः स्वर्गमायुः कीर्तिः प्रजाः पशून् ”
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ”
मत्स्यः— “ अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तथर्त्विजः ।
याज्यं तु दक्षिणाहीनो नारित यज्ञसमो रिपुः ॥” इति ।
अन्नपरिमाणमपि शङ्खेनोक्तम्—“सहस्रं भोजयेत्सोमे ब्राह्मणानां शतं पशौ ।
चातुर्मास्येषु सर्वेषु शतं पर्वणि पर्वणि ”
यत्तु, श्रुतौ दातव्यैव यज्ञे दक्षिणा भवत्यल्पिकापीति, तन्नित्याभिप्रायम् ।
अत एव बौधायनः—" यस्य नित्यानि लुप्तानि तथैवाजस्रिकानि च ।
ऽवपथस्थो न हि स्वर्गं न गच्छत्यपितो हि सः ॥
तत्स्मात्कन्दः फलैर्मूलैर्मधुना पयसाऽपि वा ।
नित्यं नित्यानि कुर्वन्ति न च नित्यानि लोपयेत् ॥”
इति ।
तेनाल्पधनस्यापि आधानमेवाधिकारः । तथाच प्रजापतिः—
सर्वसंस्थाधिकारी स्यादाहिताग्निर्धने सति ।
आदध्यान्निर्धनोऽप्यग्निं न तु पापभयाद्द्विजः ॥
न पापभयादाहिताग्निः संस्थाधिकारी । किन्तु धने सत्येव । तासां
काम्यत्वात् ।
कूर्मपुराणे— “ नास्तिक्यादथवालस्याद्योऽग्निं नाधातुमिच्छति ।
यजते यो न यज्ञेन स याति नरकान्बहून् ॥