कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 48, कुल 114 में से
संदर्भ में पढ़ें४२ कात्यायनश्रौतसूत्रम् ।
तस्मात्सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।
आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥” इति ।
तथा च स्मृतौ पशुसोमादिना शक्याकरणसम्भवे प्रत्याम्नाय उपदिश्यते ।
“ क्लृप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे ।
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ॥”
क्लृप्तानामारब्धानां पशुसोमानामनुष्ठानासम्भवे तस्मिन् निष्कृत्य त-
त्प्रत्याम्नायत्वेनाब्दपर्यये वर्षस्यान्ते वैश्वानरीमिष्टिं निर्वपेदवश्यं निर्वपेदित्यन्वयः।
तथा याज्ञवल्क्योऽपि “ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ।
एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः ॥” इति ।
स्वस्वकाले तत्प्रत्याम्नायरूपां वैश्वानरीमिष्टिं कुर्यादित्यर्थः ॥१२॥
चातुर्मास्येषु चर्तुमुखश्रुतेः ॥ १ । २ । १३ ॥
चातुर्मास्येषु च न याथाकाम्यम् । कुतः ? ऋतुमुखश्रुतेः । “ ऋतुमुखे
ऋतुमुखे चातुर्मास्यैर्यजेत” इति वीप्साश्रवणात् । ऋतोर्मुखं प्रथमदिनम्प्रतिपत्तत्रे-
त्यर्थः । अतएव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि पतिपद्येव क्रियन्ते ।
न पौर्णमास्यामित्यवसीयते । यतः प्रतिपदेवर्तुमुखं न पौर्णमासीति । तथाच
श्रूयते- “ एषाह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी योत्तरा एषो-
त्तमा या पूर्वा ” इति ॥१३॥
नित्यत्वे कारणान्तरमाह—
नियतसहपाठात् ॥ १ । २ । १४ ॥
नियतैर्नित्यैरग्निहोत्रादिकर्मभिः सहपाठादपि चातुर्मास्यान्यपि तद्वदव-
श्यं कर्तव्यानीत्यवसीयते । तेषु न याथाकाम्यं प्रतीयते । तथाहि- “ त एवा-
न्वज्ञक्रतूँस्तेनिरेऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धऽ सौम्यमध्वरम्”
इति नित्यैः सहपाठेन तत्सदृशत्वमवगम्यत इत्येतदभिप्रायः ॥१४॥
दर्शनाच्च ॥ १ । २ । १५ ॥
गवामयनेषूपायन्तरेण श्रुतौ चातुर्मास्यानामनन्तराद्दर्शनाच्च चातुर्मास्येषु