सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 39, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 39

तथा सम्पवनं पिण्डस्योत्पत्तिं दोहनं पयसः प्राप्तिम् । अवघातो व्रीहीणां विकार-
मदृष्टार्थं तु सन्निपाति संस्कारं स्वकारकस्य कुर्वत्प्रधानेनोपकारि भवति । तदेव-
मुत्पत्त्यादिसाध्यभेदासन्निपाति चतुर्विधं भवति । तच्च कर्मादीनामन्यतमे कारके
यथायथमुत्पत्त्यादि करोति । कर्मण्यवघातः । कर्तरि व्रतम् । करणे प्रयाजे शेषा-
भिधारणम् । सम्प्रदाने पशुपुरोडाशयागः । अपादाने “अग्नेस्तृणान्यपचिनो-
ति” इति । अधिकरणे दध्यानयनम् ।
आरादुपकारकं तु न कारकद्वारम् । अपूर्वद्वारं तु प्रधानस्योपकरोतीति ।
दृष्टादृष्टार्थं च किञ्चित्कर्म, यथा पशुपुरोडाशयागः । स हि त्यागांशेनादृष्टमुपदे-
शांशेन देवतास्मरणं करोतीत्युभयार्थः । एवमेव स्विष्टकृद्यागादयोऽप्युभयार्थाः।
तत्रापि त्यागांशेनादृष्टमुत्पद्यते । प्रधानयागोपयुक्तहविरुत्तरार्धा च प्रतिपाद्यते ॥४॥
यजतयश्चाफलयुक्ता इत्यत्र यजतिजुहोतयः प्रस्तुताः, अतस्तयोर्विवेकं
पृच्छति—
यजतिजुहोतीनां को विशेषः ॥ १ । २ । ५ ॥
यजतीनां यागानां जुहोतीनां होमानां को भेद इति प्रश्नः ॥ ५ ॥
तत्र यजतीनां विशेषमाह—
( यागानां विवेचनम् )
तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः
॥ १ । २ । ६ ॥
तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतय उच्यन्ते,
इति विशेषः । तिष्ठता होमो येषु ते तिष्ठद्धोमाः, वषट्कारेण प्रदानं येषु ते
वषट्कारप्रदानाः, तथा, याज्यावन्तः पुरोडाशवन्तश्च ये, ते यजतय उच्यन्ते ॥६॥
अथ जुहोतीनां विशेषमाह—
( होमानां विवेचनम् )
उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः ॥ १ । २ । ७ ॥
उपविष्टेन कर्त्रा होमो येषु ते उपविष्टहोमाः, स्वाहाकारेण प्रदानं येषु
ते स्वाहाकारप्रदानाः । ये उपविष्टहोमाः स्वाहाकारप्रदानाश्च ते जुहोतयः, इत्यु-
च्यन्ते ॥ ७ ॥