काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ४ । २ ॥ ३२५
गहादिभ्यश्च ॥ १३८ ॥
गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः। अञो-
रपवादः * । गहीयः । अन्तःस्थीयः । देशाधिकारेऽपि संभवापेक्षं विशेषणं न सर्वे-
षाम् । मध्यमध्यमं चाण् चरणइति पठ्यते, तस्यायमर्थः । मध्यशब्दः प्रत्ययसन्नि-
योगेन मध्यममापद्यते । मध्यमीयाः । चरणे तु प्रत्ययार्थे ऽण् भवति, माध्यमो
दिति । तदेतद्विशेषएव स्मर्यते पृथिवीमध्यस्य मध्यमभावः । चरणसंबन्धेन निवा-
सलक्षणो ऽणिति च ॥ मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् ॥ कुग्ज-
नस्य परस्य च ॥ * ॥ जनकीयम् । परकीयम् ॥ देवस्य चेति वक्तव्यम् ॥ * ॥ देव-
कीयम् ॥ वेणुकादिभ्यश्छण्वक्तव्यः ॥ आकृतिगणोयम् । वेणुकीयम् । वैणुकी-
यम् । औत्तरपदकीयम् । प्रास्थकीयम् †। माध्यमकीयम् । गह अन्तःस्थ । सम ।
विषम ॥ मध्यमध्यमं चाण्चरणे ॥ उत्तम । अङ्गु । वङ्गु । मगध । पूर्वपक्ष । अपर-
पक्ष । अधमशाख । उत्तमशाख । समानशाख । एकयाम । एकवृत्त । एकपलाश ।
इष्वग्र । इष्वनी ‡ । शवस्यन्दी § । कामप्रस्थ । खाडायनि ॥ । कावेरणि ¶ ।
जैह्विरि । शौङ्गि । आसुरि । आर्हंसि । आमिचि । व्याडि । वैदजि । भौजि ।
बाहुश्र्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन् । देवशर्मन् । श्रौति ।
आरटकि । वाल्मीकि । चेमवृद्धित् । उत्तर । अन्तर ॥ मुखपार्श्वतसोर्लोपः ॥
जनपरयोः । कुक् च ॥ देवस्य च ॥ वेणुकादिभ्यश्छण् ॥ गहादिः ॥
प्राचां कटादेः ॥ १३६ ॥
देशइत्येव । तद्विशेषणं प्राग्ग्रहणम् । प्राग्देशवाचिनः कटादेः प्रातिप-
दिकाच् छः प्रत्ययो भवति शैषिकः । अञोपवादः । कटनगरीयम् । कटघो-
षीयम् । कटपल्लवीयम् ॥
राज्ञः क च ॥ १४० ॥
असंभावाद्देशाधिकारो न विशेषणम् । राज्ञः ककारश्चान्तादेशो भवति
छश्च प्रत्ययः । राजकीयम् । आदेशमात्रमिह विधेयं प्रत्ययस्तु वृद्धाच्छ इत्येव
सिद्धः ॥
वृद्धादकेकान्तखोपधात् ॥ १४१ ॥
- अञादेरण्बाधः । पा० २ ।
† प्रास्थीयम् । पा० २ ।
‡ इष्वनीक । पा० २ ।
§ शवस्कन्द । पा० २ ।
॥ खाण्डायनी । पा० २ ।
¶ कामवेरणि । पा० २ ।
३२६ ॥ काशिका ॥ ४ ॥ २ ॥
देशइत्येव । वृद्धाद्देशवाचिनो ऽक इक इत्येवमन्तात् खकारोपधाच्च
प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः । कोपधलक्षणस्याणोपवादः । वाही-
कग्रामलक्षणस्य च प्रत्ययस्य रोषधेतोः प्राचामिति च । अकान्तात्तावत् ।
आरोहणकीयम् । द्रौघणकीयम् । इकान्तात् । आश्वपथिकीयम् । शाल्मलि-
कीयम् । खोपधात् । कौटिशिखीयम् । त्रायोमुखीयम् ॥ अकेकान्तग्रहणे कोपध-
ग्रहणं सौसुकाद्यर्थम् ॥ * ॥ सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥
कन्यापलदनगरग्रामह्रदोत्तरपदात् ॥ १४२ ॥
देशइत्येव, वृद्धादिति च । कन्याद्युत्तरपदाद्देशवाचिनो वृद्धात्प्रातिप-
दिकात् छः प्रत्ययो भवति शैषिकः । वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः ।
दात्तिकन्तीयम् । माह
॥ काशिका ॥ ४ ॥ ३ ॥ ३२७.
देशाधिकारो निवृत्तः । युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः ।
चकाराच्छश्च । अन्यतरस्यां ग्रहणाद्यथाप्राप्तम् । तदेते त्रयः प्रत्यया भवन्ति
तत्र वैषम्याद्यथासंख्यं न भवति । त्यदादित्वाद्वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते
प्रत्येकं प्रत्ययत्रयं विधीयते । यौष्माकीणः । आस्माकीनः । युष्मदीयः ।
अस्मदीयः । यौष्माकः । आस्माकः ॥
तस्मिन्नणि च युष्माकास्माकौ ॥ २ ॥
तस्मिन्निति साक्षाद्विहितः खञ् निर्दिश्यते न चकारानुकृष्टश्छः ।
तस्मिन्खञि अणि च युष्मदस्मदोर्यथासंख्यं युष्माक आस्माक इत्येतावादेशौ
भवतः । निमित्तयोरादेशौ प्रति यथासंख्यं कस्मान्न भवति । योगविभागः
करिष्यते, तस्मिन् । खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः । ततो ऽणि
चेति । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । तस्मिन्नणि
चेति किम् । युष्मदीयः । अस्मदीयः ॥
तवक ममकावेकवचने ॥ ३ ॥
एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवतो यथासं-
ख्यं तस्मिन्खञि अणि च परतः । निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति ।
ननु च न लुमतानङ्गस्येति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न
संभवति । वचनात्प्रत्ययलक्षणं भविष्यति * । अथ वा नैवेदं प्रत्ययलक्षणं किं
तर्ह्यन्वर्थग्रहणम् । एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावा-
देशौ प्रतिपद्येते इति सूत्रार्थः । तावकीनः । मामकीनः । तावकः । मामकः ।
तस्मिन्नणि चेत्येव । त्वदीयः, मदीयः ॥
अर्द्धाद्यत् ॥ ४ ॥
अर्द्धशब्दाद् यत् प्रत्ययो भवति शैषिकः । अणोऽपवादः । अर्द्धम् । सपू-
र्वपदाट्ठञ्वक्तव्यः ॥ * ॥ बालेयार्द्धिकम् । गौतमार्द्धिकम् ॥
परावराधमोत्तमपूर्वाच्च ॥ ५ ॥
पर अवर अधम उत्तम इत्येवं पूर्वाच्चार्द्धशब्दात् प्रत्ययो भवति शैषिकः ।
परार्द्धम् । अवरार्द्धम् । अधमार्द्धम् । उत्तमार्द्धम् । पूर्वग्रहणं किम् । परावरा-
धमोत्तमेभ्य इत्येवोच्येत, अर्द्धादिति वर्तते । तस्य तत्पूर्वता विज्ञास्यते । परा-
वरशब्दावदिग्ग्रहणावपि स्तः, परं सुखमवरं सुखमिति । तत्र कृतार्थत्वाद
दिक्शब्दत्वात् परे ठञ्छौ स्याताम्, तस्मात्पूर्वग्रहणाद्यत्प्रत्ययो भवति परा-
र्द्धमवरार्द्धमिति ॥
- वचनात्प्रत्ययलक्षणप्रतिषेधो न संभवति । पा० २ ।
३२८ ॥ काशिका ॥ ४ ॥ ३ ॥
दिक्पूर्वपदाट्ठञ् ॥ ६ ॥
दिक्पूर्वपदादर्द्धान्तात्प्रातिपदिकात् ठञ् प्रत्ययो भवति चकाराद्वाऽण्
शैषिकः । अणोऽपवादः । पूर्वार्द्धम् । पौर्वार्द्धिकम् । दक्षिणार्द्धम् । दाक्षिणा-
र्द्धिकम् । पदग्रहणं स्वरूपविधिनिवारणार्थम् ॥
ग्रामजनपदैकदेशादञ्ठञौ ॥ ७ ॥
दिक्पूर्वपदादित्येव । ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्राति-
पदिकाद्दिक्पूर्वपदादर्द्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ यतोपवादौ । इमे
खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः पौर्वार्द्धिकाः । दाक्षिणार्द्धाः
दाक्षिणार्द्धिकाः ॥
मध्यान्मः ॥ ८ ॥
मध्यशब्दान्मः प्रत्ययो भवति शैषिकः । अणोऽपवादः । मध्यमः
आदेश्चेति वक्तव्यम् ॥ * ॥ आदिमः ॥ अवोध
॥ काशिका ॥ ४ ॥ ३ ॥ ३२८
विभाषा रोगातपयोः ॥ १३ ॥
शरद इत्येव । रोगे आतपे चाभिधेये शरच्छब्दाट्ठञ् प्रत्ययो वा भवति
शैषिकः । खञोऽपवादः । शारदिको रोगः । शारदिक आतपः । शारदो
रोगः । शारद आतपः । रोगातपयोरिति किम् । शारदं दधि ॥
निशाप्रदोषाभ्यां च ॥ १४ ॥
निशाप्रदोषशब्दाभ्यां विभाषा ठञ् प्रत्ययो भवति शैषिकः । कालाट्ठञिति
नित्ये ठञि प्राप्ते विकल्प उच्यते । नैशम् । नैशिकम् । प्रादोषम् । प्रादोषिकम् ॥
श्वसस्तुट् च ॥ १५ ॥
विभाषेत्येव । श्वःशब्दाद्विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो
भवति । त्यप्प्रत्ययोऽप्यतो विहित ऐषमोह्यःश्वोन्यतरस्यामिति । एताभ्यां
मुक्ते ट्युट्युलावपि भवतः । शौवस्तिकः । श्वस्त्यः । श्वस्तनः ॥
संधिवेलाद्यृतुनक्षत्रेभ्यो ऽण् ॥ १६ ॥
कालादित्येव संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्यो ऽण्
प्रत्ययो भवति शैषिकः । ठञोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य बाधनार्थम् ।
संधिवेलादिभ्यस्तावत् । सांधिवेलम् । सांध्यम् । ऋतुभ्यः । ग्रैष्मम् । शैशि-
रम् । नक्षत्रेभ्यः । तैषम् । पौषम् । संधिवेला । संध्या । अमावास्या । त्रयो-
दशी । चतुर्दशी । पञ्चदशी । पौर्णमासी । प्रतिपत् ॥ संवत्सरात्फलपर्वणोः ॥
सांवत्सरं फलम् । सांवत्सरं पर्व ॥
प्रावृष एण्यः ॥ १७ ॥
प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः । छञोऽपवादः । प्रावृषेण्यो
बलाहकः ॥
वर्षाभ्यष्ठक् ॥ १८ ॥
वर्षाशब्दाट्ठक् प्रत्ययो भवति शैषिकः । छञोऽपवादः । वार्षिकं
वासः । वार्षिकमनुलेपनम् ॥
छन्दसि ठञ् ॥ १९ ॥
वर्षाशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । ठकोऽपवादः ।
स्वरे भेदः । नभश्च नभस्यश्च वार्षिकावृतू ॥
वसन्ताच्च ॥ २० ॥
छन्दसीत्येव । वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति
शैषिकः । छञोऽपवादः । मधुश्चमाधवश्च वासन्तिकावृतू ॥
३३० ॥ काशिका ॥ ४ । ३ ॥
हेमन्ताच्च ॥ २१ ॥
छन्दसीत्येव। हेमन्तशब्दात् छन्दसि विषये ठञ् प्रत्ययो भवति शैषि-
कः। ऋत्वणोऽपवादः। सहश्च सहस्यश्च हैमन्तिकावृतू। योगविभाग उत्तरार्थः॥
सर्वत्राण् च तलोपश्च ॥ २२ ॥
हेमन्तशब्दादण् प्रत्ययो भवति तत्सन्नियोगेन चास्य तकारलोपः।
हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोधिकारनिवृत्त्यर्थम्। छन्दसि
भाषायां च सर्वत्रैतद्भवति। ननु च छन्दसीति नानुवर्तिष्यते। सैवानुवृत्तिः
शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति भाषा-
यामपि ठञं स्मरन्ति। अथाण् चेति चकारः किमर्थः। अण् यथाप्राप्तं च ऋत्व-
णिति, कः पुनरनयोर्विशेषः। ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्ति-
[L12
॥ काशिका ॥ ४ ॥ ३ ॥ ३३१
प्रावृषष्टप् ॥ २६ ॥
प्रावृट्शब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे टप् प्रत्ययो भवति ।
एण्यस्यापवादः । पकारः स्वरार्थः । प्रावृषि जातः, प्रावृषिकः ॥
संज्ञायां शरदो वुञ् ॥ २७ ॥
शरच्छब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति,
ऋत्वणोपवादः समुदायेन चेत्संज्ञा गम्यते । शारदका दर्भाः । शारदका मुद्गाः ।
दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा । संज्ञायामिति किम् । शारदं सस्यम् ।
संज्ञाधिकारं के चित्‘कृतलब्धक्रीतकुशला’ इति यावदनुवर्तयन्ति ॥
पूर्वाह्नापराह्लाद्रा॑मूलप्रदोषावस्कराद्वुन् ॥ २८ ॥
पूर्वाह्नादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन्वि-
षये संज्ञायां गम्यमानायाम् । पूर्वाह्णक
३३२ ॥ काशिका ॥ ४ । ३ ॥
सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येत-
स्मिन्विषये । पूर्वेण कनि प्राप्ते वचनम् । सैन्धवः । आपकरः ॥
श्रविष्ठा फल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशा-
खाषाढाबहुलाल्लुक् ॥ ३४ ॥
श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग्भवति । तस्मिं-
स्त्रोप्रत्ययस्यापि लुक्तद्धितलुकीति भवति । श्रविष्ठासु जातः, श्रविष्ठः । फल्गु-
नः । अनुराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । आषाढः ।
बहुलः ॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ॥ * ॥ चित्रा-
यां जाता, चित्रा । रेवती । रोहिणी । स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वात्
ङीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ ॥ * ॥ फल्गुनी ॥ अषाढा ॥ श्रविष्ठा-
षाढाभ्यां छणपि वक्तव्यः ॥ * ॥ श्राविष्ठीयः । आषाढीयः ॥
स्थानान्तगोशालखरशालाच्च ॥ ३५ ॥
स्थानान्तात्प्रातिपदिकाद् गोशालशब्दात्खरशालशब्दाच्चातार्थे प्रत्य-
यस्य लुग्भवति । गोस्थाने जातः, गोस्थानः । अश्वस्थानः । गोशालः । खरशालः ॥
वत्सशालाभिजिदश्वयुक्शतभिषजो वा ॥ ३६ ॥
वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति । वत्सशा-
लायां जातः, वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् ।
आश्वयुजः । शतभिषक् । शातभिषजः । बहुलग्रहणस्यायं प्रपञ्चः ॥
नक्षत्रेभ्यो बहुलम् ॥ ३७ ॥
नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग्भवति । रोहिणः ।
रौहिणः । मृगशिराः । मार्गशीर्षः ॥
कृतलब्धक्रीतकुशलाः ॥ ३८ ॥
तत्रेत्येव । सप्तमीसमर्थात्कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति
स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा, स्रौघ्नः । माथुरः । राष्ट्रियः ।
ननु च यदत्र कृतं जातमपि तत्र भवति यच्च यत्र क्रीतं लब्धमपि त
॥ काशिका ॥ ४ ॥ ३ ॥ ३३३
प्रायेण बाहुल्येन भवति, स्रौघ्नः । मायुरः । राष्ट्रियः । प्रायग्रहणमनर्थकं,
सम्भवेन कृतत्वात् । अनित्यभवः प्रायभव इति चेद् मुक्तासंशयेन तुल्यम् ॥
उपजानूपकर्णोपनीवेष्ठुक् ॥ ४० ॥
उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन्विषये
ठक् प्रत्ययो भवति । अणोपवादः । औपजानुकः । औपकणिकः । औपनीविकः ॥
संभूते ॥ ४१ ॥
तत्रेत्येव । सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् संभूत इत्येतस्मिन्नर्थे
यथाविहितं प्रत्ययो भवति । अवक्लृप्तिः प्रमाणानतिरेकश्च संभवत्यर्थे इह
गृह्यते नोत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात् । स्रुघ्ने संभवति, स्रौघ्नः ।
मायुरः । राष्ट्रियः ।
कोशाड्ढञ् ॥ ४२ ॥
[L
३३४ ॥ काशिका ॥ ४ । ३ ॥
तत्रेत्येव, कालादिति च। सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्देय-
मित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्देयमृणं चेत्तद्भवति। मासे देयमृणं,
मासिकम्। आर्द्धमासिकम्। सांवत्सरिकम्। ऋणइति किम्। मासे देया भिक्षा॥
कलाप्यश्वत्थयवबुसाद्वुन् ॥ ४८ ॥
कालादित्येव। कलापि अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्त-
मीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः
साहचर्यात्काले वर्तन्ते। यस्मिन्काले मयूराः कलापिनो भवन्ति स कलापी।
यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन्यवबुसं संपद्यते स यवबुसशब्देनो-
च्यते। कलापिनि काले देयमृणं, कलापकम्। अश्वत्थकम्। यवबुसकम्॥
ग्रीष्मावरसमाद्वुञ् ॥ ४९ ॥
ग्रीष्मावरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयमृणइत्येतस्मिन्नर्थे
अण्ठञोरपवादः। ग्रीष्मे देयमृणं, ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं
वृद्धयर्थम्। समाशब्दो वर्षपर्यायः॥
संवत्सराग्रहायणीभ्यां ठञ् ॥ ५० ॥
संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद्वुञ् च देयमृण-
मित्येतस्मिन्नर्थे। संवत्सरे देयमृणं, सांवत्सरिकम्। सांवत्सरकम्। आग्रहाय-
णिकम्। आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु संवत्सरात्फ-
लपर्वणोरिति पठ्यते, तत्र फले छ्प्रत्ययेन विवक्षिते ऽणं बाधित्वा ठञेव यथा
स्यादिति॥
व्याहरति मृगः ॥ ५१ ॥
तत्रेत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात्प्रातिपदिकाद्
व्याहरति मृग इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति। निशायां व्याह-
रति मृगः, नैशः। नैशिकः। प्रादोषः। प्रादोषिकः। मृग इति किम्।
निशायां व्याहरत्युलूकः॥
तदस्य सोढम् ॥ ५२ ॥
कालादित्येव। तदिति प्रथमासमर्थात्कालवाचिनः प्रातिपदिकादस्येति
षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं सोढञ्चेत्तद्भवति, सोढं
जितमभ्यस्तमित्यर्थः। निशासहचरितमध्ययनं निशा, तत्सोढमस्य छात्रस्य,
नैशः। नैशिकः। प्रादोषः। प्रादोषिकः॥
तत्र भवः ॥ ५३ ॥
कालादिति निवृत्तम्। तत्रेति सप्तमीसमर्थाद् ड्याप्प्रातिपदिकाद्भव
॥ काशिका ॥ ४ । ३ ॥ ३३५
इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सत्ता भवत्यर्थो गृह्यते न जन्म,
तत्र जात इति गतार्थत्वात् । स्रुघ्ने भवः, सौघ्नः । माथुरः । राष्ट्रियः । पुन-
स्तत्रग्रहणं तदस्येति निवृत्त्यर्थम् ॥
दिगादिभ्यो यत् ॥ ५४ ॥
दिग् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति तत्र भव इत्येत-
स्मिन्विषये । अणाञ्छस्य चापवादः । दिशि भवं, दिश्यम् । वर्ग्यम् । मुखजघन-
शब्दयोश्शरीरावयवार्थः पाठः, सेनामुख्यं, सेनाजघन्यमिति * । दिग् । वर्ग ।
पूग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक ।
उखा । साक्षिन् । आदि । अन्त । मुख । जघन । मेध । यूथ ॥ उदकात्संज्ञायाम् † ॥
न्याय । वंश । अनुवंश । विश । काल । कूप । आकाश । दिगादिः ॥
शरीरावयवाच्च ॥ ५५ ॥
शरीरं प्राणिकायः । शरीरावयववाचिनः प्रातिपदिकाद् यत्प्रत्ययो
भवति तत्र भव इत्येतस्मिन्विषये । अञोऽपवादः । दन्तेषु भवं, दन्त्यम् ।
कण्ठ्यम् । ओष्ठ्यम् ॥
दूतिकुञ्चिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ५६ ॥
दूत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मि-
न्विषये । दूतौ भवं, दौतेयम् । कौञ्चेयम् । कालशेयम् । वास्तेयम् । आस्ते-
यम् । आहेयमजरं विषम् । अस्तिशब्दः प्रातिपदिकं, न तिङन्तः ॥
ग्रीवाभ्यो ऽण् च ॥ ५७ ॥
ग्रीवाशब्दादण्प्रत्ययो भवति चकाराड्ढञ् च, तत्र भव इत्येतस्मिन्वि-
षये, शरीरावयवात्प्राप्तोऽपवादः । ग्रीवासु भवं, ग्रैवेयम् । ग्रैवम् । ग्रीवाशब्दो
धमनीवचनस्तासां बहुत्वाद्बहुवचनं कृतम् ।
गम्भीराञ्ञ्यः ॥ ५८ ॥
गम्भीरशब्दात् ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अञो-
पवादः । गम्भीरे भवं, गाम्भीर्यम् ॥ बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् ॥ * ॥
बाह्यम् । दैव्यम् । पाञ्चजन्यम् ‡ ॥
- मुखजघनाभ्यां सेनाया अग्रभागपश्चाद्भागावुच्येते इत्याधिकः पाठः कुत्र चित्पुस्तके ।
† उदकात्संज्ञायामित्यस्याग्रे उदक्या रजस्वला । संज्ञायामिति किम् । औदको मत्स्यः ।
इत्याधिकं पुस्तकान्तरे ।
‡ चातुर्मास्यादञो ञ्यो वक्तव्यः ॥ * ॥ चातुर्मास्यानि व्रतानि । चातुर्मास्यो यज्ञः ।
चातुर्मासो ग्रन्थः । इत्याधिकं बहुषु पुस्तकेषु ।
३३६ ॥ काशिका ॥ ४ । ३ ॥
अव्ययीभावाच्च ॥ ५९ ॥
अव्ययीभावसंज्ञकात्प्रातिपदिकाच्च ञ्यः प्रत्ययो भवति तत्र भव इत्येत-
स्मिन्विषये । अणोपवादः । न च सर्वस्मादव्ययीभावाद्भवति, किं तर्हि परि-
मुखादेः, परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनं तेषां विशेषणमव्ययीभा-
वग्रहणम् । परिमुखं भवं, पारिमुख्यम् । पारिहनव्यम् । परिमुखादेरन्यत्र न
भवति । औपकूलम् । परिमुख । परिहनु । पर्योष्ठ । पर्युष्ठू । औपमूल ।
खल । परिसोर । अनुसोर । उपसोर । उपस्थल । उपकलाप । अनुपथ । अनु-
खङ्ग । अनुतिल । अनुशीत । अनुमाष । अनुयव । अनुयूप । अनुवंश * ॥
अन्तःपूर्वपदाट्ठञ् ॥ ६० ॥
अव्ययीभावादित्येव । अन्तःशब्दो विभक्त्यर्थे समस्यते, तत्पूर्वपदाद-
व्ययीभावाट्ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अणोपवादः
आन्तर्वेश्मिकम् । आन्तर्गेहिकम् † ॥ समानशब्दाट्ठञ् वक्तव्यः ॥ * ॥ समाने
भवं सामानिकम् ॥ तदादेश्च ॥ * ॥ समानग्रामिकम् । समानदेशिकम् ।
अध्यात्मादिभ्यश्च ॥ * ॥ आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् ‡ ।
अध्यात्मादिराकृतिगणः ॥ ऊर्ध्वदमाच्च ठञ् वक्तव्यः ॥ * ॥ और्ध्वदमिकः ।
ऊर्ध्वशब्देन समानार्थ ऊर्ध्वदमशब्दः ॥ ऊर्ध्वदेहाच्च ॥ * ॥ और्ध्वदेहिकम् ॥ * ॥
लोकोत्तरपदाच्च ॥ * ॥ ऐहलौकिकम् । पारलौकिकम् ॥ मुखपार्श्वशब्दाभ्यां
तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः ॥ * ॥ मुखतीयम् । पार्श्वतीयम् ॥ जनप-
रयोः कुक्च ॥ * ॥ जनकीयम् । परकीयम् ॥ मध्यशब्दादीयः ॥ * ॥ मध्यीयः ॥
मणमीयौ च प्रत्ययौ वक्तव्यौ ॥ * ॥ माध्यमम् । मध्यमीयम् ॥ मध्यो मध्
दिनण् चास्मात् ॥ * ॥ मध्ये भवं, माध्यन्दिनम् ॥ स्याम्नो लुग्वक्तव्यः ॥ * ॥
आश्वत्थामा ॥ अजिनान्ताच्च ॥ * ॥ वृकाजिनः । सिंहाजिनः ॥
समानस्य तदादेश्च अध्यात्मादिषु चेष्यते ।
ऊर्ध्वदमाच्च देहाच्च लोकोत्तरपदस्य च ॥
मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च ।
ईयः कार्योऽथ मध्यस्य मणमीयौ प्रत्ययो तथा ॥
मध्यो मध्यं दिनण् चास्मात्स्याम्नो लुगजिनात्तथा ॥
ग्रामात्पर्य्यनुपूर्वात् ॥ ६१ ॥
- अनुस्वङ्ग । पुस्तकान्तरे अयं शब्दोऽधिकोऽत्र गणे ।
† आन्तरगारिकम् । इत्यधिकं पुस्तकान्तरे ।
‡ अनुशतिकादीनां चेषूभयपदवृद्धिचरितार्थिकं कुत्र चित् ।
An exact line-by-line transcription of the provided page of the Kāśikā (४ । ३, पृष्ठ ३३७):
अव्ययीभावादित्येव। यामशब्दान्तादव्ययीभावात्परि अनु इत्येवंपूर्वा-
ट्ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये। अणोऽपवादः। पारियामिकः।
आनुयामिकः॥
जिह्वामूलाङ्गुलेश्छः ॥ ६२ ॥
जिह्वामूलशब्दादङ्गुलिशब्दाच्च छः प्रत्ययो भवति तत्र भव इत्येतस्मि-
न्विषये। यतोऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्॥
वर्गान्ताच्च ॥ ६३ ॥
वर्गशब्दान्ताच्च प्रातिपदिकात् छः प्रत्ययो भवति तत्र भव इत्येत-
स्मिन्विषये। यञोऽपवादः। कवर्गीयम्। चवर्गीयम्॥
अशब्दे यत्खावन्तरस्याम् ॥ ६४ ॥
वर्गान्तादित्येव। शब्दादन्यस्मिन्नन्त्ययार्थे वर्गान्तात्प्रातिपदिकादन
३३८ ॥ काशिका ॥ ४ ॥ ३ ॥
रेषान्तोदात्ताः प्रकृतयः। बह्वच इति किम्। द्वयचष्टकं वक्ष्यति। एकाच् प्रत्यु-
दाह्रियते। सौपम्। तैदम्। कार्नम्। अन्तोदात्तादिति किम्। संहितायाः
सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः ॥
ऋतुयज्ञेभ्यश्च ॥ ६८ ॥
ऋतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयो-
रर्थयोष्ठञ् प्रत्ययो भवति। अणोपवादः। ऋतुभ्यस्तावत्। अग्निष्टोमस्य व्या-
ख्यानस्तत्र भवो, वाग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः। पाक-
यज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। ऋतुभ्य इत्येव सिद्धे यज्ञ-
ग्रहणमसामयागेभ्योपि यथा स्यात्, पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं
स्वरूपविधिनिरासार्थम् ॥
अध्यायेष्वर्षेः ॥ ६६ ॥
ऋषिशब्दाः प्रवरनामधेयानि तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोर्थे-
योष्ठञ् प्रत्ययो भवति। अणोपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु।
व्याख्यातव्यनाम इत्यनुवर्तते तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य
व्याख्यानस्तत्र भवो वा वासिष्ठिको ऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति
किम्। वासिष्ठी ऋक् ॥
पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥
पौरोडाशशब्दात्पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो
भवति। पुरोडाशाः पिष्टपिण्डास्तेषां संस्कारको मन्त्रः पौरोडाशस्तस्य व्याख्या-
नस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरो-
डाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। णकारो ङीबर्थः ॥
छन्दसो यद्णौ ॥ ७१ ॥
छन्दःशब्दाद्भवव्याख्यानयोरर्थयोर्यद्णौ प्रत्ययौ भवतः। द्व्यच इति ठकि
प्राप्ते वचनम्। छन्दस्यः। छान्दसः ॥
द्व्यजुद्ब्राह्मणर्चप्रथमध्वरपुरश्चरणना-
माख्याताट्ठक् ॥ ७२ ॥
द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयो-
र्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत्, ऐष्टिकः। पाशुकः।
उकारान्तात्। चातुर्होत्रुकः। पाञ्चहोत्रुकः। ब्राह्मण। ब्राह्मणिकः। ऋक्।
आर्चिकः। प्रथम। प्राथमिकः। अध्वर। आध्वरिकः। पुरश्चरण। पौरश्चर-
॥ काशिका ॥ ४ । ३ ॥ ३३६
ष्णिकः । नामाख्यातग्रहणं संघातविगृहीतार्थम् । नामिकः । चाख्यातिकः ।
नामाख्यातिकः ॥
ऋगयनादिभ्यः ॥ ७३ ॥
ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोर्थयोरण् प्रत्ययो भवति ।
ठञादेरपवादः । आर्गयनः, । पादव्याख्यानः । अण्ग्रहणं बाधकबाधनार्थम् ।
वास्तुविद्याः । ऋगयन । पदव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविचिति ।
न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या ।
उत्पात । उत्पाद । संवत्सर । मुहूर्त्त । निमित्त । उपनिषत् । शिक्षा * । ऋगयनादिः ॥
तत आगतः ॥ ७४ ॥
तत इति पञ्चमीसमर्थादागत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भव-
ति । सुघ्नादागतः सौघ्नः । माथुरः । राष्ट्रियः । तत इति मुख्यमपादानं विव-
क्षितं यत्तदिह गृह्यते, न नान्तरीयकम् । सुघ्नादागच्छन्वृक्षमूलादागत इति ॥
ठगायस्थानेभ्यः ॥ ७५ ॥
आय इति स्वामिग्राह्यो भाग उच्यते स यस्मिन्नुत्पद्यते तदायस्थानम् ।
आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति तत आगत इत्येतस्मि-
न्विषये, अणोपवादः । छं तु परत्वाद्बाधते । शुल्कशालाया आगतः, शौल्क-
शालिकः । आकरिकम् † । बहुवचनं स्वरूपविधिनिरासार्थम् ॥
शुण्डिकादिभ्यो ऽण् ॥ ७६ ॥
शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति तत आगत
इत्येतस्मिन्विषये । आयस्थानठको ऽपवादः । शुण्डिकादागतः, शौण्डिकः ।
कार्कणः । अण्ग्रहणं बाधकबाधनार्थम् । चौदपानः । शुण्डिक । कर्कश । स्थ-
ण्डिल । उदपान । उपल । तीर्थ । भूमि । मुख । पर्ण । शुण्डिकादिः ॥
विद्यायोनिसंबन्धेभ्यो वुञ् ॥ ७७ ॥
विद्यायोनिकृतः संबन्धो येषां ते विद्यायोनिसंबन्धाः । तद्वाचिभ्यः शब्दे-
भ्यो वुञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । अणोपवादः । छं तु पर-
त्वाद्बाधते । विद्यासंबन्धेभ्यस्तावत् । उपाध्यायादागतम्, औपाध्यायकम् । शैष्य-
कम् । आचार्यकम् । योनिसंबन्धेभ्यः । मातामहकः । पैतामहकः । मातुलकः ‡ ॥
- छन्दोविचिती । न्याय । निरुक्त । विद्या । उत्पात । शिक्षा । एते शब्दा अधिक
अत्र गणे पुस्तकान्तरे ।
† नागरिकम् । आपक्तिकम् । इत्यपि कुत्र चित्पुस्तके ।
‡ मातुलक इत्युदाहरणं बहुषु पुस्तकेषु नास्ति ।
३४० ॥ काशिका ॥ ४ ॥ ३ ॥
ऋतष्ठञ् ॥ ७८ ॥
विद्यायोनिसंबन्धेभ्य इत्येव । ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायो-
निसंबन्धवाचिभ्यष्ठञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । वुञोप-
वादः । विद्यासंबन्धवाचिभ्यस्तावत् । होतुरागतं, हौतृकम् । पोतृकम् । योनि-
संबन्धवाचिभ्यः । भ्रातृकम् । स्वसृकम् । मातृकम् । तपरकरणं सुखार्थम् ।
विद्यायोनिभ्यामन्यत्र सावित्रम् ॥
पितुर्यच्च ॥ ७९ ॥
पितृशब्दाद् यत् प्रत्ययो भवति चकाराट्ठञ् च तत आगत इत्येतस्मिन्वि-
षये । पितुरागतं, पित्र्यम् । पैतृकम् ॥
गोत्रादङ्कवत् ॥ ८० ॥
अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते । गोत्रप्रत्यया-
न्तात्प्रातिपदिकादङ्कवत्प्रत्ययविधिर्भवति तत आगत इत्येतस्मिन्विषये । अङ्क-
ग्रहणेन तस्येदम्प्रत्ययसामान्यं लक्ष्यते । तस्माद्वुञतिदिश्यते * नाम्नेव संघाङ्कलक्ष-
णेष्वञ्यञिञामणिति । औपगवानामङ्कः, औपगवकः । कापटवकः । नाडाय-
नकः । चारायणकः । एवमौपगवेभ्य आगतमौपगवकम् । कापटवकम् । नाडा-
यनकम् । चारायणकम् ॥
हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः ॥ ८१ ॥
हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येत-
स्मिन्विषये । मनुष्यग्रहणमहेत्वर्थम् । हेतुः कारणम् । हेतुभ्यस्तावत् । समादा-
गतं, समरूप्यम् । समीयम् । विषमरूप्यम् । विषमीयम् । गहादित्वाच् छः ।
मनुष्येभ्यः । देवदत्तरूप्यम् । यज्ञदत्तरूप्यम् । दैवदत्तम् । याज्ञदत्तम् । बहुवचनं
स्वरूपविधिनिरासार्थम् ॥
मयट् च ॥ ८२ ॥
हेतुभ्यो मनुष्येभ्यश्च मयट् प्रत्ययो भवति तत आगत इत्येतस्मिन्वि-
षये । सममयम् । विषममयम् । मनुष्येभ्यः । देवदत्तमयम् । यज्ञदत्तमयम् ।
टकारो ङीबर्थः । सममयी । योगविभागो यथासंख्यनिरासार्थः ॥
प्रभवति ॥ ८३ ॥
तत इत्येव । पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात्प्रभवतीत्येतस्मिन्विषये
यथाविहितं प्रत्ययो भवति । प्रभवति प्रकाशते प्रथमत उपलभ्यतइत्यर्थः ।
हिमवतः प्रभवति, हैमवती गङ्गा । दारदी सिन्धुः ॥
- गोत्रचरणाद्वुञ् इतीत्यधिकं पुस्तकान्तरे ।
॥ काशिका ॥ ४ । ३ ॥ ३४१
विदूराञ्ञ्यः ॥ ८४ ॥
विदूरशब्दाञ् ञ्यः प्रत्ययो भवति ततः प्रभवतीत्येतस्मिन्विषये। अणो-
पवादः। विदूरात्प्रभवति, वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति न
विदूरात् तत्र तु संस्क्रियते। एवं तर्हि
वालवायो विदूरं च प्रकृत्यन्तरमेव वा।
न वै तथेति चेद्ब्रूयाज्जित्वरीवदुपारेत् ॥
तद्गच्छति पथिदूतयोः ॥ ८५ ॥
तदिति द्वितीयासमर्थाद्गच्छतीत्येतस्मिन्विषये यथाविहितं प्रत्ययो
भवति, योऽसौ गच्छति पन्थाश्चेत्स भवति दूतो वा। स्रुघ्नं गच्छति, स्रौघ्नः
पन्था दूतो वा। माथुरः *। तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते। यद्वा
वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोरिति किम्। स्रुघ्नं गच्छति सार्थः ॥
अभिनिष्क्रामति द्वारम् ॥ ८६ ॥
तदित्येव। द्वितीयासमर्थादभिनिष्क्रामतीत्येतस्मिन्नर्थे यथाविहितं
प्रत्ययो भवति यत्तदभिनिष्क्रामति द्वारं चेद्भवति। आभिमुख्येन निष्क्रामति,
अभिनिष्क्रामति, स्रुघ्नमभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रि-
यम्। द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धं तदिह स्वातन्त्र्येण विवक्ष्यते
यथा साध्वसिश्छिनत्तीति। द्वारमिति किम्। स्रुघ्नमभिनिष्क्रामति पुरुषः ॥
अधिकृत्य कृते ग्रन्थे ॥ ८७ ॥
तदित्येव। अधिकृत्यैतदपेक्ष्य द्वितीया। अधिकृत्य, प्रस्तूय, वागूर्ये-
त्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृतइत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो
भवति यत्तत्कृतं ग्रन्थश्चेत्स भवति। सुभद्रामधिकृत्य कृतो ग्रन्थः, सौभद्रः। गौरि-
मित्रः। यायातः। ग्रन्थइति किम्। सुभद्रामधिकृत्य कृतः प्रासादः ॥ लुबा-
ख्यायिकार्थस्य प्रत्ययस्य बहुलम् ॥ * ॥ वासवदत्तामधिकृत्य कृता ऽऽख्यायिका
वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति, भैमरथी ॥
शिशुक्रन्दयमसभाद्वन्द्वेन्द्रजननादिभ्यश्छः ॥ ८८ ॥
तदित्येव। अधिकृत्य कृते ग्रन्थइति च। शिशुक्रन्दादिभ्यो द्वितीयास-
मर्थेभ्यश्छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे। अणोपवादः। शिशूनां क्रन्दनं
शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः, शिशुक्रन्दीयः। यमस्य सभा यमसभं,
यमसभीयः। द्वन्द्वात्। अग्निकाश्यपीयः। श्येनकपोतीयः। शब्दार्थसम्बन्धीयं
- राष्ट्रिय इत्यधिकमत्र।
[Header] ३४२ ॥ काशिका ॥ ४ ॥ ३ ॥
प्रकरणम् । वाक्यपदीयम् । इन्द्रजननादिभ्यः । इन्द्रजननीयम् । प्रत्युद्भागम-
नीयम् * । इन्द्रजननादिराकृतिगणः प्रयोगतो ऽनुसर्तव्यः, प्रातिपदिकेषु न
पठ्यते ॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ॥ * ॥ दैवासुरम् । राक्षसासुरम् । गौख-
मुख्यम् । इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोपि तत्रैव द्रष्टव्याः ।
प्रपञ्चार्थमेषां ग्रहणम् । एवं सति देवासुरादिप्रतिषेधोपि न वक्तव्यः, ततश्छप्र-
त्ययस्यादर्शनात् ॥
सोस्य निवासः ॥ ८९ ॥
स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्र-
थमासमर्थं निवासश्चेत्स भवति, निवसन्त्यस्मिन्निवासो देश उच्यते । सुघ्नो
निवासो ऽस्य सौघ्नः । माथुरः । राष्ट्रियः ॥
अभिजनश्च ॥ ९० ॥
[L1
भक्तिरित्येतस्मिन्विषये ।
अणोपवादः । महाराजो भक्तिरस्य माहाराजिकः । प्रत्ययान्तरकरणं स्वरार्थम् ॥
वासुदेवार्जुनाभ्यां वुन् ॥ ९८ ॥
वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोस्य भक्तिरित्येतस्मिन्विषये ।
छाञोरपवादः । वासुदेवो भक्तिरस्य वासुदेवकः । अर्जुनकः । ननु वासुदेवशब्दा-
द्गोत्रक्षत्रियाख्येभ्य इति वुञस्त्येव । न चात्र वुन्वुञोर्विशेषो विद्यते किमर्थं
वासुदेवग्रहणम् । संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या । अल्पाच्तरमजाद्य-
दन्तमिति चार्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयत्यभ्यर्हितं पूर्वं निपततीति ॥
- कुलून । दरदा । एतौ शब्दौ पुस्तकान्तरे ऽत्र गणे ऽधिकौ ।
- Verify Line 5:
Wait, in L5:गन्धिका- is itगन्धिकाorगन्धिक्रा?
Let'
३४६ ॥ काशिका ॥ ४ ॥ ३ ॥
चरक इति वैशंपायनस्याख्या तत्संबंधेन सर्वे तदन्तेवासिनश्चरका
इत्युच्यन्ते ॥
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ १०५ ॥
प्रत्ययार्थविशेषणमेतत् । तृतीयासमर्थात्प्रोक्ते णिनिः प्रत्ययो भवति
यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना-
प्रोक्ताः । ब्राह्मणेषु तावत् । भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । कल्पे-
षु । पैङ्गी कल्पः । आरुणपराजी । पुराणप्रोक्तेष्विति किम् । याज्ञवल्कानि
ब्राह्मणानि । आश्मरथः कल्पः । याज्ञवल्क्यादयो ऽचिरकाला इत्याख्यानेषु
वार्त्ता । तया व्यवहरति सूत्रकारः । तद्विषयता कस्मान्न भवति । प्रतिपदं
ब्राह्मणेषु यः प्रत्ययस्तस्य तद्विषयता विधीयते णिनेः । अयं तु याज्ञवल्क्यश-
ब्दस्य कण्वादिषु पाठादण् । न वायं योगश्छन्दोधिकारमनुवर्त्तयति, तेन
कल्पेष्वपि न भवति । पुराणादिति निपातनात्तुड्भावः । न वात्यन्तबाधैव, तेन
पुरातनमित्यपि भवति ॥
शौनकादिभ्यश्छन्दसि ॥ १०६ ॥
शौनक इत्येवमादिभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मि-
न्विषये छन्दस्यभिधेये । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः ।
वाजसनेयिनः । छन्दसीति किम् । शौनकीया शिक्षा । कठशाठ इत्यत्र
पठ्यते । तत्संघातार्थं, केवलात्तु लुकं वक्ष्यति । कठशाठाभ्यां प्रोक्तमधीयते
काठशाठिनः । शौनक । वाजसनेय । साङ्खव । शार्ङ्गरव । सांपेय । शाखेय ।
खाडायन । स्कन्ध । स्कन्द । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशाठ ।
कशाय । तलवकार । पुरुषासक । आश्वपेय । शौनकादिः * ॥
कठचरकाल्लुक् ॥ १०७ ॥
कठचरकशब्दाभ्यां परस्य प्रोक्तप्रत्ययस्य लुग्भवति । कठशब्दाद्वैशंपाय-
नान्तेवासिभ्य इति णिनेश्चरक शब्दादण्यणः । कठेन प्रोक्तमधीयते कठाः ।
चरकाः । छन्दसीत्येव । काठाः । चारकाः † ॥
कलापिनो ऽण् ॥ १०८ ॥
कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन्विषये । वैशं-
पायनान्तेवासित्वाण्णिनेरपवादः । कलापिना प्रोक्तमधीयते कालापाः । इन-
ण्यनपत्यइति प्रकृतिभावे प्राप्ते, नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापि-
- स्कम्भ । अयं पुस्तकान्तरे ऽत्र गणेधिकः ।
† श्लोका इत्यधिकं कुत्र चित् ।