काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 343, कुल 828 में से
संदर्भ में पढ़ें३३८ ॥ काशिका ॥ ४ ॥ ३ ॥
रेषान्तोदात्ताः प्रकृतयः। बह्वच इति किम्। द्वयचष्टकं वक्ष्यति। एकाच् प्रत्यु-
दाह्रियते। सौपम्। तैदम्। कार्नम्। अन्तोदात्तादिति किम्। संहितायाः
सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः ॥
ऋतुयज्ञेभ्यश्च ॥ ६८ ॥
ऋतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयो-
रर्थयोष्ठञ् प्रत्ययो भवति। अणोपवादः। ऋतुभ्यस्तावत्। अग्निष्टोमस्य व्या-
ख्यानस्तत्र भवो, वाग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः। पाक-
यज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। ऋतुभ्य इत्येव सिद्धे यज्ञ-
ग्रहणमसामयागेभ्योपि यथा स्यात्, पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं
स्वरूपविधिनिरासार्थम् ॥
अध्यायेष्वर्षेः ॥ ६६ ॥
ऋषिशब्दाः प्रवरनामधेयानि तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोर्थे-
योष्ठञ् प्रत्ययो भवति। अणोपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु।
व्याख्यातव्यनाम इत्यनुवर्तते तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य
व्याख्यानस्तत्र भवो वा वासिष्ठिको ऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति
किम्। वासिष्ठी ऋक् ॥
पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥
पौरोडाशशब्दात्पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो
भवति। पुरोडाशाः पिष्टपिण्डास्तेषां संस्कारको मन्त्रः पौरोडाशस्तस्य व्याख्या-
नस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरो-
डाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। णकारो ङीबर्थः ॥
छन्दसो यद्णौ ॥ ७१ ॥
छन्दःशब्दाद्भवव्याख्यानयोरर्थयोर्यद्णौ प्रत्ययौ भवतः। द्व्यच इति ठकि
प्राप्ते वचनम्। छन्दस्यः। छान्दसः ॥
द्व्यजुद्ब्राह्मणर्चप्रथमध्वरपुरश्चरणना-
माख्याताट्ठक् ॥ ७२ ॥
द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयो-
र्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत्, ऐष्टिकः। पाशुकः।
उकारान्तात्। चातुर्होत्रुकः। पाञ्चहोत्रुकः। ब्राह्मण। ब्राह्मणिकः। ऋक्।
आर्चिकः। प्रथम। प्राथमिकः। अध्वर। आध्वरिकः। पुरश्चरण। पौरश्चर-