काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 330, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । २ ॥ ३२५
गहादिभ्यश्च ॥ १३८ ॥
गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः। अञो-
रपवादः * । गहीयः । अन्तःस्थीयः । देशाधिकारेऽपि संभवापेक्षं विशेषणं न सर्वे-
षाम् । मध्यमध्यमं चाण् चरणइति पठ्यते, तस्यायमर्थः । मध्यशब्दः प्रत्ययसन्नि-
योगेन मध्यममापद्यते । मध्यमीयाः । चरणे तु प्रत्ययार्थे ऽण् भवति, माध्यमो
दिति । तदेतद्विशेषएव स्मर्यते पृथिवीमध्यस्य मध्यमभावः । चरणसंबन्धेन निवा-
सलक्षणो ऽणिति च ॥ मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् ॥ कुग्ज-
नस्य परस्य च ॥ * ॥ जनकीयम् । परकीयम् ॥ देवस्य चेति वक्तव्यम् ॥ * ॥ देव-
कीयम् ॥ वेणुकादिभ्यश्छण्वक्तव्यः ॥ आकृतिगणोयम् । वेणुकीयम् । वैणुकी-
यम् । औत्तरपदकीयम् । प्रास्थकीयम् †। माध्यमकीयम् । गह अन्तःस्थ । सम ।
विषम ॥ मध्यमध्यमं चाण्चरणे ॥ उत्तम । अङ्गु । वङ्गु । मगध । पूर्वपक्ष । अपर-
पक्ष । अधमशाख । उत्तमशाख । समानशाख । एकयाम । एकवृत्त । एकपलाश ।
इष्वग्र । इष्वनी ‡ । शवस्यन्दी § । कामप्रस्थ । खाडायनि ॥ । कावेरणि ¶ ।
जैह्विरि । शौङ्गि । आसुरि । आर्हंसि । आमिचि । व्याडि । वैदजि । भौजि ।
बाहुश्र्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन् । देवशर्मन् । श्रौति ।
आरटकि । वाल्मीकि । चेमवृद्धित् । उत्तर । अन्तर ॥ मुखपार्श्वतसोर्लोपः ॥
जनपरयोः । कुक् च ॥ देवस्य च ॥ वेणुकादिभ्यश्छण् ॥ गहादिः ॥
प्राचां कटादेः ॥ १३६ ॥
देशइत्येव । तद्विशेषणं प्राग्ग्रहणम् । प्राग्देशवाचिनः कटादेः प्रातिप-
दिकाच् छः प्रत्ययो भवति शैषिकः । अञोपवादः । कटनगरीयम् । कटघो-
षीयम् । कटपल्लवीयम् ॥
राज्ञः क च ॥ १४० ॥
असंभावाद्देशाधिकारो न विशेषणम् । राज्ञः ककारश्चान्तादेशो भवति
छश्च प्रत्ययः । राजकीयम् । आदेशमात्रमिह विधेयं प्रत्ययस्तु वृद्धाच्छ इत्येव
सिद्धः ॥
वृद्धादकेकान्तखोपधात् ॥ १४१ ॥
- अञादेरण्बाधः । पा० २ ।
† प्रास्थीयम् । पा० २ ।
‡ इष्वनीक । पा० २ ।
§ शवस्कन्द । पा० २ ।
॥ खाण्डायनी । पा० २ ।
¶ कामवेरणि । पा० २ ।