सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 344, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 344

॥ काशिका ॥ ४ । ३ ॥ ३३६
ष्णिकः । नामाख्यातग्रहणं संघातविगृहीतार्थम् । नामिकः । चाख्यातिकः ।
नामाख्यातिकः ॥
ऋगयनादिभ्यः ॥ ७३ ॥
ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोर्थयोरण् प्रत्ययो भवति ।
ठञादेरपवादः । आर्गयनः, । पादव्याख्यानः । अण्ग्रहणं बाधकबाधनार्थम् ।
वास्तुविद्याः । ऋगयन । पदव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविचिति ।
न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या ।
उत्पात । उत्पाद । संवत्सर । मुहूर्त्त । निमित्त । उपनिषत् । शिक्षा * । ऋगयनादिः ॥
तत आगतः ॥ ७४ ॥
तत इति पञ्चमीसमर्थादागत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भव-
ति । सुघ्नादागतः सौघ्नः । माथुरः । राष्ट्रियः । तत इति मुख्यमपादानं विव-
क्षितं यत्तदिह गृह्यते, न नान्तरीयकम् । सुघ्नादागच्छन्वृक्षमूलादागत इति ॥
ठगायस्थानेभ्यः ॥ ७५ ॥
आय इति स्वामिग्राह्यो भाग उच्यते स यस्मिन्नुत्पद्यते तदायस्थानम् ।
आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति तत आगत इत्येतस्मि-
न्विषये, अणोपवादः । छं तु परत्वाद्बाधते । शुल्कशालाया आगतः, शौल्क-
शालिकः । आकरिकम् † । बहुवचनं स्वरूपविधिनिरासार्थम् ॥
शुण्डिकादिभ्यो ऽण् ॥ ७६ ॥
शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति तत आगत
इत्येतस्मिन्विषये । आयस्थानठको ऽपवादः । शुण्डिकादागतः, शौण्डिकः ।
कार्कणः । अण्ग्रहणं बाधकबाधनार्थम् । चौदपानः । शुण्डिक । कर्कश । स्थ-
ण्डिल । उदपान । उपल । तीर्थ । भूमि । मुख । पर्ण । शुण्डिकादिः ॥
विद्यायोनिसंबन्धेभ्यो वुञ् ॥ ७७ ॥
विद्यायोनिकृतः संबन्धो येषां ते विद्यायोनिसंबन्धाः । तद्वाचिभ्यः शब्दे-
भ्यो वुञ् प्रत्ययो भवति तत आगत इत्येतस्मिन्विषये । अणोपवादः । छं तु पर-
त्वाद्बाधते । विद्यासंबन्धेभ्यस्तावत् । उपाध्यायादागतम्, औपाध्यायकम् । शैष्य-
कम् । आचार्यकम् । योनिसंबन्धेभ्यः । मातामहकः । पैतामहकः । मातुलकः ‡ ॥


  • छन्दोविचिती । न्याय । निरुक्त । विद्या । उत्पात । शिक्षा । एते शब्दा अधिक
    अत्र गणे पुस्तकान्तरे ।
    † नागरिकम् । आपक्तिकम् । इत्यपि कुत्र चित्पुस्तके ।
    ‡ मातुलक इत्युदाहरणं बहुषु पुस्तकेषु नास्ति ।