काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 339, कुल 828 में से
संदर्भ में पढ़ें३३४ ॥ काशिका ॥ ४ । ३ ॥
तत्रेत्येव, कालादिति च। सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्देय-
मित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्देयमृणं चेत्तद्भवति। मासे देयमृणं,
मासिकम्। आर्द्धमासिकम्। सांवत्सरिकम्। ऋणइति किम्। मासे देया भिक्षा॥
कलाप्यश्वत्थयवबुसाद्वुन् ॥ ४८ ॥
कालादित्येव। कलापि अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्त-
मीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः
साहचर्यात्काले वर्तन्ते। यस्मिन्काले मयूराः कलापिनो भवन्ति स कलापी।
यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन्यवबुसं संपद्यते स यवबुसशब्देनो-
च्यते। कलापिनि काले देयमृणं, कलापकम्। अश्वत्थकम्। यवबुसकम्॥
ग्रीष्मावरसमाद्वुञ् ॥ ४९ ॥
ग्रीष्मावरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयमृणइत्येतस्मिन्नर्थे
अण्ठञोरपवादः। ग्रीष्मे देयमृणं, ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं
वृद्धयर्थम्। समाशब्दो वर्षपर्यायः॥
संवत्सराग्रहायणीभ्यां ठञ् ॥ ५० ॥
संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद्वुञ् च देयमृण-
मित्येतस्मिन्नर्थे। संवत्सरे देयमृणं, सांवत्सरिकम्। सांवत्सरकम्। आग्रहाय-
णिकम्। आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु संवत्सरात्फ-
लपर्वणोरिति पठ्यते, तत्र फले छ्प्रत्ययेन विवक्षिते ऽणं बाधित्वा ठञेव यथा
स्यादिति॥
व्याहरति मृगः ॥ ५१ ॥
तत्रेत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात्प्रातिपदिकाद्
व्याहरति मृग इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति। निशायां व्याह-
रति मृगः, नैशः। नैशिकः। प्रादोषः। प्रादोषिकः। मृग इति किम्।
निशायां व्याहरत्युलूकः॥
तदस्य सोढम् ॥ ५२ ॥
कालादित्येव। तदिति प्रथमासमर्थात्कालवाचिनः प्रातिपदिकादस्येति
षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं सोढञ्चेत्तद्भवति, सोढं
जितमभ्यस्तमित्यर्थः। निशासहचरितमध्ययनं निशा, तत्सोढमस्य छात्रस्य,
नैशः। नैशिकः। प्रादोषः। प्रादोषिकः॥
तत्र भवः ॥ ५३ ॥
कालादिति निवृत्तम्। तत्रेति सप्तमीसमर्थाद् ड्याप्प्रातिपदिकाद्भव