काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 331, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 331
३२६ ॥ काशिका ॥ ४ ॥ २ ॥
देशइत्येव । वृद्धाद्देशवाचिनो ऽक इक इत्येवमन्तात् खकारोपधाच्च
प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः । कोपधलक्षणस्याणोपवादः । वाही-
कग्रामलक्षणस्य च प्रत्ययस्य रोषधेतोः प्राचामिति च । अकान्तात्तावत् ।
आरोहणकीयम् । द्रौघणकीयम् । इकान्तात् । आश्वपथिकीयम् । शाल्मलि-
कीयम् । खोपधात् । कौटिशिखीयम् । त्रायोमुखीयम् ॥ अकेकान्तग्रहणे कोपध-
ग्रहणं सौसुकाद्यर्थम् ॥ * ॥ सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥
कन्यापलदनगरग्रामह्रदोत्तरपदात् ॥ १४२ ॥
देशइत्येव, वृद्धादिति च । कन्याद्युत्तरपदाद्देशवाचिनो वृद्धात्प्रातिप-
दिकात् छः प्रत्ययो भवति शैषिकः । वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः ।
दात्तिकन्तीयम् । माह