काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 340, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । ३ ॥ ३३५
इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सत्ता भवत्यर्थो गृह्यते न जन्म,
तत्र जात इति गतार्थत्वात् । स्रुघ्ने भवः, सौघ्नः । माथुरः । राष्ट्रियः । पुन-
स्तत्रग्रहणं तदस्येति निवृत्त्यर्थम् ॥
दिगादिभ्यो यत् ॥ ५४ ॥
दिग् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत्प्रत्ययो भवति तत्र भव इत्येत-
स्मिन्विषये । अणाञ्छस्य चापवादः । दिशि भवं, दिश्यम् । वर्ग्यम् । मुखजघन-
शब्दयोश्शरीरावयवार्थः पाठः, सेनामुख्यं, सेनाजघन्यमिति * । दिग् । वर्ग ।
पूग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक ।
उखा । साक्षिन् । आदि । अन्त । मुख । जघन । मेध । यूथ ॥ उदकात्संज्ञायाम् † ॥
न्याय । वंश । अनुवंश । विश । काल । कूप । आकाश । दिगादिः ॥
शरीरावयवाच्च ॥ ५५ ॥
शरीरं प्राणिकायः । शरीरावयववाचिनः प्रातिपदिकाद् यत्प्रत्ययो
भवति तत्र भव इत्येतस्मिन्विषये । अञोऽपवादः । दन्तेषु भवं, दन्त्यम् ।
कण्ठ्यम् । ओष्ठ्यम् ॥
दूतिकुञ्चिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ५६ ॥
दूत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मि-
न्विषये । दूतौ भवं, दौतेयम् । कौञ्चेयम् । कालशेयम् । वास्तेयम् । आस्ते-
यम् । आहेयमजरं विषम् । अस्तिशब्दः प्रातिपदिकं, न तिङन्तः ॥
ग्रीवाभ्यो ऽण् च ॥ ५७ ॥
ग्रीवाशब्दादण्प्रत्ययो भवति चकाराड्ढञ् च, तत्र भव इत्येतस्मिन्वि-
षये, शरीरावयवात्प्राप्तोऽपवादः । ग्रीवासु भवं, ग्रैवेयम् । ग्रैवम् । ग्रीवाशब्दो
धमनीवचनस्तासां बहुत्वाद्बहुवचनं कृतम् ।
गम्भीराञ्ञ्यः ॥ ५८ ॥
गम्भीरशब्दात् ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अञो-
पवादः । गम्भीरे भवं, गाम्भीर्यम् ॥ बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् ॥ * ॥
बाह्यम् । दैव्यम् । पाञ्चजन्यम् ‡ ॥
- मुखजघनाभ्यां सेनाया अग्रभागपश्चाद्भागावुच्येते इत्याधिकः पाठः कुत्र चित्पुस्तके ।
† उदकात्संज्ञायामित्यस्याग्रे उदक्या रजस्वला । संज्ञायामिति किम् । औदको मत्स्यः ।
इत्याधिकं पुस्तकान्तरे ।
‡ चातुर्मास्यादञो ञ्यो वक्तव्यः ॥ * ॥ चातुर्मास्यानि व्रतानि । चातुर्मास्यो यज्ञः ।
चातुर्मासो ग्रन्थः । इत्याधिकं बहुषु पुस्तकेषु ।