सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 337, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 337

३३२ ॥ काशिका ॥ ४ । ३ ॥
सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येत-
स्मिन्विषये । पूर्वेण कनि प्राप्ते वचनम् । सैन्धवः । आपकरः ॥
श्रविष्ठा फल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशा-
खाषाढाबहुलाल्लुक् ॥ ३४ ॥
श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग्भवति । तस्मिं-
स्त्रोप्रत्ययस्यापि लुक्तद्धितलुकीति भवति । श्रविष्ठासु जातः, श्रविष्ठः । फल्गु-
नः । अनुराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । आषाढः ।
बहुलः ॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ॥ * ॥ चित्रा-
यां जाता, चित्रा । रेवती । रोहिणी । स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वात्
ङीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ ॥ * ॥ फल्गुनी ॥ अषाढा ॥ श्रविष्ठा-
षाढाभ्यां छणपि वक्तव्यः ॥ * ॥ श्राविष्ठीयः । आषाढीयः ॥
स्थानान्तगोशालखरशालाच्च ॥ ३५ ॥
स्थानान्तात्प्रातिपदिकाद् गोशालशब्दात्खरशालशब्दाच्चातार्थे प्रत्य-
यस्य लुग्भवति । गोस्थाने जातः, गोस्थानः । अश्वस्थानः । गोशालः । खरशालः ॥
वत्सशालाभिजिदश्वयुक्शतभिषजो वा ॥ ३६ ॥
वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति । वत्सशा-
लायां जातः, वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् ।
आश्वयुजः । शतभिषक् । शातभिषजः । बहुलग्रहणस्यायं प्रपञ्चः ॥
नक्षत्रेभ्यो बहुलम् ॥ ३७ ॥
नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग्भवति । रोहिणः ।
रौहिणः । मृगशिराः । मार्गशीर्षः ॥
कृतलब्धक्रीतकुशलाः ॥ ३८ ॥
तत्रेत्येव । सप्तमीसमर्थात्कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति
स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा, स्रौघ्नः । माथुरः । राष्ट्रियः ।
ननु च यदत्र कृतं जातमपि तत्र भवति यच्च यत्र क्रीतं लब्धमपि त