सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 348, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 348

भक्तिरित्येतस्मिन्विषये ।
अणोपवादः । महाराजो भक्तिरस्य माहाराजिकः । प्रत्ययान्तरकरणं स्वरार्थम् ॥
वासुदेवार्जुनाभ्यां वुन् ॥ ९८ ॥
वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोस्य भक्तिरित्येतस्मिन्विषये ।
छाञोरपवादः । वासुदेवो भक्तिरस्य वासुदेवकः । अर्जुनकः । ननु वासुदेवशब्दा-
द्गोत्रक्षत्रियाख्येभ्य इति वुञस्त्येव । न चात्र वुन्वुञोर्विशेषो विद्यते किमर्थं
वासुदेवग्रहणम् । संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या । अल्पाच्तरमजाद्य-
दन्तमिति चार्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयत्यभ्यर्हितं पूर्वं निपततीति ॥

  • कुलून । दरदा । एतौ शब्दौ पुस्तकान्तरे ऽत्र गणे ऽधिकौ ।
  1. Verify Line 5:
    Wait, in L5: गन्धिका - is it गन्धिका or गन्धिक्रा?
    Let'