सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

स्वप्नाज्जागरणाच्चैव न व्याधिरुपजायते ॥
तेऽरण्याद्ग्राममानीता भयशोकक्लमन्विताः ॥ १९७ ॥
उद्विग्ना वधबन्धाभ्यां शोचन्तो धेनुभिर्विना ॥
तीक्ष्णाभिर्वाग्भिरुग्राभिस्तथैव भृशमर्दिताः ॥ १९८ ॥
अकामाशनयानैश्च योज्यमाना मतङ्गजाः ॥
दुःस्थानशयनाभ्यां च कर्मभिश्चातिपीडिताः ॥ १९९ ॥
स्वयोनिभ्यो निरोधाप भवन्ति भृशमातुराः ॥
साध्यैर्याप्यैस्त्वसाध्यैश्च व्याधिभिश्च शरीरजैः ॥ २०० ॥
ततोऽहमिह संप्राप्तस्त्वयाऽऽनीतेषु हस्तिषु ॥
विज्ञप्तो गौरवैरर्थैस्तथैवाऽऽमन्त्रितस्त्वया ॥ २०१ ॥
बन्धुस्नेहाच्च नागानां त्वया दृष्टोऽस्मि पार्थिव ॥
इति ब्रुवाणं तं विप्रं गजशास्त्रविशारदम् ॥ २०२ ॥
विज्ञायागोचरैर्र्यैर्न्यमन्त्रयत सान्त्वयन् ॥
मम त्वनुग्रहार्थं च वासेऽस्मिन्क्रियतां मतिः ॥ २०३ ॥
ऋषिभिश्च स तैः सर्वैरर्च्यमानो नृपेण च ॥
बन्धुस्नेहाच्च नागानां तत्र वासे मनो दधे ॥ २०४ ॥
आश्रमं कारयामास चम्पाभ्यासे च पार्थिवः ॥
अप्सरोभिः समाकीर्णं दंम्यमानगजाकुलम् ॥ २०५ ॥
वासाय कृतबुद्धिश्च मुनिमध्ये महामुनिः ॥
वारणानां हितार्थाय राजानमिदमब्रवीत् ॥ २०६ ॥
अण्डे किल समुत्पन्ना वारेणाः पूर्वकालिकाः ॥
तच्चाण्डं तेजसं प्रोक्तमतः क्रीडन्ति पांशुभिः ॥ २०७ ॥
मार्तण्डकायशकलैस्तदण्डमभवत्किल ॥
तस्मादैरावतः श्रीमानुत्पन्नः प्रथमो गजः ॥ २०८ ॥
पुण्डरीकादयः पश्चात्कपालशकलेऽभवन् ॥
तेजसीं तनुमिच्छन्ति नागानां भूतचिन्तकाः ॥ २०९ ॥
तच्चाण्डमर्कतनुजैर्जातं तन्मयमेव चं ॥
समानजन्मयोनित्वादिह तस्मान्मतङ्गजाः ॥ २१० ॥


१ ख. ०तान् ॥ १९७ ॥ २ क. शोचते । ३ क. ०स्थानाश० । ४ क.
०थैवमभित० । ५ क. दृष्टोऽस्मि । ६ क. च साचेस्मि० । ७ क. पार्थिव । ८ ग.
०जा वञ्चनुम० । ९ क. ०रणायोर्थका० । १० ख. नु । ग. तु ।

१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । १७
पांशुकर्दमतोयेषु ततः क्रीडन्ति हर्षिताः ॥
*धातुप्रसादं क्षिप्रं तु क्रीडतां जायतेऽधिकम् ॥ २११ ॥
धातुप्रसादादारोग्यमारोग्याद्बलमेव च ॥
बलाच्च सर्वरोगाणां निवृत्तिः स्यादतः परम् ॥ २१२ ॥
विशेषेण रणे तस्माद्गजस्कन्धहता नराः ॥
निर्मलाः स्वर्गमापान्ति येऽपि स्युः पापयोनयः ॥ २१३ ॥
जन्मप्रभृति संतप्ता भास्करस्यापि तेजसा ॥
अतः सलिलमिच्छन्ति दह्यमाना मुहुर्मुहुः ॥ २१४ ॥
हस्तिनामुदकं प्राणास्तद्रतिस्तत्परायणाः ॥
तस्मात्सलिलमेतेषां कामतोऽनुप्रसादयेत् ॥ २१५ ॥
आयोजनशतं सार्धं विचरन्तोऽपि कुञ्जराः ॥
निर्वहन्ति न सीदन्ति सलिलेनैव केवलम् ॥ २१६ ॥
यदा न परिषिच्यन्ते कर्दमोदकशीकरैः ॥
भवन्ति कुष्ठिनोऽन्धाश्च हस्तिनस्तेन हेतुना ॥ २१७ ॥
सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः ॥
हस्ताभ्यां परिगृह्याऽऽदौ सप्त सामान्यगायत ॥ २१८ ॥
गायतो ब्रह्मणस्तस्य समुत्पन्ना मतङ्गजाः ॥
तस्माद्धितार्थं देवानां यज्ञानां रक्षणाय च ॥ २१९ ॥
ततो निमित्तं नागानां सृष्टिर्धर्मात्मिका स्मृता ॥
निबन्ध्यास्तावदेवैते यावच्छक्यास्तु पोषितुम् ॥ २२० ॥
वधबन्धपरिक्लेशैर्ये तु ताम्यन्ति नित्यशः ॥
न च पुष्यन्ति मातङ्गा दुःखशोकसमन्विताः ॥ २२१ ॥
कुलं राज्ञो दहन्त्येते मानिता निर्दहन्त्यरीन् ॥
तस्मात्प्रयत्नः कर्तव्यो ग्रहणे पोषणे सदा ॥ २२२ ॥
राज्ञां हि विजयो नित्यं वारणेषु प्रतिष्ठितः ॥
अस्नातपीतभुक्तेषु वारणेषु नराधिपः ॥ २२३ ॥
ने स्नानभोजने कुर्याद्यदीच्छेद्वृतिमात्मनः ॥
नवग्रहे च मातङ्गे क्षीणे वृद्धे तथाऽऽतुरे ॥ २२४ ॥

  • 'धातुप्रसादः' इति तूचितम् ।
    १ ख. ग. ॰प्रदापये॰ । २ क. विवहन्ति । ३ क. कन्दमो॰ । ४ क. ॰न्ध्यास्तव
    दे॰ । ५ क. पोयितुम् । ६ कपुस्तकटिप्पण्याम्-तस्माद्भुक्तपीतेषु न भुञ्जीत नराधिपः ।
    ३ 4365

३८ पालकाप्यमुनिविरचितो- [१ महारोगस्थाने-
यत्नतो रक्षणं कुर्यात्स्वयमन्वेषणं तथा ॥
अन्नपानैश्च विविधैर्विचित्रैर्यवसेरपि ॥ २२५ ॥
स्थानेषु तु विचित्रेषु पोष्यमानास्त्वया गजाः ॥
१निर्वृत्ताश्च भविष्यन्ति सुखं प्राप्स्यन्ति च श्रियाम् ॥ २२६ ॥
भविष्यन्ति च ते नित्यं युद्धेषु विजयावहाः ॥
तस्मादिह महीपाल कुरु हस्तिषु मन्मतम् ॥ २२७ ॥
*२विधाप्रतिविधानेश्च यवसेः ३पङ्कवेरपि ॥
मच्छास्त्रे वर्तमानस्य बलवन्तो निरामयाः ॥ २२८ ॥
दीर्घमायुरवाप्स्यन्ति गजास्तव विशां पते ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽ४ङ्गेन प्रचोदितः ॥ २२९ ॥
इति पुरुषवराय सम्यगाह
मुनिगणमध्यगतः स चाऽऽत्मनः स्वरूपम् ॥
वदन्ति †मुनयो वरं स्वजन्म
नाम श्रुतमखिलं च संगतिम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
वनानुचरितो नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
५अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अरण्येषु चिता नागास्तृणौषधिफलाशनाः ॥ १ ॥
६वल्लीमूलत्वगाहोरा भक्षयन्ति कदंगरान् ॥
स्वच्छन्दतः ७पांसुंघातान्निषेवन्तश्च कर्दमान् ॥ २ ॥
सेवमानाश्च सलिलं प्रकर्षन्तश्च ८पद्मिनीम् ॥
९वृक्षभङ्गान्निषेवन्ते सहिताश्च करेणुभिः ॥ ३ ॥

  • ‘विधा गजासने रुद्धौ प्रकारे वेतने विधौ’ इति मेदिनी ।
    † त्रिष्वपि पुस्तकेषु ‘न्मन्यंति’ इति पाठ उपलब्धः ।
  • १ क. निवृत्ताश्च । २ क. विधिप्र० । ३ ख. ॰वेदे प्र० । ४ ख. ग. आङ्गो ।
    ५ ख. ग. ॰प्येऽपृच्छि॰ । ६ ख. ॰हारी भ॰ । ७ ग. ॰शुवाता॰ । ८ क. पद्मिनाम् ।

२ अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । १९
सुखाहारप्रचारांस्तान्वनवाससुखोचितान् ॥ १
अरण्याद्ग्राममानीतान्कथं सम्यगुपाचरेत् ॥ ४ ॥
भोजने रसपानेश्च यवसेनोदकेन च ॥
कथं न जायते व्याधिरिति भुक्तेन दन्तिनाम् ॥ ५ ॥
एतन्मे पृच्छतो ब्रूहि गजानां कुशलो ह्यसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ६ ॥
बद्धाः सन्तस्तु मातङ्गा वने स्वैरसुखोचिताः॥
अपि दीर्घायुषो भूत्वा दुःखेः शारीरमानसैः ॥ ७ ॥
न सर्व एव राजेन्द्र प्राणान्धारयितुं क्षमाः ॥
या वने निर्वृतिस्तेषां सा पुनर्जन्मनामसौ ॥ ८ ॥
न जातिजं नान्वयजं न प्रचारवनोद्भवम् ॥
लक्षणं महदल्पं वा शुद्धं संकीर्णमेत्य च ॥ ९ ॥
आघातवधबन्धेभ्यः प्राणान्धारयितुं क्षमाः ॥
तस्माद्वैद्यैर्महामात्रैर्यथाशास्त्रोपचारतः ॥ १० ॥
बन्धने प्राणसंदेहे परिरक्ष्याः प्रयत्नतः ॥
राज्ञा चैषां च कर्तव्यो दयापूर्वमनुग्रहः ॥ ११ ॥
उचितो वनवासे यस्तस्यालाभेन दन्तिनाम् ॥
दोषाः कुप्यन्त्यसात्म्यत्वादपूर्वस्येह भोजनात् ॥ १२ ॥
पुष्कलां वा विधां लब्ध्वा पुनस्तान्न लभन्ति चेत् ॥
लाभालाभेन नागानामयोगाच्च महीपते ॥ १३ ॥
अभोजनादत्यशनाद्दुःस्थानशपनादपि ॥
अकामाशनपानाच्च बन्धेन च वधेन च ॥ १४ ॥
लवणस्यातियोगाच्च तथा ह्यलवणेन च ॥
एतेस्तु रोगा जायन्ते दोषकोपसमुद्भवाः ॥ १५ ॥
वातिकाः पैत्तिकाश्चैव 'श्लैष्मिकाः सांनिपातिकाः ॥
तस्मादरण्यादानीतान्नागान्सम्यगुपाचरेत् ॥ १६ ॥
खरैरुष्ट्रैर्मनुष्यैश्च वाहयेदुदकं नृपैः ॥
द्रोणीभिश्चक्रयुक्ताभिः पाययेच्च मतङ्गजान् ॥ १७ ॥
१ क. ग. ॰चारास्ता॰। २ क. भूयूः । ३ क. परिरक्षा । ४ क. ॰स्थानाश॰।
५ क. अकामाशनयोनेद्वे । ६ क. श्लेष्मकाः । ७ क. नृप ।

२० पालकाप्यमुनिविरचितो— [१ महारोगस्थाने-
जलयन्त्रैश्च शीतेन जलेन परिषेचयेत् ॥
आकर्णमूलात्सलिलेः प्रोतरेतान्प्रवेशयेत् ॥ १८ ॥
शीतसात्म्यतया नित्यमेते हि वनजं सुखम् ॥
न स्मरन्ति महाराज ग्लान्यादिश्चोपशाम्यति ॥ १९ ॥
दिवाऽर्धप्रहरे शेषे मृदुभूते दिवाकरे ॥
तस्मादुत्तार्य सलिलाच्छनैरुत्तारयेद्द्रजान् ॥ २० ॥
ततः स्तम्भनिबद्धानां शतधौतेन सर्पिषा ॥
सर्वसेकः प्रदातव्यो वारणानां नराधिप ॥ २१ ॥
दिनान्ते त्वरितं दद्यात्सर्पिषा सह यावकान् ॥
वर्जयित्वा शरद्ग्रीष्मौ सेकांस्त्रीन्सार्वकालिकान् ॥ २२ ॥
ऊर्ध्वं कृताभिषेकेभ्यो दद्याद्यावदभीप्सितम् ॥
गजस्पोक्तेन विधिना सेकांस्तैलेन पाक्षिकान् ॥ २३ ॥
कौलेन यन्ता नागस्य हरेदम्बु शनैः शनैः ॥
निरुद्धांश्च ततो नागान्स्थापयेद्वसुधातले ॥ २४ ॥
नीरुजं तु ततो नागं वैद्यः सम्यगुपाचरेत् ॥
यथा दोषा न कुप्यन्ति तथा तेषां विशेषतः ॥ २५ ॥
वेक्ष्यते हि यथा तेषां ग्रहणी दीप्तिमाप्नुयात् ॥
कडंगरैर्वेणुभागैः पल्लवैर्यवसैस्तथा ॥ २६ ॥
मृणालेक्ष्वावशेषैश्च तथाऽन्यैर्मधुरैरपि ॥
ग्रहणीमुचितामेतैर्निरुणद्धि न मारुतः ॥ २७ ॥
यथाऽग्निवर्णवयसां योगवित्समुपाचरेत् ॥
शय्यायां तु यदा गच्छेत्सुखं निद्रां मतङ्गजः ॥ २८ ॥
तदा तस्मै प्रदातव्या गुडमिश्रास्तु तन्दुलाः ॥
पलं पलं वर्धयेत यावच्च कुडवो भवेत् ॥ २९ ॥

  • 'त्सलिले' इत्युचितम् ।
    १ ख. प्रारतेता० । २ ग. ख. स्तम्भे नि० । ३ क. ख. दिनान्तरे तं यवो
    दद्यात्प्राज्येन सर्पिषा सह । ख. पुस्तके शोधितः पाठः द्विदिनान्तरितं पश्चाद्दद्यात्प्रा-
    ज्येन सर्पिषा । ४ ग. काले नियन्ता । ५ ग. तान्निरुद्धांस्ततो । ६ क. विवक्ष्यते ।
    ७ ख. ०विशैश्चैव त० । ८ ख. ग. ०रसैः । ग्र० । ९ क. ग. ०मेति निरु० ।
    १० क. प्रकर्तव्या । ११ ख. वर्धयेत्तु ।

२ अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । २१
ततो द्विगुणिता वृद्धिस्तन्दुलानां गुडस्य च*॥
अतस्त्रिगुणितं देयं दद्याद्वाऽपि चतुर्गुणम् ॥ ३० ॥
अनेन क्रमयोगेन वर्धयेदासमाप्तितः ॥
तन्दुलान्गुडसंयुक्तानुपनाह्य प्रदापयेत् ॥
तेनास्य दीप्यते वह्निर्बलं तेजश्च जायते ॥ ३१ ॥
तन्दुलाँल्लवणं चैव उपनाह्य प्रदापयेत् ॥
एतेन वर्धते वह्निर्बलं तेजश्च जायते ॥ ३२ ॥
तन्दुलोंन्मूत्रसंसृष्टानुपनाह्य प्रदापयेत् ॥
एतेन वायुर्ग्रहणीमुचितां निरुणद्धि न ॥ ३३ ॥
कुल्माषमेदकं चैव गुडयुक्तं प्रदापयेत् ॥
एतेन दीप्यतेऽस्याग्निर्बलं तेजश्च वर्धते ॥ ३४ ॥
ग्रहणी वर्धते तेन न च वायुः प्रबाधते ॥
ओदनं चापि युक्तिज्ञः क्रमशो दापयेद्भिषक् ॥ ३५ ॥
चतुर्थागं तथाऽर्धं च पादहीनं तथा समम् ॥
क्रमेणानेन नागानां सर्वद्रव्याणि दापयेत् ॥ ३६ ॥
घृतस्निग्धं गुडयुतं प्रातर्भुञ्जीत वारणः ॥
सार्पं लवणतैलाभ्यां यथाकालमवेक्ष्य च ॥ ३७ ॥
दद्यात्पानीयपीताय विदाहः स्यादतोऽन्यथा ॥
गोमूत्रक्षीरमद्यानि दीपनीयानि यानि च ॥ ३८ ॥
दधि सौवीरकं चैव मेदकं च महीपते ॥
अपीतायाम्बु देयानि श्लेष्मा कुप्येततोऽन्यथा ॥ ३९ ॥
मध्यंदिने तु सगुडं सक्तु द्रोणेन संमितम् ॥
उदमन्यं पिबेद्ग्रीष्मे रात्रि पर्युषिते जले ॥ ४० ॥
काले जलावगाहं च +यथार्तु समुपाचरेत् ॥
यदा स्थिराग्निः संपन्नः सुविशुद्धमुखो गजः ॥ ४१ ॥
* अयं श्लोकस्त्रुटितः कपुस्तके । † अयं सार्धश्लोकोऽपि कगपुस्तके त्रुटितः ।
+ कगपुस्तके, इतःपूर्व 'उपनह्यान्यथा स्विन्नान्गोधूमांश्चापि दापयेत्' । इत्युपलभ्यते ।
† 'यथर्तु' इत्युचितम् ।
१ क. ०लानन्मूत्र० । २ क. ०पनह्यं प्र० । ३ ग. तदायुर्वर्ध० । ४ क. प्रबोधयेत् । ५ क. ०त्यानाय पी० । ६ ग. ०नि दापयेद्दीपनानि च । ७ क. ०तायां तु दे० ।

प्रथम स्थान: महारोग स्थान (गजों के प्रमुख रोगों का निदान व चिकित्सा)

२२ | पालकाप्यमुनिविरचितो— | [१ महारोगस्थाने-]
अकाथाशनपानेषु प्रसक्तो विधिवद्द्रवेत् ॥
प्रकृतिं चास्य विज्ञाय यथार्हं स्नेहमाचरेत् ॥ ४२ ॥
विधानं वाऽस्य कार्त्स्न्येन स्नेहदाने १प्रेवक्ष्यते ॥
परमाणु(:) सुसूक्ष्मानुभावग्राह्यो न चक्षुषा ॥
२यदभेद्यतमं लोके परमाणुः स उच्यते ॥ ४३ ॥
जालान्तरगते भानौ यदणीयो रजो भवेत् ॥
तस्य त्रिंशत्तमो भागः परमाणुः स उच्यते ॥ ४४ ॥
त्रसरेणुः स विज्ञेयः परमाण्वष्टभिर्मतः ॥
त्रसरेण्वष्टकं चापि रथरेणुरुदाहृतः ॥ ४५ ॥
३रथरेण्वष्टकं चापि वालाग्रं समुदाहृतम् ॥
वालाग्रकोटपञ्चाष्टौ ५लिक्षा सा समुदाहृता ॥ ४६ ॥
६लिक्षाभिरष्टाभिर्यूका ७यूकास्त्वष्टौ यवो मतः ॥
अङ्गुलं स्याद्यवाश्चाष्टौ पादोऽ८रत्नेः षडङ्गुलैः ॥ ४७ ॥
चतुर्विंशाङ्गुलोऽरत्निवितस्तिर्द्वादशाङ्गुलः ॥
द्वौ वितस्ती ९भवेत्किष्कुर्द्वौ किष्कू धनुरुच्यते ॥ ४८ ॥
※धनुः १०क्रोशः सहस्रं तु गव्यूतिर्द्विगुणं स्मृतम् ॥
गव्यूतानि तु चत्वारि योजनं कर्म यौगिकम् ॥ ४९ ॥
एतया संख्यया नागान्मापयेद्द्विषजां वर(:) ॥
११हस्त्यागाराणि वारीश्च १२गजदन्तांश्च कल्पयेत् ॥ ५० ॥
गजानां १३विमयार्थं च १४यौ क्रिया समुदाहृता ॥
प्रमाणमेतद्विहितं सर्वैस्तु नयकोविदैः ॥ ५१ ॥
सचूलिकाफलान्यष्टौ सर्षपं स्यात्प्रमाणतः ॥
यवः स्यात्सर्षपास्त्वष्टौ चत्वारः काकिनी यवाः ॥ ५२ ॥
माषश्चतस्रः काकिन्यश्चतुर्माषस्तु शाणकः ॥
सुवर्णस्तु चतुःशाणः 'पलं स्यात्तु चतुर्गुणम् ॥ ५३ ॥

* 'धनुःसहस्रं क्रोशः स्यात्' इत्युचितम् ।
१ क. ख. प्रवेक्ष्यते । ग. प्रचक्षते । २ क. यदा भेद्यतमा । ३ ग. ०कं वंशी
रेखारे० । ४. ग. रेखारेण्वष्टकं । ५ क. लिष्या । ख. ग. लिस्या । ६ क. लिष्याभि० ।
ख. ग. लिस्याभि० । ७ क. ०यूथिका० । ८ क. ०रत्ने ष० । ९ क. ख. ०स्तीर्भवे० ।
१० क. क्रोशसहस्रं । ख. क्रोशं सहस्रं । ११ ख. हस्त्यगा० । १२ क. वाराश्च ।
१३ क. विजयार्थं । १४ क. ख. च यत्कृया समुदाहृतम् ।

२ अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । २३
चतुष्पलस्तु कुडवः प्रस्थः स्यात्तच्चतुर्गुणः । १
आढकं ते तु चत्वारो द्रोणः स्याच्चतुराढकः ॥ ५४ ॥
मानिका स्याच्चतुर्द्रोणा खारी स्यात्तच्चतुर्गुणा ॥
विशेषेण प्रवक्ष्यामि रसानां शृणु पार्थिव ॥
पञ्चकौडविकं प्रस्थं रसानामिति निर्दिशेत् ॥ ५५ ॥
यदन्तरिक्षात्स्रवति पर्वताद्वा जलं पुनः ॥
अर्धत्रयोदशपलं तोयप्रस्थं विनिर्दिशेत् ॥ ५६ ॥
स्नेहं भक्तं च नागानां विधिज्ञस्तेन दापयेत् ॥
एतत्प्रमाणमाख्यातं कृत्स्नमानस्य भूमिप ॥ ५७ ॥
नवारत्न्युच्छ्रितो नागस्तथैवैकादशायतः ॥
*नाहतो द्वादश तथा सोऽत्यराल इति स्मृतः ॥ ५८ ॥
अष्टारत्निर्दशायामस्त्वेकादश च नाहतः ॥
अराल इति विज्ञेयो न स कर्मसु पूजितः ॥ ५९ ॥
अत्युच्छ्रितत्वादुभावैतौ ग्रहणे परिवर्जितौ ॥
वारणौ नृपशार्दूल नयशिक्षाविशारदैः ॥ ६० ॥
सप्तोत्सेधो नवायामो दश यः परिणाहतः ॥
सप्तद्रोणात्स भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६१ ॥
आयामेऽष्टौ षडुत्सेधो नवारत्निश्च नाहतः ॥
षड्द्रोणानि स भोज्यः स्यादाग्नियुक्तो मतङ्गजः ॥ ६२ ॥
पञ्चोच्छ्रितोऽष्टौ नाहेन सप्त चापायतस्तु यः ॥
पञ्च द्रोणानि भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६३ ॥
४चतुरुच्चः षडायामः सप्तरत्निश्च नाहतः ॥
चतुर्द्रोणं तु तस्यापि भोजने विहितं नृप ॥ ६४ ॥
एतां मात्रां समं नागं यथावद्भोजयेद्भिषक् ॥
त्र्यरत्निश्चैव यो नागो द्व्यरत्निश्चैव यो भवेत् ॥
त्रीणि द्वे युक्तितो नागं द्रोणान्याहारयेद्भिषक् ॥ ६५ ॥
यावन्तोऽरत्नयस्तूर्ध्वं कुञ्जरे स्युः प्रमाणतः ॥
द्रोणानि भोज्यास्तावन्ति द्रोणारुष्यं विद्ध्यरत्नितः ॥ ६६ ॥

  • नाहः परिणाहवृद्धिशालतावाची ।
    १ क. द्रोणस्यार्धतुलाढकः । २ क. नहींया° । ३ ख. षडुत्सेधौ । ४ ग.
    चतुरुर्ध्वः । ५ क. नाशं ।

२४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने
मधुरं२लवणं चाऽऽम्लं कषायं रसमेव च ॥
दद्याद्द्विपलिकारत्नि नागस्य प्रथमे विधौ ॥ ६७ ॥
कर्षश्च कटुकस्याथ तिक्तस्य च कर्षद्वयम् ॥
भागवृद्ध्या क्रमः कार्यो यावत्सम्यक्प्रतिष्ठिताः ॥ ६८ ॥
स्थिरसात्म्यस्य नागस्य सुविशुद्धमुखस्य च ॥
पलानि षष्टिर्मधुरः पिण्डः स्यात्परिमाणतः ॥ ६९ ॥
१तिक्तस्य स ततोऽर्धं स्यात्ततोऽर्धं कटुकस्य च ॥
कषायस्य ततः षष्टिस्तथैव लवणाम्लयोः ॥ ७० ॥
यथाक्रमं पलानि स्युः सप्तारत्निप्रमाणतः ॥
मात्रया *हीनता द्रव्यं विकारं न निवर्तयेत् ॥ ७१ ॥
मात्रायाश्चातियोगेन व्यापत्संजायते भृशम् ॥
३बलिने भेषजं क्षुण्णं प्रदेयं कवलीकृतम् ॥ ७२ ॥
तथैव रोगक्लिष्टेभ्यः कथितं भेषजं भवेत् ॥
आर्द्रस्य भेषजस्यैतत्प्रमाणं परिकीर्तितम् ॥ ७३ ॥
शुष्कस्य द्विगुणा वृद्धिर्यवसस्यापि ४भूमिप ॥
हस्तिनीष्वेवमेव स्याद्यथा नागेषु कीर्तितम् ॥ ७४ ॥
मध्यमस्य प्रमाणेन ५चोत्तमा हस्तिनी भवेत् ॥
अजस्रं हस्तिनो भक्ष्यं भक्षयन्ति यतस्ततः ॥ ७५ ॥
उभयोः कालयोस्तस्माद्भैषज्यं दापयेद्भिषक् ॥
६पेष्याणां विंशतिपलद्रव्याणां द्रोणसंख्यया ॥ ७६ ॥
७क्वाथानां चतुर्गुणा वृद्धिर्द्रोणं त्वाढकसंमितम् ॥
प्रतिवापश्च पेष्याणां द्रव्याणामष्टभागवान् ॥ ७७ ॥
स्नेहप्रमाणं द्रोणं तु मितमर्धाढकं भवेत् ॥
षडङ्गं प्रतिपाने च मेदकेष्वेतदेव च ॥ ७८ ॥
एतदेव प्रमाणं तु नागानामनुवासने ॥
एतदेवानुभक्ते स्याद्द्विगुणोदकतैलके ॥ ७९ ॥
* 'हीनया' इति तु वरम् ।
१ खपुस्तके शोधितपाठः—तिक्तस्य च तदर्थं । २ क. यद्वा । ३ क. बलिनो ।
४ ख. भूमिपः । ५ क. ख. चौत्तमा । ६ क. पेष्यमाणां विंशतियत्पल० । ७ ग.
ख. ०नां तु पुनर्वृद्धि० । ८ क. ०र्धाष्टकं ।

निरूहाणां तु संयोगे द्रोणो द्विकुडवो भवेत् १॥
चूर्णार्धकुडवो द्रोणे संयोगार्थं विधीयते ॥ ८० ॥
✝अनुवासमया मात्रा सा देया सर्वसेचने ॥
स्पादर्धैर्विंशपला गैरिकस्यामुषेचने ॥ ८१ ॥
तुला पलशतं भागे विंशतिः सा प्रमाणतः ॥
सममेतेन यवसं भारः स्याद्रोणसंख्यया ॥ ८२ ॥
आर्द्रस्य यवसस्यैतत्प्रमाणं समुदाहृतम् ॥
शुष्काणां च लघूनां च वृक्षाणां च महीपते ॥ ८३ ॥
ततः स्याद्विगुणो भागो ये चान्ये लघवो द्रुमाः ॥
गर्भितानां पुनर्विद्धि त्रिभागोनं प्रदापयेत् ॥ ८४ ॥
फलितानां तृणानां तु अर्धभागं प्रदापयेत् ॥
गात्रसेके च तैलस्य द्रोणो द्विकुडवं भवेत् ॥ ८५ ॥
तथैवोत्तरपानेषु द्रोणे स्यान्मस्थसंस्थितम् ॥
भवे

२६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
पलान्यमांसस्य पञ्चाशज्ज्ञेयानि द्रोणसंख्यया ॥
स्नेहस्य कुडवश्चात्र पद्मक्षार्धाढकं भवेत् ॥ ९४ ॥
द्रोणत्रिकटुकस्यापि रससंस्कारतः पलम् ॥
दशा पललसंयुक्तं गुडपिण्डसमं घृतम् ॥ ९५ ॥
पूर्वाह्णे भोजयेन्नागं प्रतिपीतममन्द्रितः ॥
भुक्त्वा तो नु² पिवेद्धाऽपि पीत्वा भुञ्जीत वा रसम् ॥ ९६ ॥
मांसस्नेहरसैर्युक्तं सापाह्ने भोजयेत्ततः ॥
निष्पावमात्रो³ नागानां कल्कस्तीक्ष्णाञ्जनस्य च ॥ ९७ ॥
अध्यर्धं मध्यमस्यापि मृदुनो द्विगुणं भवेत् ॥
कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनं नृप ॥ ९८ ॥
भेषजानां दशपलं द्रोणं चूर्णस्य दापयेत् ॥
पलानि विंशतिं चैव चत्वारि च नराधिप ॥ ९९ ॥
रसप्रस्थस्तु विज्ञेयो भिषजाभावचारणे ॥
माषाणां द्वादश द्रोणीं तुलामारोप्य धारयेत् ॥ १०० ॥
सममेतेन पयसो भारः स्याद्द्रोणसंख्यया ॥
अतः परं तु गतयः प्रवक्ष्यन्ते⁴ यथाबलम् ॥ १०१ ॥
श्रेष्ठमध्यजघन्यानां गजानामनुपूर्वशः ॥
परं तु विद्धाध्वानं श्रेष्ठस्य दशयोजनम् ॥ १०२ ॥
मध्यमस्य परं विद्धाध्वानं सप्तयोजनम् ॥
परं जघन्यस्य पुनः पञ्चयोजनमुच्यते ॥ १०३ ॥
विनीतानां यथाशास्त्रं गतयश्चैव पार्थिव ॥
सप्त पञ्च च चत्वारि विनीता या हि धेनुकाः ॥ १०४ ॥
एतद्द्विधा प्रमाणं स्यान्मानोन्मानं च हस्तिनाम् ॥
क्रमयोगात्क्रियायुक्ता *ऋतुयोगास्तथैवच ॥ १०५ ॥
सत्त्वप्रकृतिसात्म्यानां विशेषो वयसस्तथा ॥
परिवारेण कात्स्न्र्येन वक्ष्यते राजसत्तम ॥ १०६ ॥
यः प्रमाणं न जानाति मानोन्मानं च तत्त्वतः ॥
वयःप्रकृतिसात्म्यानां कर्मणां⁵ च यथातथम् ॥ १०७ ॥

  • 'ऋतुयोगात्तथैव च' इति तु स्यात् ।

१. ख. द्रोणे त्रि० । २ क. तु । ३ क. निष्पावमात्रे । ४ क. ख. ग. प्रव-
क्षन्ते । ५ ख. ग. ॰नां नागानां ॰ ।

विधाया यवसस्यापि स्नेहादीनां तथैव च ॥$^१$
अभ्यञ्जनाञ्जनादीनामङ्गमः कर्मसु युञ्जति ॥ १०८ ॥
मानोन्मानप्रमाणानां विज्ञाता श्रेष्ठ उच्यते ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ १०९ ॥ ३३८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेऽन्न-
समाचारो नाम द्वितीयोऽध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यमुपस्थितम् ॥
कृताञ्जलिरिदं वाक्यमब्रवीद्वदतां वरः ॥ १ ॥
भगवन्गुणमाहात्म्यं सर्वं तव तपोमयम् ॥
मातुश्च तव दिव्यत्वं पितुश्च विपुला गुणाः ॥ २ ॥
कथितं ✻भवतः सर्वमेतदेवमशेषतः ॥
$^२$विस्मितेनाग्निवेशेन गौतमेन तथर्षिभिः ॥ ३$^३$ ॥
यथा त्वं पवनाहारः शीर्णपर्णाम्बुभोजनः ॥
वने $^४$विचेरिवान्सार्धं प्रभिन्नैर्वरवारणैः ॥ ४ ॥
अतस्त्वां विनपाधानादिमं पृच्छामि हस्तिषु ॥
त्वं हि तेषां विजानासि सहवासेन चेष्टितम् ॥ ५ ॥
पृथिव्यां वननागानां किं त्वमेकश्चिकित्सकः ॥
अथान्येऽपि चिकित्सन्ति त्वत्समा वारणान्वने ॥ ६ ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
न स्पृशन्ति वने रोगास्त्रिस्थूणप्रभवा गजान् ॥ ७ ॥
$^\dagger$वनोत्ते$^५$ऽत्र समानीताः प्राजनैरङ्कुशैरपि ॥
वधबन्धपरिक्लिष्टाश्चिन्तयन्तो वनानि च ॥ ८ ॥
रोगास्तान्संश्रयन्तीह सागरं सरितो यथा ॥
वनेषु चरतां तेषां न भवन्त्यामया नृप ॥ ९ ॥
✻ 'भवता' इति तूचितम् ।
$^\dagger$ इतः श्लोकत्रयं कपुस्तके नास्ति ।
✻ १ ख. °स्थितः ॥ कृ° । २ क. ख. विस्मिते° । ग. श्रीमते° । ३ ख. ग.
तथार्थिभिः । ४ क. ख. ग. विचरन्वा° । ५ ग. °नात्ते ग्राममा°। ६ ग. °ताः खज°।

२८ पालकाप्यमुनिविरचितो— [ .१ महारोगस्थाने-
केवलं पञ्चदश च वने मरणहेतवः ॥
ये मया बहुशो दृष्टाश्चरता सह हस्तिभिः ॥ १० ॥
गजानां विविधैर्द्रव्यैर्ये चाप्यागन्तवो व्रणाः ॥
न भवन्ति वने सौख्यात्कामतश्छन्दतः सदा ॥ ११ ॥
तत्र शृणु महाराज हेतूनमृत्युषु हस्तिनाम् ॥
पर्वतात्पतनं पङ्को विषवल्ली जराऽनलः ॥ १२ ॥
कूपः प्रतिगजो ग्राहो विद्युल्लब्धो भुजंगमः ॥
अलद्रुमस्तथा व्याडो बाल्ये मातुरिवर्जनम् ॥ १३ ॥
दशभिः पञ्चभिश्चैव हेतुभिर्वारणा वने ॥
म्रियन्ते न हि नागानां त्रिस्थूणाज्जायते त्रयम् ॥ १४ ॥
अङ्गराजस्ततो भूपः पालकाप्यं तु विस्मितः ॥
वचनं प्रत्युवाचेदं शिष्यभावादशङ्कितः ॥ १५ ॥
भगवन्किं वनस्थानां न सन्ति पवनादयः ॥
नागानां त्रिविधा दोषा न चैते सप्त धातवः ॥ १६ ॥
ततः प्रोवाच भगवानुत्तरं विदितोत्तरः ॥
पालकाप्यस्ततो दृष्ट्वा सहवासं च हस्तिनाम् ॥ १७ ॥
सात्म्यं नाम महाराज यथैवाऽऽत्मा तथा स्मृतम् ॥
तत्तेऽहं संप्रवक्ष्यामि सह तैरात्मनो गुणैः ॥ १८ ॥
तत्तु जन्मसमाचारैः प्रहृष्टेन्द्रियमानसैः ॥
. न दूषयति वातादीन्दोषान्सततसेवया ॥ १९ ॥
. ते चादुष्टा न रोगाय भवन्ति वनहस्तिनाम् ॥
आहारोचारयोगो हि सात्मीभूतो गुणावहः ॥ २० ॥
तत्राऽऽहारात्मकं सात्म्यं वृक्षभङ्गास्तृणानि च ॥
त्वङ्मूलं पादपानां च बाल्ये मातुः पयो जलम् ॥ २१ ॥
एतदाहारजं सात्म्यं प्रोच्यते वनहस्तिनाम् ॥
जलपांशुप्रमाथीनां शयनस्थानकर्मणाम् ॥ २२ ॥
विहाराहारचेष्टानां स्ववशेनोषसेविनाम् ॥
. एतदौचारजं सात्म्यं प्रोच्यते वनहस्तिनाम् ॥ २३ ॥
श्रुत्वा चेदं ततो वाक्यं पुनः प्रोवाच पार्थिवः ॥
यद्येते तृणमात्रेण भगवन्सुखिनो गजाः ॥ २४ ॥
१ क. ॰रात्रीरं॰ । २ ख. ग. ॰दाहार॰ ।

१ सात्म्यनिश्चयाध्यायः ] हस्त्यायुर्वेदः । २६
हन्त तेनैव पुष्यन्तां तद्धि तेषां सुखावहम् ॥ १
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ २५ ॥
अनुनेतुं नरपतिं हेतुभिः स्पष्टलक्षणैः ॥
न संशयस्तृणप्राणास्तृणसात्म्यास्तृणप्रियाः ॥ २६ ॥
मृगाः सर्वे वनचरा विशेषेण तु हस्तिनः॥
कारणेन च येनैषां केवलं न तृणं हितम् ॥ २७ ॥
शेषांश्च वनजा भक्ष्या ग्राम्याणां तन्निबोध मे ॥
निरवग्रहता राजन्दन्तिनां परमं सुखम् ॥ २८ ॥
ये च तँस्या गुणास्तेषां तन्मे निगदतः शृणु ॥
यँदीहते तत्कुरुते सर्वमन्यन्मतङ्गजः ॥ २९ ॥
विहाराहारचेष्टासु स्वतन्त्रो निरवग्रहः ॥
तस्याभिप्रायसंवृत्तेः प्रीतिः प्रीतेर्ध्रुवं बलम् ॥ ३० ॥
बलिनो दीप्यंते ऽस्याग्नि‌र्दीप्ताग्नेर्धातवः समाः ॥
धातुसात्म्याच्च रोगाणां सर्वेषामपकर्षणम् ॥ ३१ ॥
गजानामुदकं राजन्प्राणानाहुर्मनीषिणः ॥
विशेषेण तु नागानां प्रायेण जलमौषधम् ॥ ३२ ॥
अतो वनगजा राजन्नष्टरोगास्तृणोदकैः ॥
एतत्सर्वं विपर्यस्तमाहाराचारकर्मसु ॥ ३३ ॥
ग्राममानीयमानाणां जायते वनहस्तिनाम् ॥
ततः स्वच्छन्दचेष्टानां निवृत्या तप्यते मनः ॥ ३४ ॥
वर्धते च मनोदुःखं न बलं नाम्रिजं बलम् ॥
तेषामग्निप्रहीणानामसात्म्यस्य च भोजनात् ॥ ३५ ॥
जायन्ते धातुवैषम्याद्विकारा दोषसंभवाः ॥
तेषां तु वधबन्धाभ्यां लाभालाभाच्च भोजनात् ॥ ३६ ॥
अशय्यादुःखशय्याभ्यां धेनुकानां च वर्जनात् ॥
प्ररोधात्सततं स्थानात्कौमचारनिवारणात् ॥ ३७ ॥
ग्रामवासेऽप्यनुद्विग्नास्तेऽप्यरोगा मतङ्गजाः ॥
अयं तु सुमहान्हेतुर्गजानां वनवासिनाम् ॥ ३८ ॥

१ क. केवलेन । २ क. ०घा वनगजा । ३ क. ग्रामाणां । ४ क. तस्यु ।
५ क. यदाहते । ६ क. ०प्यमानग्नि० । ७ क. ख. धातुः सा० । ८ क. गजवना ।
९ क. ०र्यस्तं विहा० । १० क. तृप्यते । ११ क. ०त्कामाच्च रतिवा० ।

३ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
आरोग्ये चाप्रमोदे च तुष्टौरेव बलार्जने ॥
आदिसर्गे हि करिणः स्वयं प्रोक्ताः स्वयंभुवा ॥ ३९ ॥
देवानां वाहनाथीय वारणाः प्रतिगच्छत ॥
वृक्षभङ्गतृणाहारा बलवन्तो निरामयाः ॥ ४० ॥
विचरिष्यथ रम्येषु वनेष्विति महात्मना ॥
स वरो ब्रह्मणा दत्तो देवप्रीत्या महीपते ॥
वर्तते च न रोगेषु वत्स्यत्यपि च नित्यशः ॥ ४१ ॥
तत्र श्लोकाः—
अथ तु वनरतानां पोतकापोतिकानां
रतिकरकलभानां धेनुकानां तथैव ॥
श्रमगुरुनयनानां कामिनीनां द्विधाऽपि
श्रयति वनचराणां नैव कार्श्यं गजानाम् ॥ ४२ ॥
बहुदलकमलखण्डेष्वाढ्यतोयेषु नागा
विपुलतरुलताभिर्गूढतीरेषु चैव ॥
कुमुदकुवलयाद्यैर्भूषितामेषु(?)राज-
न्सुखतरमवगाह्य श्लिष्टमांसा भवन्ति ॥ ४३ ॥
न रसघृतगुणैर्वा भोजनानां गुणैर्वा
गुडलवणगुणैर्वा पुष्टिमिच्छन्त्यरण्ये ॥
अथ वनमृगतीक्ष्णैर्नादिता नागसिंहा
वनगुणफलपुष्पैः पुष्टदेहा नरेन्द्र ॥ ४४ ॥ ३८२ ॥
अविपिननिजकुक्षाकार्पिता रोगयुक्ताः
पुनरपि निरुजस्ते सिद्धसंघोपदेशात् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (सात्म्या)
सात्म्याविनिश्चयो नाम तृतीयोऽध्यायः ॥ ३ ॥
———
अथ चतुर्थोऽध्यायः ।
———
अङ्गाधिपतिरेकाग्रं महर्षिममितौजसम् ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
———
१ ख. पुष्पदेहा ।

" - wait!
Look at line 17 again:
गजरक्षणविन्यासः then there is a mark! It's a quote or something?
Wait, where is footnote 3: "°हविज्ञताम्"?
Look at line 20:
"षष्ठं तु तं विजानीयादेकाङ्गग्रहसंज्ञितम् ॥"
"ग्रहसंज्ञितम्" -> footnote 3: "°हविज्ञताम्"!
Yes! "ग्रहसंज्ञितम्" has footnote 3: look above or before 'ग्रहसंज्ञितम्'!
Wait, before 'ग्रहसंज्ञितम्' in line 20: "देकाङ्गग्रहसंज्ञितम्" - there is a mark?
Wait, what is the mark before 'शिष्योपनयनं'? No, that's just a space or colon? No, look at line 17:
गजरक्षणविन्यासः then a vertical mark? It's a colon or broken type? It looks like ! or : or just ink smudge.
Wait, let's look at line 18:
तथा २रोगविभक्तिः स्याज्ज्वरोत्पत्तिरतः परम् ॥
Here is २ before रोगविभक्तिः! Footnote 2: "२ क. रोगविभक्तः ।"

Line 19:
*पालकास्तु ततो ज्ञेया दश तान्नामतः शृणु ॥ १० ॥
Here is `

पाण्डुरोगास्त्रयो ज्ञेयाः पुराणकृशसंज्ञिताः ॥
वांतिकाः पैत्तिकाश्चैव श्लैष्मिकाश्चैव संख्यया ॥ १५ ॥
पञ्चानाहास्ततो ज्ञेयास्त एव भेदसंख्यया ॥
अत्याशितोऽथ प्रथमस्त्वेक एव विनिश्चितः ॥ १६ ॥
त्रिविधं तु विजानीयाद्धातोन्मथितसंज्ञितम् ॥
वातोपरुद्ध एवात्र ज्ञेयः संसक्त एव च ॥ १७ ॥
असंसक्तश्च विज्ञेयश्चपस्त्रिविधलक्षणाः ॥
धान्यप्रदुष्टं जानीयाद्विविधं परिसंख्यया ॥
प्रदुष्टं चाप्रदुष्टं च जानीयातं नराधिप ॥ १८ ॥
ततः स्यान्मृत्तिकाजग्धः सांनिपातिक एव च ॥
ईत्यानाहाः समुद्दिष्टाः शृणु मूर्च्छास्ततः परम् ॥ १९ ॥
अत्यर्थभोजनान्मूर्च्छा विदग्धाच्चैव भोजनात् ॥
धान्यमूर्च्छा ततो ज्ञेया स्नेहमूर्च्छा ततः परम् ॥ २० ॥
वातात्पित्तात्कफाच्चैव संनिपातात्तथैव च ॥
उदकान्मार्गमूर्च्छा च मचमूर्च्छा च कीर्तिता ॥ २१ ॥
यवसाद्वाऽपि विज्ञेया मूर्च्छा सा द्वादशी भवेत् ॥
इत्येता द्वादश प्रोक्ता मूर्च्छाः पार्थिवसत्तम ॥ २२ ॥
शिरोरोगास्त्वतस्त्वन्ये सप्तैव परिसंख्यया ॥
वातिकाः पैत्तिकाश्चैव श्लैष्मिकाः सांनिपातिकाः ॥ २३ ॥
शोणिताज्जायते चान्यः कृमिजस्त्वभिघातजः ॥
पादरोंगास्ततो ज्ञेयास्त्रिंशत्तु परिसंख्यया ॥ २४ ॥
उत्कारकी ततः पूर्वं कारकी तदनन्तरम् ॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्र एव च ॥ २५ ॥
नखभेदं तंतो विचात्पूयकेशं ततः परम् ॥
विप्लवांकस्ततस्त्वन्यः केशग्रन्थिः सविप्लुतः ॥ २६ ॥
समन्तकेशश्च भवेत्कचकेशश्च कीर्त्यते ॥
. कदम्बपुष्पो विज्ञेयः सफुल्लोऽथ कुठारकः ॥ २७ ॥


१ ख. वातिकः पैत्तिकश्चैव श्लेष्मिकश्चैव संख्यया । २ क. °त्थानां हस्त° ।
३ क. इत्याहाराः । ४ ख. विन्द्यात्पू° ।

फुल्लपादस्ततो ज्ञेयस्तथा भिन्ननखोऽपरः ॥ '
स्फुटितैर्हर्तुनुद्दन्तै(?)श्च त्वन्येर्वाऽपि नखैर्भवेत् ॥ २८ ॥
✝शरनद्धोऽथ विज्ञेयो +दद्रुकेशस्तथैव च ॥
‡प्रगुल्मकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ २९ ॥
क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥
स्थानवाह्तः क्षीणतलस्तैथा चाम्यन्तरीकृतः ॥ ३० ॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः ॥
इत्येष पादरोगाणां संग्रहः समुदाहृतः ॥ ३१ ॥
व्यापदां तु पुनः संख्यां कीर्त्यमानां निबोध मे ॥
व्यापदं विद्धि तैलेन सर्पिषा तदनन्तरम् ॥ ३२ ॥
तृतीयां वसया विन्द्याच्चतुर्थी पयसा तथा ॥
¶धान्याच्च पञ्चमीं विद्यान्मद्यात्षष्ठीमथापि वा ॥ ३३ ॥
उदकादुपधान्याच्च व्यापदोऽष्टाविति स्मृताः ॥
शोफानां संग्रहश्चात्र सप्तानां संप्रवक्ष्यते ॥ ३४ ॥
मन्याशोफश्च विज्ञेयः सगदाशोफ एव च ॥
द्रोणीकशोफश्चाप्यन्यो व्यवच्छिन्नस्तथैव च ॥ ३५ ॥
शाल्मलीस्कन्धशोफश्च कदलीस्कन्ध एव च ॥
शृद्धशोफश्च विज्ञेयः सप्तमः परिसंख्यया ॥ ३६ ॥
$संग्रहस्त्वक्षिरोगाणामत ऊर्ध्वं प्रचक्षते ॥
प्राचारकी तु प्रथमस्तव्दौदकी तदनन्तरम् ॥ ३७ ॥.
अण्डाक्षस्त्वथ काचाक्षो नायंप्रेक्षी तथैव च ॥
प्रतिनुन्नस्ततो ज्ञेयो निष्पेषहत एव च ॥ ३८ ॥
विद्युन्निष्पातदग्धश्च विशुद्धारिहतस्तथा ॥
.ऊष्मापरिगतस्त्वन्य*श्चर्मकिल्लिष्टस्ततः परम् ॥ ३९ ॥

  • 'अनुद्धतैः' इति त्वग्रे । ✝ 'शरनद्ध' इति त्वग्रे लिप्यते । + 'दद्रुकेश' इति त्वग्रे
    ‡ 'प्रगुल्मिकेश' इति त्वग्रे । $ 'तथा चान्यः क्षरीकृतः' इत्येव पाठ उचित उत्तर-
    ग्रन्थानुरोधात् । ¶ अग्रे व्यापदध्याये प्राक्चाव्यापन्निरूपिता, ततो धान्यव्यापत् ।
  • 'दुपधाना' इति तु वरम् 'उपधाव्यापदो वर्णनात् । ✝ 'संप्रचक्षते' इति तु युक्तम् ।
    $ अष्टादशस्य शोफचिकित्सितस्य, एकोनविंशस्याक्षिरोगचिकित्सितस्य, मध्ये स्वेद-
    शान्तिरक्षाध्यायावपि स्तः । * अग्रेऽक्षिरोगाध्याये तु 'वर्त्मक्लिष्ट' इत्युपलभ्यते ।
    १ क. प्रगुल्फकेशो । २ ख. विन्द्याच्च । ३ क. स्मृतः । ४ ख. प्रचक्ष्यते ।

३४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
*श्रोतोन्धो बुद्बुदी चैवाक्षिपाकस्तथैव च ॥
+पाटलाख्यश्च विज्ञेयो †दण्डाख्यश्च ततः परम् ॥ ४० ॥
मुञ्जोऽथ मुञ्जजालश्च लोहिताक्षस्तथैव च ॥
पिटकाक्षश्च विज्ञेय इत्येते विंशतिः स्मृताः ॥ ४१ ॥
इत्येतत्प्रथमं स्थानं महारोगाभिसंज्ञितम् ॥
एतच्छतं तु रोगाणामष्टौ चैव नराधिप ॥ ४२ ॥
कीर्तितं ते मया सम्यग्यथोवदनुपूर्वशः ॥
अध्यायाश्चात्र संख्याता अष्टादश महीपते ॥ ४३ ॥
अथातः क्षुद्ररोगाणां स्थानं सम्यक्प्रवर्तते ॥
वमथुः प्रथमस्तत्र स चापि द्विविधः स्मृतः ॥ ४४ ॥
आगन्तुर्दोषजश्चैव दोषजः स चतुर्विधः ॥
वातजः पित्तजश्चापि कफजः संनिपातजः ॥ ४५ ॥
ततः परमतीसारो द्विविधः परिकीर्तितः ॥
पक्वाशयसमुत्थस्तु तथैवाऽऽमाशयोद्भवः ॥ ४६ ॥
स च दोषविभागेन चतुर्धा परिकीर्तितः ॥
पुनश्च सप्तधा भिन्नो दुष्टधान्यादिभेदतः ॥ ४७ ॥
एवमेकादशविधस्त्वतीसारो विभागतः ॥
मदनाख्यस्तृणैः शोषी कर्मातिनीत एव च ॥ ४८ ॥
विषाशितस्ततो दृषी सेर्पार्तः स्फोटिकी ततः ॥
दिग्धविद्धोपवादाख्यः पूर्वोबद्धोऽथ एव च ॥ ४९ ॥
विसर्पो हृदयस्फोटी *वलक्षाणी तथैव च ॥
षड्विधा मेहनक्षाणी तेस्माद्धस्तग्रहोऽपरः ॥ ५० ॥
हस्तेनोन्मथितं विद्याद्विभागं षड्विधस्ततः ॥ •
प्रथमः सप्तरात्रेण प्राणांस्त्यजति वारणः ॥ ५१ ॥

  • 'स्रोतोन्धः' इति तूचितम् । + 'पटलाक्ष' इति त्वम्रानुरोधेन । † 'दण्डाक्ष'
    इति त्वग्रे । * 'वालक्षाणी' इत्यग्रे ।
    १ क. ॰ताल्व्यस्त॰ । २ क. ॰था वेदानु॰ । ३ ख. कर्माभिनी॰ ।
    ४ क. दूषा । ५ सर्पति । ६ क. ॰टिका त॰ । ७ क. पूर्वो विद्धोऽथ । ८ क. सः ।
    ९ क. तस्माद्धस्तग्रहापरः ।

४ शल्यसंग्रहाध्यायः ] हस्तिआयुर्वेदः । ३५
अष्टरात्रेण चाप्यन्यो नवरात्रेण चापरः ॥
एकश्च दशरात्रेण प्राणानादाय गच्छति ॥ ५२ ॥
एकश्चैकादशं प्राप्य द्वादशीमपि चापरः ॥
इत्येष षड्विधः प्रोक्तो हस्तोन्मथितसंज्ञितः ॥ ५३ ॥
उत्कर्णको वातगतिर्मन्यास्तम्भो मदक्षयः ॥
कृशस्तथा बलक्षीणः १श्लेष्माभि †ष्विन्न एव च ॥ ५४ ॥
सात्म्यानुलोमिकश्चैव तलकाशी ततःपरम् ॥
गलग्रहश्च विज्ञेयो व्याधिः सिद्धार्थकस्तथा ॥ ५५ ॥
भूतग्रहस्त्वथो वातकुण्डली भारपीडितः ॥
उन्मादापस्मृती लुप्त उदावर्तः २ प्रगुल्मिकः ३ ॥ ५६ ॥
पत्रकृमिस्ततो ज्ञेय उरःसिक्षत एव च ॥
शोणिताण्डी समाख्यातो यवगण्डशिरास्त्वतः ॥ ५७ ॥
चर्मकीलो जठरको बालानां चैव रक्षणम् ॥
अवसन्नस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः ॥ ५८ ॥
मूत्रसङ्गास्ततो ज्ञेयाः षडेव परिसंख्यया ॥
भिन्नबस्तिश्च विज्ञेयो गाढमूत्री तथैव च ॥ ५९ ॥
परिमूत्री तथैवान्यः पिष्टमेही च वारणः ॥
ततः शोणितमेही च तथाऽन्यो जातशर्करः ॥ ६० ॥
इत्येते षट्समुद्दिष्टा मूत्रसङ्गा यथाक्रमम् ॥
अथातः सूतिकारोगा सप्तामी रदनामयाः ॥ ६१ ॥
देवागन्तुजरायोगसमस्तव्यस्तदोषजाः ॥
चेतोभ्रंशस्तथा प्रोक्तः शूलद्वितयमेव च ॥ ६२ ॥
चत्वारः शारदाश्चैव जरगण्डस्ततः परम् ॥
शीतस्कन्नश्च विज्ञेयो मक्षिकादष्ट एव च ॥ ६३ ॥
एकादश च्छवीदोषा मृत्तिकाध्वाय एव च ॥
कृमिकोष्ठश्च विज्ञेयः क्षयश्चापि ४सुदुर्लभः ॥ ६४ ॥
क्षयो दशविधश्चैव दौर्बल्यं च चतुर्विधम् ॥
धातुदोषक्षयात्क्षीणश्चत्वारोऽन्येऽपि दुर्बलाः ॥ ६५ ॥
† श्लेष्माभिषन्न इति त्वग्रे ।
१ क. श्लेष्मामिष्यन्न । ख. श्लेष्माभिषिन्न । २ ख. ॰वर्तप्र॰ । ३ क.
प्रगुल्फिकः । ४ ग. सुदुर्बलः ।