सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 46, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 46

विधाया यवसस्यापि स्नेहादीनां तथैव च ॥$^१$
अभ्यञ्जनाञ्जनादीनामङ्गमः कर्मसु युञ्जति ॥ १०८ ॥
मानोन्मानप्रमाणानां विज्ञाता श्रेष्ठ उच्यते ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ १०९ ॥ ३३८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेऽन्न-
समाचारो नाम द्वितीयोऽध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यमुपस्थितम् ॥
कृताञ्जलिरिदं वाक्यमब्रवीद्वदतां वरः ॥ १ ॥
भगवन्गुणमाहात्म्यं सर्वं तव तपोमयम् ॥
मातुश्च तव दिव्यत्वं पितुश्च विपुला गुणाः ॥ २ ॥
कथितं ✻भवतः सर्वमेतदेवमशेषतः ॥
$^२$विस्मितेनाग्निवेशेन गौतमेन तथर्षिभिः ॥ ३$^३$ ॥
यथा त्वं पवनाहारः शीर्णपर्णाम्बुभोजनः ॥
वने $^४$विचेरिवान्सार्धं प्रभिन्नैर्वरवारणैः ॥ ४ ॥
अतस्त्वां विनपाधानादिमं पृच्छामि हस्तिषु ॥
त्वं हि तेषां विजानासि सहवासेन चेष्टितम् ॥ ५ ॥
पृथिव्यां वननागानां किं त्वमेकश्चिकित्सकः ॥
अथान्येऽपि चिकित्सन्ति त्वत्समा वारणान्वने ॥ ६ ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
न स्पृशन्ति वने रोगास्त्रिस्थूणप्रभवा गजान् ॥ ७ ॥
$^\dagger$वनोत्ते$^५$ऽत्र समानीताः प्राजनैरङ्कुशैरपि ॥
वधबन्धपरिक्लिष्टाश्चिन्तयन्तो वनानि च ॥ ८ ॥
रोगास्तान्संश्रयन्तीह सागरं सरितो यथा ॥
वनेषु चरतां तेषां न भवन्त्यामया नृप ॥ ९ ॥
✻ 'भवता' इति तूचितम् ।
$^\dagger$ इतः श्लोकत्रयं कपुस्तके नास्ति ।
✻ १ ख. °स्थितः ॥ कृ° । २ क. ख. विस्मिते° । ग. श्रीमते° । ३ ख. ग.
तथार्थिभिः । ४ क. ख. ग. विचरन्वा° । ५ ग. °नात्ते ग्राममा°। ६ ग. °ताः खज°।