हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 49, कुल 742 में से
संदर्भ में पढ़ें३ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
आरोग्ये चाप्रमोदे च तुष्टौरेव बलार्जने ॥
आदिसर्गे हि करिणः स्वयं प्रोक्ताः स्वयंभुवा ॥ ३९ ॥
देवानां वाहनाथीय वारणाः प्रतिगच्छत ॥
वृक्षभङ्गतृणाहारा बलवन्तो निरामयाः ॥ ४० ॥
विचरिष्यथ रम्येषु वनेष्विति महात्मना ॥
स वरो ब्रह्मणा दत्तो देवप्रीत्या महीपते ॥
वर्तते च न रोगेषु वत्स्यत्यपि च नित्यशः ॥ ४१ ॥
तत्र श्लोकाः—
अथ तु वनरतानां पोतकापोतिकानां
रतिकरकलभानां धेनुकानां तथैव ॥
श्रमगुरुनयनानां कामिनीनां द्विधाऽपि
श्रयति वनचराणां नैव कार्श्यं गजानाम् ॥ ४२ ॥
बहुदलकमलखण्डेष्वाढ्यतोयेषु नागा
विपुलतरुलताभिर्गूढतीरेषु चैव ॥
कुमुदकुवलयाद्यैर्भूषितामेषु(?)राज-
न्सुखतरमवगाह्य श्लिष्टमांसा भवन्ति ॥ ४३ ॥
न रसघृतगुणैर्वा भोजनानां गुणैर्वा
गुडलवणगुणैर्वा पुष्टिमिच्छन्त्यरण्ये ॥
अथ वनमृगतीक्ष्णैर्नादिता नागसिंहा
वनगुणफलपुष्पैः पुष्टदेहा नरेन्द्र ॥ ४४ ॥ ३८२ ॥
अविपिननिजकुक्षाकार्पिता रोगयुक्ताः
पुनरपि निरुजस्ते सिद्धसंघोपदेशात् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (सात्म्या)
सात्म्याविनिश्चयो नाम तृतीयोऽध्यायः ॥ ३ ॥
———
अथ चतुर्थोऽध्यायः ।
———
अङ्गाधिपतिरेकाग्रं महर्षिममितौजसम् ॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥
———
१ ख. पुष्पदेहा ।