सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 38, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 38

२ अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । १९
सुखाहारप्रचारांस्तान्वनवाससुखोचितान् ॥ १
अरण्याद्ग्राममानीतान्कथं सम्यगुपाचरेत् ॥ ४ ॥
भोजने रसपानेश्च यवसेनोदकेन च ॥
कथं न जायते व्याधिरिति भुक्तेन दन्तिनाम् ॥ ५ ॥
एतन्मे पृच्छतो ब्रूहि गजानां कुशलो ह्यसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ६ ॥
बद्धाः सन्तस्तु मातङ्गा वने स्वैरसुखोचिताः॥
अपि दीर्घायुषो भूत्वा दुःखेः शारीरमानसैः ॥ ७ ॥
न सर्व एव राजेन्द्र प्राणान्धारयितुं क्षमाः ॥
या वने निर्वृतिस्तेषां सा पुनर्जन्मनामसौ ॥ ८ ॥
न जातिजं नान्वयजं न प्रचारवनोद्भवम् ॥
लक्षणं महदल्पं वा शुद्धं संकीर्णमेत्य च ॥ ९ ॥
आघातवधबन्धेभ्यः प्राणान्धारयितुं क्षमाः ॥
तस्माद्वैद्यैर्महामात्रैर्यथाशास्त्रोपचारतः ॥ १० ॥
बन्धने प्राणसंदेहे परिरक्ष्याः प्रयत्नतः ॥
राज्ञा चैषां च कर्तव्यो दयापूर्वमनुग्रहः ॥ ११ ॥
उचितो वनवासे यस्तस्यालाभेन दन्तिनाम् ॥
दोषाः कुप्यन्त्यसात्म्यत्वादपूर्वस्येह भोजनात् ॥ १२ ॥
पुष्कलां वा विधां लब्ध्वा पुनस्तान्न लभन्ति चेत् ॥
लाभालाभेन नागानामयोगाच्च महीपते ॥ १३ ॥
अभोजनादत्यशनाद्दुःस्थानशपनादपि ॥
अकामाशनपानाच्च बन्धेन च वधेन च ॥ १४ ॥
लवणस्यातियोगाच्च तथा ह्यलवणेन च ॥
एतेस्तु रोगा जायन्ते दोषकोपसमुद्भवाः ॥ १५ ॥
वातिकाः पैत्तिकाश्चैव 'श्लैष्मिकाः सांनिपातिकाः ॥
तस्मादरण्यादानीतान्नागान्सम्यगुपाचरेत् ॥ १६ ॥
खरैरुष्ट्रैर्मनुष्यैश्च वाहयेदुदकं नृपैः ॥
द्रोणीभिश्चक्रयुक्ताभिः पाययेच्च मतङ्गजान् ॥ १७ ॥
१ क. ग. ॰चारास्ता॰। २ क. भूयूः । ३ क. परिरक्षा । ४ क. ॰स्थानाश॰।
५ क. अकामाशनयोनेद्वे । ६ क. श्लेष्मकाः । ७ क. नृप ।