हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 45, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 45२६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
२६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
पलान्यमांसस्य पञ्चाशज्ज्ञेयानि द्रोणसंख्यया ॥
स्नेहस्य कुडवश्चात्र पद्मक्षार्धाढकं भवेत् ॥ ९४ ॥
द्रोणत्रिकटुकस्यापि रससंस्कारतः पलम् ॥
दशा पललसंयुक्तं गुडपिण्डसमं घृतम् ॥ ९५ ॥
पूर्वाह्णे भोजयेन्नागं प्रतिपीतममन्द्रितः ॥
भुक्त्वा तो नु² पिवेद्धाऽपि पीत्वा भुञ्जीत वा रसम् ॥ ९६ ॥
मांसस्नेहरसैर्युक्तं सापाह्ने भोजयेत्ततः ॥
निष्पावमात्रो³ नागानां कल्कस्तीक्ष्णाञ्जनस्य च ॥ ९७ ॥
अध्यर्धं मध्यमस्यापि मृदुनो द्विगुणं भवेत् ॥
कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनं नृप ॥ ९८ ॥
भेषजानां दशपलं द्रोणं चूर्णस्य दापयेत् ॥
पलानि विंशतिं चैव चत्वारि च नराधिप ॥ ९९ ॥
रसप्रस्थस्तु विज्ञेयो भिषजाभावचारणे ॥
माषाणां द्वादश द्रोणीं तुलामारोप्य धारयेत् ॥ १०० ॥
सममेतेन पयसो भारः स्याद्द्रोणसंख्यया ॥
अतः परं तु गतयः प्रवक्ष्यन्ते⁴ यथाबलम् ॥ १०१ ॥
श्रेष्ठमध्यजघन्यानां गजानामनुपूर्वशः ॥
परं तु विद्धाध्वानं श्रेष्ठस्य दशयोजनम् ॥ १०२ ॥
मध्यमस्य परं विद्धाध्वानं सप्तयोजनम् ॥
परं जघन्यस्य पुनः पञ्चयोजनमुच्यते ॥ १०३ ॥
विनीतानां यथाशास्त्रं गतयश्चैव पार्थिव ॥
सप्त पञ्च च चत्वारि विनीता या हि धेनुकाः ॥ १०४ ॥
एतद्द्विधा प्रमाणं स्यान्मानोन्मानं च हस्तिनाम् ॥
क्रमयोगात्क्रियायुक्ता *ऋतुयोगास्तथैवच ॥ १०५ ॥
सत्त्वप्रकृतिसात्म्यानां विशेषो वयसस्तथा ॥
परिवारेण कात्स्न्र्येन वक्ष्यते राजसत्तम ॥ १०६ ॥
यः प्रमाणं न जानाति मानोन्मानं च तत्त्वतः ॥
वयःप्रकृतिसात्म्यानां कर्मणां⁵ च यथातथम् ॥ १०७ ॥
- 'ऋतुयोगात्तथैव च' इति तु स्यात् ।
१. ख. द्रोणे त्रि० । २ क. तु । ३ क. निष्पावमात्रे । ४ क. ख. ग. प्रव-
क्षन्ते । ५ ख. ग. ॰नां नागानां ॰ ।