हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 42, कुल 742 में से
संदर्भ में पढ़ें२ अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । २३
चतुष्पलस्तु कुडवः प्रस्थः स्यात्तच्चतुर्गुणः । १
आढकं ते तु चत्वारो द्रोणः स्याच्चतुराढकः ॥ ५४ ॥
मानिका स्याच्चतुर्द्रोणा खारी स्यात्तच्चतुर्गुणा ॥
विशेषेण प्रवक्ष्यामि रसानां शृणु पार्थिव ॥
पञ्चकौडविकं प्रस्थं रसानामिति निर्दिशेत् ॥ ५५ ॥
यदन्तरिक्षात्स्रवति पर्वताद्वा जलं पुनः ॥
अर्धत्रयोदशपलं तोयप्रस्थं विनिर्दिशेत् ॥ ५६ ॥
स्नेहं भक्तं च नागानां विधिज्ञस्तेन दापयेत् ॥
एतत्प्रमाणमाख्यातं कृत्स्नमानस्य भूमिप ॥ ५७ ॥
नवारत्न्युच्छ्रितो नागस्तथैवैकादशायतः ॥
*नाहतो द्वादश तथा सोऽत्यराल इति स्मृतः ॥ ५८ ॥
अष्टारत्निर्दशायामस्त्वेकादश च नाहतः ॥
अराल इति विज्ञेयो न स कर्मसु पूजितः ॥ ५९ ॥
अत्युच्छ्रितत्वादुभावैतौ ग्रहणे परिवर्जितौ ॥
वारणौ नृपशार्दूल नयशिक्षाविशारदैः ॥ ६० ॥
सप्तोत्सेधो नवायामो दश यः परिणाहतः ॥
सप्तद्रोणात्स भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६१ ॥
आयामेऽष्टौ षडुत्सेधो नवारत्निश्च नाहतः ॥
षड्द्रोणानि स भोज्यः स्यादाग्नियुक्तो मतङ्गजः ॥ ६२ ॥
पञ्चोच्छ्रितोऽष्टौ नाहेन सप्त चापायतस्तु यः ॥
पञ्च द्रोणानि भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६३ ॥
४चतुरुच्चः षडायामः सप्तरत्निश्च नाहतः ॥
चतुर्द्रोणं तु तस्यापि भोजने विहितं नृप ॥ ६४ ॥
एतां मात्रां समं नागं यथावद्भोजयेद्भिषक् ॥
त्र्यरत्निश्चैव यो नागो द्व्यरत्निश्चैव यो भवेत् ॥
त्रीणि द्वे युक्तितो नागं द्रोणान्याहारयेद्भिषक् ॥ ६५ ॥
यावन्तोऽरत्नयस्तूर्ध्वं कुञ्जरे स्युः प्रमाणतः ॥
द्रोणानि भोज्यास्तावन्ति द्रोणारुष्यं विद्ध्यरत्नितः ॥ ६६ ॥
- नाहः परिणाहवृद्धिशालतावाची ।
१ क. द्रोणस्यार्धतुलाढकः । २ क. नहींया° । ३ ख. षडुत्सेधौ । ४ ग.
चतुरुर्ध्वः । ५ क. नाशं ।