गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
उन्मादे चापि बहुशः शोफे शूले गुदाश्रये ।
मूत्रग्रहे मूढवाते मन्देऽग्नावुरुचौ तथा ॥ ११८ ॥
प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम् ।
विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ ११९ ॥
अपतन्त्रके शुकनासाद्यं घृतम् ।
शुकनासा नागवल्ली द्वे बृहत्यौ महौषधम् ।
निचुलश्चैव भार्गी च काकादन्युपचेलिका ॥ १२० ॥
पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक् ।
तोयाढके घृतप्रस्थं सिद्धं तच्चापि पाययेत् ॥ १२१ ॥
कासं श्वासं महाहिक्कां हृद्रोगं सापतन्त्रकम् ।
नातिक्रामेदिदं सर्पिर्वेलामिव महोदधिः ॥ १२२ ॥
उन्मादे चेतसं घृतम् ।
श्यामा मधुरसा द्राक्षा दण्डमूलं शतावरी ।
श्वदंष्ट्रा शणमूलं च तैर्युक्त्या कार्षिकैल्किकैः ॥ १२३ ॥
साधितं चेतसं नाम घृतं चेतोविकारनुत् ।
उन्मादमदमूर्च्छायज्वरापस्मारभेषजम् ॥ १२४ ॥
क्षीणक्षते समदुग्धकं घृतम् ।
षोडशभिर्जलपात्रैर्मृद्वीकायाः पलानि दश षट् च ।
अष्टौ मधुकफलानि च्छागन्मांर्सात्तुलाधं च ॥ १२५ ॥
अवशिष्टपादतोयं पूतं शीतं कषायमवतार्य ।
दत्त्वा कषायतुल्यं पयोऽथ नवसर्पिषः प्रस्थम् ॥ १२६ ॥
ऋषभकजीवकमेदाविदारिवीरात्मगुप्तानाम् ।
भव्याक्षोटनिकोचकशृङ्गाटकपद्मकबीजानाम् ॥ १२७ ॥
भागानक्षसमानश्च संसाधयेत्तु मृद्वग्नौ ।
सम्यक् सिद्धे तस्मिन् सितशर्करापलान्यष्टौ ॥ १२८ ॥
मधुनश्च पलान्यष्टौ चत्वारि पलानि पिप्पलीचूर्णात् ।
संमिश्रयेत्तु सर्वं क्षीणक्षतहितं समुद्दिष्टम् ॥ १२९ ॥
तैलाधिकारः २.] गदनिग्रहः । २०९
क्षीणक्षतेऽल्पशुक्रे तद्रक्तपैत्तिकेषु रोगेषु ।
स्त्रीकामेषु च देयं बल्यं वृष्यं च घृतमेतत् ॥ १३० ॥
वातगुल्मे हिङ्ग्वाद्यं घृतम् ।
हिङ्गुसौवर्चलव्योषविडदाडिमदीपकैः ।
पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः ॥ १३१ ॥
शठीवचाजमोदाम्लसुरसैर्दधिसंयुतैः ।
शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् ॥ १३२ ॥
इति श्रीशौढलप्रथिते गदनिग्रहे परिशिष्टः प्रथमो घृताधिकारः समाप्तः ।
अथ परिशिष्टो द्वितीयस्तैलाधिकारः ।
बृहत्सहचरतैलम् ।
क्वाथे साहचरे शतावरियुते क्षुद्रामृतैरण्डजे
श्योनाकारणिबिल्वगोक्षुरयुते सिंहाग्निमन्थोद्भवे ।
रास्नोशीरविशालदारुवरसैस्त्वक्पत्रमेदानखैः
स्पृक्काभैलघनैर्नखैर्वालुसरलैः कङ्कोलकुष्ठोत्पलैः ॥ १ ॥
कौन्तीकेशीबलाद्विसारिविनिशारक्ष्मायासताहानतै-
र्मञ्जिष्ठापुरसिंहचन्दनवरैश्चण्डाद्वहस्यौषेयकैः ।
श्रीवेष्टागुरुरोद्रकुङ्कुमवरैः कल्कैः समांशैरिमै-
स्तैलं क्षीरसमं विपाच्य विधिना बस्तौ च नस्ये ध्रुवम्॥२॥
पानाभ्यङ्गविधौ नियोजितमिदं वातादिसर्वामयान्
गुल्माष्ठीलशिरोऽर्त्तिजङ्गुलमुदरं श्वासामकासज्ज्वरम् ।
शोफं प्लीहगुदामयं च जठरं धातुक्षयाध्मानकं
अर्शःकुष्ठभगन्दरं च क्षपयेत्सर्वान् व्रणान् हन्ति च ॥ ३॥
जयति पत्रकरोगान् कामलां विड्विबन्धं
दिननिशितिमिरान्ध्यं गृध्रसीं मूर्द्धिवातम् ।
२१० आयुर्वेदग्रन्थमाला ।
सहचरमिति नाम्ना तैलमेतत्प्रसिद्धं
धनपतिनृपयोग्यं भाषितं शम्भुनैव ॥ ४ ॥
तरक्षाद्यं तैलम् ।
तरक्षस्य शृगालस्य पादावत्राणि संत्यजेत् ।
कोष्ठसारादिकं सर्वमुत्क्वाथ्य बहुलेऽम्भसि ॥ ५ ॥
पादशेषं परिगृह्य छागगव्यपयोन्वितम् ।
तैलं रससमं दत्त्वा मदिरामस्तुकाञ्जिकम् ॥ ६ ॥
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ।
करञ्जस्त्रिवृता मुस्ता पत्राङ्गं रेणुकं त्वचम् ॥ ७ ॥
क्षारद्वयं त्रिकटुकं पञ्चैव लवणानि च ।
वचा तुरगगन्धा च मञ्जिष्ठा सर्जगुग्गुलू ॥ ८ ॥
मेदा रास्ना च वर्षाभूरेला शैलेयकं बला ।
एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ९ ॥
तैलं तेनैव नश्यन्ति रोगा देहे शरीरिणाम् ।
अशीतिं वातजान् रोगान् शोफं शूलं कटिग्रहम् ॥ १०
मांसमेदःश्रितं वायुं हर्षं चैव भगन्दरम् ।
लूतां सद्योव्रणं चैव नाडीदुष्टव्रणानि च ॥ ११ ॥
भूतग्रहमपस्मारमुन्मादं च नियच्छति ।
हन्ति वातमसाध्यं च पामादद्रुविचर्चिकाः ॥ १२ ॥
एतत्तैलं सदाभ्यङ्गात्सर्वरोगहरं नृणाम् ।
व्याघ्रतैलम् ।
व्याघ्रं शिरः समादाय क्वाथयित्वा जले बहु ॥ १३ ॥
उदूखले क्षोदयित्वा रसं नीत्वा सुगालितम् ।
दद्यात्कटाहे सुदृढे पचेत्पाकं विधानतः ॥ १४ ॥
द्रव्याण्येतानि मतिमान् पादमानेन दापयेत् ।
देवदारु नखाकुष्ठी तगरं चन्दनं घनः ॥ १५ ॥
वातव्याधिकारः २.] गदनिग्रहः । २११
मञ्जिष्ठा पुष्करं रास्ना चातुर्जातकसैन्धवम् ।
पिप्पली मरिचं शुण्ठी मांसी सहचरो जलम् ॥ १६ ॥
अश्वगन्धात्मगुप्ते च क्रमुकश्च शतावरी ।
श्वदंष्ट्रा केतकी मूर्वा मधुकं चागुरुस्तथा ॥ १७ ॥
जातीफलं च सुमनापत्री कटुकरोहिणी ।
ग्रन्थिकं शुक्लकन्दा च शतपुष्पा पुनर्नवा ॥ १८ ॥
जीवनीयो गणश्चैव रालाकेसरबोलकम् ।
नखं च कृष्णसारश्च वत्सनाभस्तथैव च ॥ १९ ॥
अस्य तैलस्य सिद्धस्य शृणु वीर्यमतः परम् ।
अशीतिवातजान् रोगान् हन्यादाशु प्रयोजितः ॥ २० ॥
अश्वानां वातभग्नानां गजानां शिशूनामपि ।
अंशशोषे खुडे वाते क्रोष्टुशीर्षे कटिग्रहे ॥ २१ ॥
मन्यास्तम्भे हनुश्रोत्रवाते मन्दे तथाऽनले ।
व्यन्ध्यानां पुत्रजननं षण्ढानां कामवर्धनम् ॥ २२ ॥
अश्विभ्यां निर्मितं चैव प्रजानां हितकारकम् ।
अनेनैव विधानेन तैलं तारक्षजं पचेत् ॥ २३ ॥
शतावर्यास्तुलामेकां तुलां गोक्षुरकस्य च ।
तुलार्धं तिलतैलस्य चैरण्डस्य पलानि षट् ॥ २४ ॥
एरण्डपत्रस्वरसपलानि नव कारयेत् ।
वृकशिशुकतर्कारीसिन्दुवारसुवर्णकात् ॥ २५ ॥
नीलिकाग्रन्थिपर्णाभ्यां करञ्जकेशरशृङ्गात् ।
षट्पलं गुग्गुलोर्दत्त्वा तैलं मृद्वग्निना पचेत् ॥ २६
कौब्ज्याक्षेपकपङ्गुत्वसुप्तत्वस्तन्दभामिताः ।
पक्षाघातहनुस्तम्भसन्धिरोमादिकानपि ॥ २७ ॥
नाशयेत्तत्क्षणादेव तमः सूर्योदये यथा ।
तैलं वातारिनामेदं सर्ववातहरं परम् ॥ २८ ॥
२४२ आयुर्वेदीयग्रन्थमाला । [परिशिष्ट]
दारुणके सारिवाद्यं तैलम् ।
सारिवोग्रामृतायष्टीत्रिफलानीलमुत्पलम् ।
नीलीभृङ्गारकासीसमहानिम्बफलानि च ॥ २९ ॥
कटुतैलं पचेदेभिः सार्धं यवरसेन तु ।
कण्डूं दारुणकं हन्ति शिरोरोगे च शस्यते ॥ ३० ॥
वातरोगे दशाङ्गतैलम् ।
तर्कारीभृङ्गशिग्रूणां निर्गुण्डीशणयोस्तथा ।
वातघ्नवासाजातीनां निम्बभास्करयोरपि ॥ ३१ ॥
स्वरसं तु समादाय प्रत्येकं प्रस्थमानतः ।
प्रस्थं तु तिलतैलस्य शनैर्मृद्वग्निना पचेत् ॥ ३२ ॥
एरण्डमूलवर्षाभूहयगन्धाशतावरी-
रास्नागोक्षुरकाश्चैव शतपुष्पा च सैन्धवम् ॥ ३३ ॥
प्रत्येकं कर्षमादाय कर्षार्धं त्रिकटोस्तथा ।
एलात्वक्पत्रमांसीनां कर्षार्धं च विनिक्षिपेत् ॥ ३४ ॥
तैलेनानेन नश्यन्ति वातरोगाः सुदारुणाः ।
आक्षेपकं हनुस्तम्भमपतन्त्रकमर्दितम् ॥ ३५ ॥
अवबाहुकविश्वाचीपक्षाघातापतानकम् ।
स्नायुसन्धिगतं वातं सप्तधातुगतं तथा ॥ ३६ ॥
ऊरुस्तम्भं वातरक्तमामवातं सुदारुणम् ।
दशाङ्गसंज्ञकं तैलं हन्यादन्यांश्च वातजान् ॥ ३७ ॥
कर्पूराद्यं तैलम् ।
कर्पूरचन्दनवचासुरदारुदूर्वा-
गन्धर्वमूलरजनीद्वयसिन्धुजातैः ।
मेदाद्वयत्रिकटुकुष्करमूलकुष्ठ-
रास्नाद्रवाङ्कुरितोत्पलकुङ्कुमैश्च ॥ ३८
यष्ट्याह्विकेलिविरजोङ्कुरसारसार्थैः
तैलाधिकारः २.] गदनिग्रहः । २१३
शृङ्गीजटाह्वयुतैः खलु कल्कितैश्च ।
गोदुग्धयुक्त कटुकतैलमिदं विपक्वं
ख्यातं निहन्ति सहसा विविधा रुजश्च ॥ ३९ ॥
ज्वरे लाक्षादिकं तैलम् ।
लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम् ।
अश्वगन्धानिशादारुकौन्तीकुष्ठान्जचन्दनैः ॥ ४० ॥
मूर्वारोहिणिकासस्त्रातादाडमधुकैः सह ।
सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिभिः ॥ ४१ ॥
सर्वज्वरविषोन्मादश्वासापस्मारकासनुत् ।
यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते ॥ ४२ ॥
पित्तज्वरेण तीव्रेण दह्यमानस्य देहिनः ।
प्रवातमन्दिरस्थस्य कुर्याच्छीतामिमां क्रियाम् ॥ ४३ ॥
अन्वासनं तैलम् ।
पिप्पली पौष्करं मूलं शतपुष्पा वचा शठी ।
यष्ट्याह्नं देवदारुश्च चित्रको मदनात्फलम् ॥ ४४ ॥
बिल्वं कुष्ठं च कल्केन तैलात्पादांशकेन हि ।
तैलतो द्विगुणं क्षीरं दत्त्वा मृद्वग्निना पचेत् ॥ ४५ ॥
एतदन्वासनं नाम गुदस्रावं प्रवाहिकाम् ।
गुदव्यथां पुरीषस्य प्रवृत्तिं च पुनः पुनः ॥ ४६ ॥
वङ्क्षणस्यावरोधं च मलोरोधं कटिग्रहम् ।
निहन्ति वातजान् रोगान् दीपयत्यपि चानलम् ॥ ४७
महानीलं तैलम् ।
ककुभस्य श्रीपर्ण्याः पुष्पं जम्बूफलं प्रियङ्गुश्च ।
मञ्जिष्ठा त्रिफलागरुमदनफलं चित्रकञ्चैव ॥ ४८ ॥
नीलोत्पलमृणालकबीजककर्दमकनील्यश्च ।
मञ्ज्ञातः स्रोतोञ्जनमाम्रास्थिकासीसपौण्डरीकं च ॥ ४९
२१४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
मदयन्ती बाकुंचिका रोध्रं चैतैस्तु समभागैः ।
तुलसीपत्रं बीजं सणस्य सूर्यभक्ता च ॥ ५० ॥
काकमाचीदारुकयष्टीमधुमार्कवं च सैरेयः ।
एतैर्द्विगुणैः कल्कीकृतैर्बिभीतमज्जतैलं च ॥ ५१ ॥
कल्काच्चतुर्गुणितं, तच्चतुर्गुणोऽथ धात्रीस्वरसः ।
सूर्यातपे विपाच्यं नाम्ना तैलं महानीलम् ॥
पलितादिषु प्रयोज्यं जत्रूर्ध्वगेषु च निपुणतरैः ॥ ५२ ॥
पलिते नील्याद्यं तैलम् ।
नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च ।
बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विपाच्य ५३
एकीकृतं सर्वमदः प्रमाय पङ्केन तुल्यं नलिनीभवेन ।
संयोज्य पक्षं कलशे निधाय लौहे दृढे सद्मनि सापिधाने ५४
एतेन तैलं विपचेद्विमृश्य रसेन भृङ्गात्त्रिफलाभवेन ।
आसन्नपाके च परीक्षणार्थं पक्षं बलाकाभवमाक्षिपेच्च ॥ ५५ ॥
भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे ।
कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात्पलितानि हन्यात् ५६
उरुस्तम्भे द्विपञ्चमूल्याद्यं तैलम् ।
द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च ।
एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा ॥ ५७ ॥
काला भार्गी पृथकपर्णी सुवहा मदयन्तिका ।
विशल्योशीरकाश्मर्यहिंस्रादावस्तथाऽम्लिका ॥ ५८ ॥
चिरबिल्वो विशोकश्च बला चांशुमती तथा ।
पयस्या पीलुपर्णी च संगुडूची शतावरी ॥ ५९ ॥
एषां पञ्चपलान् भागान् जलद्रोणेषु सप्तसु ।
अष्टभागावशेषेण पचेत्तैलं शनैः शनैः ॥ ६० ॥
कुष्ठं च शतपुष्पा च चित्रकव्यूषणं वचा ।
देवदार्वगरु श्रेष्ठं विडङ्गं मुस्तमेव च ॥ ६१ ॥
तैलाधिकारः २.] गदनिग्रहः । २१५
अश्वगन्धा स्थिरा पाठा मूर्वा श्योनाकमेव च ।
पिप्पली शृङ्गवेरं च दन्ती हिङ्ग्वम्लवेतसौ ॥ ६२ ॥
गर्भेणानेन मिषकषायेण च साधयेत् ।
सिद्धं शीतं च पूतं च क्षौद्रेण सह संसृजेत् ॥ ६३ ॥
तदस्य दद्यात्पानार्थं तदेवाभ्यञ्जने भवेत् ।
ऊरुस्तम्भशिरोत्पन्नस्तैलेनानेन शाम्यति ॥ ६४ ॥
आढ्यवातं श्लीपदानि खुडवातांश्च नाशयेत् ।
अर्शसि कासीसाद्यं तैलम् ।
काशीसदन्तीसिन्धूत्थकरवीरानलैः पचेत् ॥ ६५ ॥
तैलमर्कपयोन्मिश्रमभ्यङ्गात्पायुकीसजित् ।
कृमिरोगे महावीर्यं तैलम् ।
शशमार्जारयोर्ब्रश्चोः कपेर्वृषवराहयोः ॥ ६६ ॥
मांसानां द्वे तुले सम्यक् पचेद्रोणेषु सप्तसु ।
अष्टभागावशेषेण तेन तैलाढकं पचेत् ॥ ६७ ॥
भासवायसकाकानां गृध्रसाखोः शुकस्य च ।
कलविङ्ककुलिङ्गानां कुक्कुटस्य च या वसा ॥ ६८ ॥
मज्जाश्च दापयेदेषां पित्तान्यपि च लाभतः ।
अपामार्गफलं भार्गी बीजं शैरीषमेव च ॥ ६९ ॥
फणिज्जकं विडङ्गानि शिग्रुकस्य त्वचस्तथा ।
त्र्यूषणं हिङ्गुकफलं वचा कुष्ठं सचन्दनम् ॥ ७० ॥
हस्तिपर्ण्याः शिरीषस्य ककुभस्यासनस्य च ।
पलाशस्यारिमेदस्य मूलं बीजं च संहरेत् ॥ ७१ ॥
पिचुमन्दस्य निर्यासः शल्लक्या गुग्गुलोस्तथा ।
हिङ्ग्वम्लवेतसौ चापि तथा ब्राह्मी निदिग्धिका ॥ ७२ ॥
तुल्यान्येतानि गर्भाणि तैलं कर्णप्रपूरणम् ।
नावनं चावगाहश्च शीर्षकृमिविनाशनम् ॥ ७३ ॥
२१६ आयुर्वेदियम्रन्थमाला । [परिशिष्टे
तैलस्यास्य प्रणीतस्य गन्धेन कृमयः स्थिराः ।
नश्यन्ति न विवर्धन्ते बलात्सुबहवोऽपि वा ॥ ७४ ॥
युक्त्यास्मिन् कृमयस्तैले नस्ये तु प्रतिपादिते ।
तालुं भित्त्वाऽऽशु शिरसः प्रद्रवन्त्युपपीडिताः ॥ ७५ ॥
सर्वकृमिहरं ह्येतत्तैलं शिरसि देहिनाम् ।
बलाबलं चिन्तयित्वा नस्यं तदवचारयेत् ॥ ७६ ॥
कृमिभिर्भक्ष्यमाणानां नराणामेतदुत्तमम् ।
तैलमेतन्महावीर्यं सर्वकृमिविनाशनम् ॥ ७७ ॥
अन्त्रवृद्धौ गन्धर्वतैलम् ।
शतमेरण्डमूलस्य शुण्ठीपलयवाढके ।
जलद्रोणेऽथ पयसा पचेदष्टगुणेन तु ॥ ७८ ॥
प्रस्थमेरण्डतैलस्य सन्मूला द्विपलं तथा ।
द्विपलं शृङ्गवेरस्य गर्भं दत्त्वा शनैः पचेत् ॥ ७९ ॥
पिबेत्तन्नियतः शुद्धो नरः क्षीरान्नभुक् भवेत् ।
अन्त्रवृद्धिं निहन्त्याशु तैलं गन्धर्वसंज्ञितम् ॥ ८० ॥
कर्णरोगे लाङ्गल्याद्यं तैलम् ।
लाङ्गलीकुष्ठमरिचं शुण्ठी मागधिकञ्च घनम् ।
सरसाञ्जनकासीसं जतुसैन्धवगुग्गुलु ॥ ८१ ॥
मनःशिलार्ले निर्गुण्डी विल्वं भल्लातकं तथा ।
कार्षिकैर्देवदारूत्थतैलस्य द्विपलेन च ॥ ८२ ॥
कुडवं तिलतैलस्य पचेन्मूत्रे चतुर्गुणे ।
तत्कर्णपूरणात्तिथ्यं पूयस्रावनिवारणम् ॥ ८३ ॥
कृमिघ्नं दुष्टनाडीनां व्रणानां चैव रोपणम् ।
शिरोरोगे महानीलं तैलम् ।
आदित्यवल्ल्या मूलानि कृष्णसैरेयकस्य च ॥ ८४ ॥
सुरसस्य च पत्राणि फलं कुष्माण्डकस्य च ।
मार्कवं गिरिकर्णी च मधुकं देवदारु च ॥ ८५ ॥
तैलाधिकारः २.] गदनिग्रहः । २१०
पृथक् दशपलांशानि पिप्पली त्रिफलाञ्जनम् ।
प्रपौण्डरीकं मञ्जिष्ठा रोध्रं कृष्णागरूत्पलम् ॥ ८६ ॥
आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम् ।
नीली भल्लातकास्थीनि कासीसं मदयन्तिका ॥ ८७ ॥
सोमराज्यसनात्पुष्पं कृष्णपिण्डितचित्रकौ ।
पुष्पाण्यर्जुनकाश्मर्योः श्यामा जम्बूफलानि च ॥ ८८ ॥
पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत् ।
बिभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् ॥ ८९ ॥
कुर्यादादित्यपाकं च यावत् शुष्को भवेद्रसः ।
लोहपात्रे ततः पूतं संशुद्धमथ योजयेत् ॥ ९० ॥
कुष्ठे गुञ्जामूलाद्यं तैलम् ।
गुञ्जिकामूलत्रिफलात्रिशूलीपुरतालकैः ।
पुत्रञ्जीवास्थिसिन्दूरमधूच्छिष्टनिशायुगैः ॥ ९१ ॥
विशानलशिखाकन्दवचापरशुच्छिन्नकैः ।
पृथक्पलार्धकैः पिष्टैस्तैलमर्धाढकं कटोः ॥ ९२ ॥
समालोड्य पचेत्सम्यग्गवां मूत्रे चतुर्गुणे ।
विपाच्य मतिमान् वैद्यः सर्वकुष्ठव्रणापहम् ॥ ९३ ॥
तैलं कुष्ठहरं वर्ण्यं फणिकीटविषापहम् ।
कण्डूविचर्चिकासिध्मवातासृक्शमनं परम् ॥ ९४ ॥
मञ्जिष्ठाद्यं तैलम् ।
मञ्जिष्ठा पद्मकं कुष्ठं चन्दनं गैरिकं बला ।
हरिद्रे द्वे प्रियङ्गुश्च नागं यष्टी सबाकुची ॥ ९५ ॥
दारु प्रपौण्डरीकं च पिष्ट्वाऽर्धपलिकानि तु ।
तैलप्रस्थं गवां क्षीरं दत्त्वा क्वाथं तथासनात् ॥ ९६ ॥
चतुर्गुणं भृङ्गरसं शनैर्मृद्वग्निना पचेत् ।
अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् ॥ ९७ ॥
केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे ।
दन्तकर्णाक्षिशूले च नस्येऽभ्यङ्गे च योजयेत् ॥ ९८ ॥
१९
३१८ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
सुकुञ्चिताग्रान् सुस्निग्धान् केशान् संजनयेद्बहून् ।
पलिते चेन्द्रलुप्ते च तैलमेतत्प्रशस्यते ॥ ९९ ॥
मञ्जिष्ठाद्यमिदं नाम्ना शिरोरोगनिवारणम् ।
कुष्ठे सिद्धार्थकतैलम् ।
करवीरवचातुम्बूत्साञ्जनकरञ्जमुद्गलाक्षाभिः ॥ १०० ॥
सारुष्करसिद्धार्थकमूलकबीजाग्निगण्डीरैः ।
रजनीद्वयमञ्जिष्ठाश्वग्वविडङ्गमाक्षिकैः ॥ १०१ ॥
सैन्धवकटुकालाम्बुपिच्युमर्दास्फोटमालतीभिश्च ।
सर्षपतैलं कारञ्जं वा गवां मूत्रेण वै सिद्धम् ॥ १०२ ॥
द्विगुणेन साधितमचिरादभ्यङ्गाद्धन्ति कुष्ठानि ।
अष्टादशापि सिद्धं तैलं सिद्धार्थकं नाम ॥ १०३ ॥
इति श्रीसोढलग्रथिते गदनिग्रहे परिशिष्टे द्वितीयस्तैलाधिकारः ।
अथातः परिशिष्टस्तृतीयश्चूर्णाधिकारः ।
मन्दाग्नौ शुण्ठ्याद्यं चूर्णम् ।
शुण्ठीं ससौवर्चलचित्रकाभयां सरामठां दाडिमसैन्धवान्विताम् ।
खादन्ति ये मन्दहुताशना भुवि भवन्ति ते वाडवतुल्यवह्नयः॥१॥
हृद्रोगे तिक्तकं चूर्णम् ।
मुस्तैलाचन्दनोशीरं यवानी व्योषवत्सकौ ।
फलं त्वक् कटुका दारु दार्बी त्वक्पर्पटस्तथा ॥ २ ॥
पटोलपत्रं षड्ग्रन्था मूर्वाभूनिम्बशिग्रुकाः ।
त्रायमाणा च सौराष्ट्री सुरा प्रतिविषा समाः ।
तिक्तकं नाम हृदुल्लम्शूलघ्नं सन्निपातनुत् ॥ ३ ॥
कुष्ठे लाक्षाद्यं चूर्णम् ।
लाक्षा दन्ती च मूर्वा मधुरसवचाङ्गीपिपाठाद्रिकर्णी
भल्लकङ्कुष्ठविडङ्गं त्रिकटुकराजनीससर्षपार्केरुबूकम् ।
चूर्णाधिकारः ३.] गदनिग्रहः । २१९
रक्ता निम्बं सुरतरु वचा पञ्चमूल्यौ च चूर्णं .
पीत्वा मासं जयति मितभुक् गव्यमूत्रेण कुष्ठम् ॥ ४ ॥
ग्रहण्यां पञ्चामृतरसः ।
कर्षे रसाद्गन्धकतस्तथैव विमर्द्य खल्वेऽभ्रकमेव तावत् ।
दद्यात्तथा ताप्यमयोरजश्च गव्येन चाज्येन विमृश्य किञ्चित् ५
पात्रे मन्दं वह्निना ज्वालयेत्तद्ध्यान्मात्रां रक्तिकैकप्रवृद्ध्या ।
यावन्माषो नाधिकं मानवेभ्यः कृत्वा वह्नेर्दीपनं हन्ति रोगान् ६
पाण्डुप्रीहोन्माददुर्नाममेहान् पित्तं साम्लं सातिसारं ज्वरं च ।
सद्यः शूलान् त्वग्ग्रहण्यामयं च तथैव रोगान् खलु सूतिकायाः७
अयं हि पञ्चामृतनामधेयो रसेन्द्रराजः क्षयरोगहारी ।
वातास्रमग्रं श्वयथुं च हन्यात्स्वयोग्ययुक्तः सकलान्विकारान् ८
पञ्चसमं चूर्णम् ।
पथ्यानागरजीरकारुय्यरुचकैः श्यामान्वितैः पञ्चभि-
श्चूर्णं पञ्चसमं समस्तरुजहृत्कायाग्निसंदीपनम् ।
घ्राणोत्साहविवर्धनं रुचिकरं गुल्मप्लीहापहं
प्रत्याध्मानकरादिशमनं सामानिले पूजितम् ॥ ९ ॥
छर्द्यां बदराद्यं चूर्णम् ।
बदरत्रिफलानां च व्योषस्य च पलद्वयम् ।
कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ १० ॥
एलात्वक्पत्रकाणां तु पलं स्याद्वंशरोचना ।
पलाष्टका, वेतसाम्लश्चतुष्पलमुदाहृतः ॥ ११ ॥
चूर्णं द्विगुणखण्डं तु हृद्यं वमिहरं परम् ।
यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ १२ ॥
उदरे नवक्षारकं चूर्णम् ।
तुवरीटङ्गणव्योषसामुद्रं सैन्धवं बिडम् ।
काचं सौवर्चलं चव्यं क्षारश्चेशुरकोद्भवः ॥ १३ ॥
२२० आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
एतानि समभागानि चूर्णीकृत्य प्रयोजयेत् ।
रक्तवातारुचिप्लीहोदररोगापनुत्तये ॥ १४ ॥
मन्दाग्नावजमोदाद्यं चूर्णम् ।
साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली ।
मद्येन तक्रेण तथोष्णवारिणा चूर्णपानमुदराग्निदीपनम् ॥१५॥
दन्तरोगे जातीपत्राद्यं चूर्णम् ।
जातीपत्रपुनर्नवातिलकणाकोरण्टपुष्पं वचा ।
शुण्ठीदीप्यकपध्यकाः समधृतं चूर्णं मुखे धारयेत् ॥
वातघ्नं कफनाशनं कृमिहरं दुर्गन्धिनिर्नाशनं
शूलं शोफहरं च रक्तशमनं दतांश्च वज्रायते ॥ १६ ॥
कासे जातीफलाद्यं चूर्णम् ।
जातीफलं विडङ्गं च चित्रकस्तगरस्तिलाः ।
तालीसं चन्दनं शुण्ठी लवङ्गं चोपकुञ्चिका ॥ १७ ॥
कर्पूरं चाभया धात्री मरिचं पिप्पली शुभा ।
एषामक्षसमान् भागान् चातुर्जातकसंयुतान् ॥ १८ ॥
पलानि त्रीणि भृङ्गायाः शर्करा समयोजिता ।
एतच्चूर्णं तु मधुना कर्षार्धं लेहयेत्तथा ॥ १९ ॥
जयेत्कासं क्षयं श्वासं ग्रहणीमग्निमार्दवम् ।
वातश्लेष्मोद्भवांश्चान्यान् प्रतिश्यायमरोचकम् ॥ २० ॥
एताः सर्वा रुजो हन्ति वृक्षमिन्द्राशनिर्यथा ।
दाडिमाद्यं चूर्णम् ।
दाडिमस्य पलान्यष्टौ शृङ्गवेरपलत्रयम् ॥ २१ ॥
पलद्वयं पिप्पली च कोलचूर्णं पलद्वयम् ।
यवानी चाजमोदा च मिशिश्चैवाम्लवेतसम् ॥ २२ ॥
वृक्षाम्लं चविका चात्र अभया च पलोन्मिता ।
सौवर्चलं धान्यकं च सूक्ष्मैला त्वक्तथैव च ॥ २३ ॥
चूर्णाधिकारः ३.] गदनिग्रहः । २२१
ग्रन्थिकं मरिचं चात्र पत्रकं सतुगाह्वयम् ।
एषामर्धपलान् भागान् सर्वैस्तुल्या सिता भवेत् ॥ २४ ॥
एतन्माकू भोजनाच्चूर्णं दीपनं गुल्मनाशनम् ।
अर्शांसि ग्रहणीदोषमतीसारं प्रवाहिकाम् ।
पार्श्वशूलमथानाहं प्रमेहांश्च प्रणाशयेत् ॥ २५ ॥
मन्दाग्नावामलक्यादिचूर्णम् ।
आमलकवह्निपथ्यामागधिकांसैन्धवैः कृतं चूर्णम् ।
विनिहन्ति कण्ठरोगं मन्दाग्निं रक्तपित्तमपि ॥ २६ ॥
स्त्रीरोगे मेथिकाद्यं चूर्णम् ।
मेथिका शतपुष्पा च यवानी मधुयष्टिका ।
त्रिकटु त्रिफला मुस्ता त्रिजातं च पुनर्नवा ॥ २७ ॥
ऋष्यप्रोक्ता समङ्गा च चन्दनं रक्तचन्दनम् ।
द्राक्षापुष्करमञ्जिष्ठाः समं चूर्णं प्रकल्पयेत् ॥ २८ ॥
घृतखण्डेन पक्तव्यं काले स्त्रीणां च दापयेत् ।
वन्ध्यानां गर्भजननं स्त्रीणां बलविवर्धनम् ॥ २९ ॥
रक्तवातप्रशमनं पित्तोपद्रवनाशनम् ।
त्रिदोषे रुद्धगर्भे च परमं सुखकारकम् ॥ ३० ॥
कामवृद्धौ राजयोगः ।
अहिफेनं वत्सनागः केशरं चव्यचित्रकम् ।
धत्तूरभृङ्गशिग्रूणां बीजानि सितजीरकम् ॥ ३१ ॥
कपिकच्छुश्चाश्वगन्धा कलिङ्गकलवङ्गकम् ।
अजमोदार्ककरभो मुशली च शतावरी ॥ ३२ ॥
पिप्पली पिप्पलीमूलं चातुर्जातकसंयुक्तम् ।
कटाहे मधुना पक्त्वा कुर्यात्पूगोपमा वटीः ॥ ३३ ॥
भोजनानन्तरं वक्त्रे गुटी धार्या घटीद्वयम् ।
जातीपत्री विशेषेण धारणीया मुखे सदा ॥ ३४ ॥
६३२ आयुर्वेदौयग्रन्थमाला ।
क्षाराम्लदधिवर्जं च कार्यं भोजनमुत्तमम् ।
कुष्ठत्वं स्वल्पवीर्यत्वं हन्याच्छीतमिवानलः ॥ ३५ ॥
अतिसारे प्रमेहे च मन्दाग्नौ राजयक्ष्मणि ।
आमवाते पाण्डुरोगे महावाते शिरोगदे ॥ ३६ ॥
प्लीह्नि पानीयजे रोगे सर्वाङ्गवात इष्यते ।
ईश्वरेण भगवता कार्तिकेयाय सुन्दरः ॥ ३७ ॥
एष द्वात्रिंशको नाम योगराजः प्रकीर्तितः ।
क्षये आभाद्यं चूर्णम् ।
आभा च धातुमाक्षीकं गिरिजं च त्रिजातकम् ॥ ३८ ॥
जीवर्षभकौ मेदा काकोली पुण्डरीयकम् ।
व्योषं च वालकं चैव पृथ्वी कालेयकं बिडम् ॥ ३९ ॥
एतानि समभागानि आयसं द्विगुणं क्षिपेत् ।
शर्करा च समा देया मधुना सह लेहयेत् ॥ ४० ॥
क्षयमेकादशाकारं श्वासं कासं तथैव च ।
स्वरभेदं पार्श्वशूलं ज्वरं कम्पं च दारुणम् ॥ ४१ ॥
रक्तनिष्ठीवनं तृष्णां पीनसं च हनुग्रहम् ।
हिध्मां च कण्ठरोगांश्च नाशयेन्नात्र संशयः ॥ ४२ ॥
पिप्पल्याद्यं चूर्णम् ।
चत्वारि पिप्पलीनां तु पञ्च सौवर्चलोद्भवाः ।
जीरकस्य त्रयो भागाः शुण्ठ्या भागत्रयं तथा ॥ ४३ ॥
सप्त सप्त स्मृता भागास्तीक्ष्णदाडिमसारयोः ।
द्वौ भागौ तिन्तिडीकस्य चत्वारश्चाम्लवेतसात् ॥ ४४ ॥
पञ्चागाः सैन्धवस्योक्तास्तथाऽर्धो हिङ्गुतः स्मृतः ।
निस्तुषानां विडङ्गानामेको भागः प्रकीर्तितः ॥ ४५ ॥
तत्सर्वमेकतः कृत्वा सूक्ष्मचूर्णं तु कारयेत् ।
लवणं दीपनमिदं वातश्लेष्मविकारनुत् ।
रुच्यमम्लेन संयुक्तं केवलं वा हितं तथा ॥ ४६
चूर्णाधिकारः ३.] गदनिग्रहः । २२३
मन्दाग्नौ रुचकाद्यं चूर्णम् ।
रुचकमरिचशुण्ठीजीरकैर्भागवृद्धै-
र्बिडलवणविभागः सैन्धवं चापि सार्धम् ।
कफपवनविकारे शस्यते वातगुल्मे
जनयति जठराग्निं भोजने चेत्सतक्रम् ॥ ४७ ॥
मन्दाग्नौ सिंहचूर्णम् ।
अर्धं हिङ्गुपलं पलं सुविमलं सौवर्चलं द्वे पले
प्रत्येकं मरिचाम्लदीप्यलवणाम्भोराशिजातान् क्षिपेत् ।
शुण्ठ्याश्च त्रिपलं चतुष्पलमपि स्याद्दाडिमं जीरकं
श्रीमत्सिंहणभूमिपालकथितं सेव्यं सदेदं बुधैः ॥ ४८ ॥
अर्शसि सूरणाद्यं चूर्णम् ।
सूरणं दहनं क्षारो मरिचं नागरं क्रमात् ।
अर्धार्धकमिदं चूर्ण क्षाराम्लार्द्रकभावितम् ॥ ४९ ॥
हन्यादर्शांसि शूलं च गुल्मप्लीहोदरकृमीन् ।
भुक्तं भुक्तं पचत्याशु शान्तमग्निं च दीपयेत् ॥ ५० ॥
वातरोगे हरीतकीयोगः ।
धान्यकाञ्जिकयुता हरीतकी हिङ्गुसैन्धवकणासुपूरिता ।
भक्षिता भवति वातरोगहा हन्त्यजीर्णमथ च क्षुधाकरी ॥ ५१ ॥
विद्रधौ भूनिम्बाद्यं चूर्णम् ।
भूनिम्बार्धपलं निशापलयुतं दार्व्याः पले द्वे तथा
दार्व्यर्धेन पुनर्नवां कुरु समां दार्वीसमः प्रग्रहः ।
सार्धे दुःस्पर्शया तु कटुका योज्या तदर्धेन वै
अश्माहं निशया समानममृता पादाधिकं खात्यलम्॥५२॥
एतद्वत्सकसप्तपर्णसहितं सुश्लक्ष्णचूर्णीकृतं
वासायाः स्वरसेन भावितमिदं त्रीन् सप्त वा वासरान् ।
भूयस्तण्डुलवारिणा प्रमुदितं पेयं पुरःस्थे रवौ
एतद्विद्रधिरोगिणां विजयकृत् चूर्णं तु गुह्योत्तमम् ॥ ५३ ॥
२२४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
ज्वरे किराततिक्ताद्यं चूर्णम् ।
किराततिक्तं त्रिफलापटोलं तिक्तेन्द्रबीजं सुरदारु दार्वीं ।
व्योषं शठीचन्दनयुग्मनिम्बं दुरालभाचन्दनपद्मकं च ॥ ५४॥
पुनर्नवोशीरविषागुडूचीत्रायन्तिकापिप्पलिमूलतुल्यम् ।
चूर्णं विलिह्यान्मधुनाऽथ वारिणा तथाऽनुपानं त्वमृतारसेन ५५
ज्वरं पुराणं विनिहन्ति शीघ्रं तृतीयकं वा वमिदाहयुक्तम् ।
चातुर्थकं चाक्षगतांश्च रोगान् सपीनसं कामलमाशु हन्ति ५६
कासे दुरालभाद्यं चूर्णम्।
दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ।
लिह्यात्कर्कटशृङ्गीं च कासे तैलेन वातजे ॥ ५७ ॥
ग्रहण्यां पिप्पलीमूलाद्यं चूर्णम् ।
समूला पिप्पली क्षारौ द्वौ पञ्चलवणानि च ।
मातुलुङ्गाभयारास्नाशठीमरिचनागरम् ॥ ५८ ॥
कृत्वा समांशं तच्चूर्णं पिबेत्यातः सुखाम्बुना ।
श्लेष्मके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥ ५९ ॥
ग्रहण्यां कुठेरकाद्यं चूर्णम्।
कुठेरकश्चामलकी यवानी फलत्रिकं चैव कटुत्रिकं च ।
वृन्ताकगण्डीरवृषं सनिम्बं कुष्ठं तथा चेन्द्रयवा विडङ्गम् ६०
बीजानि दद्यान्निचुलस्य दार्वी दुरालभा तिक्तकरोहिणी च ।
दुर्वाग्रगन्धाऽतिविषा गुडूची किराततिक्तं गजपिप्पली च ६१
सर्वाण्युपाहृत्य तु चूर्णमेषां भागांशयुक्तं लवणं द्विरंशम् ।
अयोरजः स्यात्त्रिगुणं च युक्तं फलत्रिकं स्याच्चतुरंशयुक्तम् ६२
चूर्णीकृतं तद्धृतभाजनस्थं पिबेच्च मद्येन सुखोदकेन ।
चूर्णं यथासात्म्यबलानुरूपं प्लीहाग्निसादारुचिपार्श्वशूलम्॥६३॥
प्रमेहकुष्ठानथ पाण्डुरोगं हृद्रोगगुल्मं विषमज्वरं च ।
भगन्दरं श्वासगदांश्च हन्यात् सुदुस्तरान् वातकफोद्भवांस्तु ।
एतद्धि चूर्णं बलमांसकारि ओजस्करं रोगगणापहारि ॥ ६४॥
चूर्णाधिकारः ३.] गदनिग्रहः । २२५
शोफे अयोरजश्चूर्णम्
त्रिफलायास्तु कुडवं पिप्पलीकुडवं तथा ।
विडङ्गमरिचाभ्यां तु द्वे पले च समावपेत् ॥ ६५ ॥
पलं पलं तु कुर्वीत दन्तीचित्रकयोरपि ।
गुडूचीपिप्पलीमूलकुष्ठानां च पलं पलम् ॥ ६६ ॥
शृङ्गवेरपले द्वे तु पञ्च चव्यात्पलानि च ।
शेषाण्यर्धपलीकानि यानि वक्ष्यामि तत्वतः ॥ ६७ ॥
रास्ना स्थिरा गोक्षुरकं मधुकं देवदारु च ।
वचा चातिविषा चैव मुस्तकं कटुरोहिणी ॥ ६८ ॥
कट्फलं सारिवे द्वे च श्यामा भल्लातकानि च ।
पुनर्नवा तेजवती त्वचं पत्रं शतावरी ॥ ६९ ॥
निदिग्धिका व्याघ्रनखं मञ्जिष्ठा कूटशाल्मली ।
निचुलं त्रिवृता भार्गी कुटजस्य फलं त्वचम् ॥ ७० ॥
एतदौषधसंभारं सूक्ष्मचूर्णं तु कारयेत् ।
यावन्त्येतानि चूर्णानि द्विस्तावत्स्यादयोरजः ॥ ७१ ॥
तदेकत्र कृतं शोफी लेहयेन्मधुसर्पिषा ।
क्षीरं चानुपिबेद्युक्त्या निरन्नक्षीरसेवनः ॥ ७२ ॥
अयोरजसमित्येतत्ख्यातं सिद्धं रसायनम् ।
संवत्सरप्रयोगेण शतवर्षं च जीवति ॥ ७३ ॥
निहन्ति श्वयथुं चोग्रं वृक्षमिन्द्राशनिर्यथा ।
अर्शांसि पाण्डुरोगं च मन्दाग्निं कृमिकोष्ठताम् ॥ ७४ ॥
भगन्दरं च पामां च कुष्ठानि किटिभानि च ।
यस्मिन् यस्मिन् विकारे हि युज्यते त्वयसो रजः ।
तं तं निहन्ति वै रोगं देवारीन् केशवो यथा ॥ ७५ ॥
पाण्डुरोगे नवायसं चूर्णम् ।
किराततिक्तं सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम् ।
दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकं च ॥ ७६ ।
२२६ आयुर्वेदियग्रन्थमाला । [परिशिष्टे
विडङ्गकं चैव समांशकानि सर्वैः समं चूर्णमथापि लौहम् ।
सर्पिर्मधुभ्यां गुटिका विधेयाः सेव्या सदा वै बदरप्रमाणाः॥७७
निहन्ति पाण्डुं श्वयथुं प्रमेहं हलीमकं संग्रहणीप्रदोषम् ।
श्वासं च कासं च सरक्तपित्तमर्शांसि चोर्ध्वग्रहमामवातम् ॥७८
प्रवाहिकायां कुटजाद्यं चूर्णम् ।
कुटजत्वगिन्द्रयवान् पाठां मुस्तं रसाञ्जनं शुण्ठीम् ।
बालं बिल्वमतिविषां कटुकं वै धातकीं समाहृत्य ॥ ७९ ॥
मधुनाऽऽलोड्य निपीतं तण्डुलपयसा प्रवाहिकां हरति ।
अर्शांसि गुदे शूलं पित्तरक्तातिसारं च ॥ ८० ॥
गुल्मे समशर्करं चूर्णम् ।
त्रिवृत्तुल्यार्धकर्षाणि हिङ्गुसौवर्चलत्वचः ।
श्रेष्ठाऽम्लवेतसव्योषं सर्वैस्तुल्या तु शर्करा ॥ ८१ ॥
समकं नाम तच्चूर्णं पिबेदुष्णेन वारिणा ।
गुल्मान् पञ्च सहृद्रोगान् कुक्षिशूलं च नाशयेत् ॥ ८२ ॥
शोषे तिलाद्यं चूर्णम् ।
तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यसंयुतम् ।
क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ८३ ॥
मन्दाग्नौ आमलकादिचूर्णम् ।
धात्री भागैकमुक्तं च पथ्या भागत्रयं तथा ।
कृष्णाभागत्रयं चैव द्वौ भागौ चित्रकस्य च ॥ ८४ ॥
भागैकं सैन्धवस्यैतच्चूर्णमामलकादिकम् ।
क्षुधाकरमिदं चूर्णं मन्दाग्निं विनिवारयेत् ॥ ८५ ॥
मन्दाग्नौ सौवर्चलाद्यं चूर्णम् ।
सौवर्चलं कणा शुण्ठी रामठं जीरकद्वयम् ।
अम्लसोदा च मरिचमम्लवेतसमेव च ॥ ८६ ॥
समभागमिदं चूर्णं मन्दाग्निविनिवारणम् ।
गुटिकाधिकारः ४.] गदनिग्रहः । २२७
मन्दामौ अग्निचूर्णम् ।
सौवर्चलं सैन्धवं च विडं क्षारः समांशकम् ॥ ८७ ॥
द्विगुणा च कणा शुण्ठी जीरकं षड्गुणं तथा ।
अग्निचूर्णकमेतच्च वातमन्दाग्निवारणम् ॥ ८८ ॥
मन्दामौ सिंहणचूर्णम् ।
सौवर्चलं सैन्धवं च सामुद्रं मरिचं तथा ।
दाडिमसारकं चाम्लवेतसं समभागकम् ॥ ८९ ॥
नागरं त्रिगुणं चैव जीरकं च चतुर्गुणम् ।
सिंहणं चूर्णमेतच्च मन्दाग्निविनिवारणम् ॥ ९० ॥
इति श्रीवैद्यसोढलग्रथिते गदनिग्रहे परिशिष्टे
चूर्णाधिकारस्तृतीयः ।
अथातो परिशिष्टो गुटिकाधिकारश्चतुर्थः ।
क्षतक्षीणे सर्पिर्गुटिका ।
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः ।
वीरर्द्धिक्षीरकाकोलीवृहतीकपिकच्छुभिः ॥ १ ॥
खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः ।
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतातपचेत् ॥ २ ॥
शर्कराऽष्टपलं शीते क्षौद्रार्धप्रस्थमेव च ।
'दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान् ॥ ३ ॥
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ।
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम् ॥ ४ ॥
क्षतक्षीणे क्षीरादिलेहगुटिका ।
नीत्वा विदारिख़रसं चतुःपलमिदं भिषक् ।
प्रस्थं तित्तिरिमांसस्य रसात् प्रस्थं घृतस्य च ॥ ५ ॥
प्रस्थद्वयं गवां क्षीरं रसादिक्षोस्तथाऽऽढकम् ।
पाकार्थं प्रक्षिपेद्भाण्डे तत्र कल्कमिमं क्षिपेत् ॥ ६ ॥