गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
गदनिग्रहः । ८९
दिने दिने प्रयोक्तव्यं जीर्णे भोज्यं यथेप्सितम्
वर्जयित्वा कुलत्थांश्च काकमाचीं कपोतकान् ॥२०३॥
योगराजोऽयमाख्यातो योगोऽयममृतोपमः ।
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् ॥ २०४ ॥
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ।
कुष्ठान्यजरकं मेहान् श्वासं हिक्कामरोचकम् ।
विशेषाद्गन्त्यपस्मारं कामलां गुदजानि च ॥ २०५ ॥
कुष्ठे त्रिफलाद्यं चूर्णम् ।
त्रिफलातिविषाकटुकानिम्बकलिङ्गवचापटोलानाम् ।
मागधिकरजनीद्वयपद्मकमार्गीमूर्वाविशालानाम् २०६॥
भूनिम्बपलाशानां दद्याद्विपलं त्रिवृत्त्रिगुणा ।
तैश्च समाना ब्राह्मी तच्चूर्णं सुसितुत् परम् ॥ २०७ ॥
मन्दाग्नौ व्योषाद्यं चूर्णम् ।
सव्योषं क्रिमिजित्सपञ्चलवणं साजाजिकं साभयं
सक्षारं सहुताशनं सचविकं सग्रन्थिकं सत्रिवृत् ।
एतच्चूर्णमुदश्विता प्रपिबतोष्णेन वा वारिणा
वह्निर्वृद्धिसुपैति सर्वगदजिद्ब्राजिष्णुतामावहेत् ॥२०८॥
पाण्डुरोगे खण्डसमकं चूर्णम् ।
त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः ।
त्वगेलापत्रचविकातिन्तिण्डीकाम्लवेतसैः ॥ २०९ ॥
समांशैर्धातुमाक्षीकं सर्वैस्तुल्यं प्रदापयेत् ।
लौहचूर्णं समं तैश्च सर्वैः खण्डं समांशकम् ॥ २१० ॥
चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् ।
भक्षयित्वा यथासात्म्यमनुपानं प्रयोजयेत् ॥ २११ ॥
नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलाः ।
पाण्डुरोगं तथा कासं हलीमकशिरोरुजम् ॥ २१२ ॥
९० आयुर्वेदियग्रन्थमाला । [चूर्णाधिकारः
प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् ।
रक्तपित्तं परीसर्पं श्वयथुं च नियच्छति ॥ २१३ ॥
शोफे पाठाद्यं चूर्णम् ।
पाठा सकुष्णा गजपिप्पली च निदिग्धिका नागरचित्रकौ च ।
सपिप्पलीमूलमजाजीरात्रिमस्तं च चूर्णं सुखतोयपीतम् ।
हन्यात्रिदोषं चिरजं च शोफं कुष्ठं च चूर्णस्य हि सुप्रयोगात् २१४
कुष्ठे बाकुचिकाद्यं चूर्णम्
बाकुची त्रिफला वह्निर्भल्लातं च शतावरी ।
सिन्दुवारोऽश्वगन्धा च निम्बः पञ्चाङ्गसंयुतः ॥२१५॥
मासैकं भक्षितं हन्ति चूर्णमेषां समांशकम् ।
सर्वकुष्ठानि वातांश्च रोगिणां नात्र संशयः ॥ २१६ ॥
कुष्ठे पृथुनिम्बपञ्चकं चूर्णम् ।
काले त्वक्छदसारबीजकुसुमैर्निम्बस्य तुल्यांशकैः
कृत्वा चूर्णमदः कटुत्रिकनिशाधात्र्यक्षपथ्यायुतैः ।
पञ्चारिष्टमिदं पयोमधुघृतैरुष्णाम्बुना वा पुमान्
पीत्वा कासगरप्रमेहपिटिकाकुष्ठादिभिर्मुच्यते ॥ २१७॥
कुष्ठे बृहत्पञ्चनिम्बकं चूर्णम् ।
रसायनं प्रवक्ष्यामि ब्रह्मणाऽमिततेजसा ।
प्रोक्तं यच्च्यवनादिभिरुपयुक्तं महर्षिभिः ॥ २१८ ॥
पुष्पकाले तु निम्बस्य कुसुमानि समाहरेत् ।
फलकाले फलं चैव मूलं पत्रं त्वचं तथा ॥ २१९ ॥
चित्रकोऽथ विडङ्गानि व्याधिघातकशक्रजौ ।
भल्लातकं हरीतक्यः शुण्ठी चामलकैः सह ॥ २२० ॥
श्वदंष्ट्रा लोहचूर्णं च भृङ्गरस्वरसाभावितम् ।
अरिष्टखदिराभ्यां च भावयेत्पञ्चनिम्बकम् ॥ २२१ ॥
भावयित्वा पुनः पिष्टमेकस्थाने च कारयेत् ।
ततो विडालपदकं सर्पिषा माक्षिकेण वा ॥ २२२ ॥
गदनिग्रहः । ९१
सुखाम्बुना वा तत्पीतं तत्क्षणादेव जीर्यति ।
हन्यात्कुष्ठानि सर्वाणि सप्त चैव महाक्षयान् ॥ २२३ ॥
अर्शांसि वातगुल्मं च खालित्यं पलितानि च ।
वातरक्तं विशेषेण श्वित्रं कुष्ठं तथैव च ॥ २२४ ॥
कुष्ठनाशनमेतद्धि ब्रह्मणा गदितं पुरा ।
वातातपसहो ह्येष न चात्र नियमः कचित् ॥ २२५ ॥
ग्राम्यधर्मं च कुर्वाणो भोजनं सार्वकार्मिकम् ।
मासमात्रोपयोगेन जीवेद्वर्षशतं पुमान् ॥ २२६ ॥
सर्वकामप्रसक्तोऽपि सर्वरोगैः प्रमुच्यते ।
षण्मासमुपपयोगेन सर्पैरपि न दश्यते ॥ २२७ ॥
वर्षमात्रोपयोगेन जीवेद्वर्षशतत्रयम् ।
नास्मात्परमस्त्वन्यत्कुष्ठरोगस्य भेषजम् ॥ २२८ ॥
साध्यानि यानि कुष्ठानि तान्येवासुं प्रकुर्वतः ।
निवर्तन्ते यथा क्रुद्धे सौपर्णे पवनाशिनः ॥ २२९ ॥
मन्दाग्नौ लवणभास्करं चूर्णम् ।
पिप्पली पिप्पलीमूलं धान्यकं कृष्णजीरकम् ।
सैन्धवं च बिडं चैव पत्रं तालीसकेसरम् ॥ २३० ॥
एषां द्विपलिकान् भागान् पञ्च सौवर्चलस्य च ।
सारिवाजाजिशुण्ठीनामेकैकस्य पलं पलम् ॥ २३१ ॥
त्वगेला चार्धभागे च समुद्रात्कुडवद्वयम् ।
दाडिमात्कुडवं चैकं द्वे पले चाम्लवेतसात् ॥ २३२ ॥
एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम् ।
लवणं भास्करं नाम भास्करेण विनिर्मितम् ॥ २३३॥
जगतोऽस्य हितार्थाय वातश्लेष्मामयापहम् ।
तक्रमस्तुसुराशुक्तसीधुकाञ्जिकयोजितम् ॥ २३४ ॥
जाङ्गलानूपमांसेषु भक्ष्येषु विविधेषु च ।
मन्दाग्नीनां खादयतां शक्तो भवति पावकः ॥ २३५ ॥
९२ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
अर्शांसि ग्रहणीदोषशोषकुष्ठभगन्दरान् ॥
हृद्रोगमामदोषांश्च विविधानुदरस्थितान् ॥ २३६ ॥
प्लीहानं वातगुल्मं च श्वासकासोदरक्षयान् ।
शूलं च नाशयेत्तत्तुष्टो नृप इवापदः ॥ २३७ ॥
परिणामशूले सामुद्राद्यं चूर्णम् ।
सामुद्रं सैन्धवं क्षारौ रुचकं रोमकं बिडम् ।
दन्ती लोहरजः किट्टं त्रिवृत्सूरणकं समम् ॥ २३८ ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
तं यथाग्निबलं चूर्णं किंचिदुष्णेन वारिणा ॥ २३९ ॥
जीर्णे जीर्णे तु भुञ्जीत मांसादिस्निग्धभोजनम् ।
नाभिशूलमुरःशूलं गुल्मप्लीहभवं च यत् ।
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ २४० ॥
तुम्बर्वाद्यं चूर्णम् ।
चूर्णं तदेतदिति तुम्बरुपुष्कराह्व-
पथ्याम्लवेतसविडं रुचकं सहिङ्गु ।
सिन्धूद्भवेन सहितं यववारिपीतं
शूलापतन्त्रकविकारहरं यदुक्तम् ॥ २४१ ॥
शूले हिङ्ग्वष्टकं चूर्णम् ।
व्योषाममोदयुतजीरकयुग्मसिन्धु-
चूर्णं सरामठविभागमिति प्रयुक्तम् ।
हिङ्ग्वष्टकं हरति हृज्जठरान्तराल-
शूलानि गुल्मगुदजग्रहणीविकारान् ॥ २४२ ॥
अरोचके द्वितीयं हिङ्ग्वष्टकं चूर्णम् ।
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणधृतानामष्टमो हिङ्गुभागः ।
प्रथमकवलयुक्तं सर्पिषा चूर्णमेत-
ज्जनयति जठराग्निं वातगुल्मं निहन्ति ॥२४३॥
३.] गदनिग्रहः । ९३
मन्दाग्नौ रामठायं चूर्णम् ।
रामठं रुचकं वह्निर्बचाजीरकनागरम् ।
विडङ्गं चित्रकं कुष्ठं कणामरिचवेतसम् ॥ २४४ ॥
दीप्यकं चेति सर्वाणि समभागानि कारयेत् ।
चूर्णमुष्णाम्बुना पीतं वह्निवृद्धिकरं परम् ॥ २४५ ॥
सर्वाङ्गशूले चित्रकाद्यं चूर्णम् ।
चित्रकं पिप्पलीमूलं पिप्पली गजपिप्पली ।
हिङ्गु पुष्करमूलं च दाडिमं कृष्णजीरकम् ॥ २४६ ॥
विडङ्गधान्यहपुषाशताह्वाहिङ्गुपत्रिकाः ।
चव्याम्लवेतसाजाजीबस्तगन्धाशटीवचाः ॥ २४७ ॥
तुम्बरूण्यजमोदा च यवानी रुचकं तथा ।
समभागानि सर्वाणि सर्वैस्तुल्यं तु नागरम् ॥ २४८ ॥
सूक्ष्मचूर्णं ततः कृत्वा मातुलुङ्गेन भावयेत् ।
ततो बिडालपदकं पिबेदुष्णेन वारिणा ॥ २४९ ॥
मद्येन मस्तुना वापि यूषेणापि रसेन वा ।
जयेत्सर्वाङ्गजं शूलं कोष्ठगं कुक्षिगं तथा ॥ २५० ॥
अर्शोजठरगुल्मघ्नं दीपनीयं विशेषतः ।
चित्रकाद्यमिदं चूर्णमामवातहरं परम् ॥ २५१ ॥
मन्दाग्नौ सैन्धवाद्यं चूर्णम् ।
सिन्धुसौवर्चलव्योषपथ्याजीरकचित्रकैः ।
विडङ्गयावशूकाह्वपाक्यग्रन्थिकरोमकैः ॥ २५२ ॥
तृवृच्चव्ययुतैश्चूर्णं तक्रेणाम्लाम्बुना पिबेत् ।
कल्पितं वह्निदीप्त्यर्थं प्रातरुत्थाय मानवः ॥ २५३ ॥
वातव्याधौ सामुद्राद्यं चूर्णम् ।
सामुद्रसौवर्चलसैन्धवानां क्षारो यवानामाजमोदभागः ।
हरीतकीपिप्पलीशृङ्गवेरं हिङ्गु विडङ्गं च समानि कुर्यात् ॥२५४॥
९४ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पिण्डान् प्रथमं तु पञ्च।
अजीर्णवातं ग्रहगुल्मवातं वातप्रमेहं विषमं च वातम्।
विषूचिकाकामलपाण्डुरोगान् श्वासं च कासं च हरेत्प्रयुक्तं २५५
नारसिंहं चूर्णम् ।
प्रस्थं शतावरीचूर्णं प्रस्थं गोक्षुरकस्य च ।
वाराह्या विंशतिपलं गडूच्याः पञ्चविंशतिः ॥ २५६ ॥
भल्लातकानां द्वात्रिंशच्चित्रकस्य दशैव तु ।
तिलानां लुञ्चितानां च प्रस्थं दद्यात्सुचूर्णितम् ॥ २५७
त्र्यूषणस्य पलान्यष्टौ शर्करायाश्च सप्ततिः ।
माक्षिकं शर्करार्धेन तदर्धेन च वै घृतम् ॥ २५८ ॥
शतावरीसमं देयं विदारीकन्दचूर्णकम् ।
एतानि सूक्ष्मचूर्णानि स्निग्धे भाण्डे निधापयेत् ॥२५९
पलार्धमुपयुञ्जीत यथेष्टं चात्र भोजनम् ।
एष मासोपयोगेन जरां हन्ति रुजामपि ॥ २६० ॥
वलीपलितखालित्यप्लीहव्याधींश्च पीनसान् ।
भगन्दरं मूत्रकृच्छ्रमश्मरींश्च भिनत्त्यपि ॥ २६१ ॥
अष्टादशैव कुष्ठानि तथाष्टावुदराणि च ।
प्रमेहं च महाव्याधिं पञ्चकासान् सुदुस्तरान् ॥ २६२ ॥
अशीतिर्वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान् ।
विंशतिः श्लैष्मिकांश्चैव संसृष्टान् सान्निपातिकान् ।
एतान् सर्वरुजो हन्ति वृक्षमन्द्राशनिर्यथा ॥ २६३ ॥
सकाञ्चनाभो मृगराजविक्रमस्तुरङ्गवेगो जलदौघनिःस्वनः ।
स्त्रीणां शतं गच्छति सोऽतिरम्यः सुरूपवान् सत्ववतां वरिष्ठः ॥
पुत्रान् संजनयेद्धिमान्नारसिंहनिभांस्तथा ।
नारसिंहेति विख्यातश्चूर्णो रोगगणापहः ॥ २६५ ॥
गदनिग्रहः । ९५
अतिसारे गङ्गाधरं चूर्णम् ।
अरुलुकघनशुण्ठीधातकीबिल्वरोध्रं
कुटजफलसमेतं मोचनिर्यासयुक्तम् ।
अतिविषजलपाठाः साहकारं च बीजं
मसृणमधुविमिश्रं तण्डुलाम्बुप्रपीतम् ॥ २६६ ॥
कफोद्भवं मारुतपित्तसंभवं जयेदतीसाररयं तथाऽऽमजम् ।
प्रवृद्धगङ्गाधरनाम चूर्णकं तथा हि दोषं ग्रहणीभवं च ॥ २६७ ॥
गुल्मे कटुत्रिकाद्यं चूर्णम् ।
कटुत्रिकं तिक्तकरोहिणीघनं किराततिक्तोऽथ शतक्रतोर्यवाः ।
ससप्तपर्णातिविषादुरालभाः पटोलमूलं सह त्रायमाणया ॥ २६८
गडूचीचव्यं सविडङ्गनिम्बकं प्रियङ्गुनीलोत्पलरोध्रमञ्जनम् ।
सधातकीमोचरसं सुचूर्णितं बुभुक्षितेऽद्यान्मृदुभोजनं हितम् ॥
शशैः सलावैरथवापि तित्तिरीर्निहन्ति गुल्मान् कफपित्तसंभवान्।
ज्वरातिसारग्रहणीगदारुचीन् प्रमेहमूत्रक्षयवर्ध्मविद्रधीन् २७०
अजीर्णपाण्डुक्षतकासशोफान् सदा प्रयुक्तः सगुडः कटुत्रिकः ।
स्थौल्ये व्योषाद्यं चूर्णम् ।
व्योषकट्वीवराशिश्रुविडङ्गातिविषास्थिराः ।
हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः ॥ २७१ ॥
निशे बृहत्यौ हपुषा पाठा मूलं च केबुकात् ।
एतच्चूर्णं मधु घृतं तैलं चापि दशांशकम् ॥ २७२ ॥
शक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत् ।
नृणां स्थौल्यादिकान्दोषान् कफमेदोभवांस्तथा ॥२७३॥
हृद्रोगकामलाश्रित्रश्वासकासगलग्रहान् ।
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम् ॥ २७४ ॥
वातकासे विडङ्गाद्यं चूर्णम् ।
विडङ्गं नागरं द्राक्षा पिप्पली हिङ्गु सैन्धवम् ।
भार्गी क्षारश्च तच्चूर्णं पिवेद्धि घृतमात्रया ॥ २७५ ॥
९६ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
सकलेऽनिलजे कासे हिक्कायामनिलार्तिषु ।
गुल्मे वचाद्यं चूर्णम् ।
वचा वत्सकबीजं च कुष्ठं चित्रकमेव च ॥ २७६ ॥
पिप्पली शृङ्गवेरं च पाठा कटुकरोहिणी ।
यवानी च पटोलं च सैन्धवातिविषे तथा ॥ २७७ ॥
हपुषा चाजगन्धा च शठी पौष्करमेव च ।
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ २७८ ॥
ततो बिडालपदकं पिबेदुष्णेन वारिणा ।
गुल्मान् पञ्च च हृद्रोगान् कुक्षिशूलं च नाशयेत् २७९
पाण्डुरोगे किराततिक्ताद्यं चूर्णम् ।
किराततिक्तं सुरदारु दार्वी मुस्ता गडूची कटुका पटोलम् ।
दुरालभा पर्पटकं सनिम्बं फलत्रिकं वह्निकटुत्रिकं च ॥ २८० ॥
विडङ्गसारं च समांशकानि ह्ययोरजोऽर्धेन विचूर्णितानि ।
खादन्नरः क्षौद्रघृतेन ईपत्स्थिरांश्च घोरानथ पाण्डुरोगान् २८१
आमोद्भवान् वातसमुत्थितांश्च पित्तोद्भवांश्श्लेष्मसमुद्भवांश्च ।
दुष्टव्रणान्वै कफविद्रधींश्च श्वित्राणि हन्याच्छतशः प्रयोगः २८२
कुष्ठादौ खण्डसमं चूर्णम् ।
त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः ।
त्वगेलापत्रचविकातिन्तिडीकाम्लवेतसैः ॥ २८३ ॥
समांशं धातुमाक्षीकं सर्वैस्तुल्या सिता भवेत् ।
भक्षयित्वा यथा सम्यगनुपानं प्रयोजयेत् ॥ २८४ ॥
चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् ।
नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलान् ॥ २८५ ॥
पाण्डुत्वं ग्रहणीदोषं हलीमकशिरोरुजम् ।
प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् ॥ २८६ ॥
रक्तपित्तं परीसर्पं श्वयथुं चाङ्गतापताम् ।
लभेताऽऽयुस्सुत्साहं बलवर्णस्थिराङ्गताम् ॥ २८७ ॥
चूर्णं खण्डसमं नाम समस्तान्नाशयेद्गदान् ।
कुष्ठे बाकुच्याद्यं चूर्णम् ।
पलानि संगृह्य दशेन्दुराज्या फलत्रयस्यापि समानमेतत् ।
विडङ्गसारस्य पलानि सप्त शिलाजतोऽर्धं च पुरस्य चैकम् ॥२८८
शतं च भल्लातकसत्फलानां पलं तथा पुष्करमूलनाम्नः ।
पलत्रयं लोहभवं सुचूर्णं तुरी पलार्धं ह्यथ कर्षभागाः ॥ २८९॥
सपत्रमुस्ताकणयष्टिकानां सचित्रकग्रन्थिककेशराणाम् ।
न्यग्रोधमूलोषणकुङ्कुमानामेकत्र संचूर्ण्य समं तु खण्डम् ॥२९०॥
खादेद्यथाग्निः प्रयतस्तु मात्रां कुष्ठान्यशेषाण्यपयान्ति नाशम् ।
अर्शोविकाराः षडपि प्रवृद्धाः श्वित्राणि चित्राण्युदराणि चाष्टौ ॥
क्षयाश्च कृच्छ्रः खलु पाण्डुरोगः कण्ठामया विंशतिरेव मेहाः ।
उन्मादरोगज्वरनेत्ररोगा नासोद्भवा पञ्चविधाश्च गुल्माः ॥२९२
वातमशीतिविकारं चत्वारिंशत्प्रभेदजं पित्तम् ।
श्लेष्माणं विंशतिकं विनाशमायाति दुष्टमपि ॥ २९३ ॥
भवति रुचिरदीप्तिर्गौरवर्णो मनुष्यः
समधिकशतवर्षं जीवतीह प्रगल्भम् ।
विघटितघनरोगो मासमात्रप्रयोगा-
द्युवतिनयनहारी हृष्टपुष्टो वृषश्च ॥ २९४ ॥
उदरे भस्मार्कचूर्णम् ।
युगर्तुसंख्यानि दलानि भानोश्चत्वारि काण्डानि सुधाद्रुमस्य ।
सुरेन्द्रवल्या दश सत्फलानि पञ्चैव पत्राणि कुमारिकायाः २९५
चत्वारि वृन्ताकवरोः फलानि व्याघ्रीचतुःषष्टिफलानि युक्त्या ।
पञ्चाङ्गमेकं हरिपूर्णकन्दं सिद्धार्थतैलं च पलप्रमाणम् ॥२९६॥
यवाहसौवर्चलधूर्त्तवार्धैः पलं पलं स्यात्क्रमशश्चतुर्णाम् ।
पलानि पञ्चैव शिवाह्वयस्य गोक्षुरकं चाऽपि वदन्ति वैद्याः २९७
गुरूपदेशादधिगम्य सम्यग्भाण्डे खबुद्ध्याऽर्कदलानि मुक्त्वा ।
सर्वाणि चान्यानि महौषधानि सिद्धार्थतैलेन विमिश्रितानि ॥
९८ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
प्रक्षिप्य संरुद्ध्य मुखं तदीयं मृत्कर्पटं सन्धिषु वेष्टनीयम् ।
गम्भीरगर्ते कुहरे निवेश्य प्रच्छादनीयं छगणैः प्रभूतैः ॥ २९९
उत्तार्य यत्नेन सुशीतलं तं क्षारं चतुर्भिः प्रहरैः सुसिद्धम् ।
सूक्ष्मीकृतं जीरककर्षषट्कं मध्ये क्षिपेदर्धपलं क्षवस्य ॥ ३०० ॥
तदाढ्यवाते ह्यथ पाण्डुरोगे भगन्दराजीर्णविषूचिकासु ।
आनाहबन्धे ग्रहणीविकारे पाषाणिके विद्रधिमूत्रकृच्छ्रे॥३०१॥
तक्रेण कर्षार्धमिदं प्रदेयं भस्मार्कचूर्णं दधिमस्तुना वा ।
श्वासे सकासे हृदयोपरोधे कण्ठग्रहे जीर्णगुडेन देयम् ॥३०२॥
तैलेन शूले मधुनोदरेषु गुल्मप्रकोपे फलपूरकेण ।
सौवीरकेणाथ सदा प्रयोज्यमुष्णेन सर्वत्र जलेन देयम् ॥३०३
यथा मृगेन्द्रो द्विपदर्पहन्ता वज्रं यथा भूधरमध्यभेदि ।
अयं तथा योगवरो जनानां निहन्ति दुष्टानपि रोगसंघान् ३०४
योगप्रदीपो मुनिभिः पुराणैर्निवेदितो मूलमसौ हितानाम् ।
अनेन भीमादपि गाढवह्निर्नरो भवेत्पथ्यहितोपचारैः ॥३०५॥
अर्शसि पूतीकरञ्जाद्यं चूर्णम् ।
पूतीकरञ्जसूरणसुरदालिकरञ्जसिन्धुजातानाम् ।
मौसल्यभयाशीतककङ्गुष्ठकाग्नीनां च तुल्यांशम् ॥ ३०६ ॥
चूर्णं तक्रेणैनं पिबतस्तेनैव चाश्नतो भुक्तम् ।
पक्वफलानीव तरोरर्शांसि पतन्ति मासेन ॥ ३०७ ॥
गुल्मे यवक्षाराद्यं चूर्णम् ।
यवक्षारं यवानी च पिबेदुष्णेन वारिणा ।
एतेन वातजं शूलं गुल्मश्चैव चिरोत्थितः ॥ ३०८ ॥
भिद्यते सप्तरात्रेण पवनेन यथा घनः ।
जीर्णे रसादिभिर्भोज्यं शशलावकपिञ्जलैः ॥ ३०९ ॥
ज्वरातिसारे व्योषाद्यं चूर्णम् ।
व्योषं वत्सकबीजं च निम्बभूनिम्बमार्कवम् ।
चित्रकं रोहिणी पाठा दार्वी चातिविषा समाः॥३१०॥
३.] गदनिग्रहः । ९९
सूक्ष्मचूर्णीकृताः सर्वास्तत्तुल्या वत्सकत्वचः ।
सर्वमेकत्र संयोज्य प्रपिबेत्तण्डुलाम्बुना ॥ ३११ ॥
सक्षौद्रं वा लिहेदेतत्पाचनं ग्राहि भेषजम् ।
तृष्णारुचिशमनं ज्वरातीसारनाशनम् ॥ ३१२ ॥
कामलां ग्रहणीदोषान् गुल्मं प्लीहानमेव च ।
प्रमेहं पाण्डुरोगं च श्वयथुं च विनाशयेत् ॥ ३१३ ॥
शोफे कृष्णाद्यं चूर्णम् ।
कृष्णाग्निविश्वघनजीरककण्टकारी-
पाठानिशाकरिकणामगधाजटानाम् ।
चूर्णं कवोष्णसलिलेरवलोड्य पीतं
नातः परं श्वयथुरोगहरं नराणाम् ॥ ३१४ ॥
श्वासहृद्रोगयोर्हिङ्गुपञ्चकं चूर्णम् ।
हिङ्गु सौवर्चलं विश्वं दाडिमं साम्लवेतसम् ।
श्वासहृद्रोगशमनमिदं स्याद्धिङ्गुपञ्चकम् ॥ ३१५ ॥
शोषे तिलाद्यं चूर्णम् ।
तिलकर्केन्धुलाजानां चूर्णं मध्वाज्यलेहितम् ।
क्षीरानुपानं मासेन शोषघ्नं नास्त्यतः परम् ॥ ३१६ ॥
वर्ध्मरोगे बिल्वमूलाद्यं चूर्णम् ।
मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् ।
कृष्णाग्रन्थिकवेल्लपञ्चलवणक्षारराजमोदान्वितं
पीतं काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं वर्ध्मजित् ३१७
सर्वमेहेष्विन्द्रयवाद्यं चूर्णम् ।
इन्द्रयवतीक्ष्णबीजासौवर्चलयावशूककर्षांशम् ।
मधुरसपाठाशुण्ठीद्विचतुरष्टांशकैर्भागैः ॥ ३१८ ॥
हिङ्ग्वर्धकर्षयुक्तं पेयं मण्डेन दध्ना वा ।
नाशयति सर्वमेहानर्शांसि च दीपयत्यग्निम् ॥ ३१९ ॥
१०० आयुर्वेदियग्रन्थमाला । [ चूर्णाधिकारः
शूले शर्कराद्यं चूर्णम् ।
शर्कराहिङ्गुमरिचं सूक्ष्मचूर्णीकृतं पिबेत् ।
सुखोदकेन तद्ध्याशु शूलघ्नमामृतोपमम् ॥ ३२० ॥
आनाहे द्विरुत्तरं हिङ्ग्वाद्यं चूर्णम् ।
द्विरुत्तरं हिङ्गुवचाग्निकुष्ठं सुवर्चिका चैव विडङ्गचूर्णम् ।
सुखाम्बुनानाहविषूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥३२१
पानीयच्छायायां मुस्ताद्यं चूर्णम् ।
मुस्ताजमोदबृहतीद्वयवाजिगन्धा-
द्विजीरकं दहनभृङ्गविडङ्गरास्नाः ।
भूनिम्बनिम्बभववल्कलराजवृक्ष-
सौवर्चलं त्रिकटुकं त्रिफला सभागी ॥ ३२२ ॥
सुधाकराख्यो जरणः सकुष्ठस्तथाऽपरो मालवदेशजातः ।
शतावरी सैन्धवमेथिके च निर्गुण्डिमुण्डीमुशलीगुडूच्यः॥३२३
वातव्याधिं विषूचीं च छायामपरदेशजाम् ।
निहन्ति सेवितं चूर्णमेतेषां पथ्यभोजिना ॥ ३२४ ॥
मन्दाग्नौ शतपुष्पाद्यं चूर्णम् ।
शतपुष्पा विडङ्गानि सैन्धवं मरिचं समम् ।
चूर्णमुष्णाम्बुना पीतमग्निसंदीपनं परम् ॥ ३२५ ॥
गुल्मे नारायणं चूर्णम् ।
शतपुष्पावचाकुष्ठकारव्योऽजाजिधान्यकम् ।
द्वौ क्षारौ पिप्पलीमूलं यवानी कुञ्चिका सठी ॥३२६॥
स्वर्णक्षीर्यजगन्धा च विशाला चित्रकः समाः ।
बृहदन्ती सप्तला च देया द्वित्रिचतुर्गुणाः ॥ ३२७ ॥
नारायणमिति ख्यातं चूर्णं श्रेष्ठं विरेचने ।
गुल्मानाहविषाजीर्णश्वासकासगलग्रहान् ॥ ३२८ ॥
शोफार्शोग्रहणीदोषभगन्दरगदान् जयेत् ।
गुल्मे त्र्यूषणाद्यं चूर्णम् ।
त्र्यूषणत्रिफलाहिङ्गुकार्षिकं त्रिवृता पलम् ॥ ३२९ ॥
३.] गदनिग्रहः । १०१
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसम् ।
तच्चूर्णं शर्करायुक्तं मद्येनाम्लेन पाययेत् ॥ ३३० ॥
गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चास्मिन् रसोदनम् ।
मन्दाग्नौ सैन्धवाद्यं चूर्णम् ।
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले ॥ ३३१ ॥
कुडवांशानि वृक्षाम्लं दाडिमं तिन्तिडीफलम् ।
एकैकं मारिचाजाज्योर्धान्यकार्धचतुर्थिका ॥ ३३२ ॥
कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत् ।
रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासजित् ॥ ३३३ ॥
आमातीसारे पिप्पल्याद्यं चूर्णम् ।
पिप्पली चन्दनं मुस्तामुशीरं कटुरोहिणी ।
पाठा वत्सकबीजं च हरीतक्यो महौषधम् ॥ ३३४ ॥
एतदामसमुत्थानमतीसारं सवेदनम् ।
कफात्मकं सपित्तं च पुरीषं चाशु रुन्धति ॥ ३३५ ॥
पीनसे चव्याद्यं चूर्णम् ।
चव्याम्लवेतसकटुकत्रिकतिन्तिडीक-
तालीसजीरकरुजादहनैः समांशैः ।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं
वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ ३३६ ॥
कासेऽजमोदादिभस्मचूर्णम् ।
अजमोदा पलद्वन्द्वं हरिद्रा च बिडं तथा ।
सारस्तु खदिरस्यापि औद्भिदं लवणं तथा ॥ ३३७ ॥
अभया पौष्करं भार्गी एलाटङ्कणकट्फलम् ।
वृषापामार्गयोर्मूलं क्षारयुग्मं तथैव च ॥ ३३८ ॥
प्रत्येकं पलमानि रविपुष्यचतुष्पलम् ।
चूर्णीकृत्य ततो दद्यात्कुमारीरसभावनाम् ॥ ३३९ ॥
१०२ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः
सान्तर्धूमं घटे दग्ध्वा चूर्णितं वस्त्रगालितम् ।
मधुना लीढमेतद्धि पञ्चकासनिवारणम् ॥ ३४० ॥
दाहरोगे द्राक्षादिचूर्णम् ।
द्राक्षालाजसितोत्पलं समधुकं खर्जूरगोपीतुगा-
. ह्रीवेरामलकाब्दचन्दननतं ककोलजातीफलम् ।
चातुर्जातकणं सधान्यकमिदं चूर्णं समां शर्करां
दत्त्वा शीतजलेन भक्षितमिदं पित्तं सदाहं जयेत् ३४१
मूर्च्छां छर्दिमरोचकं च प्रदरं पाण्डुं भ्रमं कामलां
यक्ष्माणं समदात्ययं सतमकं तृष्णास्रपित्तं तथा॥३४२॥
पाण्डुरोगे नवायसं चूर्णम् ।
त्र्यूषणत्रिफलामुस्तविडङ्गदहनाः समाः ।
नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा ॥ ३४३ ॥
भक्षयेत्पाण्डुहृद्रोगकुष्ठार्शःशमनं परम् ।
राजयक्ष्मणि द्वितीयं बृहन्नवायसचूर्णम् ।
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः ॥ ३४४ ॥
नवभागोन्मितैरेतैः समं तीक्ष्णं मृतं भवेत् ।
संचूर्ण्यालोडयेत्क्षौद्रे नित्यं यः सेवते नरः ॥ ३४५ ॥
कासं श्वासं क्षयं मेहं पाण्डुरोगं भगन्दरम् ।
ज्वरं मन्दानलं शोफं संमोहं ग्रहणीं जयेत् ॥ ३४६ ॥
इति श्रीसोढलप्रथिते गदनिग्रहे चूर्णाधिकारस्तृतीयः संपूर्णः ॥ ३ ॥
अथातो गुटिकाधिकारः प्रारभ्यते ।
अग्निमान्द्येऽभयाद्या गुटिका ॥
हरीतकीनां कुडवं त्र्यूषणाच्च पलत्रयम् ।
द्वे पले पिप्पलीूलात्तथा चैवाम्लवेतसात् ॥ १ ॥
चविकां चित्रकं धान्यमजाजीं हपुषामपि ।
धन्वानीं चाजमोदं च तिन्तिडीकं च दाडिमम् ॥ २ ॥
गदनिग्रहः ।
सौवर्चलं कारवीं च पलिकानि प्रदापयेत् ।
त्वगेलापत्रकनकं कर्शाशं चात्र दापयेत् ॥ ३ ॥
गुडस्य च पलान्यत्र दापयेद्द्विगुणानि च ।
अभयागुटिका ह्येषा मन्दाग्नेस्तु दीपनी ॥ ४ ॥
वातशोणितमानाहं गुल्मं पञ्चविधं तथा ।
चतुरो ग्रहणीदोषानर्शांसि षड्विधानि च ॥ ५ ॥
कासं क्षयविवन्धं च शूलं हृज्जठराश्रयम् ।
भक्षिता नाशयेत्येषा भोज्या नियंत्रणया स्मृता ॥ ६ ॥
अर्शसि काङ्कायनवटकः ।
पथ्या पञ्चपलान्येकमजाज्या जीरकस्य च ।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम् ॥ ७ ॥
पलाभिवृद्ध्या क्रमशौ यवक्षारपलद्वयम् ।
भल्लातकफलान्यष्टौ कन्दस्तद्विगुणो मतः ॥ ८ ॥
द्विगुणेन गुडैर्नैषां वटकानक्षसंमितान् ।
एकैकं भक्षयेत्प्रातस्तक्रमम्लं पिवेद्वनु ॥ ९ ॥
वह्निं संदीपयत्याशु ग्रहणीपाण्डुरोगजित् ।
काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना ॥ १० ॥
कथितो वटको ह्येष गुदजानां विनाशनः ।
गुल्मे काङ्कायनगुटिका ।
सठीं पुष्करमूलं च वह्निं लवणपञ्चकम् ।
शृङ्गवेरं वचां चैव पलिकानि समाहरेत् ॥ ११ ॥
त्रिवृतायाः पलं कुर्यात्रीन् कर्षानथ हिङ्गुतः ।
यवक्षारपले द्वे च द्वे पले चाम्लवेतसात् ॥ १२ ॥
यवान्यजाजिमरिचं धान्याकं शीतपुष्पकम् ।
उपकुञ्च्यजमोदाभ्यां तथैवाष्टमिकामपि ॥ १३ ॥
मातुलुङ्गरसेनैता गुटिकाः कारयेद्भिषक् ।
तासामेकां पिवेद्द्वे वा तिस्रोऽथ च सुखाम्बुना॥ १४ ॥
१०४ आयुर्वेदीयग्रन्थमाला । [ गुटिकाधिकारः
अम्लैश्र्च मद्यैः पातव्या घृतेन पयसा तथा ।
एषा काङ्कायनेनोक्ता गुटिका गुल्मनाशिनी ॥ १५ ॥
अर्शोहृद्रोगशमनी कृमीणां च विनाशिनी ।
गोमूत्रयुक्ता शमयेत्कफगुल्मं चिरोत्थितम् ॥ १६ ॥
क्षीरेण पित्तगुल्मं च मद्यैरम्लैश्च वातिकम् ।
त्रिफलारसमूत्रैश्च नियच्छेत्सान्निपातिकम् ॥ १७ ॥
रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् ।
गुल्मे निकुम्भाद्या गुटिका ।
निकुम्भरजनीपाठात्रिकटुत्रिफलाग्निकाः ।
बाला वृक्षकबीजं च चूर्णं स्यादनवो गुडः ॥ १८ ॥
पथ्याभिसहितं चूर्णं गवां मूत्रयुतं पचेत् ।
घनीभूतं तु गुटिकां कृत्वा खादेद्युक्तवान् ॥ १९ ॥
गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ।
हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् ॥ २० ॥
विड्बन्धेऽभयावटकाः ।
पथ्याकटुत्रिकविडङ्गलत्वगेलाः
सग्रन्थिकाः सचविकामलकाः समस्ताः ।
अक्षौ त्रिवृद्धवजटाचरणांघ्रिभागा
दन्त्याश्च षड्गुणसितामधुमोदकाः स्युः ॥ २१ ॥
विद्भेदनाय सुकुमारतराः सुहृद्याः
प्रोक्ताः प्रगाढतरविड़्भिधिकारिणस्ते ।
तावद्विरेचनकरा न भवन्ति याव-
देभिरतः पिबति वारि नरः सुखोष्णम् ॥ २२ ॥
हृद्रोगगुल्मगुदजश्वयथुप्रमेह-
पाण्डामयोदरविकारभगन्दरघ्नाः ।
स्थौल्याम्लवातविकृतिप्रशमार्थमेते-
श्चूर्णा इमिराग्निरभयावटकाः प्रदिष्टाः ॥ २३ ॥
गदनिग्रहः । १०५
पाण्डुरोगे वज्रकगुटिका ।
रोहिणीं चिरबिल्वं च कुटजं च फलत्रिकम् ।
मुस्तकं पिप्पलीमूलं यष्ट्याह्नं निम्बनागरम् ॥ २४ ॥
पकैनैषां कषायेण भावयेच्च शिलाजतु ।
शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥ २५ ॥
वांश्याः कर्कटशृङ्ग्याश्च मागध्याश्च पलं पलम् ।
धात्रीफलपलार्धं च व्याघ्रीमूलत्वचं तथा ॥ २६ ॥
पत्रत्वगेला गन्धार्थं दत्त्वा चूर्णानि कारयेत् ।
तं विमर्द्य यथान्यायं दद्यान्मधुपलत्रयम् ॥ २७ ॥
वर्तयेद्वटकानेतानुदुम्बरफलोपमान् ।
तत्रैव भक्षयेत्कल्के सानुपानं यथाबलम् ॥ २८ ॥
विडङ्गरसयूषैश्च सुरारिष्टासवादिभिः ।
क्षीरैर्वा दाडिमाम्लैर्वा पथ्यभोजी पिबेन्नरः ॥ २९ ॥
स जयेत्पाण्डुरोगासृग्दुष्टमेहगलग्रहान् ।
यक्ष्मकासांश्च वातादीन् श्वासशोफोदरामयान् ॥ ३० ॥
रोगानीकप्रणाशार्थं सृष्टा भगवता पुरा ।
वज्रकेति समाख्याता वटिकेऽयं महागुणा ॥ ३१ ॥
नैव दद्यात्कृतघ्नाय नास्तिकोयोद्धताय च ।
इष्टाय संप्रयोक्तव्या ब्राह्मणाय विशेषतः ॥ ३२ ॥
शूले शम्बूकाद्या गुटिका ।
पलानि त्रीणि शम्बूकाल्लोहचूर्णात्पलद्वयम् ।
रसाञ्जनात्पलं चैकं लोहकिट्टात्पुनः पलम् ॥ ३३ ॥
सर्वैः समां शर्करां च मधुना च परिप्लुताम् ।
सर्वमेतत्समाहृत्य मोदकान्कारयेद्भिषक् ॥ ३४ ॥
तान् भक्षयेत्प्रयत्नेन शूले गुल्मे हृदामये ।
विशेषतः पित्तशूले शोफे पाण्डूदरे भ्रमे ॥ ३५ ॥
१०६ आयुर्वेदौयग्रन्थमाला। [गुटिकाधिकारः
दुर्नाम्नि कासे कृच्छ्रे च प्रमेहाश्मरिवृद्धिषु ।
अग्निमान्द्ये स्मृतिभ्रंशे पीनसार्धावभेदके ॥ ३६ ॥
कल्याणवटकाः ।
विडङ्गं पिप्पलीमूलं त्रिफलाधान्यचित्रकान् ।
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पली- ॥ ३७ ॥
लवणान्यजमोदं च चूर्णितं कार्षिकं पृथक् ।
तिलतैलं त्रिवृच्चूर्णं भागौ चाष्टपलोन्मितौ ॥ ३८ ॥
धात्रीरसस्य प्रस्थांस्त्रीन् गुडार्धकतूलां तथा ।
पक्त्वा मृदग्निना खादेदुत्तार्योदुम्बरोपमान् ॥ ३९ ॥
गुडान् कृत्वा विचार्या स्याद्विहाराचारयन्त्रणा ।
मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ॥ ४० ॥
अस्त्रमं च यकृच्छूलं कासं शोषं गरं विषम् ।
कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरम् ॥ ४१ ॥
ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते ।
कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ॥४२॥
क्षतक्षीणे एलाद्य गुटिका ।
एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा ।
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ॥ ४३ ॥
संचूर्ण्य मधुना युक्त्या गुटिकाः संप्रकल्पयेत् ।
अक्षतुल्यां ततश्चैकां भक्षयेत्तां दिने दिने ॥ ४४ ॥
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदभ्रमम् ।
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलसमरोचकम् ॥ ४५ ॥
शोषप्लीहाढ्यवातांश्च स्वरभेदं तथा क्षयम् ।
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥ ४६ ॥
क्षतक्षीणे सर्पिर्गुटिका ।
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा ।
पञ्चानां क्षीरवृक्षाणां शुङ्गा मुस्तंञ्चका अपि ॥ ४७ ॥
एषां कषाये द्विक्षीरे विदार्याः स्वरसांशके ।
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम् ॥ ४८ ॥
सितापलानि पूतेऽस्मिञ्छीते द्वात्रिंशदावपेत् ।
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ॥ ४९ ॥
सक्षौद्रं कुडवं शीतं तत्सर्वं खजमूर्च्छितम् ।
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत् ॥ ५० ॥
ताञ्जग्ध्वा पलिकान्क्षीरं मद्यं चानुपिबेत्कफे ।
शोषे कासे क्षतक्षीणे श्रमस्त्रीभारकर्शिते ॥ ५१ ॥
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते ।
शस्ता पार्श्वशिरःशूले भेदे च हस्तपादयोः ॥ ५२ ॥
पाण्डुरोगे मण्डूरवटकाः ।
पञ्चकोलं समरिचं देवदारुफलत्रिकम् ।
विडङ्गमुस्तं तुल्यानि भागांस्तु पलसंमितान् ॥ ५३ ॥
यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः ।
पक्त्वाऽष्टगुणिते मूत्रे घनीभूते तदुद्धरेत् ॥ ५४ ॥
ततोऽक्षमात्रान्वटकान् पिबेत्तक्रेण तक्रभुक् ।
पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ॥ ५५ ॥
अर्शांसि ग्रहणीदोषशोफमूत्रहलीमकम् ।
क्रिमीन्प्लीहानमुदरं हृद्रोगं चाशु नाशयेत् ॥ ५६ ॥
मण्डूरवटका ह्येते रोगानीकप्रणाशनाः ।
पाण्डुरोगे द्वितीयो मण्डूरवटकः ।
त्र्यूषणं त्रिफला मुस्तविडङ्गं चव्यचित्रकौ ॥ ५७ ॥
दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च ।
एतान् द्विपलिकान् भागांश्चूर्णं कृत्वा पृथक् पृथक् ५८॥
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ।
मूत्रमष्टगुणं कृत्वा तस्मिंश्च प्रक्षिपेत्ततः ॥ ५९ ॥
शनैः सिद्धं ततः शीताः कार्याः कर्षसमा गुडाः ।
१०८ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः
यथाग्नि भक्षणीयास्ते प्लीहपाण्डामयापहाः ॥ ६० ॥
ग्रहप्यर्शोनुदश्चैव तक्रवाव्याशिनः स्मृताः ।
शोषे क्षारगुटिका ।
क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च ।
सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम् ॥ ६१ ॥
कलिङ्गवं चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम् ।
सहिङ्गुकर्षलवणं शुष्कचूर्णं द्रोणं तथा मूलकशुण्ठिकानाम् ॥६२॥
स्याद्भस्मनस्तं सलिलेन साध्यमालोड्य यावद्धनमप्रदग्धम् ।
वर्ती ततः कोलसमानमात्रां कृत्वा सुशुष्कां विधिना प्रयुञ्ज्यात् ॥
प्लीहोदरश्वित्रहलीमकार्शःपाण्डामयारोचकशोषशोफान् ।
विषूचिकागुल्मगराश्मरींश्च सश्वासकासान् प्रणदेत्सकुष्ठान् ६४
कुष्ठे विडङ्गसाराद्या गुटिकाः ।
विडङ्गसारामलकाभयानां पलं पलं स्यात्रिवृतात्रयं च
गुडस्य च द्वादश एष योगो मासेन त्रिंशद्गुटिकोपयोगः ॥६५
इयं हि कुष्ठज्वरगुल्मपाण्डुता-
भगन्दरश्वासगरोदराशसाम् ।
प्रणाशनी यक्षपतिः स्वयं ददौ
स माणिभद्रः किल शाक्यभिक्षवे ॥ ६६ ॥
कुष्ठे माणिभद्रवटकः ।
विडङ्गामलकं पथ्या पलांशाश्च समा त्रिवृत् ।
गुडश्च सर्वद्विगुणो मासस्यं वटकाः कृताः ॥ ६७ ॥
कुष्ठानि पिडकार्शासि कृमिगुल्मोदराणि च ।
कासं श्वासं च शमयेद्विशेषान्माणिभद्रकः ॥ ६८ ॥
अर्शसि सूरणवटकाः ।
षोडश सूरणभागा वह्नेरष्टौ महौषधस्यापि ।
अर्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्धेन ॥ ६९ ॥
१ त्रिंशद्वटकाः कार्या इत्यर्थः ।