सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

४. चतुर्थ खण्ड: रसायन, वाजीकरण, विष-चिकित्सा व उपसंहार

घृताधिकारः १] गदनिग्रहः । २०९
सूर्पपर्णीयुतैरेभिर्महाकल्याणकं परम् ।
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः ॥ ४२ ॥
विसर्पे महागौरं घृतम् ।
क्षीरवृक्षप्रवालानि कुमुदान्युत्पलानि च ।
सौगन्धिकानि पद्मानि शालूकानि बिसानि च ॥ ४३ ॥
मृणालकुशकासेक्षुदर्भगुन्द्रेक्षुवालिकाः ।
नलवेतसकुम्भीकनालीसर्ज्जार्जुनखनाः ॥ ४४ ॥
कदलीपत्रशेवालकसेरुघोटकानि च ।
परूषकमधूकानि श्रीपर्ण्याममलकानि च ॥ ४५ ॥
लामज्जकं चन्दनं च विदारीञ्च शतावरी ।
समङ्गा धातकी रोध्रं जीवनीयानि यानि च ॥ ४६ ॥
शीतवीर्यांस्तु ये केचिज्जलजानूपसंश्रिताः ।
एतत्सम्भृत्य सम्भारं क्षीरद्रोणेषु सप्तसु ॥ ४७ ॥
पचेन्निस्स्राव्य तच्छीतं मन्थानेन विमन्थयेत् ।
यत्ततो जायते सर्पिस्तत्पचेत्पुनरेव तु ॥ ४८ ॥
द्रव्यैस्तैरेव पूर्वोक्तैः शनैर्मृद्वग्निना भिषक् ।
हन्यादेतद्विसर्पांस्तु सर्वधातुश्रितान् व्रणान् ॥ ४९ ॥
तोयमग्निं यथा दीप्तं नाम्ना गौरं घृतं महत् ।
सप्ताङ्गं घृतम् ।
शङ्खपुष्पीगुडूच्युग्राशतावर्यरुवल्लिकाः ॥ ५० ॥
मलपूं ब्रह्मसोमां च कल्कीकृत्य घृतं पचेत् ।
दुग्धं चतुर्गुणं दत्त्वा वातश्लेष्महरं च तत् ।
मेधाकरं तथाऽयुष्यं सप्ताङ्गमिति कीर्तितम् ॥ ५१ ॥
अष्टाङ्गं घृतम् ।
मण्डूकीं सवचां सशङ्खकुसुमां ब्राह्मीं गुडूचीं तथा
श्वेतां बाकुचिकां शतावरियुतां सब्रह्मसौवर्चलाम् ।

२०२ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
कृत्वांशैः पलिकैरेमानि विविधद्रव्याणि तैः कल्कितैः
सर्पिःप्रस्थमथाढकेन पयसा युक्त्या पचेद्बुद्धिमान् ॥ ५२ ॥
नाम्नाऽष्टाङ्गमिदं विदेहविहितं ख्यातं घृतं यः पिबेत्
स श्लोकस्य सहस्रमेकदिवसे श्रुत्वाऽखिलं धारयेत् ।
अक्षीणप्रतिभः सुचारुवदनः स्पष्टाभिभाषी भवेत्
लोके शुक्रबृहस्पतिप्रतिसमः पूज्यश्च राज्ञो भवेत् ॥ ५३ ॥
बालग्रहे फलघृतम् ।
बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाद्वयैः ।
तोयदत्रिफलाकौन्तीवाजिगन्धामरुद्रुमैः ॥ ५४ ॥
वचाजमोदाकाकोलीमेदामधुकपद्मकैः ।
सशर्करैर्हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ॥ ५५ ॥
बालानां ग्रहजुष्टानां पुंसां दुष्टाल्परेतसाम् ।
ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चापि गर्भदम् ॥ ५६ ॥
चातुर्थकज्वरे महापैशार्चकं घृतम् ।
त्रायमाणा जया वीरा नाकुली गन्धनाकुली ।
कायस्था च वयस्था च चोरकश्च पलङ्कषा ॥ ५७ ॥
शूकरी चटिला छात्रा सातिच्छत्रा सुमर्कटी ।
मोरटा पूतना केशी स्थिरा कटुकरोहिणी ॥ ५८ ॥
महापुरुषदन्ता च वृश्चिकाली कुटन्नटा ।
सिद्धमेभिर्घृतं पेयं चातुर्थकविनाशनम् ॥ ५९ ॥
महापेशाचकं नाम सर्पिरेतज्ज्वरापहम् ।
भूतग्रहमपस्मारमुन्मादं च नियच्छति ॥ ६० ॥
शोषे जीवन्त्याद्यं घृतम् ।
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ।
शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ६१ ॥
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ।
पिप्पलीं च समां पिष्ट्वा घृतमेभिर्विपाचयेत् ॥ ६२ ॥

घृताधिकारः १] गदनिग्रहः । २०३
एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् ।
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ॥ ६३ ॥
महातिक्तकं घृतम् ।
निम्बः सप्तच्छदः पाठा गुडूची सशतावरी ।
कृतमालः करञ्जौ द्वौ खदिरो वत्सको धवः ॥ ६४ ॥
सपटोलः पर्पटको विशाला चित्रकस्तथा ।
एतानि समभागानि कषायमुपकल्पयेत् ॥ ६५ ॥
भेषजानि प्रपेष्याणि तत्रेमानि प्रदापयेत् ।
भूनिम्बः कटुका मुस्ता दन्ती पर्पटको वचा ॥ ६६ ॥
विशालातिविषे मूर्वा यष्ट्याह्वं सारिवाद्वयम् ।
अवल्गुजा हरिद्रे द्वे दुःस्पर्शा रक्तचन्दनम् ॥ ६७ ॥
कृमिघ्नः पिप्पली पाठा चित्रको देवदारु च ।
भल्लातकान्युशीरं च सम्पाकः सकलिङ्गकः ॥ ६८ ॥
एतैरक्षप्रमाणैस्तु घृतस्यार्द्धाढकं पचेत् ।
धात्रीरसस्तु द्विगुणो घृतात्क्वाथश्चतुर्गुणः ॥ ६९ ॥
सर्पिरेतन्नरः पीत्वा सर्वकुष्ठैर्विमुच्यते ।
वातरक्तं सवीसर्पं रक्तस्रावं च दारुणम् ॥ ७० ॥
पित्तासृक्कामलाकण्डूगरान् योगशतैरपि ।
असाधितान् महारोगान् महातिक्तं प्रसाधयेत् ॥ ७१ ॥
वातव्याधौ दशमूलार्थं घृतम् ।
द्रोणेऽम्भसः पचेद्भागान् दशमूल्याश्चतुःपलान् ।
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ॥ ७२ ॥
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः ।
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः ॥ ७३ ॥
सक्षीरैः सर्पिषः प्रस्थं सिद्धं केवलवातनुत् ।
निरत्ययं प्रयोक्तव्यं पानाभ्यञ्जनबस्तिषु ॥ ७४ ॥

२०४ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे
कासे बृहत्कण्टकारीघृतम् ।
समूलपत्रशाखायाः कण्टकार्या रसाढके ।
घृतप्रस्थं बलान्योपविडङ्गशठिचित्रकैः ॥ ७५ ॥
सौवर्चलयवक्षारबिल्वामलकपौष्करैः ।
सैन्धवग्रन्थिकपर्णीद्राग्रेवदारुपयोधरैः ॥ ७६ ॥
वृश्चीवबृहतीपथ्यायवानीदाडिमर्द्धिभिः ।
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः ॥ ७७ ॥
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् ।
कल्कैश्च सर्वकांसेषु हिक्काश्वासेषु शस्यते ।
कण्टकारीघृतं सिद्धं कफव्याधिविनाशनम् ॥ ७८ ॥
व्रणे जात्याद्यं घृतम् ।
जातीनिम्बपटोलपत्रकटुकादार्वांनिशासारिवा-
मञ्जिष्ठामयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः ।
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुद्ध्यन्ति रोहन्ति च ७९
प्रवाहिकायां त्र्यूषणाद्यं घृतम् ।
त्र्यूषणं त्रिफला निम्बं चित्रको गजपिप्पली ।
बिल्वं कर्कोटिका हिंस्रा विडङ्गानि निदिग्धिका ॥ ८० ॥
घृतप्रस्थं पचेदेभिर्गवां मूत्रे चतुर्गुणे ।
पीतं प्रयोगतः काले हन्यादेतत्प्रवाहिकाम् ॥ ८१ ॥
रक्तपित्ते कसेरुकं घृतम् ।
द्राक्षेक्षुकाश्मर्यशतावरीणां तथा विदार्याः स्वरसस्य चैव ।
कसेरुकाणां तु तथा कषायं प्रस्थं पृथक् क्षीरचतुर्गुणं च ॥८२
घृतं तु शेफालिशतावरीणां त्रायन्तिकाया अपि कल्कसिद्धम् ।
प्रायोगिकं सर्पिरुदाहरन्ति कसेरुकं मारुतपित्तघाति ।
विसर्पदाहज्वररक्तपित्ते क्षीणक्षतानां च रसानीयम् ॥ ८३ ॥

घृताधिकारः १.] गदनिग्रहः । २०५
नेत्ररोगे द्राक्षाद्यं घृतम् ।
द्राक्षा श्रवाना सितशर्करा च राजादनं सान्मधुयष्टिका च ।
मञ्जिष्ठनीलोत्पलपुण्डरीकं काकोलियुग्मं त्वथ जीवकञ्च॥८४॥
दुग्धक्षमामैर्विपचेद्घृतस्य प्रस्थं समग्रं पयसा च तुल्यम् ।
नेत्रास्रराजीपटलानि काचमश्रुप्रसेकं तिमिरं च हन्ति ।
दृष्टिप्रसादं च नवं करोति शिरोधर्धरोगे च हितं नराणाम्॥८५॥
रक्तपित्ते दाडिमाद्यं घृतम् ।
दाडिमं तिन्तिडीकं च नागपुष्पं शतावरी ।
काकोली क्षीरकाकोली विदारी यक्षहस्तकः ॥ ८६ ॥
बीजपूरकमूलं च राजवृक्षात्मगुप्तयोः ।
कुष्ठं चेति समैरेतैर्धृतप्रस्थं विपाचयेत् ॥ ८७ ॥
चतुर्गुणेन पयसा जलेनाष्टगुणेन च ।
तत्सर्पिः पिबतः सिद्धं कासश्वासापतानकाः ॥ ८८ ॥
हृद्रोगो रक्तपित्तं च ह्यचिराद्यान्ति संक्षयम् ।
योनिरोगे बृहन्मूलाद्यं घृतम् ।
पञ्चमूलं बृहद्व्याघ्रीं त्रिकण्टैरण्डकः बलम् ।
प्रत्येकं, बिल्वकक्वाथ प्रस्थार्धं प्रस्थमुत्तमम् ॥ ८९ ॥
जलद्रोणे विपाच्यैतद्ग्राह्यं पादावशेषितम् ।
पादक्षेपे घृतप्रस्थं दध्नाढकयुतं न्यसेत् ॥ ९० ॥
पलत्रयं यवक्षारकल्कं युक्त्या विपाचयेत् ।
योनिरोगे गुल्मरोगे वर्ध्मेश्वप्युदरेषु च ॥ ९१ ॥
अर्शसि पिप्पल्याद्यं घृतम् ।
पिप्पलीमरिचहिङ्गुनागरं मातुलुङ्गरसथ बिल्वशुण्ठिका ।
कुष्ठधान्यकमथाम्लवेतसं क्षारवह्नि लवणानि पञ्च च ॥९२॥
तिन्तिडीकमथ कारवी वचा दाडिमं च चविका तथैव च ।
चित्रकं च सपुनर्नवं भवेद्धस्तिपिप्पलियुता हजाजिका ॥९३।
१८

२०६ आयुर्वेदग्रन्थमाला । [परिशिष्टे
शुक्तिका बदरमूलपौष्करं पत्रकेण सह तुम्बरु स्मृतम् ।
कर्षभागसहितांस्तथा हरेत् श्लक्ष्णपिष्टमथ संनयेत्ततः ॥ ९४ ॥
अश्वमत्र तु घृतस्य दापयेत् दध्न एव च भवेत्तथाढकम् ।
सर्वमेतदभिभूश्य शास्त्रतः पाचयेत मृदुनाऽग्निना सुखम्॥९५॥
मारुतोपहतगात्रचेतसां पार्श्वपृष्ठहनुजत्रुरोगिणाम् ।
क्षयगरविषदूषितान् मनुष्यान् गतवयसो बलवर्णविप्रयुक्तान् ।
घृतमिदमगदान् करोति सद्यः पवनकृतान् शमयेच्च सर्वरोगान् ॥
शोषे जीवन्त्याद्यं घृतम् ।
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ।
शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ९७ ॥
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ।
पिप्पलीं च समां पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥ ९८ ॥
एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् ।
रूपमेकादशविधं सर्पिरम्यं व्यपोहति ॥ ९९ ।
शिरोरोगे मायूरं घृतम् ।
दशमूलीबलारास्नामधुकत्रिफलैः सह ।
मायूरं पक्षपादान्त्रशकृत्पित्तास्यवर्जितम् ॥ १०० ॥
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् ।
मधुरैः कार्षिकैर्द्रव्यैः शिरोरोगादितापहम् ॥ १०१ ॥
कर्णनासाक्षिजिह्वास्यगल रोगविनाशनम् ।
मायूरमिति विख्यातमूर्ध्वजत्रुगदापहम् ॥ १०२ ॥
महामायूरं घृतम् ।
एतेनैव कषायेण घृतप्रस्थं विपाचयेत् ।
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः ॥ १०३ ॥
जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः ।
समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः ॥ १०४ ॥

घृताधिकारः १.] गदनिग्रहः। २०७
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः ।
मधुरापिण्डखर्जूरशृङ्गीजीवकपद्मकैः ॥ १०५ ॥
शतावरीविदारीक्षुबृहतीसारिवायुतैः ।
पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः ॥ १०६ ॥
मधूकाक्षोटवाताममुञ्जातामिषुकैरपि ।
द्रव्यैरेभिर्यथालाभं घृतं सम्यग्विपाचयेत् ॥ १०७ ॥
तत्पकं नावनेऽभ्यङ्गे पाने बस्तौ च योजयेत् ।
शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे ॥ १०८ ॥
मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते ।
योनिशुक्रप्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ॥ १०९ ॥
ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते ।
महामायूरमित्येतदमृतमात्रेयपूजितम् ॥ ११० ॥
अशोरोगेऽवाक्पुष्प्याद्यं घृतम् ।
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः ।
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः ॥ १११ ॥
कषाय एतैः, पेष्यास्तु जीवन्ती कटुरोहिणी ।
पिप्पली पिप्पलीमूलं मरिचं देवदारु च ॥ ११२ ॥
कलिङ्गाः शाल्मलीपुष्पं वीरा चन्दनमञ्जनम् ।
कट्फलं चित्रको मुस्ता प्रियङ्गवतिविषे स्थिरा ॥ ११३ ॥
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका ।
बिल्वं मोचरसः पाठा भार्गीः कर्षसमाः पृथक् ॥ ११४ ॥
चतुःप्रस्थे शृतं प्रस्थं कषायमवतारयेत् ।
(त्रिंशत्पलान्वितः प्रस्थो विज्ञेयो द्विपलाधिकः ।) ॥११५॥
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसख च ।
सर्वैरेभिर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ११६ ॥
एतदर्शःस्वतीसारे त्रिदोषे रुधिरस्रुतौ ।
प्रवा‍हणे गुदभ्रंशे पिच्छासु विविधासु च ॥ ११७ ॥

उन्मादे चापि बहुशः शोफे शूले गुदाश्रये ।
मूत्रग्रहे मूढवाते मन्देऽग्नावुरुचौ तथा ॥ ११८ ॥
प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम् ।
विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ ११९ ॥
अपतन्त्रके शुकनासाद्यं घृतम् ।
शुकनासा नागवल्ली द्वे बृहत्यौ महौषधम् ।
निचुलश्चैव भार्गी च काकादन्युपचेलिका ॥ १२० ॥
पुनर्नवा चेति समैरक्षमात्रैः पचेद्भिषक् ।
तोयाढके घृतप्रस्थं सिद्धं तच्चापि पाययेत् ॥ १२१ ॥
कासं श्वासं महाहिक्कां हृद्रोगं सापतन्त्रकम् ।
नातिक्रामेदिदं सर्पिर्वेलामिव महोदधिः ॥ १२२ ॥
उन्मादे चेतसं घृतम् ।
श्यामा मधुरसा द्राक्षा दण्डमूलं शतावरी ।
श्वदंष्ट्रा शणमूलं च तैर्युक्त्या कार्षिकैल्किकैः ॥ १२३ ॥
साधितं चेतसं नाम घृतं चेतोविकारनुत् ।
उन्मादमदमूर्च्छायज्वरापस्मारभेषजम् ॥ १२४ ॥
क्षीणक्षते समदुग्धकं घृतम् ।
षोडशभिर्जलपात्रैर्मृद्वीकायाः पलानि दश षट् च ।
अष्टौ मधुकफलानि च्छागन्मांर्सात्तुलाधं च ॥ १२५ ॥
अवशिष्टपादतोयं पूतं शीतं कषायमवतार्य ।
दत्त्वा कषायतुल्यं पयोऽथ नवसर्पिषः प्रस्थम् ॥ १२६ ॥
ऋषभकजीवकमेदाविदारिवीरात्मगुप्तानाम् ।
भव्याक्षोटनिकोचकशृङ्गाटकपद्मकबीजानाम् ॥ १२७ ॥
भागानक्षसमानश्च संसाधयेत्तु मृद्वग्नौ ।
सम्यक् सिद्धे तस्मिन् सितशर्करापलान्यष्टौ ॥ १२८ ॥
मधुनश्च पलान्यष्टौ चत्वारि पलानि पिप्पलीचूर्णात् ।
संमिश्रयेत्तु सर्वं क्षीणक्षतहितं समुद्दिष्टम् ॥ १२९ ॥

तैलाधिकारः २.] गदनिग्रहः । २०९
क्षीणक्षतेऽल्पशुक्रे तद्रक्तपैत्तिकेषु रोगेषु ।
स्त्रीकामेषु च देयं बल्यं वृष्यं च घृतमेतत् ॥ १३० ॥
वातगुल्मे हिङ्ग्वाद्यं घृतम् ।
हिङ्गुसौवर्चलव्योषविडदाडिमदीपकैः ।
पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः ॥ १३१ ॥
शठीवचाजमोदाम्लसुरसैर्दधिसंयुतैः ।
शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम् ॥ १३२ ॥
इति श्रीशौढलप्रथिते गदनिग्रहे परिशिष्टः प्रथमो घृताधिकारः समाप्तः ।
अथ परिशिष्टो द्वितीयस्तैलाधिकारः ।
बृहत्सहचरतैलम् ।
क्वाथे साहचरे शतावरियुते क्षुद्रामृतैरण्डजे
श्योनाकारणिबिल्वगोक्षुरयुते सिंहाग्निमन्थोद्भवे ।
रास्नोशीरविशालदारुवरसैस्त्वक्पत्रमेदानखैः
स्पृक्काभैलघनैर्नखैर्वालुसरलैः कङ्कोलकुष्ठोत्पलैः ॥ १ ॥
कौन्तीकेशीबलाद्विसारिविनिशारक्ष्मायासताहानतै-
र्मञ्जिष्ठापुरसिंहचन्दनवरैश्चण्डाद्वहस्यौषेयकैः ।
श्रीवेष्टागुरुरोद्रकुङ्कुमवरैः कल्कैः समांशैरिमै-
स्तैलं क्षीरसमं विपाच्य विधिना बस्तौ च नस्ये ध्रुवम्॥२॥
पानाभ्यङ्गविधौ नियोजितमिदं वातादिसर्वामयान्
गुल्माष्ठीलशिरोऽर्त्तिजङ्गुलमुदरं श्वासामकासज्ज्वरम् ।
शोफं प्लीहगुदामयं च जठरं धातुक्षयाध्मानकं
अर्शःकुष्ठभगन्दरं च क्षपयेत्सर्वान् व्रणान् हन्ति च ॥ ३॥
जयति पत्रकरोगान् कामलां विड्विबन्धं
दिननिशितिमिरान्ध्यं गृध्रसीं मूर्द्धिवातम् ।

२१० आयुर्वेदग्रन्थमाला ।
सहचरमिति नाम्ना तैलमेतत्प्रसिद्धं
धनपतिनृपयोग्यं भाषितं शम्भुनैव ॥ ४ ॥
तरक्षाद्यं तैलम् ।
तरक्षस्य शृगालस्य पादावत्राणि संत्यजेत् ।
कोष्ठसारादिकं सर्वमुत्क्वाथ्य बहुलेऽम्भसि ॥ ५ ॥
पादशेषं परिगृह्य छागगव्यपयोन्वितम् ।
तैलं रससमं दत्त्वा मदिरामस्तुकाञ्जिकम् ॥ ६ ॥
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ।
करञ्जस्त्रिवृता मुस्ता पत्राङ्गं रेणुकं त्वचम् ॥ ७ ॥
क्षारद्वयं त्रिकटुकं पञ्चैव लवणानि च ।
वचा तुरगगन्धा च मञ्जिष्ठा सर्जगुग्गुलू ॥ ८ ॥
मेदा रास्ना च वर्षाभूरेला शैलेयकं बला ।
एतैरर्धपलैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ ९ ॥
तैलं तेनैव नश्यन्ति रोगा देहे शरीरिणाम् ।
अशीतिं वातजान् रोगान् शोफं शूलं कटिग्रहम् ॥ १०
मांसमेदःश्रितं वायुं हर्षं चैव भगन्दरम् ।
लूतां सद्योव्रणं चैव नाडीदुष्टव्रणानि च ॥ ११ ॥
भूतग्रहमपस्मारमुन्मादं च नियच्छति ।
हन्ति वातमसाध्यं च पामादद्रुविचर्चिकाः ॥ १२ ॥
एतत्तैलं सदाभ्यङ्गात्सर्वरोगहरं नृणाम् ।
व्याघ्रतैलम् ।
व्याघ्रं शिरः समादाय क्वाथयित्वा जले बहु ॥ १३ ॥
उदूखले क्षोदयित्वा रसं नीत्वा सुगालितम् ।
दद्यात्कटाहे सुदृढे पचेत्पाकं विधानतः ॥ १४ ॥
द्रव्याण्येतानि मतिमान् पादमानेन दापयेत् ।
देवदारु नखाकुष्ठी तगरं चन्दनं घनः ॥ १५ ॥

वातव्याधिकारः २.] गदनिग्रहः । २११
मञ्जिष्ठा पुष्करं रास्ना चातुर्जातकसैन्धवम् ।
पिप्पली मरिचं शुण्ठी मांसी सहचरो जलम् ॥ १६ ॥
अश्वगन्धात्मगुप्ते च क्रमुकश्च शतावरी ।
श्वदंष्ट्रा केतकी मूर्वा मधुकं चागुरुस्तथा ॥ १७ ॥
जातीफलं च सुमनापत्री कटुकरोहिणी ।
ग्रन्थिकं शुक्लकन्दा च शतपुष्पा पुनर्नवा ॥ १८ ॥
जीवनीयो गणश्चैव रालाकेसरबोलकम् ।
नखं च कृष्णसारश्च वत्सनाभस्तथैव च ॥ १९ ॥
अस्य तैलस्य सिद्धस्य शृणु वीर्यमतः परम् ।
अशीतिवातजान् रोगान् हन्यादाशु प्रयोजितः ॥ २० ॥
अश्वानां वातभग्नानां गजानां शिशूनामपि ।
अंशशोषे खुडे वाते क्रोष्टुशीर्षे कटिग्रहे ॥ २१ ॥
मन्यास्तम्भे हनुश्रोत्रवाते मन्दे तथाऽनले ।
व्यन्ध्यानां पुत्रजननं षण्ढानां कामवर्धनम् ॥ २२ ॥
अश्विभ्यां निर्मितं चैव प्रजानां हितकारकम् ।
अनेनैव विधानेन तैलं तारक्षजं पचेत् ॥ २३ ॥
शतावर्यास्तुलामेकां तुलां गोक्षुरकस्य च ।
तुलार्धं तिलतैलस्य चैरण्डस्य पलानि षट् ॥ २४ ॥
एरण्डपत्रस्वरसपलानि नव कारयेत् ।
वृकशिशुकतर्कारीसिन्दुवारसुवर्णकात् ॥ २५ ॥
नीलिकाग्रन्थिपर्णाभ्यां करञ्जकेशरशृङ्गात् ।
षट्पलं गुग्गुलोर्दत्त्वा तैलं मृद्वग्निना पचेत् ॥ २६
कौब्ज्याक्षेपकपङ्गुत्वसुप्तत्वस्तन्दभामिताः ।
पक्षाघातहनुस्तम्भसन्धिरोमादिकानपि ॥ २७ ॥
नाशयेत्तत्क्षणादेव तमः सूर्योदये यथा ।
तैलं वातारिनामेदं सर्ववातहरं परम् ॥ २८ ॥

२४२ आयुर्वेदीयग्रन्थमाला । [परिशिष्ट]
दारुणके सारिवाद्यं तैलम् ।
सारिवोग्रामृतायष्टीत्रिफलानीलमुत्पलम् ।
नीलीभृङ्गारकासीसमहानिम्बफलानि च ॥ २९ ॥
कटुतैलं पचेदेभिः सार्धं यवरसेन तु ।
कण्डूं दारुणकं हन्ति शिरोरोगे च शस्यते ॥ ३० ॥
वातरोगे दशाङ्गतैलम् ।
तर्कारीभृङ्गशिग्रूणां निर्गुण्डीशणयोस्तथा ।
वातघ्नवासाजातीनां निम्बभास्करयोरपि ॥ ३१ ॥
स्वरसं तु समादाय प्रत्येकं प्रस्थमानतः ।
प्रस्थं तु तिलतैलस्य शनैर्मृद्वग्निना पचेत् ॥ ३२ ॥
एरण्डमूलवर्षाभूहयगन्धाशतावरी-
रास्नागोक्षुरकाश्चैव शतपुष्पा च सैन्धवम् ॥ ३३ ॥
प्रत्येकं कर्षमादाय कर्षार्धं त्रिकटोस्तथा ।
एलात्वक्पत्रमांसीनां कर्षार्धं च विनिक्षिपेत् ॥ ३४ ॥
तैलेनानेन नश्यन्ति वातरोगाः सुदारुणाः ।
आक्षेपकं हनुस्तम्भमपतन्त्रकमर्दितम् ॥ ३५ ॥
अवबाहुकविश्वाचीपक्षाघातापतानकम् ।
स्नायुसन्धिगतं वातं सप्तधातुगतं तथा ॥ ३६ ॥
ऊरुस्तम्भं वातरक्तमामवातं सुदारुणम् ।
दशाङ्गसंज्ञकं तैलं हन्यादन्यांश्च वातजान् ॥ ३७ ॥
कर्पूराद्यं तैलम् ।
कर्पूरचन्दनवचासुरदारुदूर्वा-
गन्धर्वमूलरजनीद्वयसिन्धुजातैः ।
मेदाद्वयत्रिकटुकुष्करमूलकुष्ठ-
रास्नाद्रवाङ्कुरितोत्पलकुङ्कुमैश्च ॥ ३८
यष्ट्याह्विकेलिविरजोङ्कुरसारसार्थैः

तैलाधिकारः २.] गदनिग्रहः । २१३
शृङ्गीजटाह्वयुतैः खलु कल्कितैश्च ।
गोदुग्धयुक्त कटुकतैलमिदं विपक्वं
ख्यातं निहन्ति सहसा विविधा रुजश्च ॥ ३९ ॥
ज्वरे लाक्षादिकं तैलम् ।
लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम् ।
अश्वगन्धानिशादारुकौन्तीकुष्ठान्जचन्दनैः ॥ ४० ॥
मूर्वारोहिणिकासस्त्रातादाडमधुकैः सह ।
सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिभिः ॥ ४१ ॥
सर्वज्वरविषोन्मादश्वासापस्मारकासनुत् ।
यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते ॥ ४२ ॥
पित्तज्वरेण तीव्रेण दह्यमानस्य देहिनः ।
प्रवातमन्दिरस्थस्य कुर्याच्छीतामिमां क्रियाम् ॥ ४३ ॥
अन्वासनं तैलम् ।
पिप्पली पौष्करं मूलं शतपुष्पा वचा शठी ।
यष्ट्याह्नं देवदारुश्च चित्रको मदनात्फलम् ॥ ४४ ॥
बिल्वं कुष्ठं च कल्केन तैलात्पादांशकेन हि ।
तैलतो द्विगुणं क्षीरं दत्त्वा मृद्वग्निना पचेत् ॥ ४५ ॥
एतदन्वासनं नाम गुदस्रावं प्रवाहिकाम् ।
गुदव्यथां पुरीषस्य प्रवृत्तिं च पुनः पुनः ॥ ४६ ॥
वङ्क्षणस्यावरोधं च मलोरोधं कटिग्रहम् ।
निहन्ति वातजान् रोगान् दीपयत्यपि चानलम् ॥ ४७
महानीलं तैलम् ।
ककुभस्य श्रीपर्ण्याः पुष्पं जम्बूफलं प्रियङ्गुश्च ।
मञ्जिष्ठा त्रिफलागरुमदनफलं चित्रकञ्चैव ॥ ४८ ॥
नीलोत्पलमृणालकबीजककर्दमकनील्यश्च ।
मञ्ज्ञातः स्रोतोञ्जनमाम्रास्थिकासीसपौण्डरीकं च ॥ ४९

२१४ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
मदयन्ती बाकुंचिका रोध्रं चैतैस्तु समभागैः ।
तुलसीपत्रं बीजं सणस्य सूर्यभक्ता च ॥ ५० ॥
काकमाचीदारुकयष्टीमधुमार्कवं च सैरेयः ।
एतैर्द्विगुणैः कल्कीकृतैर्बिभीतमज्जतैलं च ॥ ५१ ॥
कल्काच्चतुर्गुणितं, तच्चतुर्गुणोऽथ धात्रीस्वरसः ।
सूर्यातपे विपाच्यं नाम्ना तैलं महानीलम् ॥
पलितादिषु प्रयोज्यं जत्रूर्ध्वगेषु च निपुणतरैः ॥ ५२ ॥
पलिते नील्याद्यं तैलम् ।
नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च ।
बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विपाच्य ५३
एकीकृतं सर्वमदः प्रमाय पङ्केन तुल्यं नलिनीभवेन ।
संयोज्य पक्षं कलशे निधाय लौहे दृढे सद्मनि सापिधाने ५४
एतेन तैलं विपचेद्विमृश्य रसेन भृङ्गात्त्रिफलाभवेन ।
आसन्नपाके च परीक्षणार्थं पक्षं बलाकाभवमाक्षिपेच्च ॥ ५५ ॥
भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे ।
कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात्पलितानि हन्यात् ५६
उरुस्तम्भे द्विपञ्चमूल्याद्यं तैलम् ।
द्वे पञ्चमूल्यौ त्रिफला चित्रको देवदारु च ।
एकाष्ठीला त्वपामार्गः श्रेयसी वायसी सुधा ॥ ५७ ॥
काला भार्गी पृथकपर्णी सुवहा मदयन्तिका ।
विशल्योशीरकाश्मर्यहिंस्रादावस्तथाऽम्लिका ॥ ५८ ॥
चिरबिल्वो विशोकश्च बला चांशुमती तथा ।
पयस्या पीलुपर्णी च संगुडूची शतावरी ॥ ५९ ॥
एषां पञ्चपलान् भागान् जलद्रोणेषु सप्तसु ।
अष्टभागावशेषेण पचेत्तैलं शनैः शनैः ॥ ६० ॥
कुष्ठं च शतपुष्पा च चित्रकव्यूषणं वचा ।
देवदार्वगरु श्रेष्ठं विडङ्गं मुस्तमेव च ॥ ६१ ॥

तैलाधिकारः २.] गदनिग्रहः । २१५
अश्वगन्धा स्थिरा पाठा मूर्वा श्योनाकमेव च ।
पिप्पली शृङ्गवेरं च दन्ती हिङ्ग्वम्लवेतसौ ॥ ६२ ॥
गर्भेणानेन मिषकषायेण च साधयेत् ।
सिद्धं शीतं च पूतं च क्षौद्रेण सह संसृजेत् ॥ ६३ ॥
तदस्य दद्यात्पानार्थं तदेवाभ्यञ्जने भवेत् ।
ऊरुस्तम्भशिरोत्पन्नस्तैलेनानेन शाम्यति ॥ ६४ ॥
आढ्यवातं श्लीपदानि खुडवातांश्च नाशयेत् ।
अर्शसि कासीसाद्यं तैलम् ।
काशीसदन्तीसिन्धूत्थकरवीरानलैः पचेत् ॥ ६५ ॥
तैलमर्कपयोन्मिश्रमभ्यङ्गात्पायुकीसजित् ।
कृमिरोगे महावीर्यं तैलम् ।
शशमार्जारयोर्ब्रश्चोः कपेर्वृषवराहयोः ॥ ६६ ॥
मांसानां द्वे तुले सम्यक् पचेद्रोणेषु सप्तसु ।
अष्टभागावशेषेण तेन तैलाढकं पचेत् ॥ ६७ ॥
भासवायसकाकानां गृध्रसाखोः शुकस्य च ।
कलविङ्ककुलिङ्गानां कुक्कुटस्य च या वसा ॥ ६८ ॥
मज्जाश्च दापयेदेषां पित्तान्यपि च लाभतः ।
अपामार्गफलं भार्गी बीजं शैरीषमेव च ॥ ६९ ॥
फणिज्जकं विडङ्गानि शिग्रुकस्य त्वचस्तथा ।
त्र्यूषणं हिङ्गुकफलं वचा कुष्ठं सचन्दनम् ॥ ७० ॥
हस्तिपर्ण्याः शिरीषस्य ककुभस्यासनस्य च ।
पलाशस्यारिमेदस्य मूलं बीजं च संहरेत् ॥ ७१ ॥
पिचुमन्दस्य निर्यासः शल्लक्या गुग्गुलोस्तथा ।
हिङ्ग्वम्लवेतसौ चापि तथा ब्राह्मी निदिग्धिका ॥ ७२ ॥
तुल्यान्येतानि गर्भाणि तैलं कर्णप्रपूरणम् ।
नावनं चावगाहश्च शीर्षकृमिविनाशनम् ॥ ७३ ॥

२१६ आयुर्वेदियम्रन्थमाला । [परिशिष्टे
तैलस्यास्य प्रणीतस्य गन्धेन कृमयः स्थिराः ।
नश्यन्ति न विवर्धन्ते बलात्सुबहवोऽपि वा ॥ ७४ ॥
युक्त्यास्मिन् कृमयस्तैले नस्ये तु प्रतिपादिते ।
तालुं भित्त्वाऽऽशु शिरसः प्रद्रवन्त्युपपीडिताः ॥ ७५ ॥
सर्वकृमिहरं ह्येतत्तैलं शिरसि देहिनाम् ।
बलाबलं चिन्तयित्वा नस्यं तदवचारयेत् ॥ ७६ ॥
कृमिभिर्भक्ष्यमाणानां नराणामेतदुत्तमम् ।
तैलमेतन्महावीर्यं सर्वकृमिविनाशनम् ॥ ७७ ॥
अन्त्रवृद्धौ गन्धर्वतैलम् ।
शतमेरण्डमूलस्य शुण्ठीपलयवाढके ।
जलद्रोणेऽथ पयसा पचेदष्टगुणेन तु ॥ ७८ ॥
प्रस्थमेरण्डतैलस्य सन्मूला द्विपलं तथा ।
द्विपलं शृङ्गवेरस्य गर्भं दत्त्वा शनैः पचेत् ॥ ७९ ॥
पिबेत्तन्नियतः शुद्धो नरः क्षीरान्नभुक् भवेत् ।
अन्त्रवृद्धिं निहन्त्याशु तैलं गन्धर्वसंज्ञितम् ॥ ८० ॥
कर्णरोगे लाङ्गल्याद्यं तैलम् ।
लाङ्गलीकुष्ठमरिचं शुण्ठी मागधिकञ्च घनम् ।
सरसाञ्जनकासीसं जतुसैन्धवगुग्गुलु ॥ ८१ ॥
मनःशिलार्ले निर्गुण्डी विल्वं भल्लातकं तथा ।
कार्षिकैर्देवदारूत्थतैलस्य द्विपलेन च ॥ ८२ ॥
कुडवं तिलतैलस्य पचेन्मूत्रे चतुर्गुणे ।
तत्कर्णपूरणात्तिथ्यं पूयस्रावनिवारणम् ॥ ८३ ॥
कृमिघ्नं दुष्टनाडीनां व्रणानां चैव रोपणम् ।
शिरोरोगे महानीलं तैलम् ।
आदित्यवल्ल्या मूलानि कृष्णसैरेयकस्य च ॥ ८४ ॥
सुरसस्य च पत्राणि फलं कुष्माण्डकस्य च ।
मार्कवं गिरिकर्णी च मधुकं देवदारु च ॥ ८५ ॥

तैलाधिकारः २.] गदनिग्रहः । २१०
पृथक् दशपलांशानि पिप्पली त्रिफलाञ्जनम् ।
प्रपौण्डरीकं मञ्जिष्ठा रोध्रं कृष्णागरूत्पलम् ॥ ८६ ॥
आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम् ।
नीली भल्लातकास्थीनि कासीसं मदयन्तिका ॥ ८७ ॥
सोमराज्यसनात्पुष्पं कृष्णपिण्डितचित्रकौ ।
पुष्पाण्यर्जुनकाश्मर्योः श्यामा जम्बूफलानि च ॥ ८८ ॥
पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत् ।
बिभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् ॥ ८९ ॥
कुर्यादादित्यपाकं च यावत् शुष्को भवेद्रसः ।
लोहपात्रे ततः पूतं संशुद्धमथ योजयेत् ॥ ९० ॥
कुष्ठे गुञ्जामूलाद्यं तैलम् ।
गुञ्जिकामूलत्रिफलात्रिशूलीपुरतालकैः ।
पुत्रञ्जीवास्थिसिन्दूरमधूच्छिष्टनिशायुगैः ॥ ९१ ॥
विशानलशिखाकन्दवचापरशुच्छिन्नकैः ।
पृथक्पलार्धकैः पिष्टैस्तैलमर्धाढकं कटोः ॥ ९२ ॥
समालोड्य पचेत्सम्यग्गवां मूत्रे चतुर्गुणे ।
विपाच्य मतिमान् वैद्यः सर्वकुष्ठव्रणापहम् ॥ ९३ ॥
तैलं कुष्ठहरं वर्ण्यं फणिकीटविषापहम् ।
कण्डूविचर्चिकासिध्मवातासृक्शमनं परम् ॥ ९४ ॥
मञ्जिष्ठाद्यं तैलम् ।
मञ्जिष्ठा पद्मकं कुष्ठं चन्दनं गैरिकं बला ।
हरिद्रे द्वे प्रियङ्गुश्च नागं यष्टी सबाकुची ॥ ९५ ॥
दारु प्रपौण्डरीकं च पिष्ट्वाऽर्धपलिकानि तु ।
तैलप्रस्थं गवां क्षीरं दत्त्वा क्वाथं तथासनात् ॥ ९६ ॥
चतुर्गुणं भृङ्गरसं शनैर्मृद्वग्निना पचेत् ।
अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम् ॥ ९७ ॥
केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे ।
दन्तकर्णाक्षिशूले च नस्येऽभ्यङ्गे च योजयेत् ॥ ९८ ॥
१९

३१८ आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
सुकुञ्चिताग्रान् सुस्निग्धान् केशान् संजनयेद्बहून् ।
पलिते चेन्द्रलुप्ते च तैलमेतत्प्रशस्यते ॥ ९९ ॥
मञ्जिष्ठाद्यमिदं नाम्ना शिरोरोगनिवारणम् ।
कुष्ठे सिद्धार्थकतैलम् ।
करवीरवचातुम्बूत्साञ्जनकरञ्जमुद्गलाक्षाभिः ॥ १०० ॥
सारुष्करसिद्धार्थकमूलकबीजाग्निगण्डीरैः ।
रजनीद्वयमञ्जिष्ठाश्वग्वविडङ्गमाक्षिकैः ॥ १०१ ॥
सैन्धवकटुकालाम्बुपिच्युमर्दास्फोटमालतीभिश्च ।
सर्षपतैलं कारञ्जं वा गवां मूत्रेण वै सिद्धम् ॥ १०२ ॥
द्विगुणेन साधितमचिरादभ्यङ्गाद्धन्ति कुष्ठानि ।
अष्टादशापि सिद्धं तैलं सिद्धार्थकं नाम ॥ १०३ ॥
इति श्रीसोढलग्रथिते गदनिग्रहे परिशिष्टे द्वितीयस्तैलाधिकारः ।
अथातः परिशिष्टस्तृतीयश्चूर्णाधिकारः ।
मन्दाग्नौ शुण्ठ्याद्यं चूर्णम् ।
शुण्ठीं ससौवर्चलचित्रकाभयां सरामठां दाडिमसैन्धवान्विताम् ।
खादन्ति ये मन्दहुताशना भुवि भवन्ति ते वाडवतुल्यवह्नयः॥१॥
हृद्रोगे तिक्तकं चूर्णम् ।
मुस्तैलाचन्दनोशीरं यवानी व्योषवत्सकौ ।
फलं त्वक् कटुका दारु दार्बी त्वक्पर्पटस्तथा ॥ २ ॥
पटोलपत्रं षड्ग्रन्था मूर्वाभूनिम्बशिग्रुकाः ।
त्रायमाणा च सौराष्ट्री सुरा प्रतिविषा समाः ।
तिक्तकं नाम हृदुल्लम्शूलघ्नं सन्निपातनुत् ॥ ३ ॥
कुष्ठे लाक्षाद्यं चूर्णम् ।
लाक्षा दन्ती च मूर्वा मधुरसवचाङ्गीपिपाठाद्रिकर्णी
भल्लकङ्कुष्ठविडङ्गं त्रिकटुकराजनीससर्षपार्केरुबूकम् ।

चूर्णाधिकारः ३.] गदनिग्रहः । २१९
रक्ता निम्बं सुरतरु वचा पञ्चमूल्यौ च चूर्णं .
पीत्वा मासं जयति मितभुक् गव्यमूत्रेण कुष्ठम् ॥ ४ ॥
ग्रहण्यां पञ्चामृतरसः ।
कर्षे रसाद्गन्धकतस्तथैव विमर्द्य खल्वेऽभ्रकमेव तावत् ।
दद्यात्तथा ताप्यमयोरजश्च गव्येन चाज्येन विमृश्य किञ्चित् ५
पात्रे मन्दं वह्निना ज्वालयेत्तद्ध्यान्मात्रां रक्तिकैकप्रवृद्ध्या ।
यावन्माषो नाधिकं मानवेभ्यः कृत्वा वह्नेर्दीपनं हन्ति रोगान् ६
पाण्डुप्रीहोन्माददुर्नाममेहान् पित्तं साम्लं सातिसारं ज्वरं च ।
सद्यः शूलान् त्वग्ग्रहण्यामयं च तथैव रोगान् खलु सूतिकायाः७
अयं हि पञ्चामृतनामधेयो रसेन्द्रराजः क्षयरोगहारी ।
वातास्रमग्रं श्वयथुं च हन्यात्स्वयोग्ययुक्तः सकलान्विकारान् ८
पञ्चसमं चूर्णम् ।
पथ्यानागरजीरकारुय्यरुचकैः श्यामान्वितैः पञ्चभि-
श्चूर्णं पञ्चसमं समस्तरुजहृत्कायाग्निसंदीपनम् ।
घ्राणोत्साहविवर्धनं रुचिकरं गुल्मप्लीहापहं
प्रत्याध्मानकरादिशमनं सामानिले पूजितम् ॥ ९ ॥
छर्द्यां बदराद्यं चूर्णम् ।
बदरत्रिफलानां च व्योषस्य च पलद्वयम् ।
कर्पूरकर्षो लाजानां पलद्वादशकं भवेत् ॥ १० ॥
एलात्वक्पत्रकाणां तु पलं स्याद्वंशरोचना ।
पलाष्टका, वेतसाम्लश्चतुष्पलमुदाहृतः ॥ ११ ॥
चूर्णं द्विगुणखण्डं तु हृद्यं वमिहरं परम् ।
यक्ष्माणं रक्तपित्तं च ज्वरं कासं च नाशयेत् ॥ १२ ॥
उदरे नवक्षारकं चूर्णम् ।
तुवरीटङ्गणव्योषसामुद्रं सैन्धवं बिडम् ।
काचं सौवर्चलं चव्यं क्षारश्चेशुरकोद्भवः ॥ १३ ॥

२२० आयुर्वेदीयग्रन्थमाला । [परिशिष्टे
एतानि समभागानि चूर्णीकृत्य प्रयोजयेत् ।
रक्तवातारुचिप्लीहोदररोगापनुत्तये ॥ १४ ॥
मन्दाग्नावजमोदाद्यं चूर्णम् ।
साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली ।
मद्येन तक्रेण तथोष्णवारिणा चूर्णपानमुदराग्निदीपनम् ॥१५॥
दन्तरोगे जातीपत्राद्यं चूर्णम् ।
जातीपत्रपुनर्नवातिलकणाकोरण्टपुष्पं वचा ।
शुण्ठीदीप्यकपध्यकाः समधृतं चूर्णं मुखे धारयेत् ॥
वातघ्नं कफनाशनं कृमिहरं दुर्गन्धिनिर्नाशनं
शूलं शोफहरं च रक्तशमनं दतांश्च वज्रायते ॥ १६ ॥
कासे जातीफलाद्यं चूर्णम् ।
जातीफलं विडङ्गं च चित्रकस्तगरस्तिलाः ।
तालीसं चन्दनं शुण्ठी लवङ्गं चोपकुञ्चिका ॥ १७ ॥
कर्पूरं चाभया धात्री मरिचं पिप्पली शुभा ।
एषामक्षसमान् भागान् चातुर्जातकसंयुतान् ॥ १८ ॥
पलानि त्रीणि भृङ्गायाः शर्करा समयोजिता ।
एतच्चूर्णं तु मधुना कर्षार्धं लेहयेत्तथा ॥ १९ ॥
जयेत्कासं क्षयं श्वासं ग्रहणीमग्निमार्दवम् ।
वातश्लेष्मोद्भवांश्चान्यान् प्रतिश्यायमरोचकम् ॥ २० ॥
एताः सर्वा रुजो हन्ति वृक्षमिन्द्राशनिर्यथा ।
दाडिमाद्यं चूर्णम् ।
दाडिमस्य पलान्यष्टौ शृङ्गवेरपलत्रयम् ॥ २१ ॥
पलद्वयं पिप्पली च कोलचूर्णं पलद्वयम् ।
यवानी चाजमोदा च मिशिश्चैवाम्लवेतसम् ॥ २२ ॥
वृक्षाम्लं चविका चात्र अभया च पलोन्मिता ।
सौवर्चलं धान्यकं च सूक्ष्मैला त्वक्तथैव च ॥ २३ ॥