गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 223, कुल 286 में से
संदर्भ में पढ़ेंघृताधिकारः १] गदनिग्रहः । २०३
एतद्व्याधिसमूहस्य रोगराज्ञः समुच्छ्रितम् ।
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ॥ ६३ ॥
महातिक्तकं घृतम् ।
निम्बः सप्तच्छदः पाठा गुडूची सशतावरी ।
कृतमालः करञ्जौ द्वौ खदिरो वत्सको धवः ॥ ६४ ॥
सपटोलः पर्पटको विशाला चित्रकस्तथा ।
एतानि समभागानि कषायमुपकल्पयेत् ॥ ६५ ॥
भेषजानि प्रपेष्याणि तत्रेमानि प्रदापयेत् ।
भूनिम्बः कटुका मुस्ता दन्ती पर्पटको वचा ॥ ६६ ॥
विशालातिविषे मूर्वा यष्ट्याह्वं सारिवाद्वयम् ।
अवल्गुजा हरिद्रे द्वे दुःस्पर्शा रक्तचन्दनम् ॥ ६७ ॥
कृमिघ्नः पिप्पली पाठा चित्रको देवदारु च ।
भल्लातकान्युशीरं च सम्पाकः सकलिङ्गकः ॥ ६८ ॥
एतैरक्षप्रमाणैस्तु घृतस्यार्द्धाढकं पचेत् ।
धात्रीरसस्तु द्विगुणो घृतात्क्वाथश्चतुर्गुणः ॥ ६९ ॥
सर्पिरेतन्नरः पीत्वा सर्वकुष्ठैर्विमुच्यते ।
वातरक्तं सवीसर्पं रक्तस्रावं च दारुणम् ॥ ७० ॥
पित्तासृक्कामलाकण्डूगरान् योगशतैरपि ।
असाधितान् महारोगान् महातिक्तं प्रसाधयेत् ॥ ७१ ॥
वातव्याधौ दशमूलार्थं घृतम् ।
द्रोणेऽम्भसः पचेद्भागान् दशमूल्याश्चतुःपलान् ।
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ॥ ७२ ॥
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः ।
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः ॥ ७३ ॥
सक्षीरैः सर्पिषः प्रस्थं सिद्धं केवलवातनुत् ।
निरत्ययं प्रयोक्तव्यं पानाभ्यञ्जनबस्तिषु ॥ ७४ ॥