सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

४२ बृहत्संहिता
योजनेष्वाकाशकक्षाकक्ष्योपरि भवति। सर्वेषामेव कक्षाकर्णार्द्धानां तस्मादेव प्रदेशात् प्रवृत्ति-
र्ज्ञातव्या। एतत्पुलिशसिद्धान्ते पठ्यते—
कृतर्तुशून्यवेदाश्विपञ्चर्तुखनिशाकराः।
वस्वग्निरन्ध्रेन्दुखखगुणाः ३००१९३८१०६५२४०६४ कर्णार्द्धमम्बरम्।।
अथ तदेव व्यासार्द्धं पूर्वानीतैर्नक्षत्रकक्ष्यालिप्तायोजनैरेतैः १२०३१/२०४१२/
२१६०० गुण्यम्। तत्र गुण्यो राशिर्गुणकारश्च सवर्णीकृतो नक्षत्रकक्ष्या जाता रविखवियन्न-
ववसुनवविषयेक्षणयोजनानीति २५९८९००१२।
इयं नक्षत्रकक्ष्या व्यासार्द्धेन सवर्णीकृतेनानेन ४५००००० गुणनीया व्यासार्द्धच्छे-
देनानेन १३०९ खखषड्भूयम २१६०० हतेनानेन २८२७४४०० विभज्यते यस्मात्
परस्परच्छेदवधो भागोपहारो भवति। तदर्थं गुणकारभागहारराश्योरनयोः ४५०००००।
२८२७४४००। परस्परं वर्तने कृते जातम् ७२००। अनेनाप्तं गुणकारम् ६२५। अनेन
नक्षत्रकक्ष्या गुणिता। एवं जाताः १६२४३१२५७५००।
अथ छेदेनानेन ७२०० छिन्नाद्भागोपहाराल्लब्धेनानेन ३९२७ भागो हर्तव्यः।
लब्धम् ४१३६२६८३। एतन्नक्षत्रकक्षाकर्णार्द्धम्।
अथ शनैश्चरकक्ष्यालिप्तायोजनानि ५९१०/१०६८००/१४६५६४ सवर्णीकृतानि
८६६३०००४० व्यासार्द्धेन च सवर्णीकृतेनानेन ४५००००० गुणितानि ३८९८३५०
१८००००००० सर्वग्रहाणां भाज्यो राशिः। अयं व्यासार्द्धच्छेदेनानेन १३०९ गुणितैर्य-
स्यैव ग्रहसम्बन्धिभिर्भगणैर्भागो ह्रियते तस्यैव कक्षाकर्णार्द्धं लभ्यते तस्मात् सर्वग्रहाणां
कक्ष्यालिप्तायोजनानि सवर्णीकृतान्ययमेव ८६६३०००४० राशिर्भवति।
अस्य राशेः सर्वेषामेव सवर्णीकृतं व्यासार्द्धं गुणकारो ग्रहभगणहतो व्यासार्द्धच्छेदोऽयं
१३०९ भागोपहारः। १३०९ अनेन गुणिता भगणाः सर्वेषां लिख्यन्ते यस्मात्ते भागोपहारा
भविष्यन्ति। तद्यथा—रवेः ५६५४८८००००।
चन्द्रमसो नोपयुज्यते तत्कक्षायाः सविकलायाः पञ्चदशयोजनानि यस्माल्लिप्ता।
भौमस्य ३००६५४२६१६।
बुधस्य २३४७९५३३०००।
गुरोः ४७६७६३९८०।
शुक्रस्य ९१९२३०५८९२।
सौरस्य १९१८५२२७६।
अत्र भाज्यराशेरस्य सर्वग्रहाणाम् ३८९८३५०१८००००००० आदित्यभागो-
पहारेणानेन ५६५४८८०००० भागमपहृत्यावाप्तम् ६८९३७८। एतदादित्यकर्णार्द्धम्।
व्यासार्द्धमेतत् ३४३७/९६७/१३०९। कक्ष्यालिप्तायोजनैः पञ्चदशभिर्गुणितम्
५१५६६। एतच्चन्द्रकक्ष्याकर्णार्द्धम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

: 'श' then 'शा' with anusvara 'ङ्क': yes, "शशाङ्क"! Wait, why would it be "शाशाङ्क"? No, it's just "शशाङ्क"!

Line 18:
एकार्णवार्थनवशशिदहनखदस्रै २०३१९५४१ रविसुतस्य।
(एक=१, अर्णव=४, अर्थ=५, नव=९, शशि=१, दहन=३, ख=०, दस्र=२ -> २०३१९५४१)

Line 24:
तेन स्वराश्विखशरान् ५०२७ सङ्गुण्य खर्त्वग्नि३६०भिर्विभजेत्, लब्धमिष्टदेशयोरन्त-
Wait, "सङ्गुण्य" or "संगुण्य"?
It has 'ङ्गु': "सङ्गुण्य".

Line 26:
अक्षांशकुपरिधिबधान्मण्डलभागाप्तयोजनैर्विषुवति।
Wait, "भागाप्तयोजनैर्विषुवति" - look at भागाप्त:
भा गा प्प or भा गा प् त ? It is 'प्ता': भागाप्तयोजनैर्विषुवति।

Line 32:
भूभगणभ्रमणसंस्थानाद्यक्षावलम्बकाहर्व्यासचरदलकालराश्युदयच्छा-
Let's re-read carefully:
भूभगणभ

! NO, THAT SPELLS:
मा-न-वा-ना-म-सु-रा-णां = मानवानांसुराणां without anusvara, WHICH IS PRONOUNCED / WRITTEN:
मानवानामसुराराणां? NO!
म् + अ = म, so:
मानवानाम् + असुराणां = मानवानामसुराराणां?
Wait:
maanavaanaam + asuraanaam:
m + a = ma
su = su
raa = raa
naam = naam
maanavaanaam + asuraanaam = maanavaanaamasuraanaam = मानवानामसुराराणां?
NO, THAT IS:
मा-न-वा-ना-म-सु-रा-णां = maanavaanaamasuraanaam!
YES! OF COURSE!
म् + अ = म!
So मानवानाम् + असुराणां = मानवानामसुराराणां? NO, IT IS मानवानामसुराराणां?
Wait, why did I keep saying "मानवानामसुराराणां"?
Because of English transliteration:
m-a-a-n-a-v-a-a-n-a-a-m-a-s-u-r-a-a-n-a-a-m = मानवानामसुराराणां?
Wait! In Devanagari:
म = ma
सु = su
रा = raa
णां

सांवत्सरसूत्राध्यायः ४५
तथा च ब्रह्मसिद्धान्ते—
शशिबुधसिताककुजगुरुशनिकक्ष्यावेष्टितो भकक्ष्यान्तः।
भूगोलः सत्त्वानां शुभाशुभैः कर्मभिरुपातः।।
खे भूगोलस्तदुपरि मेरौ देवाः स्थितास्तले दैत्याः।
खे भगणर्क्षाग्रिस्थावुपर्यधश्च ध्रुवौ तेषाम्।।
तथा चाऽऽर्यभटः—
वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः।
मृज्जलशिखिवायुमयो भूगोलः सर्वतो वृत्तः।।
यद्वत् कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः।
तद्वद्विविधैः सत्त्वैर्जलजैः स्थलजैश्च भूगोलः।।
मेरुर्योजनमात्रः प्रभाकरो हिमवता परिक्षिप्तः।
नन्दनवनस्य मध्ये रत्नमयः सर्वतो वृत्तः।।
स्वर्मेरुस्थलमध्ये नरको वडवामुखं च जलमध्ये।
असुरसुरा मन्यन्ते परस्परमधःस्थिता नियताः।।
तथा च वसिष्ठसिद्धान्ते—
जगदण्डखमध्यस्था महाभूतमयी क्षितिः।
भावाय सर्वसत्त्वानां वृत्तगोल इव स्थिता।। इति।
एवं भूमेः संस्थानं जानाति।
तथा च भगणस्य नक्षत्रचक्रस्य भ्रमणसंस्थानं च जानाति। यथा भपञ्जरो ध्रुवययोर्नि-
यमितः प्रवाहाऽनिलेन भ्राम्यमाणो लङ्कास्थानामुपरिष्टाद् भूलग्नो देवासुराणां परिभ्रमति
इति च। देवानां प्रदक्षिणगो दैत्यानामप्रदक्षिणगोऽन्येषां भूस्थानामक्षवशादुन्नमति ध्रुव
उत्तरेण नमति। तथा चाऽऽचार्यः—
मेरेः सममुपरि वियत्यक्षो व्योम्नि स्थितो ध्रुवोऽधोऽन्यः।
तत्र निबद्धो मरुता प्रवेहेन भ्राम्यते भगणः।।
यदुक्तमाचार्याऽऽर्यभटेन—
अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत्।
अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम्।। इति।
अत्रायं परिहारः—
भ्रमति भ्रमस्थितेव स्थितिरित्यपरे वदन्ति नोडुगणः।
यद्येवं श्येनाद्या न खात् पुनः स्वनिलयमुपेयुः।।
अन्यच्च भवेद्भूमेरह्ना भ्रमरहंसा ध्वजादीनाम्।
नित्यं पश्चात्प्रेरणमथोत्पथा स्यात्कथं भ्रमति।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४६ बृहत्संहिता
अर्हत्प्रोक्तेऽर्केन्दू द्वौ द्वावेकान्तरोदयौ किल तौ।
यद्येवमर्कसूत्रात् किं ध्रुवसूत्रं भ्रमत्यह्ला।।
तथा च पौलिशे—
तस्योपरि ध्रुवः खे तद्बद्धं पवनरश्मिभिश्चक्रम्।
पवनक्षिप्तं भानामुदयास्तमयं परिभ्रमति।।
तथा चाऽऽचार्यभटः—
उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तम्।
लङ्कासमपश्चिमगं भमण्डलं सग्रहं भ्रमति।।
तथा च ब्रह्मसिद्धान्ते—
ध्रुवयोर्मध्ये सव्यगममराणां क्षितिजसंस्थमुडुचक्रम्।
अपसव्यगमसुराणां भ्रमति प्रवहानिलक्षिप्तम्।।
अन्यत्र सर्वतो दिशमुन्नमति भपञ्जरो ध्रुवो नमति।
लङ्कायामुडुचक्रं पूर्वापरगं ध्रुवौ क्षितिजे।।
एवं भगणभ्रमः।
संस्थानं तथा। नक्षत्रध्रुवकात् क्रान्तिज्यां कृत्वा तस्याश्चापभागाः कार्यास्तेषां विक्षेपे-
णैकदिक्केन सह योगो भिन्नदिक्केन सह वियोगः कार्यः। एवं कृते स्वक्रान्तिर्भवति भाग-
रूपा। तावद्भिर्भागैर्विषुवल्लेखातो याम्येनोत्तरेण वा नक्षत्रयोगतारकः क्रान्तिवशेन संस्थितः।
एवं भगणं भ्रमणसंस्थानज्ञः। आदिग्रहणादर्कसंस्थानमन्यदेशानां भ्रमणव्यस्तत्वं च जानाति।
एतच्चाऽऽचार्येणैवोक्तम्। तथा च—
प्रोद्यतरविरमराणां भ्रमत्यजादौ कुवृत्तगः सव्यम्।
उपरिष्टाल्लङ्कायां प्रतिलोमश्चामरारीणाम्।।
मिथुनान्ते च कुवृत्तादंशचतुर्विंशतिं विहायोच्चैः।
भ्रमति हि रविरमराणां समोपरिष्टात्तदाऽवन्त्याम्।।
नष्टच्छायाप्येवं छायोदक् तत्प्रभृत्युदक्स्थानाम्।
तद्वद्दक्षिणगानां मध्याह्ने दक्षिणा छाया।।
मेषवृषमिथुनसंस्थे दिनं रवौ कर्कटादिगे रात्रिः।
यैरुक्ता विबुधानां मेरुस्थानां नमस्तेभ्यः।।
येष्वेवोदङ्मेषाद्याति स्थानेषु सन्निवृत्तोऽपि।
तेष्वेव कथं दृश्यः पुनर्न दृश्यश्च तत्रस्थः।।
दृश्ये चक्रस्यार्धे त्रयः खमध्यात्तु राशयस्तेषाम्।
नवतिस्तानि च खण्डान्युदयात् परिकल्पनीयानि।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सांवत्सरसूत्राध्यायः ४७
एकैकांशो नवभिर्नवभागोनैश्च योजनैर्भवति ।
स च दक्षिणोत्तराणां प्रत्यक्षः खेऽप्ययं मध्यात् ॥
एवं च नवत्यंशैरष्टौ दृष्टानि योजनशतानि ।
तत्प्रामाण्याद्देशे मध्याह्ने द्रष्टुरुदयो यः ॥
उज्जयिनी लङ्कायाः सन्निहिता योत्तरेण समसूत्रे ।
तन्मध्याह्नो युगपद्विषमो दिवसो विषुवतोऽन्यः ॥
योजनशतानि भूमेः परिमाणं षोडश द्विगुणितानि ।
एतापयति मेरुमध्याद्विषुवस्थोऽर्कः क्षितिं चैवम् ॥
षडशीतिं पञ्चशतीं त्रिभागहीनं च योजनं भित्वा ।
क्षितिमध्यमुदगवन्त्या लङ्काया योजनाष्टशतीम् ॥
प्रतिविषयमुदक्तुङ्गो हरिजाद्यावद्ध्रुवः खमध्यात् ।
दिनकृदपि नमति विषुवति दक्षिणतस्तावदेवांशैः ॥
त्रिशतीं त्रिसप्ततियुतां गत्वोद्ग्योजनत्रिभागं च ।
उज्जयिनीतो विघटति पर्याप्तोऽयं भगणगोलः ॥
षष्टिर्नाड्यस्तस्मिन् सकृदुदितो दृश्यते दिवसनाथः ।
परतः परतो बहुतरमाषण्मासादिति सुमेरौ ॥
योजनपञ्चनवांशान् व्यधिकां च चतुःशतीमुदगवन्त्याम् ।
गत्वा न धनुर्मकरौ कदाचिदपि दर्शनं व्रजतः ॥
तस्मादेव स्थानाद्द्व्यशीतियुक्तां चतुःशतीं गत्वा ।
दृष्टिपथं नो यान्त्यलिमृघटचापधराः कदाचित् ॥
षडशीतिं पञ्चशतीं त्र्यंशोनं योजनं च तत एव ।
गत्वाऽन्त्यं चक्रार्द्धं नोदेत्याधं न यात्यस्तम् ॥
लङ्कास्था भूलग्ना नभसो मध्यस्थितां च मेरुगताः ।
ध्रुवतारामीक्षन्ते तदन्तरालेऽन्तरोपगताः ॥
सकृदुदितः षण्मासान् दृश्योऽर्को मेरुपृष्ठसंस्थानाम् ।
मेषादिषु षट्सु चरन् परतो दृश्यः स दैत्यानाम् ॥
मेषस्तेषां नित्यं लग्नं त्र्यंशश्च भूमिपुत्रस्य ।
त्रिंशद्भागनवांशद्वादशभागाश्च तस्यैव ॥
विषुवल्लेखाधस्ताल्लङ्का तस्यां समो भगणगोलः ।
त्रिंशन्नाड्यो दिवसस्त्रिंशत्तस्यां सदा च निशा ॥
सलिलेन समं कृत्वा तुङ्गं फलकं यथादिशं दृष्ट्या ।
दक्षिणकोट्यां शङ्कुं फलकप्रमितं व्यवस्थाप्य ॥
ऋजुशङ्कुबुध्नविन्यस्तलोचनो नामयेत्तथा शङ्कुम् ।
भवति यथा शङ्क्वग्रं ध्रुवतारादृष्टिमध्यस्थम् ॥
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

४८ बृहत्संहिता
पतितेन भवति वेधो लङ्कायामूर्ध्वगेन तु सुमेरौ ।
विनतेन चान्तराले फलकच्छेदार्धसूत्रसमे ।।
तत्रावलम्बको यः सोऽक्षज्या तस्य शङ्कुविवरं स्यात् ।
विषुवदवलम्बकोऽसौ याम्योत्तरदिक्प्रसिद्धिकरः ।।
स्वप्रत्ययेन सन्तो विज्ञायैवं वदन्ति भूमध्यम्।
सकलमहीमानं वा रसमिव लवणाम्भसाल्पेन ।। इति।
एवमादिग्रहणाज्ज्ञेयम्।
तथाक्षावलम्बाभितः। अक्षो ध्रुवोन्नतिः। एतावद्भिर्भागैः स्वदेशे हरिजादुच्छ्रितो ध्रुवो
दृश्यते। अथवेष्टदिने कीदृशोऽक्षः। तत्र गणितविधिना स्वदेशाक्षभागानुत्पाद्य तेषु क्रान्ति-
भागानुत्तरान् शोधयेत्। दक्षिणान् क्षिपेत्। एवमिष्टदिनाक्षो भवति। तथा चाऽऽचार्यः—
विषुवद्दिनसममध्यच्छायावर्गात्सवेदकृतरूपात् ।
मूलेन शतं विंशं विषुवच्छायाहतं छिन्द्यात्।।
लब्धं विषुवज्जीवा चापमतोऽक्षोऽथवैवमिष्टदिने।
मेषाद्यपक्रमयुतस्तुलादिषु विवर्जितः स्वाक्षः।।
अवलम्बकः। यावद्भिर्भागैः स्वदेशसममण्डलरेखातो ध्रुव उत्तरेण नमति सोऽव-
लम्बकः, इष्टदिनावलम्बको वा, तत्राभीष्टाक्षभागा नवतेः संशोध्याः शेषा अवलम्बकांशा
भवन्ति। तथा चाऽऽचार्यः—
विषुवज्ज्यायामार्धवर्गविश्लेषमूलमवलम्बकः।
तथा—
चरखण्डपक्षांशज्याघ्नमहोव्यासमुद्धरेत्खजिनैः ।
द्विःकृत्वा तद्वर्गात्क्रान्तिज्याकृतियुतान्मूलम्।।
तेन विभजेत् स्थितज्यां व्यासार्द्धगुणामवाप्तमक्षज्या।
नवतेरक्षोनायाः क्रमशोज्या लम्बको भवति।।
अहर्व्यासो द्युव्यासः स्वाहोरात्रविष्कम्भः। ग्रहस्येष्टक्रान्तित्रिज्याकृत्योरन्तरपदं द्विगुण-
मित्यर्थः। तथा चाऽऽचार्यः—
क्रान्तित्रिज्याकृत्योरन्तरपदं द्विगुणं दिनव्यासः।। इति।
चरदलकालः। राशीनां मेषादीनां चरखण्डकालः। स्वदेशनिरक्षदेशदिनरात्र्योरन्तर-
मित्यर्थः।
विंशतिरष्टिः सार्द्धपादोनाः सप्त चाजपूर्वाणाम्।
विषुवच्छायागुणिताः क्रमोत्क्रमाच्चरविनाड्योऽर्द्धैः।।
एवं चरदलज्ञानम्। एतैर्गणितविधिना स्फुटरवेरिष्टदिनचरदलसाधनं कार्यम्। राश्युदया
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राशीनां मेषादीनां निरक्षदेशे स्वदेशेष्वेवोदयप्रमाणचषकाः। तथा चाऽऽचार्यः—
वसुमुनिपक्षा व्येकं शतत्रयं छिद्रिकाग्नयश्चाङ्गाः।
परतस्त एव वामाः षडुत्क्रमाते तुलाद्यर्द्धे।।
चरदलकालक्षीणास्त्रयस्त्रयः संयुताः प्रतीपैस्तैः।
उदयर्क्षतुल्यकालेन यान्ति तत्सप्तमाश्र्वास्तम्।।
छाया। स्वदेशे विषुवति द्वादशाङ्गुलस्य शङ्कोरिष्टकाले वा। सलिलकृतसमायामवनौ
विषुवद्दिवसमध्याह्ने द्वादशाङ्गुलस्य शङ्कोश्छाया विषुवती भवति इष्टदिने गणितविधिना
सिद्ध्यति। तथा चाऽऽचार्यः—
अपमोनयुताक्षज्यां त्रिज्यात्तत्कृतिविशेषमूलेन।
छिन्द्याद्द्वादशगुणितां लब्धा माध्याह्निकी छाया।।
इष्टच्छायानयनम्—
तत्कालचरविनाडीद्विदशांशं द्विछमजतुलाद्येषु।
षड्घ्नीभ्यो नाडीभ्यो जह्यात् योजयेच्चापि।।
तज्ज्या स्थितज्यया संयुता विसंयोजितातुलाद्येषु।
अविशोधनेन जीवा षड्घ्नीनामेव कर्तव्या।।
एवं कृत्वा हन्याद्द्युव्यासेनावलम्बघ्नेन।
छिन्द्यात् खखाष्टवस्वश्विभिः फलं शङ्कुलिप्ताख्यम्।।
तत्कृतिविनाकृतानां खखवेदसमुद्रशीतरश्मीनाम्।
पदमर्कघ्नं शङ्कवङ्गुलाख्यलिप्तोद्धृतं छाया।।
नाडीकरणम्। इष्टकाले शङ्कुच्छायां दृष्ट्वा कालानयनं छायातो जानाति कालाच्च
छायानयनम्। तथा चाऽऽचार्यः—
षड्घ्नेऽथ स्वद्युमिते छिन्ने सद्द्वादशैर्विमध्याह्नैः।
छायाङ्गुलैर्गतास्ता नाड्यः प्राक् पृष्ठतः शेषाः।।
छायाऽऽर्की नाडीभिर्दिनमानं षड्घ्नमुद्धरेत्तत्र।
लब्धं द्वादशहीनं मध्याह्नच्छायया सहितम्।।
सा विज्ञेया छायेति च। तत्क्षेत्रं कालाज्जानाति क्षेत्राच्च कालम्। यथैतावतीनां
दिनगतघटिकानां रात्रिगतानां वा किं लग्नं तस्य लग्नस्य कियत्यो राशिभागलिप्ता इति।
एतत्कालात् क्षेत्रम्। तथा चास्मदीयवचनम्—
तात्कालिकार्कराशेर्भोगकलास्तत्प्रमाणसङ्गुणिताः ।
खखवसुशशिभिर्लब्धं विशोधयेत् प्रश्नचषकेभ्यः।।
संयोज्यं भुक्तमिते तत्परतः शोधयेत् स्वराश्युदयान्।
यावन्तः संशुद्धास्तावन्तो राशयः क्षेप्याः।।
बृ० भ० प्र०-७ JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५० बृहत्संहिता
सूर्ये शेषं विभजेदशुद्धचषकैः खरामसङ्गुणितम्।
लब्धं भागादि रवौ प्रक्षिप्य तथा कृते लग्नम्।।
रात्रिगते षड्भयुतादर्काद्दिनवत्प्रसाधयेल्लग्नम्।
दिनलग्ने यद्विहितं तद्विपरीतं निशाशेषे।।
एतत्कालात् क्षेत्रम्। क्षेत्राच्च कालम्। इष्टकाले तात्कालिकं लग्नं दृष्ट्वार्कं च इदं
लग्नं कियतीनां घटिकानां दिनगतानां रात्रिगतानां रात्रिशेषाणां वा। एतज्जानाति लग्ना-
र्कयोरन्तराद् घटिकानयनं करोति। तथा चास्मदीयवचनम्—
सूर्यद्भुक्तभागैर्लग्नाद्भुक्तैः प्रसाधयेल्लब्धिम्।
तद्योगे राश्युदयान् तदन्तरस्थान् क्षिपेत्कालः।।
तथा—
ऊनो लब्धेः कालस्तमेव भक्त्वार्कराशिमानेन।
प्राग्वल्लब्धं सूर्ये दत्त्वा लग्नं भवेत्तदन्तरकम्।।
तद्राशिमानगुणितं खखाष्टरूपैर्विभाजितं कृत्वा।
लब्धं कालं विन्द्यादिति........................................॥
एवं क्षेत्रकालकरणमेवमादिष्वभिज्ञ इति।।१२।।
अथ तन्त्रज्ञस्य विशेषलक्षणमाह—
नानाचोद्यप्रश्नभेदोपलब्धिजनितवाक्सारो निकषसन्तापाभिनिवेशैः कनक-
स्येवाधिकतरममलीकृतस्य शास्त्रस्य वक्ता तन्त्रज्ञो भवति ॥१३॥
कसौटी, आग और शाण से परीक्षित शुद्ध सुवर्ण की तरह अतिशय स्वच्छ शास्त्र का
वक्ता, अनेक प्रकार के चोद्य ( सयुक्तिक ) प्रश्नभेदों को जानने से निश्चयात्मक ज्ञान वाला
दैवज्ञ होना चाहिये।।१३।।
इत्थम्भूतस्य शास्त्रस्य यो वक्ता प्रतिपादकः स तन्त्रज्ञो भवति गणितज्ञ इत्यर्थः।
कीदृशस्य शास्त्रस्य निकषसन्तापाभिनिवेशैः कनकस्येवाधिकतरममलीकृतस्य। यथा
कनकं स्वर्णं स्वभावनिर्मलं भवति। तच्च निकषसन्तापाभिनिवेशैरधिकतरं निर्मलं भवति।
निकषं निघर्षणं पाषाणतले। सन्तापोऽग्नौ परितापनम्। अभिनिवेशो यन्त्रच्छेदनसङ्घट्टनमेतैः
सुवर्णमधिकतरममलं भवति। शास्त्रस्य निकषं निघर्षणं भूयोभूयोऽन्वेषणम्। सन्ता-
पश्चित्तपरितापश्चमत्कारस्तत्रैवैकाग्रता। अभिनिवेशो यत्नो व्यासक्तिः। एतैरमलीकृतस्य
निःसन्देहभूतस्य कीदृशो वक्ता नानाचोद्यप्रश्नभेदोपलब्धिजनितवाक्सारः। नानाप्रकाराश्च
ते चोद्याः, प्रश्नानां भेदाः प्रश्नभेदाः। अभिधेयस्यार्थस्य प्रतिपक्षोद्भावनेनानुपपत्त्योपपादनं
चोद्यम्। यथा केनचिच्चोद्यः कृतः। यथा यो दक्षिणस्यां दिशि कन्यास्थे सवितर्यतीव-
स्फुटरूपस्तारको दृश्यते स ध्रुवः। उत्तरस्यां दिशि योऽतिसूक्ष्मरूपः सोऽगस्त्यः। तस्य
गोलवासनया तन्त्रज्ञेन परिहारो दीयते। यथा भूगोलमध्ये मेरुस्तत्र चाक्षभागा नुवतिर्ध्रुवो-

सांवत्सरसूत्राध्यायः ५१
न्नतिरेवाक्षोऽतो दक्षिणस्यां दिशि ध्रुवो न दृश्यते यतस्तन्न भूगोलमध्यम्। अगस्त्य उत्तर-
स्यां न दृश्यते यतः स खमध्यात् स्वक्रान्त्या दक्षिणे गतो ध्रुवकविक्षेपवशात्। अनधिग-
तस्यार्थस्याधिगमतापवचनम्। प्रश्नो यथा—नक्षत्रगणनया चित्रा प्रथमतः स्थिता तत्पश्चात्
स्वाती कथं स्वाती पूर्वमुदयं याति पश्चाच्चित्रा। चित्रायामस्तमितायां पश्चात्स्वातिरस्तमेति।
तस्या अपि गोलवासनया तन्त्रज्ञेन परिहारो दीयते। यथा चित्रा दक्षिणविक्षिप्ता स्वातिरुत्त-
रतश्चित्राया अल्पमहःप्रमाणं स्वातेरतिमहत्। तेनैतत् सम्भवति। एवं नानाचोद्यप्रश्नभेदानामुप-
लब्धिर्नानाचोद्यप्रश्नभेदोपलब्धिः। उपलब्धिरुपलम्भनं ज्ञानं वादिकृतप्रश्नानां परिहारः। तयो-
पलब्ध्या जनित उत्पन्नो वाक्सारो निश्चयो यस्य स तथाभूतः। अन्य एवं व्याचक्षते; यथा—
नानाचोद्यप्रश्न

दनिलवेगवशेन पारम् । न त्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत्कदाचिदनृषिर्मनसापि पारम् ।।१७।। Notice the spacing in the printed book: दासादयेदनिलवेगवशेन पारम् । गच्छेत्कदाचिदनृषिर्मनसापि पारम् ।।१७।।`
We can just transcribe the text as it is, maintaining normal spacing or line-by-line format.

  1. Check footer:
    CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
    We can include it as the final line.

Everything looks completely solid and precise.५२ बृहत्संहिता
र्विद्यते येषु ते भावन्तो द्वादशादित्यास्तानपि भावतः। यतस्तदालोकात् सर्वेषामेव कर्मणां
प्रवृत्तिः आदौ प्रथमतः प्रणम्य नमस्कृत्य। तथा जनानां लोकानां कं शिरो जनकं कीदृशं
गुरुं च गौरवयुक्तं सर्वाङ्गप्राधान्यात्। येन केन नोऽस्माकमस्मिन् शास्त्रे बोधः कृत उत्पादितः।
मूर्ध्ना विना सत्सु विद्यमानेष्ववयवेषु न किञ्च

प्रतरन्नुल्लङ्घयन्ननिलवेगवशेन वायुरयहेतुना परं पारमासादयेत्प्राप्नुयात्। अस्य पुनः काल-
पुरुषाख्यमहार्णवस्य कालरूपः पुरुषः स चाख्या नाम यस्यासौ कालपुरुषाख्यः, स च
महार्णवस्तस्य ज्योतिःशास्त्रविस्तीर्णसमुद्रस्यान्तृभिर्मुनिर्मनसा चित्तेनापि पारं नासादयेत्।
अनेन ज्योतिःशास्त्राऽऽनन्त्यं प्रदर्शितं भवति।। १७।।
अथ स्कन्धद्वये के भेदास्तदर्थमाह—
होराशास्त्रेऽपि च राशिहोराद्रेष्काणनवांशकद्वादशभागत्रिंशद्भागबलाबल-
परिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिरनेकप्रकारबलनिर्धारणं प्रकृति-
धातुद्रव्यजातिचेष्टादिपरिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्यो-
मरणायुर्दायदशान्तर्दशाष्टकवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसा-
दीनां च योगानां फलान्याश्रयभावावलोकननिर्याणगत्यनूकनि तत्काल-
प्रश्नशुभाशुभनिमित्तानि विवाहादीनां च कर्मणां करणम् ।।१८।।
होराशास्त्र में भी राशि ( मेष, वृष, मिथुन आदि—इनके स्वरूप ), होरा, द्रेष्काण,
नवांश, द्वादशांश, त्रिंशांश, राशियों के बलाबल-परिग्रह। सूर्य आदि ग्रहों के दिग्बल,
स्थानबल, कालबल, चेष्टाबल—इनके द्वारा बल का विचार। गर्भाधान, जन्मकाल—
इनमें विस्मयजनक विश्वास का आदेश अर्थात् नालवेष्टित, कोशवेष्टित, यमल आदि सन्तान
हुई है—यह बताकर शास्त्रों में विश्वास पैदा कराना। शीघ्र मरण, आयुर्दाय, दशा,
अन्तर्दशा, अष्टकवर्ग, राजयोग, चन्द्रयोग, द्विग्रहयोग, नाभसयोग—इन सबों का फल।
आश्रय, भाव, दृष्टि, निर्याण, गति, अनूक ( पूर्वजन्म )—इनका विचार। तात्कालिक
प्रश्नों के शुभ-अशुभ कारण। लग्न के आश्रित शुभ-अशुभ सूचक कारण। विवाह आदि
(उपनयन, चूड़ाकरण, गृहप्रवेश) कर्मों के ज्ञान के कारण—ये सब विषय होते हैं। इन
पूर्वोक्त विषयों का विचार वराहमिहिर-विरचित बृहज्जातक और विवाहपटल—इन दोनों
पुस्तकों में अच्छी तरह वर्णित है।।१८।।
होराशास्त्रे जातकशास्त्रे के भेदाः। अपिशब्दः सम्भावनायाम्। चशब्दः प्रकारार्थे। न
केवलं तन्त्रे वक्रानुवक्रास्तमयोद्याद्या उक्ताः। यावद्धोराशास्त्रेऽपि तथा भेदाः। तद्यथा—
राशिर्मेषादिकस्तस्य स्वरूपं मत्स्यो घटीत्यादि स चाष्टादशशतलिप्तात्मकः। होरा तदर्द्धं
तस्या मार्तण्डेन्द्वोरिति लक्षणमुक्तम्। द्रेष्काणस्त्रिभागस्तस्य द्रेष्काणाः प्रथमपञ्चनवाधि-
पानामिति लक्षणमुक्तम्। नवांशको नवभागस्तस्याज्मृगेति लक्षणमुक्तम्। द्वादशभागो द्वादशां-
शस्तस्य भवनसमांशकेति लक्षणमुक्तम्। त्रिंशद्भागस्त्रिंशांशस्तस्य कुजरविजेत्यादि लक्षण-
मुक्तम्। बलाबलपरिग्रहो राशीनामेव होरास्वामिगुरुज्ञेत्यादिनोक्तः। तथा ग्रहाणामादित्यादीनां
दिग्बलं दिक्षु बुधाङ्गिरसाविति। स्थानबलं स्वोच्चसुहृदिति। कालबलं निशि शशिकुजसौरा
इति। चेष्टाबलमुदगयने रविशीतमयूखाविति। एताभिर्दिक्स्थानकालचेष्टाभिः। अनेकप्रकाराणां
बहुविधानां बलानां वीर्याणां निर्धारण विचारः। यथा चन्द्रसितौ क्षेत्र इति शुभग्रहदर्शनं
नैसर्गिकबलमित्येवमादिकानाम्। प्रकृतिर्वातपित्तश्लेष्मात्मकत्वम्। मधुपिङ्गलदृक्चतुरस्रतनुः

५४ बृहत्संहिता
पित्तप्रकृतिरित्यादि। धातुः वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवस्ते चोक्ताः स्नाक्व-
स्थ्यसृक्त्वगित्यादि। द्रव्यं ताम्रादि। ताम्रं स्यान्मणिहेम इत्याद्युक्तम्। जातिर्ब्राह्मणादिर्विप्रादितः
शुक्रगुरू इत्युक्ता। चेष्टा विनियोगः। राजानौ रविशीतगू इति। आदिग्रहणात् सत्त्वादिगुणत्रयं
चन्द्रार्कजीवा इति। कटुकादिरसषट्कं देवादिस्यानानि वस्त्राणि देवाम्ब्वग्नीत्यादिनोक्तानि।
एवमादिकः। परिग्रहः स्वामित्वम्। तथा निषेको गर्भाधानं यथास्तराशीर्मिथुनं समेतीत्यादि।
जन्मकालो गर्भमोक्षसमयः पितुर्जातः परोक्षस्येत्यादिकः। तत्र च विस्मापनप्रत्ययादेशः।
विस्मयजननानां प्रत्ययानां नालवेष्टितकोशवेष्टितानां द्वित्रादीनां भुजांघ्रिशिरसां जन्मकथनं
तदीयस्य पितुश्च सन्निधानमसन्निधानं गर्भमोक्षलक्षणं द्वारदिक्परिज्ञानं गृहशय्यासूतिकासहज-
व्रणादिपरिज्ञानम्। सद्योमरणमरिष्टाध्यायः सन्ध्यायामित्यादि। आयुर्दायो जीवितप्रमाणम्।
मययवनमणित्थमिति। दशा ग्रहाणामायुषं आधिपत्यम्। उदयविशशाङ्केत्यादि। अन्तर्दशा
मध्यवर्तिनो दशा एकर्क्षगोऽर्द्धमिति। अष्टकवर्ग औत्पादिकानां फलानां परिज्ञानं स्वादर्के
इत्यादि। राजयोगाः प्राहुर्र्यवना इति। चन्द्रयोगाः सुनफादुरुधुराख्याः। हित्वार्कं सुनफानफेति।
द्विग्रहयोगाः। तिग्मांशुर्जनयतीत्यादि। तथैककस्थैश्चतुरादिभिरिति। नाभसयोगा नवदिग्वसव
इति। आदिग्रहणात् कर्माजीवाराशिशीलानि प्रकीर्णाध्यायानिष्टयोगाः। अर्थाप्तिः पितृमातृ-
पत्नीति कर्माजीवाः। वृत्ता तामदृगिति राशिशीलानि। स्वक्षैतुङ्गेति प्रकीर्णकः। लग्नात्
पुत्रकलत्र इत्यनिष्टयोगाः। एतेषां फलानि तथा क्रियाश्रयाध्यायः। कुसलमकुलमुख्य इत्यादि।
भावाध्यायः शूरस्तब्धेति। अवलोकनं दृष्टिफलाध्यायः। चन्द्रे भूपबुधाविति। निर्याणं मरण-
निमित्तं मृत्युर्मृत्युगृहैक्षगेनेति। गतिर्देवलोकादिः। गतिरपि रिपुरन्ध्रेत्यादि। अनूकं प्राग्जन्म
गुरुरुडुपतिशुक्राविति। तत्कालप्रश्ने पृच्छायां शुभाऽशुभानि। लग्नाश्रितानि निमित्तानि
शुभाशुभफलसूचकानि। तथा चोक्तम्—
अपृच्छतः पृच्छतो वा जिज्ञासोर्यस्य कस्यचित्।
होराकेन्द्रत्रिकोणेभ्यस्तस्य विन्द्याच्छुभाशुभम्।।
इत्यादि तत्कालप्रश्नः।
विवाहादीनां च कर्मणां विवाहोपनयनचूड़ाकरणगृहप्रवेशानां करणं अज्ञातॆत्यादि विवाह-
पटलम्। तत्रैव सप्तैते शशियोगाः सौम्यैः सह सर्वकर्मसिद्धिकरा इत्याद्युपनयादीनामतिदेशः
कृत इति।।१८।।
अथ यात्रायां के भेदा इत्याह—
यात्रायां तु तिथिविसकरणनक्षत्रमुहूर्त्तविलग्नयोगदेहस्पन्दनस्वप्नविजय-
स्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवादचेष्टादिग्रहषाड्गुण्यो-
पायमङ्गलामङ्गलशकुनसैन्यनिवेशभूमयोऽग्निवर्णानां मन्त्रिचरदूताटवि-
कानां यथाकालं प्रयोगाः परदुर्गोपलम्भोपायश्चेत्युक्तं चाचार्यैः ।।१९।।
यात्रा में तिथि, दिन, करण, नक्षत्र, मुहूर्त, लग्न, योग, अङ्गस्फुरण, स्वप्न, विजय,

ा. And above the line, there is ौorो. Actually, looking at दर्शोvsदर्शौ: It looks like र्शौwith a dot:र्शौंorर्शौ. Let's just output सिद्धार्थकादर्शौत्यादिमङ्गलानिorसिद्धार्थकादर्शोत्यादिमङ्गलानि. Wait, look at कर्पासौषधादीन्य-: the सौinकर्पासौषधhas two prongs! Compareसौinकर्पासौषधwith the matra onर्श: In कर्पासौषध, सौhas two prongs on top of the vertical stroke. Inदर्शौत्यादि, it has TWO prongs as well! Exactly identical to the ौinसौ. But wait, does it have an anusvara (dot)? There is a tiny dot near the top right prong, or maybe a bindi: सिद्धार्थकादर्शौंत्यादिमङ्गलानि. Let's write सिद्धार्थकादर्शौंत्यादिमङ्गलानि(orसिद्धार्थकादर्शौत्यादिमङ्गलानि). Writing सिद्धार्थकादर्शौत्यादिमङ्गलानिis safer, but wait, look at the anusvara: yes, there's a dot. Let's writeसिद्धार्थकादर्शौंत्यादिमङ्गलानि`.

  • L30: `मङ्

कस्मिन् काले चराणां गूढपुरुषाणां प्रयोगाः कस्मिन् काले दूतादेः। बुद्ध्वा शक्तिं स्वपर-
बलयोरित्यत्र प्रयोजनमुक्तम्। कस्मिन् काले आटविकादेर्बलस्य प्रयोगः। अर्कादाट-
विकमित्यादि प्रयोजनमुक्तम्। एतेषां यथाकालं प्रयोगाः। परदुर्गोपलम्भोपायः परस्य शत्रोर्दुर्गे
उपलम्भनं लाभो ग्रहणमित्यर्थः। तत्रोपायो यथा लभ्यते दुर्गस्तस्य च केतूल्कार्कज इत्यु-
पलम्भनमुक्तम्। इत्येवं प्रकारः उक्तमाचार्यैः।।१९।।
किं तदित्याह—
जगति प्रसारितमिवालिखितमिव मतौ निषिक्तमिव हृदये।
शास्त्रं यस्य सभगणं नादेशा निष्फलास्तस्य ।।२०।।
भगणों से युक्त होराशास्त्र ( स्कन्धत्रयात्मक ज्यौतिषशास्त्र ) लोक में विस्तृत की
तरह, बुद्धि में अङ्कित की तरह और हृदय में खचित की तरह है। उसका आदेश कभी भी
निष्फल नहीं होता।।२०।।
यस्य शास्त्रं ग्रन्थं सभगणं भगणज्ञानेन सहितं संयुक्तं गणितेनेत्यर्थः। अनेन स्कन्ध-
त्रयं प्रतिपादितं भवति। कीदृशं शास्त्रं जगति लोके प्रसारितं विस्तारितमिव मतौ बुद्धा-
वालिखितं चित्रितमिव हृदये निषिक्तं प्रक्षिप्तमिव तस्य दैवज्ञस्याऽऽदेशा उक्तयो निष्फला
न भवन्ति, सत्यरूपा भवन्तीत्यर्थः। एतदुक्तं भवति—त्रिस्कन्धज्ञस्य मुनिरिव वाणी सत्य-
रूपा भवति।।२०।।
अथ संहिताप्रशंसार्थमाह—
संहितापारगश्च दैवचिन्तको भवति ।।२१।।
संहितासम्बन्धी निःशेष तत्त्वार्थ को जानने वाला दैवचिन्तक ( पूर्वकृत कर्म को
जानने वाला ) होता है।।२१।।
संहितापारगो निःशेषज्ञाततत्त्वार्थः। स दैवचिन्तको भवति। दैवस्य प्राक्तनकर्मविपाकस्य
शुभाऽशुभस्य चिन्तको भवति स्मरणशील इत्यर्थः।।२१।।
यत्रैते संहितापदार्थाः ।।२२।।
जिसमें वक्ष्यमाण विषय का वर्णन होता है, उसका नाम 'संहिता' है।।२२।।
यत्र यस्यां संहितायामेते वक्ष्यमाणाः पदार्थाः।।२२।।
के त इत्याह—
दिनकरादीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरण-
द्युतिसंस्थानास्तमनोदयमाऽमार्गान्तरवक्रानुवक्रर्क्षग्रहसमागमचारादिभिः
फलानि नक्षत्रकूर्मविभागेन देशेष्वगस्त्यचारः। सप्तर्षिचारः। ग्रहभक्तयो
नक्षत्रव्यूहग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षणरोहिणी-
स्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनोल्का-

सांवत्सरसूत्राध्यायः ५७
दिग्दाहक्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्यजन्मे-
न्द्रध्वजेन्द्रचापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्रश्वचक्र-
वातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदोदगार्गलनी-
राजनखञ्जनकोत्पातशान्तिमयूरचित्रकघृतकम्बलखड्गपट्टकृकवाकु-
कूर्मगोऽजाश्वेभपुरुषस्त्रीलक्षणान्यन्तःपुरचिन्तापिटकलक्षणोपानच्छेद-
वस्त्रच्छेदचामरदण्डशयनाऽऽसनलक्षणरत्नपरीक्षा दीपलक्षणं दन्त-
काष्ठाद्याश्रितानि शुभाऽशुभानि निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं
पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि। न
चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि। तस्मात् सुभृतेनैव
दैवज्ञेनान्येऽपि तद्विदश्चत्वारः कर्तव्याः। तत्रैकेनैन्द्री चाग्नेयी च दिगव-
लोकयितव्या। याम्या नैर्ऋती चान्येनैवं वारुणी वायव्या चोत्तरा चैशानी
चेति। यस्मादुल्कापातादीनि शीघ्रमपगच्छन्तीति। तस्याश्चाकारवर्णस्नेह-
प्रमाणादिग्रहर्क्षोपघातादिभिः फलानि भवन्ति ॥२३॥
सूर्य आदि ग्रहों के सञ्चार, उस सञ्चार में होने वाला ग्रहों का स्वभाव, विकार,
प्रमाण (विम्ब का परिमाण), वर्ण, किरण, द्युति (किरणकान्ति), संस्थान (ऊर्ध्वाधोगामी
तोरण, दण्ड आदि का संस्थान), अस्त, उदय, मार्ग, मार्गान्तर, वक्र, अनुवक्र, नक्षत्रों के
साथ ग्रह का समागम, चार (नक्षत्र में चलन)—इनके फल, नक्षत्र-विभाग द्वारा बने हुये
कूर्मचक्र से देशों का शुभाशुभ फल, अगस्त्य मुनि का सञ्चार; सप्तर्षियों (वशिष्ठ आदि
सात ऋषियों) के सञ्चार, ग्रहों की भक्ति (देश, द्रव्य, प्राणियों के आधिपत्य), नक्षत्रों
के व्यूह (द्रव्य, जनों के आधिपत्य), ग्रह-शृङ्गाटक (एकर्क्षस्थित तारा-ग्रहों के शृङ्गाटक
आदि स्थितिवश शुभाशुभ फल), ग्रहयुद्ध, ग्रह-समागम, ग्रह के वर्षपति होने पर उसका
फल, गर्भ-लक्षण, रोहिणी योग, स्वाती योग, आषाढ़ी योग, सद्योवर्षण, कुसुमलता का
लक्षण, वृक्षों के फल-फूल की उत्पत्ति के द्वारा सांसारिक शुभाशुभ का ज्ञान, परिधि
(प्रतिसूर्य का लक्षण), परिवेष, परिघ (सूर्य के उदय-अस्तकाल में तिर्यक् स्थित मेघ-
रेखा का लक्षण), वायु, उल्कापात, दिग्दाह का लक्षण, भूकम्प, सन्ध्या की लालिमा, गन्धर्व-
नगर का लक्षण, धूलि का लक्षण, निर्घात-लक्षण, अर्घकाण्ड, अन्न की उत्पत्ति, इन्द्रध्वज
और इन्द्रधनुष का लक्षण, वास्तुविद्या, अङ्गविद्या (अङ्गस्पर्श से प्राणियों के शुभाशुभ
फल जानने वाली विद्या), वायसविद्या (काकचेष्टित), अन्तरचक्र, मृगचक्र (मृगचेष्टित),
श्वचक्र (घोड़ों की चेष्टा), वातचक्र, प्रासादलक्षण, प्रतिमालक्षण, प्रतिमा-प्रतिष्ठा, वृक्षायुर्वेद
(वृक्षों की चिकित्सा), उदकार्गल (जल की उपलब्धि), नीराजन (मन्त्रों के द्वारा शुद्ध
जल से पवित्र करना), खञ्जन-लक्षण, उत्पातों की शान्ति, मयूरचित्रक, घृत, कम्बल,
खड्ग, पट्ट, मुर्गा, कूर्म, गौ, अजा, कुत्ता, अश्व, हरित, पुरुष, स्त्री, अन्तःपुर की चिन्ता,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५८ बृहत्संहिता
पिटक, मोती, वस्त्रच्छेद, चामर, दण्ड, शय्या, आसन—इनका लक्षण, रत्नपरीक्षा, दीप-
लक्षण, दन्त-काष्ठ आदि के द्वारा शुभाशुभ फल का लक्षण, संसार के प्रत्येक पुरुष और
राजाओं में पूर्वोक्त प्रत्येक लक्षण का विचार एकाग्र चित्त होकर दैवज्ञ को करना चाहिये।
अकेला दैवज्ञ सदा शुभाशुभ फल का निर्णय करने के लिये समर्थ नहीं हो सकता; अतः
प्रचुर धन देकर सन्तुष्ट किये हुये दैवज्ञ के साथ इस शास्त्र को जानने वाले और चार दैवज्ञों
की नियुक्ति राजा को करनी चाहिये। उन चार दैवज्ञों में से एक को पूर्व और अग्निकोण
की, दूसरे को दक्षिण और नैर्ऋत्य कोण की, तीसरे को पश्चिम और वायव्य कोण की तथा
चौथे को उत्तर और ईशान कोण की परीक्षा करनी चाहिये; क्योंकि उल्कापात आदि
(उल्कापात, गन्धर्वनगर, केतु) निमित्त दिखाई देने के साथ ही लुप्त हो जाते हैं। इनके
आकार, वर्ण, स्निग्धता, प्रमाण (हस्त आदि प्रमाण), ग्रह-नक्षत्रों के अभिघात आदि के
द्वारा शुभाशुभ फलज्ञात होते हैं।।२३।।
एतत्सुबोधं तथापि मन्दबुद्धिहिताय व्याख्यायते। दिनकरादीनामिति। दिनकर
आदित्यस्तदादीनां ग्रहाणां रविशशिराहुभौमज्ञगुरुसितसौरिकेत्तूनां चाराः। चरणं चारः। गति-
वशेन शुभाशुभकथनम्।
तेषु चारेषु च तेषामेव ग्रहाणां प्रकृतिः स्वभावः। विकृतिर्विकारः। प्रमाणं बिम्बस्य।
वर्णः सितादिकः। किरणा रश्मयः। तेषामेव द्युतिः कान्तिः। संस्थानमाकारः। ऊर्ध्वाधोगामित्वं
तोरणदण्डादिसंस्थानम्। अस्तमनोदयौ रविसन्निकर्षविप्रकर्षाभ्याम्। मार्गा दक्षिणोत्तरमध्यमाः
शुक्रचारोक्ताः। मार्गान्तरं मार्गमध्यम्। वक्रं प्रतीपगतित्वं ताराग्रहाणाम्। अनुवक्रं पुनः स्पष्ट-
गतित्वम्। ऋक्षग्रहसमागमो नक्षत्रैः सह ग्रहाणां संयोगः। चारो नक्षत्रेषु विचरणं संस्थिति।
आदिग्रहणाद्दक्षिणोत्तरमध्यगमनम्। योगतारकाशकटभेदश्च नक्षत्राणाम्। एवमादिभिस्तेषां
तेषु चारेषु फलानि भवन्ति। तथा नक्षत्रकूर्मविभागेन नक्षत्रसप्तविंशत्या कूर्माकारस्थित्या
भारतवर्षे नवधा विभक्तेन नक्षत्रत्रयेण देशेषु फलानि। अगस्त्यस्य मुनेश्चारः। सप्तर्षीणां
वसिष्ठपूर्वाणां चारः। ग्रहाणां भक्तयो देशद्रव्यप्राणिनामाधिपत्यम्। नक्षत्राणां व्यूहो द्रव्य-
जनाधिपत्यम्। ग्रहशृङ्गाटकं ताराग्रहाणामेकक्षर्गतानां शृङ्गाटकादिसंस्थानैः शुभाशुभज्ञानम्।
ग्रहयुद्धम्। ऊर्ध्वाधोभावेन दक्षिणोत्तरसंस्थानेन च ग्रहाणाम्। समागमश्चन्द्रेण सह संयोगः।
ग्रहाणां वर्षाधिपतित्वेन फलानि। गर्भाणां प्रावृट्कालपरिज्ञानार्थं लक्षणम्। रोहिण्याश्चन्द्रमसा
सह संयोगः समागमः। एवं स्वातियोगः पूर्वाषाढायोगश्च। सद्योवर्षलक्षणम्। कुसुमलतानां
लक्षणं वृक्षादीनां फलकुसुमप्रवृद्ध्या लोके शुभाऽशुभज्ञानम्।
तथा परिधेः प्रतिसूर्यस्य च लक्षणम्। परिघस्य सूर्योदयास्तमययोस्तिर्यक्स्थिताया
मेघरेखाया लक्षणम्। पवनस्य वायोरुल्कापातदिग्दाहलक्षणानि। क्षितिचलनं भूकम्पः।
सन्ध्यारागः सन्ध्ययो रक्तत्वम्। गन्धर्वनगरं खपुरं तल्लक्षणम्। रजसां पांशूनां लक्षणम्।
निर्घातलक्षणम्। अर्घकाण्डं राशिवशेन द्रव्याणां समर्धत्वं महार्धत्वं च। क्रीत्वा स्थापितानां
येन विक्रयकाले लाभालाभौ ज्ञायेते तदर्घकाण्डम्। सस्यजन्म सस्यजातकम्। इन्द्रध्वजस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शक्रकेतोस्तथा इन्द्रचापस्येन्द्रधनुषो लक्षणम्। वास्तुविद्या गृहाणां लक्षणम्। अङ्गविद्या यया
प्राणिनामङ्गस्पर्शनेन शुभाऽशुभं ज्ञायते। वायसविद्या काकचेष्टितम्। अन्तरचक्रं शाकुने।
मृगचक्रं मृगचेष्टितम्। तत्रैव श्वचक्रं श्वचेष्टितम्। वातचक्रमष्टासु दिक्षु प्रवहतो वातस्य
लक्षणम्। प्रासादलक्षणं देवगृहाणां रचना। प्रतिमालक्षणं सुरस्थानादिप्रमाणम्। प्रतिष्ठापनं
प्रतिष्ठा सुरप्रतिमानामेव। वृक्षायुर्वेदस्तरूणां चिकित्सा। उदगार्गलं जलोपलब्धिः। नीराजनं
नीरेण जलेन मन्त्रपूतेनाजनं क्षेपणस्पर्शनमिति नीराजनम्। खञ्जनकानां पक्षिणां लक्षणा-
लक्षणम्। उत्पातशान्तिः। उत्पातानां दिव्यान्तरिक्षभौमानामुपशमनम्। घृतकम्बलं पुष्यस्नानम्।
मयूरचित्रकं यस्मिन्नध्याये निःशेषसंहितार्थं संक्षेपेणाभिधीयते तन्मयूरचित्रकम्। खड्गपरीक्षा
खड्गलक्षणम्। पट्टपरीक्षा पट्टानां नृपमुकुटादीनां लक्षणम्। कृकवाकुः कुक्कुटः। कूर्मः
प्रसिद्धजलप्राणी। गौः प्रसिद्धा। अजश्छागः। अश्वस्तुरगः। इभो हस्ती। एतेषां लक्षणानि।
पुरुषस्त्रीलक्षणानि। अन्तःपुरचिन्ता अन्तःपुरे स्त्रीणां रक्तानां विरक्तानां च चेष्टितम्। पिट-
कानां लक्षणम्। उपानच्छेदो मूषकादिभक्षणेनोपानहां छेददर्शनाच्छुभाशुभफलम्। एवं
वस्त्राणामम्बराणां छेदः। चामराणां बालव्यजनानां दण्डानां यष्टीनां च द्विजातिक्रमेण लक्षणं
परीक्ष्योच्यते। शयनाऽऽसनलक्षणम्। रत्नानां वज्रादीनां परीक्षा। दीपस्य लक्षणम्। दन्त-
काष्ठादीनां यान्याश्रितानि तदायत्तानि शुभाशुभानि निमित्तानि चिह्नानि। आदिग्रहणात् कर्तुरपि
यानि शुभाशुभानि फलानि। जगतः सर्वजनानां सामान्यानि साधारणानि। यथा रोहिणीशकट-
मर्कनन्दनः। प्राजापत्ये शकटे भिन्न इत्यादिगानि। तथा प्रतिपुरुषं पुरुषे पुरुषे प्रतिपुरुषं
यानि शुभाशुभानि। तद्यथा—
चापं मघोनः कुरुते निशायामाखण्डलायां दिशि भूपपीडाम्।
याम्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ च।। इत्यादि।
पार्थिवे राजनि च शुभाशुभानि। यथा कृष्णा रेखा सवितरीति तानि च प्रतिक्षणं क्षणं
क्षणम्। न अन्यकर्मा अनन्यकर्मा तेनानन्यकर्मणा एकचित्तेनाभियुक्तेन तत्परेण दैवज्ञेन
सांवत्सरिकेण चिन्तयितव्यानि। न तानि निमित्तान्येकाकिना केवलेनावधारयितुं लक्षयितुं
शक्यानि। तस्मात् सुभृतेन दैवज्ञेन सुष्ठु कृत्वा यो नृपेण भृतः, अतिप्रभूतार्थदानेन परितो-
षितः। तेन दैवज्ञेनान्ये परे तद्विदः कालविदो यथानिर्दिष्टाः कर्तव्या अवधार्याः। तत्र तस्मिन्त्रि-
मित्तज्ञाने ऐन्द्री पूर्वा। आग्नेयी च पूर्वदक्षिणदिगाशा। एकेनावलोकयितव्या द्रष्टव्या।
याम्या दक्षिणा नैर्ऋती दक्षिणपश्चिमाऽन्येन द्वितीयेनावलोकयितव्या। एवमनेन प्रकारेण
वारुणी पश्चिमा। वायव्या पश्चिमोत्तरा। तृतीयेनावलोकयितव्या। उत्तरा सौम्या। ऐशानी
पूर्वोत्तरा चान्येन चतुर्थेनावलोकयितव्या। इतिशब्दः प्रकाराय। यस्माद्धेतोरुल्कापातादीनि
निमित्तानि, आदिग्रहणादुल्कागन्धर्वनगरकेतुदर्शनानि गम्यन्ते। एतान्युल्कापातादीनि निमि-
त्तानि शीघ्रमाश्वेवापगच्छन्त्यदर्शनं यान्ति। तस्याश्चोल्काया आकार आकृतिः। यथा प्रेत-
प्रहरणेति। वर्णः श्वेतादिः। स्नेहः सुस्निग्धता। प्रमाणं हस्तादि। दिगुत्तरादिका ग्रहर्क्षोपघातः,
ग्रहाणामर्कादीनामृक्षाणामश्विन्यादीनां चोपघात उपहननम्। आदिग्रहणात् कस्मिंस्थाने केनाव-

६० बृहत्संहिता
यवेन पतिताः। एवमादिभिस्तस्याः फलानि शुभाशुभानि भवन्तीति॥२३॥
उक्तं च गर्गेण महर्षिणा तच्चाह—
कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्ठिकम्।
यो न पूजयते राजा स नाशमुपगच्छति ॥२४॥
सब प्रकार से कुशल, होराशास्त्र और गणित में प्रवीण ज्योतिषी की पूजा जो राजा
नहीं करता, वह नाश को प्राप्त होता है॥२४॥
कृत्स्नानि निरवशेषाणि यानि ज्योतिःशास्त्राङ्गानि तथोपाङ्गानि तत्रैव पठितानि पुरुष-
लक्षणस्त्रीलक्षणवस्त्रोपानच्छेदरत्नलक्षणदीपदन्तकाष्ठलक्षणादीनि। एतदुक्तं भवति—
ग्रहनक्षत्रराशीनाश्रित्य यदुक्तम्—'तान्यङ्गानि परिशिष्टान्यनुपाङ्गानि' इति। तथा च भगवान्
गर्गः—
अधिकृत्य ग्रहर्क्षादि जगतो येन निश्चयः।
तदङ्गमुत्तमं विन्द्यादुपाङ्गं शेषमुच्यते।। इति।
एतेषां कृत्स्नानां निरवशेषाणामङ्गानामुपाङ्गानां कुशलस्तज्ज्ञः। तथा च होरायां जातके
गणिते ग्रहगणिते च नैष्ठिकं निष्ठालग्नं षडङ्गं तत्पारगन्तारमित्यर्थः। एवंविधं दैवज्ञं
यो राजा नृपो न पूजयते नार्चयति स नाशं विनाशमुपगच्छति प्राप्नोति॥२४॥
अन्यद्दैववित्प्रशंसार्थमाह—
वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः।
अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥२५॥
वन में रहने वाले, ममत्वरहित और किसी से कुछ लेने की इच्छा न रखने वाले भी
ग्रह-नक्षत्र आदि को जानने वाले दैवज्ञों से पूछते हैं॥२५॥
येऽपि तपस्विनो वनमरण्यं समाश्रिता वसन्ति। निर्ममा निरहङ्काराः। निष्परिग्रहा
दारवर्जिताः। निर्गतः परिग्रहो येभ्यस्तेऽपि तथाभूता ज्योतिषां ग्रहनक्षत्राणां गतौ गमने
कोविदं तज्ज्ञं परिपृच्छन्ति शुभाशुभं ज्ञातुमिच्छन्ति च। अपिशब्दः सम्भावनायां यतस्तेषां
ज्योतिःशास्त्रेण न किञ्चित्प्रयोजनं तापसत्वात्॥२५॥
अन्यत्प्रशंसार्थमाह—
अप्रदीपा यथा रात्रिरनादित्यं यथा नभः।
तथाऽसांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि ॥२६॥
दीपहीन रात्रि और सूर्यहीन आकाश की तरह ज्योतिषी से हीन राजा शोभित नहीं
होता हुआ अन्धे की तरह मार्ग में घूमता रहता है॥२६॥
यथा रात्रिर्निशाऽप्रदीपा प्रदीपरहिता न शोभामाप्नोति तमसावृतत्वात्। यथा नभ
आकाशमनादित्यं सूर्यरहितं सान्धकारं न शोभामाप्नोति। तथा तेन प्रकारेण सांवत्सरो दैवज्ञ-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सांवत्सरसूत्राध्यायः ६१
रहितो राजा न शोभते। न केवलं यावत्सर्वत्र च संशयत्वाद्व्र्मति यथान्धो नेत्रहीनोऽध्वनि
पथि परिभ्रमति॥२६॥
अन्यत्प्रशंसार्थमाह—
मुहूर्त्ततिथिनक्षत्रमृतवश्चायने तथा।
सर्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि ॥२७॥
यदि ज्यौतिषी न हो तो मुहूर्त, तिथि, नक्षत्र, ऋतु, अयन आदि समस्त विषय उलट-
पलट हो जायँ॥२७॥
मुहूर्त्ताः शिवादिकाः। तिथयः प्रतिपदादिकाः। नक्षत्रमश्विन्यादि। ऋतवः शिशिरादयः।
अयने उत्तरदक्षिणे। तथा तेनैव प्रकारेण एतानि सर्वाणि आकुलानि अज्ञातानि। स्युर्भवेयुः।
अथवाऽऽकुलानि नष्टागमानि स्युर्यदि सांवत्सरो दैवविन्न स्यान्न भवेत्॥२७॥
अन्यत्प्रशंसार्थमाह—
तस्माद्राज्ञाधिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः।
जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥२८॥
अतः जय, यश, श्री, भोग और मङ्गल की इच्छा रखने वाले राजा को चाहिये कि
विद्वान्, श्रेष्ठ ज्यौतिषी के पास जाकर अपना भविष्य पूछे॥२८॥
तस्मात् पूर्वोक्ताद्धेतो राज्ञा नृपेणाधिगन्तव्योऽधिगमनीयः। विद्वान् पण्डितः। सांवत्सरो
दैववित्। अग्रणीः प्रधानः। कीदृशेन राज्ञा। जयं शत्रुविजयं यशः कीर्तिं श्रियं लक्ष्मीं
भोगान् उपभोगान् श्रेय आरोग्यं समभीप्सता आप्राप्तुमिच्छता॥२८॥
अन्यदप्याह—
नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता।
चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥२९॥
सब प्रकार से अपने कुशल की इच्छा रखने वाले मनुष्य को दैवज्ञहीन देश में निवास
नहीं करना चाहिये; क्योंकि जहाँ पर नेत्रस्वरूप दैवज्ञ निवास करते हैं, वहाँ पाप का
निवास नहीं होता॥२९॥
भूतिं समृद्धिमिच्छता प्रार्थयता नरेण पुंसा। असांवत्सरिके देशे दैवज्ञवर्जिते देशे
स्थाने न वस्तव्यं न निवसनीयम्। हि यस्माद्यत्र यस्मिन् देशे एष दैवविच्चक्षुर्भूतः प्रकाशकः
स्यात् तस्मिन् देशे पापमेनो न विद्यते न भवति, तत्पुण्यशरीरावृतत्वात्॥२९॥
अथ दैववित्प्रशंसार्थमाह—
न सांवत्सरपाठी च नरकेषूपपद्यते।
ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA