बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
गर्भलक्षणाध्यायः ३३९
वाते तु आढकं विन्द्यात् स्तनिते द्वादशाढकम्।
नवाढकं तथाभ्रेषु द्योतितेषु षडाढकम्।।
निमित्तपञ्चकोपेते द्रोणं वर्षति वासवः ।। इति ।। ३२ ।।
अत्रैव विशेषमाह—
क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः ।
शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥ ३३॥
यदि गर्भकालिक नक्षत्र पापग्रह से युत हो तो उपल, वज्र और मछली से युत वृष्टि
होती है। यदि वहाँ पर (गर्भकालिक नक्षत्र में) चन्द्र या रवि स्थित होकर शुभग्रह
(बुध, बृहस्पति और शुक्र) से युत या दृष्ट हो तो बहुत वर्षा देने वाला गर्भ होता है।
गर्भनक्षत्रे क्रूरग्रहसंयुक्ते पापग्रहाधिष्ठिते गर्भाः करकाशनिमत्स्यवर्षदाः । करका
उपलवृष्टिः, अशनिर्विद्युत्, मत्स्या मीनास्तैः संयुक्तं वर्षं ददति। शशिनि चन्द्रे रवावादित्ये
वा तत्र स्थिते तस्मिंश्च शुभग्रहैर्बुधजीवशुक्राणामन्यतमेन संयुक्ते ईक्षिते दृष्टे च। संयुक्तश्चासौ
ईक्षितश्च तस्मिंस्तथाभूते भूरिवृष्टिकरा बहुवर्षदा गर्भाः ।। ३३ ।।
अथ गर्भसम्भवे सति विशेषलक्षणमाह—
गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
द्रोणाष्टांशोऽभ्यधिके वृष्टे गर्भः स्रुतो भवति ॥३४॥
यदि गर्भसमय में निमित्तरहित अति वृष्टि हो तो गर्भ का नाश होता है तथा यदि
पच्चीस पल या उससे अधिक वृष्टि हो तो गर्भस्राव हो जाता है।। ३४।।
गर्भसमये गर्भग्रहणकाले निर्निमित्तकृता अतिवृष्टिः। निमित्तं कारणं यथा—
प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च।
पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्के नियमेन चान्द्रौ।। इति।
एवं निमित्तरहिता अतिवृष्टिर्गर्भाभावाय गर्भविनाशाय भवति। द्रोणः पलशतद्वयं
तस्याष्टांशः पलानां पञ्चविंशतिः। तदधिके वृष्टे गर्भः स्रुतः परिस्रुतो भवति। न जल-
प्रद इत्यर्थः।।३४।।
अत्रैव विशेषमाह—
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ॥३५॥
पुष्ट गर्भ ग्रहोपघात आदि (दिव्य, आन्तरिक्ष और भौम) कारणों से जलप्रद न हो
तो आत्मीय गर्भ (फिर द्वितीय गर्भग्रहण) काल में उपलमिश्रित वृष्टि करता है।।३५।।
यो गर्भो ग्रहणकाले पुष्टः प्रसवे प्रसवकाले पञ्चनवते दिनशते ग्रहोपघातादिभिरुत्पातैः।
ग्रहोपघातः कश्चिद्ग्रहस्तत्कालमेव जलप्रदो भवति। यथा भौमः—'प्राजापत्ये श्रवण'
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
३४० बृहत्संहिता
इति। आदिग्रहणाद्दिव्यान्तरिक्षभौमैरुत्पातैर्यदि न वृष्टः स चात्मीयगर्भसमये पुनः पुरस्ताद्
द्वितीयगर्भग्रहणकाले। अम्भः पानीयं करकामिश्रमुपलसंयुक्तं ददाति।।३५।।
अत्रैव दृष्टान्तरमाह—
काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः ।
कालातीतं तद्वत् सलिलं काठिन्यमुपयाति ॥३६॥
जिस तरह बहुत समय तक रखा हुआ गौओं का दूध कठिन हो जाता है, उसी तरह
बहुत समय बीतने पर जल भी कठिन होकर उपल के रूप में हो जाता है।।३६।।
यथा पयस्विन्याः सक्षीराया धेनोः पयः क्षीरं चिरकालधृतं प्रभूतकालमुषितं काठिन्यं
कठिनतां याति गच्छति। तद्वत्तथा कालातीतं सलिलं जलं काठिन्यमुपयाति प्राप्नोति।
सलिलं तूपलतां प्रतिपद्यत इति।।३६।।
अथ गर्भस्य पुष्टिलक्षणमाह—
पवनसलिलविद्युद्गर्जिताऽ भ्रान्वितो यः
स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
विसृजति यदि तोयं गर्भकालेऽतिभूरि
प्रसवसमयमित्वा शीकराम्भः करोति ॥३७॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
गर्भलक्षणाध्याय एकविंशः ॥२१॥
यदि वायु, जल, विद्युत, मेघ का शब्द और मेघों से युत गर्भ हो तो प्रसवकाल में
बहुत वृष्टिप्रद होता है। इस तरह के गर्भसमय में यदि बहुत वृष्टि हो तो प्रसवकाल में
अधिक वृष्टि नहीं होती।।३७।।
इति 'विमला' हिन्दीटीकायां गर्भलक्षणाध्याय एकविंशः ॥२१॥
पवनो वायुः। सलिलं जलम्। विद्युत् तडित्। गर्जितं मेघशब्दः। अभ्राणि मेघाः। एतैः
पञ्चभिर्यो गर्भोऽन्वितो युक्तः स बहुतोयो बहुजलप्रदः, यतः स गर्भः पञ्चरूपाभ्युपेतः।
पञ्चभी रूपैः संयुक्तोऽतो बहुतोयदो भवति। एवंविधो गर्भो गर्भकाले यद्यतिभूरि तोयं
प्रभूतपानीयं विसृजत्युत्सृजति, तदा प्रसवसमयं मेघवर्षकालमित्वा प्राप्य पञ्चनवते दिन-
शतेऽतीते शीकराम्भः करोति जलबिन्दून् ददाति। न प्रभूतं वर्षतीत्यर्थः।।३७।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
गर्भलक्षणं नामैकविंशोऽध्यायः ॥२१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गर्भधारणाध्यायः
अथ गर्भधारणाध्यायो व्याख्यायते। तत्रादावेव तासां लक्षणमाह—
ज्यैष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणा दिवसाः।
मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥१॥
ज्येष्ठ शुक्ल अष्टमी से चार दिन तक गर्भधारण के दिन होते हैं। इन दिनों में
सुखस्पर्श, शुभ ( उत्तर, ईशान या पूर्व दिशा में उत्पन्न ) वायु और निर्मल मेघयुत आकाश
शुभ होते हैं।।१।।
ज्यैष्ठसिते ज्येष्ठशुक्लपक्षे अष्टम्याद्याश्चत्वारो ये दिवसास्ते वायुधारणा दिवसाः।
वायुधारणा येषाम्, ते दिवसा वायुना धार्यन्ते यथा तेषां प्रसवो न भवति। ते च दिवसा
मृदुशुभपवनाः शस्ताः। मृदुः सुखसंस्पर्शः। शुभ उदक्शिवशक्रादिसम्भवः। पवनो वायुः।
तथा स्निग्धघनस्थगितगगनाश्च शस्ता एव। स्निग्धैररूक्षैः, घनैर्मेघैः स्थगितं छन्नं गगनमाकाशं
येषु दिवसेषु।।१।।
अथ तास्वेव विशेषमाह—
तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः।
श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास्ताः स्युः ॥२॥
यदि ज्येष्ठ शुक्ल पक्ष में स्वाती आदि चार नक्षत्रों ( स्वाती, विशाखा, अनुराधा और
ज्येष्ठा ) में वृष्टि हो तो क्रम से श्रावण आदि चार मासों ( श्रावण, भाद्रपद, आश्विन और
कार्तिक ) में अवृष्टि होती है। जैसे ज्येष्ठ शुक्ल पक्ष में स्वाती में वृष्टि हो तो श्रावण में,
विशाखा में वृष्टि हो तो भाद्रपद में, अनुराधा में वृष्टि हो तो आश्विन में और ज्येष्ठा में वृष्टि
हो तो कार्तिक में वृष्टि का अभाव होता है।।२।।
तत्रैव तस्मिन्नेव ज्यैष्ठसिते स्वात्याद्ये स्वातिपूर्वके भचतुष्टये नक्षत्रचतुष्टये स्वाति-
विशाखाऽनुराधाज्येष्ठाख्ये वृष्टे क्रमात् परिपाट्या श्रावणपूर्वाश्चत्वारो मासा ज्ञेयाः। श्रावण-
भाद्रपदाश्वयुजकार्तिकाख्याः। ताश्च धारणाः परिस्रुताः स्युर्भवेयुः। न जलप्रदा भवन्ति। एतदुक्तं
भवति—स्वातौ वृष्टायां श्रावणे त्ववृष्टिः। विशाखायां भाद्रपदे। अनुराधायामाश्वयुजे।
ज्येष्ठायां कार्तिक इति। तथा च काश्यपः—
ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदैवते।
चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः।।
नीलाञ्जननिभैर्मेघैर्विद्युत्स्थगितमारुतैः ।
विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३४२ बृहत्संहिता
एकरूपाः शुभा ज्ञेया अशुभा सान्तराः स्मृताः।
अनार्यैस्तस्करैर्घोरैः पीडा चैव सरीसृपैः।।
ततः स्वात्यादिनक्षत्रैश्चतुर्भिः श्रवणादयः।
परिपूर्णाः शुभास्ताः स्युः सौम्याः शिवसुभिक्षकाः।।
स्वातौ तु श्रावणं हन्याद्द्द्वृष्टेऽथेन्द्राग्निदैवते।
भाद्रपदे त्ववृष्टिः स्यान्मैत्रे चाश्वयुजे स्मृता।।
ऐन्द्रे तु कार्तिके त्वेवं वृष्टे वृष्टिं निहन्ति च।
एतेषु यदि नो वृष्टिस्तदा सौभिक्षलक्षणम्।। इति।।२।।
पुनरपि विशेषलक्षणमाह—
यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
तस्करभयदाश्चोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः।।३।।
यदि वे चारों गर्भधारण के दिन एक रूप के हों तो शुभ और असमान हों तो चोरों को
भय देने वाले होते हैं। आगे इसी अर्थ को पुष्ट करने वाले वसिष्ठ के पद्य लिखते हैं।।३।।
ता धारणा यद्येकरूपाश्चतुर्ष्वपि दिवसेषु सदृशाः स्युर्भवेयुस्ततः शुभाः। सान्तराः
सविशेषा विसदृशा न शिवाय श्रेयसे भवन्ति। ताश्च तस्करभयदाश्चौरभीतिप्रदाश्चोक्ताः
कथिताः। अत्रास्मिन्नर्थेऽप्यमी वासिष्ठाः श्लोकाः वसिष्ठमहर्षिणा उक्ताः कथिता लिख्यन्ते।
अथ तांश्चाह—
सविद्युतः सपृषतः सपांशूत्करमारुताः।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः।।४।।
यदा तु विद्युत श्रेष्ठाः शुभाशाः प्रत्युपस्थिताः।
तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः।।५।।
सपांशुवर्षाः सापश्व शुभा बालक्रिया अपि।
पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु।।६।।
रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः।
वृष्टिस्तदापि विज्ञेया सर्वसस्यार्थसाधिका।।७।।
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः।
तदा स्यान्महती वृष्टिः सर्वसस्याभिवृद्धये।।८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
गर्भधारणाध्यायो द्वाविंशः।।२२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गर्भाधारणाध्यायः ३४३
यदि विद्युत्, जलकण, धूलियों से युत वायु, मेघाच्छन्न रवि-चन्द्र और उत्तर, ईशान
कोण या पूर्व दिशा की विद्युत् युत गर्भधारण के दिन हों तो सभी धान्यों की वृद्धि पण्डितों
को कहनी चाहिये। धूलि की वृष्टि, जल, बालकों की सुन्दर चेष्टायें, पक्षियों के मधुर
शब्द, धूलि या जल में उनकी क्रीडा और स्निग्ध, विकाररहित, परिवेषसहित रवि-चन्द्रों
से युत गर्भधारण के दिन हों तो सभी धान्यों को सिद्ध करने वाली वृष्टि होती है। स्निग्ध,
सघन और प्रदक्षिण करके ( पूर्व दिशा से दक्षिण, दक्षिण से पश्चिम, पश्चिम से उत्तर और
उत्तर से पूर्व ) में गमन करने वाला मेघ गर्भधारण दिन में हो तो शुभ होता है।।४-८।।
इति 'विमला' हिन्दीटीकायां गर्भधारणाध्यायो द्वाविंशः ॥२२॥
एवंविधा धारणा शुभा धारणा भवन्ति। कीदृश्यः ? सविद्युतो विद्युत्तडित्तया सहिताः।
सपृषतः सजलकणाः। सह पांशूत्करेण पांशुसमूहेन यो मारुतो वायुर्वर्तते तेन सहिताः।
सहार्कचन्द्राभ्यां परिच्छन्नाभ्यां परिवर्तते, मेघावृतत्वाद्रविचन्द्रौ स्थगितौ यासु।
यदा तु श्रेष्ठाः शोभना विद्युतस्तडितो भवन्ति, ताश्च शुभाशाः प्रत्युपस्थिताः। शुभा
या आशा दिश उदक्शिवशक्रदिशस्ताभ्यः प्रत्युपस्थिता उत्पन्नास्तदाऽपि विचक्षणः
पण्डितः सर्वसस्यानामशेषधान्यानां वृद्धिं सम्पत्तिं ब्रूयाद् वदेत्।
सपांशुवर्षा इति। सपांशुवर्षेण वर्तन्ते यास्ताः सपांशुवर्षाः। सापः अद्भिः सहिताः।
अथवा बालानां शिशूनां शुभाः क्रियाः शोभनाश्रेष्ठाः। शुभेन कर्मणा जनशुभप्रदेन क्रीडनेन।
पक्षिणां पतत्रिणां सुस्वराः शोभनशब्दा मधुरं वाक् सम्भाषणम्। तथा पांशुजलादिषु क्रीडा
क्रीडनम्। पांशुना जलेन वा। आदिग्रहणाद् गोमयकर्दमादिना।
रविचन्द्राभ्यां सूर्यशशिभ्यां परिवेषाः। स्निग्धा अरूक्षा नात्यन्तदूषिता नातिविकृताः;
तथापि सर्वसस्यार्थसाधिका वृष्टिर्विज्ञेया। यया वृष्ट्या सर्वसस्यानामर्थवृद्धिर्भवति। सर्वाणि
सस्यानि निष्पद्यन्त इत्यर्थः।
मेघाः स्निग्धा इति। यद्येवंविधा मेघा घना दृश्यन्ते तदा सर्वसस्याभिवृद्धये निःशेष-
सस्यानामभिवर्द्धनाय महती प्रभूता वृष्टिः स्याद्भवेत्। कीदृशा मेघाः ? स्निग्धा अरूक्षाः,
संहता घनाः, प्रदक्षिणगतिक्रिया येषाम्। यथा पूर्वस्यां स्थिता दक्षिणां व्रजन्ति। दक्षिणस्यां
पश्चिमाम्। पश्चिमायामुत्तराम्। उत्तरस्यां पूर्वमिति।।८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
गर्भधारणोनाम द्वाविंशोऽध्यायः ॥२२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ प्रवर्षणाध्यायः
अथ प्रवर्षणाध्यायो व्याख्यायते। तत्र तावल्लक्षणमाह—
ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन।
शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः ॥१॥
ज्येष्ठ शुक्ल पूर्णिमा बीत जाने पर पूर्वाषाढ़ा आदि सभी नक्षत्रों में वृष्टि हो तो जल का
शुभाशुभ परिमाण कहना चाहिये। अर्थात् वृष्टि हो तो शुभ और अवृष्टि हो तो अशुभ
कहना चाहिये॥१॥
ज्येष्ठमासस्येयं पौर्णमासी ज्यैष्ठी, तस्यां समतीतायामतिक्रान्तायां पूर्वाषाढादिसम्प्रवृष्टेन
पूर्वाषाढामादितः कृत्वा सर्वेषु नक्षत्रेषु सम्प्रवृष्टेन प्रवर्षितेन तज्ज्ञैः पण्डितैरम्भसो जलस्य
परिमाणं शुभमशुभं वा वाच्यं वक्तव्यम्। वृष्टौ शुभमवृष्टावशभमिति। तथा च गर्गः—
ज्येष्ठे मूलमतिक्रम्य मासि प्रतिपद्यतः।
वर्षासु वृष्टिज्ञानार्थं निमित्तान्युपलक्षयेत्॥ इति॥१॥
अधुना जलप्रमाणार्थमाह—
हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः।
पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम् ॥२॥
एक हाथ तुल्य व्यास वाले और एक हाथ गहरे वर्तुलाकार कुण्ड से वृष्टि के जल का
मापन करना चाहिये, जल से पूर्ण इस कुण्ड में पचास पल (एक आढक) तुल्य जल
होता है। पचास पल का एक आढक और चार आढक का एक द्रोण होता है॥२॥
हस्तविशालं हस्तविस्तीर्णं कुण्डकं समपरिवर्तुलमधिकृत्य कृत्वा अम्बुप्रमाणनिर्देशो
जलप्रमाणकथनं कार्यम्। पञ्चाशत्पलमाढकमनेन प्रमाणेन पतितं जलं पानीयं मिनुयान्मापयेत्।
एतदुक्तं भवति—हस्तविशालं कुण्डकं वर्षति देवे संस्थाप्य तत्र यज्जलं पतितं तन्मापयेत्।
तद्यदि पलशतद्वयं भवति तदा द्रोणो वृष्टः। यत उक्तम्—‘पञ्चाशत्पलमाढकं चतुर्भि-
राढकैर्द्रोणः’ इति। तथा च समाससंहितायाम्—
ज्येष्ठस्य पौर्णमासीमतीत्य भूमुद्रया यथा वृष्टे।
आप्याद्यैर्जलमानं मागधमानेन हस्तमिते॥
यदुक्तम्—
ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन।
शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः॥ इति॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रवर्षणाध्यायः ३४५
तत्र वर्षप्रमाणमाह—
येन धरित्री मुद्रा जनिता वा बिन्दवस्तृणाग्रेषु।
वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम्॥३॥
जिस वृष्टि से पृथ्वी पर धूलि मिट जाय या तृणाग्र में जलकण दिखाई दें, उससे जल
का प्रमाण कहना चाहिये। इससे यह सिद्ध होता है कि पूर्वाषाढ़ा आदि नक्षत्रों में से जिस
नक्षत्र में वृष्टि हो, उसी नक्षत्र के परिणाम (इसी अध्याय के छठे श्लोक से उक्त) तुल्य
वृष्टि कहनी चाहिये॥३॥
येन वृष्टेन धरित्री मुद्रा भूर्मुद्रा जनिता विगतधूली जाता। अथवा तृणानामग्रेषु प्रान्तेषु
बिन्दवो जलकणा दृश्यन्ते। तेन वृष्टेन पूर्वाषाढादौ प्रथममादौ वारिणो जलस्य प्रमाणं
वाच्यम्। एतदुक्तं भवति—पूर्वाषाढादौ प्रथमं येन नक्षत्रेण वर्षणं भवति तेनैव जलप्रमाणं
लोके वक्तव्यम्, नापरेण नक्षत्रेण। वर्षेऽपि सति भवत्स्वपि गर्भेषु धारणास्वपि सत्सु यदि
प्रवर्षणकाले न वर्षति तदा प्रसवकाले वृष्टिर्न स्यादित्यतो गर्भेष्विदमुच्यते परिमाणं
चाम्भसः प्रसवकाले वाच्यमिति॥३॥
अत्रैव मतान्तरमाह—
केचिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये।
गर्गवसिष्ठपराशरमतमेतद् द्वादशान्न परम्॥४॥
कोई-कोई मुनि (कश्यप आदि) का मत है कि प्रवर्षणकाल (ज्येष्ठ शुक्ल पूर्णिमा
के अनन्तर पूर्वाषाढ़ा आदि सत्ताईस नक्षत्रयुत काल) में किसी एक प्रदेश में भी वृष्टि हो
तो वर्षाकाल में सुन्दर वृष्टि होती है। अन्य (देवल आदि) का मत है कि यदि प्रवर्षणकाल
में कम से कम दश योजन तक वृष्टि हो तो वर्षाकाल में उत्तम वृष्टि होती है। गर्ग, वसिष्ठ
और पराशर का मत है कि प्रवर्षणकाल में बारह योजन तक वृष्टि होने से वर्षाकाल में
उत्तम वृष्टि होती है॥४॥
केचिन्मुनयः कश्यपप्रभृतयो यथाभिवृष्टं यावत्तावन्मात्रं वृष्टं कथयन्ति। प्रवर्षणकाले
यथा तथैकस्मिन्नपि प्रदेशे वृष्टे वर्षाकाले शोभनं वर्षं पूर्वाषाढादि ग्राह्यम्। तथा च कश्यपः—
प्रवर्षेणे यथा देशं वर्षणं यदि दृश्यते।
वर्षाकालं समासाद्य वासवो बहु वर्षति॥
अन्ये देवलादयो दशयोजनमण्डलं वृष्टं वदन्ति। प्रवर्षणकाले योजनदशके वृष्टे
वर्षाकाले अम्बुकथनं नास्मादून इति। तथा च देवलः—
प्रवर्षणे यदा वृष्टं दशयोजनमण्डलम्।
वर्षाकालं समासाद्य वासवो बहु वर्षति॥
गर्गवसिष्ठपराशराणामेतन्मतं यथा द्वादशाद्योजनात् परम्। प्रवर्षणकाले योजनद्वादशके
वृष्टे वर्षाकाले अम्बुकथनं कार्यं नास्मादून इति। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३४६ बृहत्संहिता
आषाढादिषु वृष्टेषु योजनद्वादशात्मके।
प्रवृष्टे शोभनं वर्षं वर्षाकाले विनिर्दिशेत्।। इति।।४।।
पुनरपि विशेषमाह—
येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः ।
यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥५॥
प्रवर्षणकाल में पूर्वाषाढ़ा आदि नक्षत्रों में से जिस किसी नक्षत्र में वृष्टि हो तो
प्रसवकाल में उसी नक्षत्र में फिर वृष्टि होती है। यदि प्रवर्षणकाल में पूर्वाषाढ़ा आदि सब
नक्षत्रों में वृष्टि न हो तो प्रसवकाल में अनावृष्टि होती है।।५।।
येषु च पूर्वाषाढादिषु भेषु नक्षत्रेष्वभिवृष्टं प्रवर्षणकाले भूयः पुनस्तेष्वेव नक्षत्रेषु
प्रायो बाहुल्येन वर्षति। प्रसवकाले आप्यादिषु पूर्वाषाढादिषु सप्तविंशेष्वपि नक्षत्रेषु यदि
न प्रवृष्टं तदा त्वनावृष्टिः प्रसवकाले भवतीति।।५।।
अधुना नक्षत्राणां वृष्टिप्रमाणमाह—
हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥६॥
श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रोणाः ॥७॥
ऐन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः ।
आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः ॥८॥
पञ्चदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च ।
रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ॥९॥
हस्त, पूर्वाषाढ़ा, मृगशिरा, चित्रा, रेवती या धनिष्ठा नक्षत्र में यदि प्रवर्षणकाल में वृष्टि
हो तो प्रसवकाल में सोलह द्रोण वृष्टि होती है। इसी तरह शतभिषा, ज्येष्ठा और स्वाती में
चार द्रोण; कृत्तिका में दश द्रोण; श्रवणा, मघा, अनुराधा, भरणी और मूल में चौदह द्रोण;
पूर्वफाल्गुनी में पच्चीस द्रोण; पुनर्वसु में बीस द्रोण; विशाखा और उत्तराषाढ़ा में बीस द्रोण;
आश्लेषा में तेरह द्रोण; उत्तरभाद्रपदा, उत्तरफाल्गुनी और रोहिणी में पच्चीस द्रोण; पूर्वभाद्रपदा
और पुष्य में पन्द्रह द्रोण; अश्विनी में बारह द्रोण तथा आर्द्रा में यदि प्रवर्षणकाल में वृष्टि हो
तो प्रसवकाल में अट्ठारह द्रोण वृष्टि होती है।।६-९।।
विशेष—यदि नक्षत्र निरुपद्रव हों तो उक्त द्रोणतुल्य वृष्टि समझनी चाहिये।
हस्तः, आप्यं पूर्वाषाढा, सौम्यं मृगशिराः, चित्रा, पौष्णं रेवती, धनिष्ठा—एतेष्वेकतमे
प्रवर्षणकाले यदि वर्षति तदा प्रसवकाले षोडश द्रोणा वर्षन्ति। एवं शतभिषक्, ऐन्द्रं
ज्येष्ठा, स्वातिः—एतेषु चत्वारो द्रोणा वर्षन्ति। कृत्तिकासु दश द्रोणाः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
श्रवणे, मघा, अनुराधा, भरणी, मूलम्—एतेषु दश चतुर्युक्ताश्चतुर्दश द्रोणाः। फल्गुन्यां
पूर्वफल्गुन्यां पञ्चकृतिः पञ्चविंशतिर्द्रोणाः। पुनर्वसौ विंशतिर्द्रोणाः। ऐन्द्राग्न्याख्ये विशाखा-
याम्, वैश्वे उत्तराषाढायाम् विंशतिर्द्रोणाः। सार्पभे आश्लेषायां दश त्र्यधिकास्त्रयोदश द्रोणाः।
आहिर्बुध्न्ये उत्तरभद्रपदायाम्, अर्यम्णे उत्तरफल्गुन्याम्, प्राजापत्ये रोहिण्याम्—एतेषु पञ्च-
कृतिः पञ्चविंशतिर्द्रोणाः। अजे पूर्वभद्रपदायाम्, पुष्ये च पञ्चदश द्रोणाः कीर्तिता उक्ताः।
वाजिभे अश्विन्याम्, दश द्वौ च द्वादश द्रोणाः। रौद्रे आर्द्रायाम्, अष्टादश द्रोणाः कथिता
उक्ताः। एते प्रवर्षणकाले द्रोणा नक्षत्रेषूक्तास्ते निरुपद्रवेषूपद्रवरहितेषु वाच्या इति। तथा
च समाससंहितायाम्—
दश युक्ता द्विकृतखतिथिरसाष्टदिग्विषयरामजलतिथिभिः।
तिथिरसरसैश्च विरसाः सदशकृताः षड्विहीनाश्च॥
जलषट्कदशकसहिता जलरसयुक्ताः षडूनाश्च।
विषयतिथिष्टक्सहिताश्चाश्विन्यादिषु जलद्रोणाः।। इति।।६-९।।
अत्रैव विशेषमाह—
रविरविसुतकेतुपीडिते भे
क्षितितनयत्रिविधाद्भुताहते च।
भवति च न शिवं न चापि वृष्टिः
शुभसहिते निरुपद्रवे शिवं च ॥१०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रवर्षणाध्यायस्त्रयोविंशः ॥२३॥
सूर्य, शनैश्चर, केतु, मङ्गल या त्रिविध उत्पातों (दिव्य, आन्तरिक्ष और भौम) से
यदि नक्षत्र पीडित हों तो अमङ्गल और वृष्टि का अभाव होता है। यदि उपद्रवरहित होकर
बुध, बृहस्पति या शुक्र से युत नक्षत्र हो तो मङ्गल कृति और वृष्टि होती है।।१०।।
इति 'विमला'हिन्दीटीकायां प्रवर्षणाध्यायस्त्रयोविंशः ॥२३॥
रविरादित्यः। रविसुतः सौरः। केतुः शिखी। एतेषामन्यतमे भे नक्षत्रे उपहते तत्र
स्थित इत्यर्थः। तथा क्षितितनयेनाङ्गारकेणाहतेऽभिघातिते। वक्रातिवक्रमध्यगमनयोग-
तारकभेदानामन्यतमेन। तथा त्रिविधेनाद्भुतेनोत्पातेन दिव्यातंरिक्षभौमेन चाहते न शिवं
श्रेयो न चापि वृष्टिर्भवति। शुभसहिते बुधजीवशुक्राणामन्यतमेन संयुक्ते। निरुपद्रवे
अन्योत्पातरहिते प्रवर्षणं शिवं श्रेयश्च भवति। तथा च गर्गः—
सूर्यसौरारहते वाच्यं नक्षत्रे भौमघातिते। उत्पातैस्त्रिविधैर्वापि राहुणा केतुनापि वा।।
अवृष्टिमशुभं विन्द्याद्विपरीते शुभं वदेत्।। इति।।१०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रवर्षणांनाम त्रयोविंशोऽध्यायः ॥२३॥
अथ रोहिणीयोगाध्यायः
अथ रोहिणीयोगाध्यायो व्याख्यायते। तत्रादावेवाऽऽगमप्रदर्शनार्थमाह—
कनकशिलाचयविवरजातरुकुसुमासङ्गिमधुकरानुरुते ।
बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनोपवने ॥१॥
सुरनिलयशिखरिशिखरे बृहस्पतिर्नारदाय यानाह ।
गर्गपराशरकाश्यपमयाश्च यान् शिष्यसङ्घेभ्यः ॥२॥
तानवलोक्य यथावत् प्राजापत्येन्दुसम्प्रयोगार्थान् ।
अल्पग्रन्थेनाहं तानेवाभ्युद्यतो वक्तुम् ॥३॥
सुवर्ण-पाषाण के समुदाय में उत्पन्न वृक्षों के पुष्पों पर बैठे हुये भ्रमरों के शब्दों से
संयुत, नाना प्रकार के पक्षियों के आलाप से मिश्रित विद्याधरियों के गीत से उत्पन्न मधुर
शब्दों से युत और सुमेरु पर्वत पर स्थित उपवन में नारद के लिए बृहस्पति तथा अपने
शिष्यों के लिये गर्ग, पराशर, काश्यप और मयासुर ने रोहिणी-चन्द्रसमागम के सम्बन्ध में
जो कहा है, उसको थोड़े पद्यों के द्वारा कहने के लिये मैं उद्यत हुआ हूँ॥१-३॥
यान् प्राजापत्येन्दुसम्प्रयोगार्थान्। प्राजापत्यं रोहिणी तस्या इन्दुना चन्द्रेण सह सम्प्रयोगः
समागमस्तत्र यानर्थान् शुभाशुभान् बृहस्पतिः सुरगुरुर्नारदायाह। नारदो नाम मुनिस्तस्मै
प्रोक्तवान्। कस्मिन् स्थाने? सुरनिलयशिखरिशिखरे, सुरनिलयशिखरी मेरुः, सुरा देवा-
स्तेषां निलयः स्थानम्, सुरनिलयश्चासौ शिखरी पर्वतस्तस्य शिखरे पृष्ठे यदुपवनमुद्यानं
तस्मिन्। कीदृशे उपवने? कनकशिलाः सुवर्णपाषाणास्तासां क्षयः सञ्चयस्तत्र यानि
विवराणि छिद्राणि तेषु ये जातास्तरवो वृक्षास्तेषु यानि कुसुमानि पुष्पाणि तेषु च मधु-
कराणां भ्रमराणां य आसङ्ग आसक्तिः संश्लेषस्तेनानुरुतं शब्दो यस्मिन्नुपवने, तथा बहवो
नानाप्रकारा ये विहगाः पक्षिणस्तेषां कलह आलापस्तेन, तथा सुरयुवतयो देवस्त्रियो
विद्याधर्यस्तासां च गायमानानां गीते योऽसौ मन्द्रो मधुरः स्वनः शब्दः स योगानाहोक्तवान्,
तान् सर्वानिवावलोक्य विचार्य यथावत्संस्फुटमल्पग्रन्थेनाहं तानेव प्राजापत्येन्दुसम्प्रयोगार्थान्
वक्तुं गदितुमभ्युद्यतोऽस्मीति॥१-३॥
अथ स रोहिणीयोगः कस्मिन् काले विचार्य इत्येतदाह—
प्राजेशमाषाढतमिस्रपक्षे क्षमाकरेणोपगतं समीक्ष्य ।
वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन ॥४॥
योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः ।
चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं निगद्यम् ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३४९
आषाढ के कृष्णपक्ष में रोहिणी-चन्द्र का समागम देखकर ग्रहचिन्तक दैवज्ञों को शास्त्र
में कथित प्रकार के द्वारा संसार का शुभाशुभ कहना चाहिये। भूत के प्रयोजनाभाव होने के
कारण आगे का ही रोहिणीयोग कहना चाहिये, यह योग पञ्चसिद्धान्तिका में मैंने (वराह-
मिहिर ने) कह दिया है। चन्द्रबिम्बप्रमाण, चन्द्र की कान्ति, चन्द्र का वर्ण, चन्द्र का मार्ग,
अनेक तरह के उत्पात और वायु के द्वारा संसार का शुभाशुभ कहना चाहिये।।४-५।।
आषाढमासस्य तमिस्रपक्षे कृष्णपक्षे प्राजेशं रोहिणीं क्षपाकरेण चन्द्रेणोपगतं संयुक्तं
समीक्ष्य दृष्ट्वा ग्रहचिन्तकेन दैवज्ञेन शास्त्रोपदेशाद् ग्रन्थागमाज्जगतो जनस्येष्टं शुभम-
शुभमनिष्टं वा वक्तव्यं कथनीयम्।
योगो यथेति। यथा येन प्रकारेण योगो रोहिणीयोगोऽनागतो भावी एव वाच्यो
वक्तव्योऽत्र स धिष्ण्ययोगो नक्षत्रयोगः करणे पञ्चसिद्धान्तिकायां मयोक्तः कथितः। तथा
च पञ्चसिद्धान्तिकायाम्—
बुद्ध्वा शशिविक्षेपं कृत्वा ताराशशाङ्कविवरं च।
संसाध्य च वक्तव्यः पश्चात्तारासमायोगः।।
इत्यादिना ग्रन्थेनेति। तथा च ब्रह्मसिद्धान्ते—
ध्रुवकादूनः पश्चादधिकः प्राग्वत् कृतो यथा योगः।
अन्यद् ग्रहमेलकवत् .........................................।। इति।
चन्द्रप्रमाणेति। चन्द्रस्य प्रमाणेन बिम्बपरिमाणेन। द्युत्या कान्त्या। वर्णेन सितादि-
केन। मार्गेण यथा पूर्वाद्यास्वष्टासु दिक्षु संस्थित्या। एतैस्तथोत्पातैस्तत्कालजातैरुल्का-
पातादिभिर्वातैश्चानिलैः शुभाशुभफलं निगद्यं वक्तव्यमिति।।४-५।।
अथ तत्र विधानमाह—
पुरादुदग्यत्पुरतोऽपि वा स्थलं त्र्यहोषितस्तत्र हुताशतत्परः।
ग्रहान् सनक्षत्रगणान् समालिखेत्सधूपपुष्पैर्बलिभिश्च पूजयेत् ॥६॥
सरत्नतोयौषधिभिश्चतुर्दिशं तरुप्रवालापिहितैः सुपूजितैः।
अकालमूलैर्कलशैरंलकृतं कुशास्तृतं स्थण्डिलमावसेद् द्विजः ॥७॥
नगर से उत्तर या पूर्व दिशा में ब्राह्मण हवन करते हुये तीन दिन उपवास करे। बाद
में अश्विनी आदि सब नक्षत्रों के साथ सूर्य आदि नव ग्रहों को लिखकर धूप, पुष्प और बलि
से उनका पूजन करे। रत्न, जल और औषधि से पूर्ण, पल्लव से आच्छादित, अनेक तरह
से पूजित, अकाल मूल (अग्निपाक के द्वारा श्याम वर्ण से रहित अधोभाग वाले) कलशों
से अलंकृत चारों दिशायें और कुशों से आच्छादित स्थण्डिल पर बैठे।।६-७।।
पुरान्नगरादुदगुत्तरस्यां दिशि यत्स्थलं तत्र तस्मिन् स्थले द्विजो ब्राह्मणः, त्र्यहोषितो
दिनत्रयं स्थितस्तत्र च कृतोपवासो हुताशतत्परः, अग्निहवनपरः। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३५० बृहत्संहिता
नगरादुपनिष्क्रम्य दिशं प्रागुत्तरां शुचिः।
विविक्ते प्रस्थले देशे देवतायतनेऽपि वा।।
राज्ञा नियुक्तो दैवज्ञः कृतशौचो जितेन्द्रियः।
निमित्तकुशलो धीरः शुक्लाम्बरसमावृतः।।
उपवासमथातिष्ठेदष्टमीं संयतव्रतः।
ततोऽष्टम्याः परे यस्मिन् दिने संयुज्यते शशी।।
प्राजापत्येन च ततो निमित्तान्युपलक्षयेत्।।
ग्रहान् सनक्षत्रगणान् समालिखेत्। तस्मिन् स्थले ग्रहानादित्यादीन् सनक्षत्रगणा-
न्नक्षत्रसमूहेन सहितान् समालिखेत् सम्यगालिखेत्, तानखिलान् सधूपपुष्पैर्धूपपुष्पसहितै-
र्बलिभिरुपहारैः पूजयेदर्चयेत्।
तथैवंविधं स्थण्डिलं द्विज आवसेदधिवसेत् सह रत्नैर्मणिभिस्तोयैर्जलैरौषधिभिः
सुगन्धद्रव्यैः सह ये वर्तन्ते कलशा उदकुम्भास्तैश्चतुर्दिशमलंकृतं शोभितम्। अन्यैश्च
किम्भूतैः? तरुप्रवालापिहितैः, तरूणां वृक्षाणां प्रवालाः पल्लवास्तैरासमन्ताद्ये पिहिता
आच्छादितास्तैः। तथा सुपूजितैः शोभनं कृत्वा चन्दनादिभिश्चार्चितैः। अकालमूलैः, अका-
लानि मूलानि येषाम्, अग्निपाकेन कृष्णवर्णाभासा अधो न सन्ति। कीदृशं स्थण्डिलम्?
कृशास्तृतम्, दर्भैराच्छादितमिति।।६-७।।
ततस्तत्र किं कुर्यादित्याह—
आलभ्य मन्त्रेण महाव्रतेन बीजानि सर्वाणि निधाय कुम्भे ।
प्लाव्यानि चामीकरदर्भतोयैर्होमो मरुद्वारुणसोममन्त्रैः ॥८॥
बाद में महाव्रत नामक मन्त्र से अभिमन्त्रित सभी चीजों को कलश में डालकर सुवर्ण
और कुशायुत जल से परिपूर्ण करे तथा वायु, वरुण और चन्द्र के मन्त्र से हवन करे।।८।।
ततः सर्वाणि बीजानि महाव्रतेन महाव्रतनाम्ना मन्त्रेणाऽऽलभ्याभिमन्त्र्य कुम्भे निधाय
विनिक्षिप्य प्लाव्यानि मज्जनीयानि। कैः? तोयैर्जलैः। कीदृशैः? चामीकरं सुवर्णं दर्भाः
कुशाश्च विद्यन्ते येषु तैस्तोयैः। तथा होमोऽग्निहोमो मरुद्वारुणसोममन्त्रैः, मरुद्वायुः, वरुणो
यादसां पतिः, सोमश्चन्द्रः, एषां मन्त्रैर्होमः कार्यः। केषाञ्चित् पाठे होमश्चरुवारुणसौम्य-
मन्त्रैः। चरुः स्थालीपाको वारुणसौम्यमन्त्रैर्होमो होतव्य इति।।८।।
ततः किं कुर्यादित्याह—
श्लक्ष्णां पताकामसितां विदध्याद्दण्डप्रमाणां त्रिगुणोच्छ्रिताञ्च ।
आदौ कृते दिग्ग्रहणे नभस्वान् ग्राह्यस्तया योगगते शशाङ्के ॥९॥
बारह हाथ ऊँचे बाँस पर पतली और दण्डप्रमाण ( चार हाथ लम्बी ) पताका बाँधे।
पहले दिग्ज्ञान करके रोहिणीयोग में स्थित चन्द्र के समय में उस पताका द्वारा किस तरफ
की वायु है—इसका ज्ञान करना चाहिये।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३५१
श्लक्ष्णां सूक्ष्मतन्तुकृतां पताकां वैजयन्तीमसितां कृष्णवर्णां विदध्यादुच्छ्रयेत्। तां
च दण्डप्रमाणां चतुर्हस्तसम्मिताम्। चतुर्हस्तो दण्डः। तथा च पुराणे—
........................................चतुर्हस्तो धनुः स्मृतः।
धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः।। इति।
एवं चतुर्हस्तां पताकां त्रिगुणोच्छ्रितां द्वादशहस्तोच्छ्रितामित्यर्थः। एतदुक्तं भवति—
द्वादशहस्तोच्छ्रिते काष्ठे तां निबध्नीयादिति। आदौ प्रथमं दिग्ग्रहणे दिक्साधने कृते तया
पताकया नभस्वान् वायुः शशाङ्के चन्द्रे रोहिणीयोगगते ग्राह्यो ग्रहीतव्य इति। कस्यां
दिशि वहतीति। तत्र दिक्साधनमाचार्येण पञ्चसिद्धान्तिकायामुक्तम्। तद्यथा—
शङ्कुचतुर्विस्तारे वृत्ते छायाप्रवेशनिर्गमनात्।
अपरैन्द्रीदिक्सिद्धिर्यवाच्च याम्योत्तरे साध्ये।।
सलिलसमीकृतायामवनौ मध्ये चतुर्विंशत्यङ्गुलप्रमाणे सूत्रेन कर्कटकेन वा वृत्तमालिखेत्।
तस्य वृत्तस्य विष्कम्भोऽष्टाचत्वारिंशदङ्गुलानि भवन्ति, तस्मिन् शङ्कुचतुर्विस्तारे वृत्ते
मध्यप्रदेशे शङ्कुर्देयः। ततः पूर्वकपालस्थे सवितरि तस्यैव शङ्कोश्छाया तद्वृत्तपरिधौ यत्र
प्रवेशं करोति तत्र बिन्दुर्दयः, सापरो पश्चिमा दिग्भवति। ततो परकपालस्थे सवितरि
तस्यैव शङ्कोश्छाया तद्वृत्तपरिधौ यत्र निर्गमं करोति तत्र बिन्दुर्दयः; सा ऐन्द्री पूर्वा दिग्भवति।
एवं छायाप्रवेशनिर्गमनादपरैन्द्री दिक्सिद्धिरिति। ततः तयोर्बिन्द्वोर्मस्तकावगाहि सूत्रं प्रसार्य
रेखां कुर्यात्; सा प्राच्यपररेखा भवति। यवाच्च याम्योत्तरे साध्ये, याम्योत्तरे दक्षिणोत्तरे च
यवात् साध्ये। यवस्य साधनं प्रदर्श्यते—तत्रैकं बिन्दुं मध्ये कृत्वा द्वितीय-बिन्दुं पाटयता
सूत्रेण वृत्तमालिखेत्। एवं द्वितीयं बिन्दुं मध्ये कृत्वा परबिन्दुं पाटयता सूत्रेणापरं वृत्तं
लिखेत्। एवं वृत्तद्वयस्य परस्परानुपवेशान्मध्ये यवाकार उत्पद्यते, तस्य सममध्यगता
रेखा कार्या; सा च याम्योत्तरा। एवं दिक्चतुष्टयसिद्धिः। ततः स्वबुद्ध्या विदिशः साध्याः।
एवं दिक्साधनं कृत्वा कृते दिग्ग्रहणे तन्मध्ये पताकां निधापयेत्। तया रोहिणीयोगगते
शशाङ्के चन्द्रे वायुर्ग्राह्यः, कस्यां दिश्युद्गतः कां च यातीति।।९।।
अथ वातेन शुभाशुभमाह—
तत्रार्द्धमासाः प्रहरैर्विकल्प्या
वर्षानिमित्तं दिवसास्तदंशैः।
सव्येन गच्छन् शुभदः सदैव
यस्मिन् प्रतिष्ठा बलवान्स वायुः ॥१०॥
वहाँ वर्षा के निमित्त प्रहर से पक्ष और प्रहरांश से दिन की कल्पना करनी चाहिये।
जैसे रोहिणीगत चन्द्र के दिन सूर्योदय से लेकर अग्रिम सूर्योदय तक आठ प्रहरों में से
प्रथम प्रहर से लेकर स्थापित पताका द्वारा वायु की परीक्षा करे। यदि दिन के प्रथम प्रहर
में सुन्दर वायु चले तो श्रावण कृष्ण में, द्वितीय प्रहर में चले तो श्रावण शुक्ल में, तृतीय
३५२ बृहत्संहिता
प्रहर में वायु चले तो भाद्र कृष्ण में, चतुर्थ प्रहर में वायु चले तो भाद्र शुक्ल में, रात्रि के
प्रथम प्रहर में वायु चले तो आश्विन कृष्ण में, द्वितीय प्रहर में वायु चले तो आश्विन शुक्ल
में, तृतीय प्रहर में वायु चले तो कार्तिक कृष्ण में और चतुर्थ प्रहर में सुन्दर वायु चले तो
कार्तिक शुक्ल में सुन्दर वृष्टि होती है। यदि सूर्योदय से आधे प्रहर तक सुन्दर वायु चले
तो श्रावण कृष्णादि के साढ़े सात दिन, उसके आधे काल तक में सवा चार दिन इत्यादि
वृष्टि कहनी चाहिये। कोई पक्ष की जगह मास का ग्रहण करते हैं। अतः आधे प्रहर की
जगह पक्ष और उसके आधे की जगह साढ़े सात दिन इत्यादि ग्रहण करना चाहिये। यदि
पताका सव्य होकर चले तो सदा शुभ करने वाली होती है। जिस वायु में स्थिरता हो, उसी
से शुभाशुभ फल कहना चाहिये॥१०॥
तत्र तस्मिन् रोहिणीयोगे प्रहरैरहोरात्राष्टभागैरर्द्धमासाः पक्षा विकल्प्या विकल्प्यानीयाः।
किमर्थम्? वर्षानिमित्तं वर्षासमयज्ञानार्थम्। एतदुक्तं भवति—यस्मिन्नहोरात्रे रोहिण्या
सह चन्द्रमा युज्यते तत्र सूर्योदयात्प्रभृति प्रथमं प्रहरं यावच्छोभनो वातो वहति तदा
श्रावणस्य प्रथमपक्षे देवो वर्षति। अशुभेन वातेनावृष्टिस्तत्र वक्तव्या। एवं द्वितीयप्रहरे
शोभनो वातो वहति तदा श्रावणस्य द्वितीयपक्षे देवो वर्षति। तृतीये भाद्रपदस्य प्रथम-
पक्षे वर्षति। चतुर्थे भाद्रपदस्य द्वितीयपक्षे वर्षति। तथा रात्रौ प्रथमप्रहरे शोभनवाते आश्व-
युजः प्रथमपक्षे वर्षति, द्वितीयप्रहरे द्वितीयपक्षे। तृतीयप्रहरे कार्तिकप्रथमपक्षे चतुर्थे द्वितीय-
पक्षे वर्षति। अशुभे वातेऽनावृष्टिः। एवं यथासम्भवं योज्यम्।
दिवसास्तदंशैरिति। तदंशैः प्रहरांशैर्दिवसा वाच्याः। प्रहरेण यदि पक्षं तत्प्रहरार्द्धेन
सप्त सार्द्धानि दिनानि। प्रहरचतुर्भागेन पादोनानि चत्वार्येवमादि। केचित् 'तेनात्र मासाः
प्रहरैर्विकल्प्याः' इति पठन्ति। तेनानन्तरोक्तेन नभस्वता। अत्र योगे प्रहरैर्मासा विकल्प्या
विकल्पनीया निश्चयीकर्त्तव्या इत्यर्थः।
वर्षानिमित्तं वर्षासमयनिमित्तं दिवसास्तदंशैस्तस्य प्रहरस्यांशैर्भागैर्दिवसा विकल्प्या
विकल्पनीयाः। प्रहरस्य त्रिंशत्तमो भागो दिवस इति। यदि तत्र दिने सूर्योदयात्प्रभृति प्रहरं
यावच्छोभनो वातो वहति तदा श्रावणसमग्रं मासं वर्षति। एवं द्वितीयप्रहरे भाद्रपदम्।
तृतीये आश्वयुजम्। चतुर्थे कार्तिकमिति। एवमशोभनवाते नानावृष्टिः।
तदंशैर्दिवसा वाच्याः— इत्येतस्यैतदेव व्याख्यानं शोभनं यस्मादनन्तरमुक्तमाचार्येण
गर्गपराशरमतं वच्मि। गर्गादीनां च मतम्—'तेनात्र मासाः प्रहरैर्विकल्प्याः' इति। नार्द्धमासाः
प्रहरैः। तथा च गर्गः—
तदहश्चोदयादूर्ध्वं चतुर्द्धाहो विभज्य च।
हिताहितार्थं मासानां चतूर्णामुपलक्षयेत्॥
आचार्येण च रोहिणीयोगेनैवाषाढीयोगस्यास्यातिदेशः कृतः। गर्गोक्ते च वातचक्रे
प्रहरैर्मासाः। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३५३
दिनार्द्धमथवा वायुर्द्वौ मासौ तत्र वर्षति।
चतुर्भागेन मासं तु शक्रोऽत्यर्थं प्रवर्षति।।
पूर्वे चैवार्द्धदिवसे पूर्वौ मासौ तु वर्षति।
अहस्तु पश्चिमे भागे पश्चिमौ द्वौ तु वर्षति।।
अथ पूर्वं व्यतिक्रम्य भागं तत्पश्चिमं ततः।
मध्याह्ने वाति चेद्वायुर्मध्यौ मासौ तु वर्षति।।
भाद्रपदोऽश्वयुक् चैव मासावेतौ तु मध्यमौ।
एतयोरपि निर्देश्या वर्षारात्रस्य सम्पदः।।
तथा च ऋषिपुत्रः—
दिनार्द्धं वाति चेद्वायुः पूर्वं पश्चिममेव वा।
मासद्वयं तदा वर्षो विभागः पूर्वपश्चिमे।।
समग्रं दिवसं वायुर्यदि वाति सुलक्षणः।
मासास्तु श्रावणाद्या ये तेषां सम्पद्विनिर्दिशेत्।।
‘तस्मात्तेनात्र मासाः’ इति शोभनः पाठः।
सव्येन गच्छन्निति। नभस्वान् सव्येन प्राग्दाक्षिण्येन गच्छन् व्रजन् सदैव सर्वकालं
शुभदः। यथा पूर्वस्यां स्थित्वा आग्नेयीं याति, ततो दक्षिणाम्, ततो नैर्ऋतीम्, ततः
पश्चिमामित्यनेन क्रमेणेति। अर्थादेवापसव्येन गच्छन्न शुभदः।
यस्मिन् प्रतिष्ठेति। यस्मिन् वायौ प्रतिष्ठा स्थैर्यमाधिक्यं भवति स एव बलवांस्तेन
शुभाशुभं वदेत्। केचिदेवं व्याचक्षते—आदित्यास्तमये यो वायुः सा प्रतिष्ठेत्येतन्न
शोभनम्। तथा च ऋषिपुत्रः—
वायन्तं मारुतं चापि यो वायुः प्रतिवायति।
तत्र यो बलवान् वायुस्तस्यैव फलमादिशेत्।। इति।।१०।।
अन्यच्छुभाशुभमाह—
वृत्ते तु योगेऽङ्कुरितानि यानि सन्तीह बीजानि धृतानि कुम्भे।
येषां तु योंऽशोऽङ्कुरितस्तदंशस्तेषां विवृद्धिं समुपैति नान्यः ॥११॥
रोहिणी में स्थित चन्द्र के समय घड़े में दिये हुये बीजों में से जिनके जितने अंश
अङ्कुरित हों, उतने की उस वर्ष में वृद्धि होती है।।११।।
रोहिण्या सह शशिनो योगे वृत्ते यानि बीजानि कुम्भे निहितानि प्राक्स्थापितानि तेषां
यान्यङ्कुरितानि तान्येवास्मिन् वर्षे सन्ति भवन्ति। हि यस्मादर्थे। येषामपि कुम्भस्थितानां
योंऽशो भागोऽङ्कुरितस्तदंशस्तद्भागस्तेषामेव वृद्धिं समुपैति प्राप्नोति नान्य इति।।११।।
बृ० भ० प्र०-२३
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३५४ बृहत्संहिता
अथ रोहिणीयोगे यद्यच्छस्यते तत्तदाह—
शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितोऽनिलः ।
शस्यते शशिनि रोहिणीगते मेघमारुतफलानि वक्ष्यतः ॥१२॥
शान्त, मधुर बोलने वाले पक्षी और जंगली जानवरों से शब्दायमान दिशा, निर्मल
आकाश और सुन्दर वायु शुभ है। अब इसके अनन्तर मेघ और वायु का फल कहते हैं।
शशिनि चन्द्रे रोहिणीगते रोहिणीयोगं गते इदमिदं शस्यते स्तूयते शान्तैरनर्काभिमुखै-
र्मधुरस्वनैश्च पक्षिभिर्विहगैर्मृगैश्चारण्यपशुभिर्दिश आशा रविताः शब्दं कारिताः। वियदाकाशं
निर्मलं विमलम्। वायुरनिन्दितोऽकुत्सितः। तथा च गर्गः—
योगे ह्यनुद्धता वाता ह्लादयन्तः सुखप्रदाः।
प्रदक्षिणाः श्रेष्ठतमाः पूर्वपूर्वोत्तरा इति॥
मेघमारुतफलानि वक्ष्यत इति। अतोऽस्मादनन्तरं मेघानामभ्राणां मारुतस्य च
वायोः फलानि वच्मि कथयामि॥१२॥
अधुना तान्येवाह—
क्वचिदसितसितैः सितैः क्वचिच्च क्वचिदसितैर्भुजगैरिवाम्बुवाहैः ।
वलितजठरपृष्ठमात्रदृश्यैः स्फुरिततडिद्रसनैर्वृतं विशालैः ॥१३॥
विकसितकमलोदरावदातैररुणकरद्युतिरञ्जितोपकण्ठैः ।
छुरितमिव वियद्घनैर्विचित्रैर्मधुकरकुङ्कुमकिंशुकावदातैः ॥१४॥
पेट की तरफ से कुण्डलाकार होने के कारण पृष्ठमात्र दिखाई देने वाले सर्पों की
तरह; अतः कहीं पर कृष्ण-श्वेत, कहीं-कहीं पर केवल श्वेत, कहीं पर केवल कृष्ण
विशाल और चमकती हुई बिजली के समान जीभ वाले, विकसित कमल के अन्दर के
समान स्वच्छ कान्ति वाले, प्रान्त भाग में लोहित वर्ण की तरह कान्ति वाले तथा भ्रमर,
कुङ्कुम और पुष्प की तरह स्वच्छ कान्ति वाले मेघों से युत आकाश रोहिणी-योग के
समय में शुभ होता है॥१३-१४॥
वियदाकाशमम्बुवाहैर्मेघैर्विशालैर्विस्तीर्णैर्वृतं व्याप्तम्। कीदृशैरम्बुवाहैः ? भुजगैः सर्पैरिव।
किम्भूतैः सर्पैः ? वलितजठरपृष्ठमात्रदृश्यैः, वलितानां स्वकायपरिवेष्टितावयवानां जठरपृष्ठमात्रं
दृश्यं येषां भुजगानाम्। क्वचिज्जठरैकदेशं क्वचित्पृष्ठैकदेशमित्यसित-सितानामत्रोपमानम्;
यतः सर्पाणामुदरं श्वेतवर्णं भवति, पृष्ठं कृष्णवर्णमतः क्वचिदसितसितैः कृष्णैः शुक्लैश्च
व्यामिश्रवर्णैः, क्वचिच्च सितैः शुक्लवर्णैरिव क्वचिच्चासितवर्णैः कृष्ण-वर्णैर्वियन्मेघैर्वृतम्।
तडितो विद्युतस्ता एव स्फुरिताश्चलिता रसना जिह्वा येषां तैः।
तथा विकसितकमलोदरावदातैः, विकसितं प्रफुल्लं कमलं पद्मं तस्योदरं गर्भस्तद्वद्ये
अवदाताः शुद्धास्तैः। तथारुणकरद्युतिरञ्जितोपकण्ठैः, अरुणकराणामरुणरश्मीनां लोहित-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३५५
कान्तीनां या द्युतिः कान्तिस्तया रञ्जितानि सरागाण्युपकण्ठानि कण्ठसमीपान्तानि येषां
तैः । विचित्रैर्नानावर्णैर्मेघैर्घनैर्विद्यदाकाशं छुरितं रञ्जितमिव । किम्भूतैः मधुकरकुङ्कुमकिंशुका-
वदातैः, मधुकरा भ्रमराः । कुङ्कुमं प्रसिद्धम् । किंशुकः पुष्पविशेषः । तद्वदवदातैः शुद्धैः,
तद्वद्वर्णैरिति ।। १३-१४ ।।
अन्यच्च—
असितघननिरुद्धमेव वा चलिततडित्सुरचापचित्रितम् ।
द्विपमहिषकुलाकुलीकृतं वनमिव दावपरीतमम्बरम् ॥ १५ ॥
बिजली, इन्द्रधनु और कृष्ण वर्ण के मेघों से युत होने के कारण विचित्र वर्ण का
आकाश मानो दावाग्नि, हाथी और भैंसों से आकुलित वन की तरह रोहिणी योग के समय
में शुभ होता है ।। १५ ।।
अथवाऽम्बरमाकाशं वनमरण्यमिव दावपरीतम्, दावो दावाग्निस्तेन परीतं व्याप्तमिव ।
यतोऽसितैः कृष्णैर्घनैर्मेघैर्निरुद्धं स्थगितम्, तथा चलिताभिस्तडिद्भिः स्फुरद्विद्युद्भिः सुरचा-
पेनेन्द्रधनुषा चित्रितं नानावर्णतामुपगतम् । कीदृशम् ? उत्प्रेक्ष्यते—द्विपमहिषकुलाकुलीकृतं
वनमिव, मेघानां तत्सादृश्यं द्विपकुलैर्हस्तिसमूहैर्महिषकुलैश्चाकुलीकृतं सोद्यमं तैः संयुक्तमतो
दावपरीतं वनमिवोत्प्रेक्ष्यते ।। १५ ।।
अन्यदप्याह—
अथवाञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम् ।
हिममौक्तिकशङ्खशशाङ्ककरद्युतिहारिभिरम्बुधरैरथवा ॥ १६ ॥
अथवा अञ्जन पर्वत के काले पत्थरों के समान मेघों से युत या हिम, मोती, शंख
और चन्द्र-किरण की कान्ति को हरण करने वाले मेघों ( श्वेत वर्ण के मेघों ) से युत
आकाश रोहिणी योग के समय में शुभ होता है ।। १६ ।।
अथवाञ्जनशैलस्याञ्जनपर्वतस्य शिलानां पाषाणानां यो निचयः समूहस्तत्प्रतिरूप-
धरैस्तादृशैरम्बुधरैर्मेघैः स्थगितमाच्छादितं गगनमाकाशम्, कृष्णैरित्यर्थः । अथवा हिमस्य
तुषारस्य मौक्तिकस्य मुक्ताफलानां शङ्खस्य कम्बुनः । शशाङ्ककराणां चन्द्ररश्मीनां द्युतिहारिभिः
कान्तिं चोरयद्भिरम्बुधरैर्मेघैः श्वेतवर्णैः स्थगितमाकाशमित्यर्थः ।। १६ ।।
अन्यच्च—
तडिद्धेमकक्ष्यैर्बलाकाग्रदन्तैः स्रवद्वारिदानैश्चलत्प्रान्तहस्तैः ।
विचित्रेन्द्रचापध्वजोच्छ्रायशोभैस्तमालालिनीलैर्वृतं चाब्दनागैः ॥ १७ ॥
बिजली रूप मध्यबन्धन ( करधनी ), हंसपंक्ति रूप आगे के दाँत, गिरते हुये
जलरूप मद, चलते हुये अग्रभागरूप हाथ, विचित्र इन्द्रधनु के समान ऊँची ध्वजा वाले,
तमाल वृक्ष और भ्रमर की तरह काले हाथी की तरह मेघों से व्याप्त आकाश रोहिणी के
समय में शुभ होता है ।। १७ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३५६ बृहत्संहिता
अब्दा मेघास्त एव नागा हस्तिनस्तैर्यदाकाशं वृतं व्याप्तम्। तडिता विद्युतस्ता
एव हेमकक्ष्याः सौवर्णानि मध्यबन्धनानि येषाम्। बलाका हंसपङ्क्तिविशेषास्ता एवाग्रदन्ताः
पुरोवर्तिनो रदाः शुक्लत्वाद्येषाम्। स्रवद्वारि वर्षजलं तदेव दानं मदजलं येषाम्। चलन्ति
प्रान्तान्यग्राणि यानि तान्येव हस्ताः करा येषाम्। विचित्रं नानावर्णमिन्द्रचापं सुरेन्द्रधनुस्तदेव
ध्वजोच्छ्रायशोभा येषाम्। उच्छ्रितं चोपरि ध्वजं नृपजनानां भवति। तमालो वृक्षः कृष्ण-
वर्णः। अलिर्भ्रमरस्तद्वन्नीलत्वं येषां तैस्तथाभूतैः।।१७।।
अन्यच्च मेघवर्णनमाह—
सन्ध्यानुरक्ते नभसि स्थितानामिन्दीवरश्यामरुचां घनानाम्।
वृन्दानि पीताम्बरवेष्टितस्य कान्तिं हरेश्चोरयतां यदा वा ॥१८॥
जिस आकाश में सन्ध्याकालिक राग से रंगे, नील कमल के समान मानो पीताम्बर
पहने हुए विष्णु भगवान् की कान्ति को चुराने वाले मेघ हैं।। १८।।
घनानां मेघानां नभस्याकाशे सन्ध्यानुरक्ते सन्ध्यारागरञ्जिते लोहिते स्थितानां सन्तिष्ठ-
ताम्। कीदृशानाम्? इन्दीवरश्यामरुचाम्, इन्दीवरं नीलोत्पलं तद्वत् श्यामा रुक् कान्तिर्येषां
तथाभूतानाम्। वृन्दानि समूहाः। अत एवोत्प्रेक्ष्यते—हरेर्भगवतो नारायणस्य पीताम्बर-
वेष्टितस्य पीतवस्त्रप्रावृतशरीरस्य कान्तिं दीप्तिं चोरयतां मुष्णतां यदा यस्मिन्नभसि।।१८।।
अन्यमेघवर्णनमाह—
सशिखिचातकदर्दुरनिःस्वनैर्यदि विमिश्रितमन्द्रपटुस्वनाः।
खमवतत्य दिगन्तविलम्बिनः सलिलदाः सलिलौघमुचः क्षितौ ॥१९॥
मयूर, चातक और मेढक के शब्दों से युत मधुर शब्द वाले, आकाश को व्याप्त कर
दिगन्त तक लटके हुये तथा पृथिवी पर अधिक वृष्टि करने वाले मेघ।।१९।।
एवं यदा सलिलौघमुचो मेघाः सलिलस्य जलस्यौघं समूहं मुञ्चन्ति परित्यजन्ति ये
ते क्षितौ भूतौ सलिलदा जलं ददतीत्यर्थः। अथ चैवंविधाः सलिलदा मेघाः क्षितौ भूमौ
सलिलौधमुचो भवन्तीति योजना। कीदृशाः? शिखिनो मयूराः, चातकाः सारङ्गाः, दर्दुरा
मण्डूकाः, तेषां निःस्वनाः शब्दाः। सशिखिचातकानां दर्दुराणां ये निःस्वनास्तैर्विमिश्रिता
मन्द्रा मधुराः पटवश्चतुराः स्वनाः शब्दा येषां ते तथाविधाः। तथा खमाकाशमवतत्य व्याप्य
यदि दिगन्तविलम्बिनो दिगन्तेष्वाशापर्यन्तेषु ये विलम्बन्ते ते तथाविधाः।।१९।।
अन्यच्चाह—
निगदितरूपैर्जलधरजालैस्त्र्यहमवरुद्धं द्व्यहमथवाहः।
यदि वियदेवं भवति सुभिक्षं मुदितजना च प्रचुरजला भूः ॥२०॥
तीन या दो दिन तक पूर्वोक्त स्वरूप वाले मेघों से युत आकाश हो तो सुभिक्ष,
आनन्दयुत मनुष्य और पृथिवी पर अधिक वृष्टि होती है।।२०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रोहिणीयोगाध्यायः ३५७
यदि वियदाकाशं निगदितरूपैः कथितरूपैर्जलधराणां मेघानां जालैर्वृन्दैस्त्र्यहं दिनत्रय-
मवरुद्धं स्थगितम्। द्वयहं दिनद्वयं वाऽहर्दिनमेकम्। अनेन प्रकारेण सुभिक्षं भवति। तथा
भूरवनिर्मुदितजना प्रहृष्टलोका प्रचुरजला भूरितोया च भवति। तथा च गर्गः—
दधिरौप्यामलाक्रौञ्चताम्राभारुणसन्निभाः ।
शुककौशेयमाञ्जिष्ठास्तपनीयसमप्रभाः ।।
अच्छिन्नमूलाः सुस्निग्धाः पर्वताकारसन्निभाः ।
घना घनाः प्रशस्यन्ते विद्युत्स्तनितसङ्कुलाः ।।
तथा च पराशरः—'रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाभ्राणि विद्यु-
च्छक्रचापालंकृतानि स्वादुसुरभिविमलशिशिरतावृद्धिश्चाम्भसां वृष्टिक्षेमसुभिक्षाय। यावतो
दिवसान् निमित्तप्रादुर्भावानुबन्धस्तावद्वर्षाणि सुभिक्षक्षेमम्। आसप्तरात्राद्विलवासिनां बिलेभ्यो
निष्क्रमणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां क्षीरपुष्पफलवृक्षसेवनं तरूणामच्छिद्रपत्रता
पुरपौरहिताय' इति। तथा च समाससंहितायाम्—
आषाढबहुलपक्षे शिशिरकरे रोहिणीसमायुक्ते।
यदि गगनममलमत्यन्ततीक्ष्णरश्मिः सहस्रांशुः ।।
सलिलगुरुनम्रजलधरतडिल्लतालोलरञ्जितदिगन्तः ।
अमितमलभेकचातककादम्बविमिश्रमाकाशम् ।।
क्षितितनयरविजरहितः स्फटिकनिभश्चन्द्रमा निरुत्पातः।
मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ।। इति ।। २० ।।
अथाशुभानां मेघानां लक्षणमाह—
रूक्षैरल्पैर्मारुताक्षिप्तदेहैरूष्ट्रध्वाङ्क्षप्रेतशाखामृगाभैः ।
अन्येषां वा निन्दितानां स्वरूपैर्मूकैश्शब्दैर्नो शिवं नापि वृष्टिः ।।२१।।
रूक्ष, अल्प, वायु से प्रेरित, ऊँट, कौआ, मुर्दा, वानर या अन्य निन्दित जीवों (कुत्ता,
बिल्ली, राक्षस आदि) की तरह कान्ति वाले और शब्दरहित मेघ अशुभ और अवृष्टि
करने वाले होते हैं ।।२१।।
एवंविधैरब्दैर्मेघैनों शिवं श्रेयः, न चापि वृष्टिर्वर्षणं भवति। कीदृशैः ? रूक्षैरस्निग्धैः ।
अल्पैर्लघुभिः । मारुतेन वायुना आसमन्तात्क्षिप्ताः प्रेरिता देहाः शरीराणि येषां तैः । उष्ट्रः
करभः। ध्वाङ्क्षः काकः । प्रेतः शवः । शाखामृगो मर्कटः। एतेषां सदृशी आभा सादृश्य-
माकृत्या च येषां तैस्तथाभूतैः। अन्येषामपरेषां वा प्राणिनां निन्दितानां कुत्सितानां श्वा-
जारराक्षसानां स्वरूपैः सदृशैर्मूकैर्निःशब्दैश्च। तथा च गर्गः—
छिन्नमूलाश्च वृक्षाश्च शुष्का वाष्पाकुलाकृताः।
पापसत्त्वानुकाराश्च मेघाः पापफलप्रदाः ।। इति ।। २१ ।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
३५८ बृहत्संहिता
अन्यच्छुभलक्षणमाह—
विगतघने वा वियति विवस्वानमृदुमयूखः सलिलकृद्देवम्।
सर इव फुल्लं निशि कुमुदाढ्यं खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥२२॥
यदि मेघरहित आकाश में सूर्य के किरण तीक्ष्ण हों तथा रात्रि में निर्मल नक्षत्रों से
युत आकाश, खिली हुई कुमुदिनियों से युत सरोवर की तरह हो तो सुन्दर वृष्टि होती है।
अथ विवस्वानादित्यो वियत्याकाशे विगतघने मेघरहिते अमृदुमयूखश्चण्डरश्मिर्भवति
तदैवमनेन प्रकारेण सलिलकृज्जलं करोति। तथा खमाकाशं निशि रात्रावुडुविशुद्धं निर्मल-
नक्षत्रं कुमुदाढ्यं कुमुदबहुलं सर इव फुल्लं विकसितं यदि दृश्यते तदा सुवृष्ट्यै शोभन-
वृष्टये भवति।।२२।।
अथ दिग्भागेन मेघफलान्याह—
पूर्वोद्भूतैः सस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये सस्यं क्षीयते नैर्ऋतेऽर्द्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥२३॥
वायव्योत्थैर्वातवृष्टिः क्वचिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥२४॥
पूर्व दिशा में उत्पन्न मेघों से धान्य की उत्तम निष्पत्ति, आग्नेय कोण में उत्पन्न मेघों से
अग्नि का भय, दक्षिण दिशा में उत्पन्न मेघों से धान्य का नाश, नैर्ऋत्य कोण में उत्पन्न मेघों
से धान्य की आधी निष्पत्ति, पश्चिम दिशा में उत्पन्न मेघों से सुन्दर वृष्टि, वायव्य कोण में
उत्पन्न मेघों से कहीं-कहीं पर वायुयुत वृष्टि (सर्वत्र नहीं), उत्तर दिशा में उत्पन्न मेघों से
पूर्ण वृष्टि और ईशान कोण में उत्पन्न मेघों से उत्तम धान्य होता है। दिशाओं के अनुसार
वायु का भी इसी तरह फल समझना चाहिये।।२३-२४।।
अब्दैर्मेघैः पूर्वोद्भूतैः पूर्वस्यां दिशि सम्भूतैः सस्यानां निष्पत्तिः सम्पद् भवति।
एवमाग्नेयाशासम्भूतैरनलदिक्स्थैरग्निकोपो वह्निकोपः। याम्ये दक्षिणदिगुत्थैः सस्यं क्षीयते
क्षयं याति। नैर्ऋते नैर्ऋतदिगुत्थैरब्दैरर्द्धं क्षीयते। अर्द्धनिष्पत्तिं याति। पश्चाज्जातैः पश्चिमायां
दिश्युत्पन्नैरब्दैर्मेघैः शोभना वृष्टिर्भवति। वायव्योत्थैर्वातयुक्ता वृष्टिर्भवति, सा क्वचित्
क्वचिच्च न सर्वत्र। सौम्यकाष्ठासमुत्थैरुत्तरदिक्सम्भूतैः पुष्टा परिपूर्णा वृष्टिर्भवति। स्थाणु-
दिगैशानी। तत्सम्प्रवृद्धैस्तदुत्पन्नैः श्रेष्ठं सस्यं भवति। एवमनेन प्रकारेण यथा मेघाः शुभा-
शुभफलप्रदा उक्तास्तथैव वायुर्मारुतः फलानि धत्ते ददाति। एतदुक्तं भवति—यथा पूर्वोद्भूतैः
सस्यनिष्पत्तिरब्दैरेवं पूर्वोद्भूतेन वायुनापि सस्यनिष्पत्तिर्भवतीत्यादि योज्यम्।।२३-२४।।
अथैषामप्युत्पातानामतिदेशार्थमाह—
उल्कानिपातास्तडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणाञ्च ग्राह्या यथैवाम्बुधरास्तथैव ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA