सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 384, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 384

३४२ बृहत्संहिता
एकरूपाः शुभा ज्ञेया अशुभा सान्तराः स्मृताः।
अनार्यैस्तस्करैर्घोरैः पीडा चैव सरीसृपैः।।
ततः स्वात्यादिनक्षत्रैश्चतुर्भिः श्रवणादयः।
परिपूर्णाः शुभास्ताः स्युः सौम्याः शिवसुभिक्षकाः।।
स्वातौ तु श्रावणं हन्याद्द्द्वृष्टेऽथेन्द्राग्निदैवते।
भाद्रपदे त्ववृष्टिः स्यान्मैत्रे चाश्वयुजे स्मृता।।
ऐन्द्रे तु कार्तिके त्वेवं वृष्टे वृष्टिं निहन्ति च।
एतेषु यदि नो वृष्टिस्तदा सौभिक्षलक्षणम्।। इति।।२।।
पुनरपि विशेषलक्षणमाह—
यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
तस्करभयदाश्चोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः।।३।।
यदि वे चारों गर्भधारण के दिन एक रूप के हों तो शुभ और असमान हों तो चोरों को
भय देने वाले होते हैं। आगे इसी अर्थ को पुष्ट करने वाले वसिष्ठ के पद्य लिखते हैं।।३।।
ता धारणा यद्येकरूपाश्चतुर्ष्वपि दिवसेषु सदृशाः स्युर्भवेयुस्ततः शुभाः। सान्तराः
सविशेषा विसदृशा न शिवाय श्रेयसे भवन्ति। ताश्च तस्करभयदाश्चौरभीतिप्रदाश्चोक्ताः
कथिताः। अत्रास्मिन्नर्थेऽप्यमी वासिष्ठाः श्लोकाः वसिष्ठमहर्षिणा उक्ताः कथिता लिख्यन्ते।
अथ तांश्चाह—
सविद्युतः सपृषतः सपांशूत्करमारुताः।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः।।४।।
यदा तु विद्युत श्रेष्ठाः शुभाशाः प्रत्युपस्थिताः।
तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः।।५।।
सपांशुवर्षाः सापश्व शुभा बालक्रिया अपि।
पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु।।६।।
रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः।
वृष्टिस्तदापि विज्ञेया सर्वसस्यार्थसाधिका।।७।।
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः।
तदा स्यान्महती वृष्टिः सर्वसस्याभिवृद्धये।।८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
गर्भधारणाध्यायो द्वाविंशः।।२२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA