सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

's vertical line and angles left!
The right stroke is a repha hook!
Wait, could the left stroke be 'े' on 'भ'?? No, 'भ' has no 'े'.
Wait, what if the word is simply "पुनर्भरेत्"?
Let's search the text:
"न खल्वक्षयवस्तूनां विनाश उपपद्यते। भृतं भृतं रिच्यतेऽथो रिक्तं रिक्तं पुनर्..."
In Sanskrit: "भृतं भृतं रिच्यतेऽथो रिक्तं रिक्तं पुनर्..."
The idea is: "Things that are inexhaustible (अक्षयवस्तु) never perish. What is full empties out, and what is empty fills up again."
What is the verb for "fills up again"?
"पुनर् भ्रियते" (passive, like रिच्यते)? But this is "पुनर्भ..."
Wait! "रिच्यते" is passive: "भृतं भृतं रिच्यतेऽथो रिक्तं रिक्तं पुनर्..."
Wait, if "रिच्यते" is passive, what is the passive of भृ? "भ्रियते"! But the text has "...त्".
Is it active: "रिच्यतेऽथो रिक्तं रिक्तं पुनर्भरैत्"?
Wait, optative of 'भृ' (1P भरति) is 'भरेत्' (like 'नयेत्', 'पठेत्').
So "पुनर्भरेत्"!
Yes, "

  • ७५ -
    स्वैरलीलाविनोदिन्यै वशिताधिकमूर्तये ।
    तत्सङ्गामृतपानेनाप्यतृप्तमनसे नमः ॥ १५ ॥
    श्रीभूलीलाद्यनन्तप्रकटगुणगणाख्यानरूपात्मिकायै ।
    साक्षाच्छ्रीरामचन्द्रामितरतिसुखितस्वादितस्वान्तरायै ।
    भक्तैकानुग्रहार्थप्रसृमरविमलापूर्णकारुण्यलक्ष्म्यै
    जानक्यै जन्मवत्यै खलु भुवि सहजायै परब्रह्मणे ते ॥ १६ ॥
    इत्युक्त्वा पदयोः पपातः भगवान् राजाधिराजः प्रभु-
    र्भूयोवैश्रवणः स्थितः सविनयं बद्ध्वा तदग्रेऽञ्जलिम् ।
    पद्माद्यैर्निधिभिः कृताञ्जलिपुटैर्जन्मोत्सवे संभ्रमं
    कर्तुं भूरि समागतेः सहयुतः श्रीमैथिलेन्द्रालये ॥ १७ ॥
    एवं सर्वे सुरौघाः स्तुतिमतुलतरां श्रौतवाक्यैः प्रमाणै
    र्निर्मायानन्तकोटिप्रचुरगुणगणाख्यायकैर्भूरि वारम् ।
    ब्रह्मोशानौ रमेशं सुरपतिमपि चोच्चैः पुरस्कृत्य याताः
    प्रेमानन्दाब्धिवीचिसमुदयनिभृतोद्भूतचित्तावगाहाः ॥ १८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे कुबेरकृतस्तुतौ षड्विंशोऽध्यायः ॥ २६ ॥
    सप्तविंशोऽध्यायः
    लक्ष्मण उवाच
    ततो गतेषु देवेषु स्तुत्वा कृत्वा च कौतुकम् ।
    जन्मोत्सव निमित्तं तत्तत्रावर्तत मङ्गलम् ॥ १ ॥
    प्रावर्तत महोत्साहो जनकक्षितिपालये ।
    कन्यारत्ने प्रजातेऽस्मिन् भाविसीतेतिनामनि ॥ २ ॥
    विप्रानामन्त्रयांचक्रे विधिज्ञान् जनको नृपः ।
    पुत्रवच्चोत्सवं चक्रे जातकर्मपुरःसरम् ॥ ३ ॥
    पुरग्रामव्रजादौ सा मिथिला समलंकृता ।
    काश्मीरचन्दनरसैः सिक्ताश्च पुरवीथयः ॥ ४ ॥
    प्रासादसौधशिखरेषु विचित्रवस्त्रञ्चत्पताकारुचिरध्वजकेतुमाल्यैः ।
    शोभातुलाजान सुमन्दसमीरलोलैर्जन्मोत्सव प्रमुदितौरिव नैम्यपुत्र्याः ॥ ५ ॥
    द्वाःसु प्रभूततरकाञ्चनकुम्भयुग्मैः शोभा च काप्यजनि सा प्रतिवेश्म नृणाम् ।
    पूर्णामृतोदकसपल्लवपञ्चरत्नदध्यक्षतक्रमुकद्रुर्वसनारिकेलैः ॥ ६ ॥
  • ७६ -
    स्तम्भैः प्रभूतकदलीप्रभवैः सुपत्त्रैः सत्पत्त्रपुष्पफलतोरणवस्त्रमाल्यैः ।
    आमोदिभिर्मलयजैर्दहनप्रदग्धैः कालागुरुप्रभवधूमघनाघनैश्च ॥ ७ ॥
    कस्तूरिकाकहिमबालुकया प्रदिग्धैः श्रीचन्दनाक्तहरिचन्दनपङ्कभारैः ।
    १अन्योन्यमतिमहोत्सवमुक्ष्यमाणैरभ्युद्गतैश्च जलयन्त्रजचन्दनोदैः ॥ ८ ॥
    उत्साहिभिश्चटुलनागरलोकजल्पैः सम्मर्दिभिश्चनटमागधवन्दिसूतैः ।
    उद्गायकैश्च गुणवद्भिरतिप्रवीणैर्वीणा मृदंगपणवानकतालवाद्यैः ॥ ९ ॥
    जन्मोत्सवः स गुणवान् प्रबभूव तस्याः सानन्दनर्तनसगानसतूर्यघोषः ।
    यद्वत्सितुर्दशरथस्य सुते प्रजाते कौसल्यया जनविलोचनचारुचन्द्रे ॥ १० ॥
    रामे वरे रसिकरत्नशिरोऽवतंसे ब्रह्माक्षरप्रकृतिकालगुणातिगायिनि ।

– ७७ –
अष्टाविंशोऽध्यायः
भरत उवाच
श्रुत्वेदं श्रीप्रजावत्याः सहजायाश्चिदाकृतेः ।
श्रीरामचन्द्रप्रेयस्याः परमं जन्ममङ्गलम् ॥ १ ॥
प्रेमप्रमादसंयुक्तः संजातो मे महोत्सवः ।
एको मे संशयो जातस्त्वं च तं छेत्तुमर्हसि ॥ २ ॥
भ्रातर्लक्ष्मण भोगीन्द्र श्रीरामप्रियकारक ।
यतीन्द्र जगदाराम पराक्षर चिदाकृते ॥ ३ ॥
सर्वं जानासि तत्त्वं त्वं सीतारामचन्द्रयोः ।
यथा तथा स्वरूपं यदेकधानेकधा स्फुरत् ॥ ४ ॥
भूमेः सुताभवत्सीता हेमलांगलसीतया ।
कथं तस्यां निमिश्चक्रे पुत्रिप्रेमविवर्द्धनम् ॥ ५ ॥
राज्ञी सुनयना चापि कन्यारत्ने परोद्भवे ।
अन्यत्नयप्रेम प्रेयसी निमिभूपतेः ॥ ६ ॥
एतद्बीजं ममाचक्ष्व भ्रातरग्रजनेऽक्षर ।
कौतुकाविष्टचित्तस्य त्वद्भाषितसुधामनु ॥ ७ ॥
लक्ष्मण उवाच
शृणु भ्रातः प्रवक्ष्यामि प्रणयिन् भरत प्रभो ।
सावधानमना भूत्वा यथावदवधारय ॥ ८ ॥
सीतायाः समभूज्जन्म जनकस्य गृहे यथा ।
पूर्वं तु जनकस्यैव गेहेऽभूत्सा लक्ष्मीभिधा ॥ ९ ॥
प्रेयसी रामचन्द्रस्य स्फुरन्ती तडिदाकृतिः ।
देवी सुनयनागर्भंरत्नं मूर्तिमती रमा ॥ १० ॥
या पूर्वंक्षीरपाथोघेस्तनया विष्णुसगता ।
रुचेः ख्यात्यां च या जाता ततोऽन्येष्वपि जन्मसु ॥ ११ ॥
द्वारकायां रुक्मिणी या वैकुण्ठे च तथा रमा ।
अविनाभावसम्बन्धात्तेन सर्वत्र योगिनी ॥ १२ ॥
सा तु संजातमात्रैव जनकस्यालये पुरा ।
दिशः प्रकाशयामास दीधितिर्भास्वतो यथा ॥ १३ ॥
चन्द्रानना चकोराक्षी गण्डमण्डलभास्वरा ।
विशालभालसंशोभिभूरिभाग्यार्णवोपमा ॥ १४ ॥

  • ७८ -

शरदिन्दोश्चन्द्रिकेव सुधास्नपितविग्रहा ।
चाम्पेयनिर्जयितनुः कल्पवल्लीव चेतना ॥ १५ ॥
सद्यः प्रसूतमात्रापि प्रभामण्डलमण्डिता ।
कुमुद्वतीनाथकोटिसुप्रकाशस्मितानना ॥ १६ ॥
सर्वाश्चर्यकरी साक्षात्कल्याणगुणभूषिता ।
तस्या मुखेन्दुं नेत्राभ्यां पिबन् जनकभूपतिः ॥ १७ ॥
योगानन्दाधिकं योगी परानन्दमवाप सः ।
तस्मिन्नेव क्षणे तत्र सुवर्णहलकर्षिते ॥ १८ ॥
यज्ञवेदीस्थले सद्यः प्रादुर्भूता वराङ्गना ।
त्रैलोक्यातीतलावण्या रूपमाहात्म्यमञ्जुला ॥ १९ ॥
यथोक्तकुसमुद्भासिरत्नसिंहासनस्थिता ।
सरिद्रूपसखोवृन्दस्तूयमानगुणोत्करा ॥ २० ॥
चामराभ्यां वीज्यमाना महासिंहासनोपरि ।
चन्द्रमण्डलसन्दोहसुवर्णच्छत्रशोभिता ॥ २१ ॥
स्वाकार

  • ७९ -
    तां पूर्वोक्तप्रकारेण राजा समुपलभ्य तु ।
    अनिनाय गृहे स्वस्य महिष्यै तां समर्पयितुम् ॥ ३१ ॥
    ततः सम्पश्यतां तेषां देवगन्धर्वरक्षसाम् ।
    मनुष्याणां मुनीनां च बभूवातीव कौतुकम् ॥ ३२ ॥
    पूर्वं जाता तु सा तस्यां सद्य एव व्यलीयत ।
    सा चासीदद्य संजाता शिशुरूपा मनोहरा ॥ ३३ ॥
    एतच्चरित्रमतुलं निरीक्ष्य जनको नृपः ।
    अतीव विस्मयाविष्टो बभूव सुमहामतिः ॥ ३४ ॥
    जनक उवाच
    किमिदं खलु संजातं दैवतं चरितं महत् ।
    उभे अपि परे दृष्टे रूपसारविभूषिते ॥ ३५ ॥
    अन्यूनानतिरिक्तश्रीसम्भावितवपुर्लते ।
    एका विवेश चैतस्यां साप्येषा समभूच्छिशुः ॥ ३६ ॥
    अहो अत्यद्भुतं दृष्ट्वा मनो मे विस्मयाकुलम् ।
    चिरं समाधिनाप्येनामहं ज्ञातुं न पारये ॥ ३७ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे ऽष्टाविंशोऽध्यायः ॥ २८ ॥
    एकोनत्रिंशोऽध्यायः
    लक्ष्मण उवाच
    एवं चिन्तयतस्तस्य मुनीन्द्रः समुपागतः ।
    शुकः सर्वार्थतत्त्वज्ञो वैयासकिरुदारधीः ॥ १ ॥
    तमपृच्छत्ततो राजा तद्देवचरितं स्मरन् ।
    प्रजातामनुजातायां लीनां तस्याश्च शैशवम् ।
    स्मारं स्मारं बभूवासौ विमूढ इव योगवित् ॥ २ ॥
    राजोवाच
    जाता मे परमा कन्या देवतात्मा कलानिधिः ।
    तस्याः प्रकाशमात्रेण निस्तमस्कमभूज्जगत् ॥ ३ ॥

?
Wait, look at the letters:
त - पो - र्थ्या - त्म... wait, look at line 22:
'त पो र्या त्म सा र वि त्' -> wait, is it 'तपोर्याथात्म्यसारवित्'?
Look closely at:
त (ta)
पो (po)
र् (repha)
या (yā)
था (thā)
त्म्य (tmya)
सा (sā)
र (ra)
वि (vi)
त् (t)
YES! Look at line 24: "याथात्म्यं"!
In line 22: "तपोर्याथात्म्यसारवित्"!
तपः + याथात्म्य + सारवित् = तपोर्याथात्म्यसारवित्!
"तपोर्याथात्म्यसारवित्" (he who knows the essence of the true nature of austerities)!
WOW, that matches the characters EXACTLY:
त - पो - र्या - था - त्म्य - सा - र - वि - त् !
Letter by letter:

  1. त (ta)
  2. पो (po)
  3. र्या (ryā - with repha)
  4. था (thā)
  5. त्म्य (tmya)
  6. सा (sā)
  7. र (ra)
  8. वि (vi)
  9. त् (t)
    Total 9 letters: तपोर्या
  • ८१ -

रामवैकुण्ठमुद्दिष्टं सीतावैकुण्ठमद्भुतम् ।
कालाक्षरातिगं मायागुणसंदोहदुर्गमम् ॥ १९ ॥
अप्राकृतं चिदाकारं प्रेमानन्दरसात्मकम् ।
नायिका तस्य स्थानस्य नाम्ना श्रीसहजेश्वरी ॥ २० ॥
वशीकृत्य निजैर्नित्यैः प्रेमानन्दमयैर्गुणैः ।
नित्यं स्वरमणं रामं रमते सा निरन्तरम् ॥ २१ ॥
यथा रामस्तथैवेयं तथा रामो यथा ह्यसौ ।
उभयोर्नैव भेदोऽस्ति विदुषां तत्त्वदर्शिनाम् ॥ २२ ॥
मुमुक्षूणां च मुक्तानां साधकानां परायणम् ।
युगलं नाम तद्ब्रह्म परात्परमुदाहृतम् ॥ २३ ॥
स भूमा पुरुषोऽस्यांशः किमुतान्ये सुरादयः ।
सर्वावतारमूलं तत्कालमायागुणातिगम् ॥ २४ ॥
अस्यैव कीर्तिताः सर्वे आविर्भावा अनेकधा ।
देवताः पितरश्चैव सिद्धविद्याधरोरगाः ॥ २५ ॥
[

  • ८२ -
    अयं भेदः समुद्दिष्टो रूपद्वयविभावने ।
    प्रमोदविपने चैषा नित्यमेव हि क्रीडति ।
    श्रीराजिन्यां गोपवध्वां गोपाच्छ्रीनन्दनाभिधात् ॥ ३५ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणोये
    सीताजन्मोत्सवे एकोनत्रिंशोऽध्यायः ॥ २६ ॥
    त्रिंशोऽध्यायः
    जनक उवाच
    प्रमोदवनवैकुण्ठं यदुद्दिष्टं त्वया प्रभो ।
    तन्मे वद विशेषेण कीदृग्रूपं परं पदम् ॥ १ ॥
    श्रीशुक उवाच
    कथयामि तव प्राज्ञ निमिवंशविभूषण ।
    प्रमोदवनरूपं यद् रामवैकुण्ठमुच्यते ॥ २ ॥
    अतीत्य कालमायादीनक्षरानन्दमध्यगम् ।
    प्रेमानन्दमयं धाम नित्यस्थानं मनोहरम् ॥ ३ ॥
    चिदानन्दौ शवलितौ तदाकारसमर्पकौ ।
    अतः साकारमुद्दिष्टं रामवैकुण्ठमद्भुतम् ॥ ४ ॥
    सर्वर्तुसंफुल्ललसत्कुसुमामोदकाननम् ।
    आमोदमत्तभ्रमरराजीगुञ्जितमञ्जुलम् ॥ ५ ॥
    कल्पद्रुमसमानेकद्रुमवाटीमनोहरम् ।
    रत्नमाणिक्यसोपानवापिकाकूलशोभितम् ॥ ६ ॥
    मायादिदोषासम्बन्धि महाशीतलमारुतम् ।
    रसालमञ्जरीवृन्दपरागभरमेदुरम् ॥ ७ ॥
    नवपल्लवशोभाढ्यविटपारूढकोकिलम् ।
    हरिन्मणिमयाकाररामणीयकपत्रकम् ॥ ८ ॥
    मकरन्दामृतस्राविप्रसूनभरसंकुलैः ।
    सपल्लवोत्तुङ्गशाखावलम्बिबहुवल्लिभिः ॥ ९ ॥
    पीयूषपाकमधुरैः फलैरानम्रमूर्तिभिः ।
    वृक्षैर्बहुविधैश्छन्नं बहुकुञ्जमनोहरम् ॥ १० ॥
  • ८३ -
    माधुरीवल्लरीछन्नतुङ्गभूरुहशोभितम् ।
    लतामन्दिरविश्रान्तनिकूजच्छुकसारिकम् ॥ ११ ॥
    नृत्यन्मयूरनिवहं तापिच्छतरुशोभितम् ।
    लवंगलतिकाच्छन्नकुञ्जव्यापिमहीरुहम् ॥ १२ ॥
    कचित्कनकपत्राढ्यैः कचिन्नीलदलान्वितैः ।
    कचित्कचिच्च सिन्दूररागरञ्जितपत्रकैः ॥ १३ ॥
    कचिन्नीलदलैः कापि यावकोद्भासिपत्रकैः ।
    कचिद्विचित्रपत्रैश्च भूरुहैः परिशोभितम् ॥ १४ ॥
    वसन्तचित्रकारेण चित्रशालीकृतं यथा ।
    अनेकरत्नकुलाभिः सरसोभिर्विराजितम् ॥ १५ ॥
    फुल्लत्कमलिनीवृन्दजुष्टानेकसरोजलम् ।
    कमलोत्पलसंसर्गिसौरभाञ्चितमारुतम् ॥ १६ ॥
    अनेकवनसंशोभिरामकेलीरसास्पदम् ।
    प्रमोदमानलोकाढ्यं प्रमोदवनमुत्तमम् ॥ १७ ॥
    उज्जागरं प्रभाभोरेः सूर्येन्दुकोटिभासुरम् ।
    यत्र सौगन्धिको नाम पर्वतः सुमहोन्नतः ॥ १८ ॥
    सुगन्धजलसस्रावनिर्झरान्वितकन्दरः ।
    सुगन्धभूरुहवृतः सुगन्धलतिकाञ्चितः ॥ १९ ॥
    सुगन्धधातुप्रसवः सुगन्धरजसाञ्चितः ।
    सुगन्धपाषाणतलनिषादिविहगव्रजः ॥ २० ॥
    यत्र चोद्भाति सततं नाम्ना रत्नगिरिर्गिरिः ।
    मणिमाणक्यरत्नौघमयूखगणसंवृतः ॥ २१ ॥
    शिखरैर्गगनस्पृग्भिर्व्याप्नुवन् सकला दिशः ।
    अधित्यकावनतरुनिषादिपिकनादितः ॥ २२ ॥
    श्रीरामकेलीभवनकन्दरशतशोभितः ।
    उपत्यकाशिलावेदिनिषण्णहरिणीकुलः ॥ २३ ॥
    सदावर्तितरोमन्थमत्तशंवरशोभितः ।
    भाभिर
  • ८४ -
    विचित्रितजला नित्य सुगन्धिततरंगवाट् ।
    राजहंसकुलच्छन्ना कलहंसकलकणा ॥ २७ ॥
    मत्तकारणडवकुलचक्रवाकचयान्विता ।
    शीतलाम्भःसुधासारा शीतलानिलसंगिनी ॥ २८ ॥
    पाविनी सर्वलोकानां गङ्गातोऽप्यधिका गुणैः ।
    वसिष्ठमुनिसंसेव्या वासिष्ठीति श्रुता भुवि ॥ २९ ॥
    रामगङ्गा चमत्कारिनीरा प्रेमस्वरूपिणी ।
    तमसाकलिता नित्यं द्विर्वहा द्विप्रवाहिका ॥ ३० ॥
    पावयन्ती नाममात्रात्सहस्रयोजनोपरि ।
    तरंगसंसर्गिमरुत्पूतजानपदावलिः ॥ ३१ ॥
    यत्र चोत्सवदं नित्यं विशालं कामिकावनम् ।
    संदीपनं नाम वनं यस्यान्तः सुमनोहरम् ॥ ३२ ॥
    सर्वर्तुद्रुमशोभाढ्यं नानाघोषमनोहरम् ।
    मन्थानशब्दमधुरप्रभूताभीरपल्लिकम् ॥ ३३ ॥
    यत्र गावो दीर्घशृङ्गाश्चन्द्रवर्णा मनोहराः ।
    ऊधोभारनताः साक्षात्कामधेनव उद्धुराः ॥ ३४ ॥
    यासां खुररजोभारैर्भूषिता व्रजमेदिनी ।
    क्रीडनार्हा रमेशस्य सुखिताभीरवासभूः ॥ ३५ ॥
    यत्र श्रीसुखितग्रामः सदा लक्ष्मीनिवासभूः ।
    श्रीनन्दनमहागोपप्रासादवरसुन्दरः ॥ ३६ ॥
    श्रीराजिन्या च तत्पत्न्या साक्षादभिनवश्रिया ।
    मात्रा श्रीसहजेशान्या शोभमानो दिवानिशम् ॥ ३७ ॥
    कूर्द्दद्वत्सतरव्रातः कूर्द्दद्वत्सतरीयुतः ।
    नन्दीश्वरसमानेकमहावृषभशोभितः ॥ ३८ ॥
    यत्र क्रीडापरो रामो लक्ष्मणेन सदा हरिः ।
    सच्चिदानन्दरूपोऽसौ परब्रह्मरसाकृतिः ॥ ३९ ॥
    विश्वामित्रनिदेशेन चारयन् गा वने वने ।
    आभीरकन्यकाचक्रचन्द्रचारुचकोरदृक् ॥ ४० ॥
    नित्यलीलारसानन्दी नित्यरासरसोत्कटः ।
    शारदैश्चैव वासन्तैर्विहारैर्विहरन् सदा ॥ ४१ ॥
    महाश्रीसहजानन्दारतिकेलीपरायणः ।
    कोटिकल्पावसानेऽपि अविश्रान्तमहारतिः ॥ ४२ ॥
  • ८५ -
    सहजानन्दिनी यत्र क्रीडति स्ववनेऽनिशम् ।
    युक्ता नर्मसखीवृन्दै श्रीनन्दन सुनन्दिनी ॥ ४३ ॥
    माङ्गल्याभाग्यविभवौ यत्र दिव्यकिशोरकौ ।
    तावेव नित्यं रेमाते रमणैः प्राकृतैरिव ॥ ३४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे त्रिंशोऽध्यायः ॥ ३० ॥
    ❖
    एकत्रिंशोऽध्यायः
    जनक उवाच
    अथाख्याहि मम ब्रह्मन् सरय्वाः सम्भवं शुभम् ।
    कथमेषा समुत्पन्ना केनचेति वद प्रभो ॥ १ ॥
    कथं विलोचनजला नामास्याः प्रवदन्ति च ।
    किं स्वरूपेयमुद्दिष्टा सरयूः सरितां वरा ॥ २ ॥
    श्रीशुक उवाच
    पुरा भूम्नः पुरुषस्याग्रतोऽभूल्लोकालोकात्परतऽ संस्थितस्य ।
    जिज्ञासूनां ब्रह्मविदां मुनीनां तत्त्वार्थस्यागोचरत्वात्प्रवादः ॥ ३ ॥
    कर्मेति केऽपि जगदुःखलु कालमन्ये ।
    केऽपि स्वभावमपि कोऽपि तथैव दैवम् ।
    केऽप्यक्षरं प्रकृतिपूरुषभेदभिन्नं केऽप्यूचुरद्भुतचरित्रकरी तदिच्छाम् ॥ ४ ॥
    केचिन्नायणं पूर्णमूचुः सत्त्वैकविग्रहम् ।
    परे शिवं शंकराख्यं केचिदन्ये स्वयंभुवम् ॥ ५ ॥
    अपरे तद्रूपमय सर्वोपादानरूपिणम् ।
    महापुरुषमभ्यूचुर्वेदतात्पर्यगोचरम् ॥ ६ ॥
    आचख्युः केऽपि वेदार्थं संक्षेपव्यासयोगतः ।
    इत्थं तेषां प्रवादेषु जायमानेषु संसदि ॥ ७ ॥
    सनत्कुमारो भगवानाजगाम महामुनिः ।
    बालवेषधरो योगी सर्ववेदार्थसारवित् ।
    तमूचुर्मुनयः सर्वे संदिहानाः परस्परम् ॥ ८ ॥
  • ८६ -
    ऋषय ऊचु
    ब्रह्मणो मानसाः पुत्रास्तेषां त्वं प्रवरो मतः ।
    तपसा विद्यया चैव शीलेन च मनीषया ॥ ९॥
    ज्ञानेन कर्मणा चैव भक्त्या च श्रद्धया तथा।
    बालोऽपि बहुकल्पज्ञस्त्वमनूचानपुङ्गवः ॥ १० ॥
    आम्नायसकलोपेतः करामलकवत्स्फुटः ।
    तत्र त्वया किं निर्णीतं समासव्यासयोगतः ॥ ११ ॥
    वदैकं दैवतं लोके यत्र वेदः प्रवर्तकः ।
    नृणां मुनीनां देवानां वरेण्यानां विशेषतः ॥ १२ ॥
    किमेकं सेवनीयं च जप्यं स्मर्त्तव्यमेव च ।
    सिद्धान्तितं यद्भवता तन्नो ब्रूहि सुनिश्चितम् ॥ १३ ॥
    इति तेषां मुनीन्द्राणां श्रुत्वा सुविमलं वचः ।
    सनत्कुमारो भगवान् प्रत्युवाच मुदान्वितः ॥ १४ ॥
    श्रीसनत्कुमार उवाच
    साधु पृष्टं महाभागा मुनयो लोकमङ्गलाः ।
    यतो वितत आम्नाये ज्ञातुमेतन्न शक्यते ॥ १५ ॥
    यदेकं परमं सारं तद्भो वक्ष्ये यथामति ।
    रामेति द्व्यक्षरो मन्त्रः सर्वकल्याणदायकः ॥ १६ ॥
    वेदानां सारभूतोऽसौ स्वात्मचैतन्यदीपकः ।
    उद्गीथः सर्ववेदानां सर्वोपनिषदां निधिः ॥ १७ ॥
    दहनः सर्वपापानां पावकार्चिर्यथैधसाम् ।
    पावनः सर्वतीर्थानां भावनः शुभकर्मणाम् ॥ १८ ॥
    दूषणो दुरदृष्टानां भूषणो जनचेतसाम् ।
    जननः श्रुतिसौख्यानां मोक्षाणां च प्रदायकः ॥ १९ ॥
    वरेण्य सर्वधर्माणां रामनामानुकीर्तनम् ।
    कोट्यश्वमेधफलदं सद्यः प्रत्ययदायकम् ॥ २० ॥
    आसुरैः पाप्मभिः कामक्रोधाद्यैरुपतापिते ।
    सतां चित्ते रामनाम सर्वशान्त्यै सुधोपमम् ॥ २१ ॥
    एतत्सारं विनिर्दिष्टं वैदिकीनां गिरा मयि ।
    स्वाद्यं हृद्यं च रस्यं च गेयं पेयं च साधुभिः ।
    मायामोहमदादीनां शमनं समनन्तरम् ॥ २२ ॥
  • ८७ -
    श्रीरामनाम्ना सदृशं न तीर्थं श्रीरामनाम्ना सदृशं न पुण्यम् ।
    श्रीरामनाम्ना सदृशं न कर्म श्रीरामनाम्ना सदृशं तपो न ॥ २३ ॥
    श्रीरामनाम्ना सदृशो न योगः श्रीरामनाम्ना सदृशो न भोगः ।
    श्रीरामनाम्ना सदृशो न मोदः श्रीरामनाम्ना सदृशो न मोक्षः ॥ २४ ॥
    श्रीरामनाम्ना सदृशी न भक्तिः श्रीरामनाम्ना सदृशी न शक्तिः ।
    श्रीरामनाम्ना सदृशी न सेवा श्रीरामनाम्ना सदृशी न चार्चा । २५ ॥
    इदमेकं हि सर्वस्वं भक्तानां योगिनां सताम् ।
    कर्मिणां ज्ञानिनां चैव तथोपास्तिमतां नृणाम् ॥ २६ ॥
    यज्ञे दाने तथा तीर्थे स्वाध्याये च तपःसु च ।
    रामनाम गृणन् सर्वं साङ्गं कुर्याद्विचक्षणः ॥ २७ ॥
    सकलाङ्गैः साधितमप्यनल्पद्रव्यदक्षिणम् ।
    अरामनामकं कर्म व्यङ्गमेव न संशयः ॥ २८ ॥
    निरङ्गमल्पहृतकमत्यल्पद्रव्यदक्षिणम् ।
    रामनामयुतं कर्म साङ्गमेव न संशयः ॥ २९ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे एकत्रिशोऽध्यायः ॥ ३१ ॥
    ✤
    द्वात्रिंशोऽध्यायः
    ऋषय ऊचु
    रामस्य यत्परं तत्त्वं वेदेभ्यः सारमुद्धृतम् ।
    तन्नो ब्रूहिमहायोगिन् यच्छ्रुतं विश्वमङ्गलम् ॥ १ ॥
    किं रूपं किं च तद्धाम क चाविर्भाव ईरितः ।
    एतन्नः श्रद्दधानानां ब्रूहि ब्रह्मन्नशेषतः ॥ २ ॥
    श्रीसनत्कुमार उवाच
    श्रूयतां तत्परं तत्त्वं रामस्य परमात्मनः ।
    यत्सारं सर्ववेदानां शास्त्राणां च विशेषतः ॥ ३ ॥
    चिदानन्दमयं रूपं महः प्रावृड्घनच्छवि ।
    वामाङ्गे सहजानन्दाविद्युल्लेखासमन्वितम् ॥ ४ ॥
  • ८८ -

सौनासीरमणिप्रख्यं प्रकाशं तिमिरोपमम् ।
फुल्लारविन्दपत्राक्षं करुणामृतवर्षिणम् ॥ ५ ॥
पीताम्बरप्रभासप्ततपनीयसुनिर्मलम् ।
गण्डमण्डलसंक्रान्तस्फुरन्मकरकुण्डलम् ॥ ६ ॥
श्रीवत्साङ्कधरोरस्कं महाकौस्तुभभूषितम् ।
रत्नाङ्गदलसद्बाहुस्वर्णकङ्कणभूषितम् ॥ ७ ॥
विशालवनमालाद्यं रत्नग्रैवेयकान्वितम् ।
चूडामणिशिरोभासि नासामौक्तिकभूषितम् ॥ ८ ॥
स्वर्णसूत्रसमालम्बिकिङ्किणीमध्यभूषितम् ।
गम्भीरनाभिललितं त्रिवलीपिहितोदरम् ॥ ९ ॥
रोमराजीसमुद्भासि नीलरत्नच्छविच्छटम् ।
निर्णिक्तमुकुराकारकपोललकसंकुलम् ॥ १० ॥
कदम्बकिंजल्कनिभं कौशेयपरिवीतिमत् ।
षट्कपद्मासनं देवं तत्त्वमुद्राधर हृदि ॥ ११ ॥

॥ ५ ॥
Wait: "फलप्रसूनपत्रर्द्धिरमणीयकमन्दिरम्"
Letters: फ-ल-प्र-सू-न-प-त्र-र्द्धि-र-म-णी-य-क-म-न्दि-र-म्.
"पत्रर्द्धि" = पत्र + ऋद्धि -> पत्रर्द्धि. Exactly!

Line :
चतुर्विंशतिसंख्याकमुख्यदिव्यवनान्वितम् ।
(Notice the single danda at the end: ।)

Line :
यत्र रत्नाद्रिरुद्भाति रत्नसानुमनोहरः ॥ ६ ॥

Line :
अनेकनिर्झरस्त्राविसुगन्धिजलपूरितः ।
Wait, "निर्झरस्त्रावि..." or "निर्झरस्रावि..."?
In print: निर्झरस्त्रावि (with स्त्रा).

Line :
अनेकरत्नरुचिरो नानाधातुगणश्रयः ॥ ७ ॥
Wait, look at "नानाधातुगणश्रयः":
Is it गणश्रयः or गुणाश्रयः or गणाश्रयः?
Wait, let's look at the print:
ना-ना-धा-तु-ग-ण-श्र-यः
Wait, look at the letter between 'तु' and 'ण': it is 'ग'.
Is there an 'उ' mat

  • ९० -

कुरङ्गनयनाः सर्वाः सर्वकेलिकलाविदः ।
लास्यताण्डवनृत्यादिसंगीतकविशारदाः ॥ १६ ॥
श्रीरामचन्द्रवदनचन्द्रचारुचकोरिकाः ।
तासां मण्डलमध्यस्थो माङ्गल्यानेत्रनन्दनः ॥ १७ ॥
श्रीरामचन्द्रमाः श्रीमद्राजदशरथात्मजः ।
नटवेशधरो मुग्धः श्रीरामो रासमण्डले ॥ १८ ॥
विहरत्यनिशं साक्षात्परब्रह्मरसाकृतिः ।
कन्दर्पकोटिदपघ्नः सहजानन्दिनीसखः ॥ १९ ॥
चरणाम्भोजदिव्याङ्कः कुर्वन् भूमिं सुपावनीम् ।
किशोराकृतिरानन्दी नित्यलीलाविशारदः ॥ २० ॥
यस्यांशमात्रविभवः श्रीमन्नारायणः स्वयम् ।
यस्यांशांशाः प्रजायन्ते अवतारा ह्यनेकधा ॥ २१ ॥
भूमापि पुरुषो यस्य सहस्रवदनः स्वराट् ।
अंश एव प्रकथितो विष्णुर्ब्रह्माण्डविग्रहः ॥ २२ ॥
उत्पद्यन्ते विलीयन्ते ब्रह्मणां कोटयः किल ।
न तु रामविहारस्य तिरोभावो भवेत् क्वचित् ॥ २३ ॥
इदं श्रीरामवैकुण्ठं नित्यं धाम प्रकीर्तितम् ।
सहजानन्दिनीलोको व्यापकश्चित्सुखाकृतिः ॥ २४ ॥
रक्षकाः परितस्तस्य कोटयश्चक्रधारिणः ।
चतुर्मुखाः कोटयश्च कोटयश्चैव शंकराः ॥ २५ ॥
पञ्चाननाः शूलकरा विभान्ति परितः स्थिताः ।
सरसीव महापद्मं लोकोऽयंधरणीतले ॥ २६ ॥
न तु भूमितलस्थार्थैः संस्पर्शोप्यस्य विद्यते ।
कालमायोद्भवैर्दोषैः संस्पर्शो नास्य विद्यते ॥ २७ ॥
तद् रामस्य परं स्थानं धिया पश्यन्ति सूरयः ।
अतिसूक्ष्मार्थदर्शिन्या भक्तियोगविशुद्धया ॥ २८ ॥
चिदानन्दस्य रामस्य चिदानन्दमयं वपुः ।
चिदानन्दमयी लीला चिदानन्दमयोऽखिलः ॥ २९ ॥
लीलापरिकरो ज्ञेयश्चिदानन्दमयं पदम् ।
एवं यो वेद तद्धाम प्रमोदवननामकम् ॥ ३० ॥
स विमुच्येत मनुजो रामभक्तिपरायणः ।
स्मरँल्लोकममुं तत्स्थं भावयेद् रामदैवतम् ।
जीवन्मुक्तः स विज्ञेयो दधत्प्रेममयं वपुः ॥ ३१ ॥

च देशेषु नित्याविर्भूतता प्रभोः ।Wait, look atएष्वन्येषु: ए-ष्व-न्ये-षु च दे-शे-षु(8)नि-त्या-विर्-भू-त-ता प्र-भोः` (8)

Now check line 15:
किष्किन्धायां रामगिरौ तथा हनुमदालये ॥ ४ ॥
Wait, look at the first word:
कष्किन्धायां or किष्किन्धायां?
Look at the first letter:
Wait! Is there an ि matra on क?
Look at line 15:
कष्किन्धायां! Wait! Look at क:
Is there a vertical line before क?
NO! It's क!
Wait, look really closely at line 15:
क ष्कि न्धा यां !
Wait, does it have an ि matra? Look at the space before क:
There is NO ि matra! It literally says कष्किन्धायां!
Wait, let's look above क: there is no curve!
It is a typo in the original print: कष्किन्धायां!
Wait, let's look at कष्किन्धायां:
Wait

  • ९२ -
    तत्र रामः सदा भाति श्रीमज्जनकजान्वितः ।
    सहजानन्दिनी यत्र गीयते विविधैर्गुणैः ॥ ११ ॥
    तत्र रामः सदा तिष्ठेन्नात्र कार्या विचारण ।
    रामेति द्वयक्षरो मन्त्रो यत्र संकीर्त्यते बुधैः ॥ १२ ॥
    तत्राविर्भूय श्रीरामः सर्वदुःखं विनाशयेत् ।
    सीतया सहितं यत्र रामनाम प्रकीर्त्यते ॥ १३ ॥
    न तत्र कलिदोषाणां प्रवृत्तिः स्यात्कथंचन ।
    साङ्गाः सरहस्याश्च पठिता वेदराशयः ॥ १४ ॥
    कृताश्च सकला यज्ञा येन रामेति कीर्तितम् ।
    कृतानि कोटिपुण्यानि व्रतानि च तपांसि च ॥ १५ ॥
    सुस्नातानि च तीर्थानि येन रामेति कीर्तितम् ।
    अज्ञानतिमिरोद्भेदं कोटिसूर्येन्दुभासुरम् ॥ १६ ॥
    ज्ञानामृतपयोवाहं रामनाम सदा जपेत् ।
    कलिदोषापहं नित्यं गङ्गास्नानातिपावन

– ९३ –
पञ्चत्रिंशोऽध्यायः
श्रीशुक उवाच
इत्थं सनत्कुमारस्य मुखादाकर्ण्य सर्वशः ।
श्रीमतो राघवेंद्रस्य महिमानं महाद्भुतम् ॥ १ ॥
नाम धाम स्वरूपं च लोकोत्तरमुदीरितम् ।
तस्य भूम्नः पुरुषस्य विष्णोर्ब्रह्माण्डवष्मर्णः ॥ २ ॥
संजातः सुमहान् प्रेमा उत्तरंग इवाम्बुधिः ।
महाभावः सुसम्पन्नः सीतारामैकगोचरः ॥ ३ ॥
ततः सुस्रुवतुस्तस्य नयने प्रेमजं जलम् ।
ब्रह्मणश्चैव रुद्रस्य ब्रह्मर्षीणां तथैव च ॥ ४ ॥
देवर्षीणां च सर्वेषां तत्रस्थानां सभासदाम् ।
ब्रह्मणो मानसानां च सनकादिमहात्मनाम् ॥ ५ ॥
सहजानन्दिनीरामगुणलीलाऽनुवादतः ।
परमेणोत्तमप्रेम्णा दृशौ तेषां पृथक् पृथक् ॥ ६ ॥
विरहार्त्या सुस्रुवतुः साक्षात्प्रेममयं जलम् ।
तावत्तेषां वपुरभूत्प्रेमसंस्तब्धमुच्चकैः ॥ ७ ॥
स्वेदोदकैः समापूर्णं रोमाञ्चप्रकरावृतम् ।
स्वरभङ्गश्च सर्वेषामभूद्गद्गदकण्ठतः ॥ ८ ॥
वेपथुश्च प्रादुरभूत्तत्क्षणाद्विह्वलात्मनाम् ।
विवर्णता च सजाता विरहार्तिमतां सताम् ॥ ९ ॥
क्षणं ते मुग्धवच्चासन् विलीनेन्द्रियवृत्तयः ।
रामप्रेमाविष्टचित्ता बभूवुर्मत्तमत्तवत् ॥ १० ॥
तेषां संरूदतां प्रेम्णा पुरुषस्य सदःसदाम् ।
अश्रुजैर्वारिभिरभूत् सुविशालतमं सरः ॥ ११ ॥
तस्मादाविरभूद्देषा सरयूविश्वपावनी ।
पीयूषवर्णसलिला शरज्ज्योत्स्नेव भास्वती ॥ १२ ॥
योगीन्द्रमानसमुदे प्रेमानन्दमयोदका ।
धर्मार्थकाममोक्षाणां दायिनी सुखदायिनी ॥ १३ ॥
ब्रह्माद्रवस्वरूपा च द्रवद्रव्यमयी परा ।
वारुणी देवता दिव्या सर्वतीर्थमहानिधिः ॥ १४ ॥
तस्माज्जलसमूहात्तु समुद्भूता वराङ्गना ।
सुधासुवर्णवसना चन्द्रकोटिसुशीतला ॥ १५ ॥