सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 101, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 101
  • ८७ -
    श्रीरामनाम्ना सदृशं न तीर्थं श्रीरामनाम्ना सदृशं न पुण्यम् ।
    श्रीरामनाम्ना सदृशं न कर्म श्रीरामनाम्ना सदृशं तपो न ॥ २३ ॥
    श्रीरामनाम्ना सदृशो न योगः श्रीरामनाम्ना सदृशो न भोगः ।
    श्रीरामनाम्ना सदृशो न मोदः श्रीरामनाम्ना सदृशो न मोक्षः ॥ २४ ॥
    श्रीरामनाम्ना सदृशी न भक्तिः श्रीरामनाम्ना सदृशी न शक्तिः ।
    श्रीरामनाम्ना सदृशी न सेवा श्रीरामनाम्ना सदृशी न चार्चा । २५ ॥
    इदमेकं हि सर्वस्वं भक्तानां योगिनां सताम् ।
    कर्मिणां ज्ञानिनां चैव तथोपास्तिमतां नृणाम् ॥ २६ ॥
    यज्ञे दाने तथा तीर्थे स्वाध्याये च तपःसु च ।
    रामनाम गृणन् सर्वं साङ्गं कुर्याद्विचक्षणः ॥ २७ ॥
    सकलाङ्गैः साधितमप्यनल्पद्रव्यदक्षिणम् ।
    अरामनामकं कर्म व्यङ्गमेव न संशयः ॥ २८ ॥
    निरङ्गमल्पहृतकमत्यल्पद्रव्यदक्षिणम् ।
    रामनामयुतं कर्म साङ्गमेव न संशयः ॥ २९ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे एकत्रिशोऽध्यायः ॥ ३१ ॥
    ✤
    द्वात्रिंशोऽध्यायः
    ऋषय ऊचु
    रामस्य यत्परं तत्त्वं वेदेभ्यः सारमुद्धृतम् ।
    तन्नो ब्रूहिमहायोगिन् यच्छ्रुतं विश्वमङ्गलम् ॥ १ ॥
    किं रूपं किं च तद्धाम क चाविर्भाव ईरितः ।
    एतन्नः श्रद्दधानानां ब्रूहि ब्रह्मन्नशेषतः ॥ २ ॥
    श्रीसनत्कुमार उवाच
    श्रूयतां तत्परं तत्त्वं रामस्य परमात्मनः ।
    यत्सारं सर्ववेदानां शास्त्राणां च विशेषतः ॥ ३ ॥
    चिदानन्दमयं रूपं महः प्रावृड्घनच्छवि ।
    वामाङ्गे सहजानन्दाविद्युल्लेखासमन्वितम् ॥ ४ ॥