सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 97, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 97
  • ८३ -
    माधुरीवल्लरीछन्नतुङ्गभूरुहशोभितम् ।
    लतामन्दिरविश्रान्तनिकूजच्छुकसारिकम् ॥ ११ ॥
    नृत्यन्मयूरनिवहं तापिच्छतरुशोभितम् ।
    लवंगलतिकाच्छन्नकुञ्जव्यापिमहीरुहम् ॥ १२ ॥
    कचित्कनकपत्राढ्यैः कचिन्नीलदलान्वितैः ।
    कचित्कचिच्च सिन्दूररागरञ्जितपत्रकैः ॥ १३ ॥
    कचिन्नीलदलैः कापि यावकोद्भासिपत्रकैः ।
    कचिद्विचित्रपत्रैश्च भूरुहैः परिशोभितम् ॥ १४ ॥
    वसन्तचित्रकारेण चित्रशालीकृतं यथा ।
    अनेकरत्नकुलाभिः सरसोभिर्विराजितम् ॥ १५ ॥
    फुल्लत्कमलिनीवृन्दजुष्टानेकसरोजलम् ।
    कमलोत्पलसंसर्गिसौरभाञ्चितमारुतम् ॥ १६ ॥
    अनेकवनसंशोभिरामकेलीरसास्पदम् ।
    प्रमोदमानलोकाढ्यं प्रमोदवनमुत्तमम् ॥ १७ ॥
    उज्जागरं प्रभाभोरेः सूर्येन्दुकोटिभासुरम् ।
    यत्र सौगन्धिको नाम पर्वतः सुमहोन्नतः ॥ १८ ॥
    सुगन्धजलसस्रावनिर्झरान्वितकन्दरः ।
    सुगन्धभूरुहवृतः सुगन्धलतिकाञ्चितः ॥ १९ ॥
    सुगन्धधातुप्रसवः सुगन्धरजसाञ्चितः ।
    सुगन्धपाषाणतलनिषादिविहगव्रजः ॥ २० ॥
    यत्र चोद्भाति सततं नाम्ना रत्नगिरिर्गिरिः ।
    मणिमाणक्यरत्नौघमयूखगणसंवृतः ॥ २१ ॥
    शिखरैर्गगनस्पृग्भिर्व्याप्नुवन् सकला दिशः ।
    अधित्यकावनतरुनिषादिपिकनादितः ॥ २२ ॥
    श्रीरामकेलीभवनकन्दरशतशोभितः ।
    उपत्यकाशिलावेदिनिषण्णहरिणीकुलः ॥ २३ ॥
    सदावर्तितरोमन्थमत्तशंवरशोभितः ।
    भाभिर