भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
षष्ठोऽध्यायः
लक्ष्मण उवाच
एवमेव मया पृष्टः श्रीरामो रसवर्द्धनः।
यदाह तत्ते वक्ष्यामि रहस्यं रसवद्र्धनम् ॥ १ ॥
राम उवाच
नित्यं स्थितोऽप्यहं तात प्रमोदविपिनान्तरे।
अधुनाऽऽविर्भविष्यामि भक्तानां कार्यसिद्धये ॥ २ ॥
अवतारार्थसिद्धयै च साकेतपुरकेलये।
इत्युक्त्वा रघुवंशेऽस्मिन् प्रादुर्भूतोऽद्य सम्प्रति।
अस्माभिः सहितो भाति प्रमोदवनचन्द्रमाः ॥ ३ ॥
पूर्वं जातो दशरथगृहे रावणस्याथ भीत्या
श्रीमाङ्गल्यं सुखितसदने रक्षितोऽस्याविशेषम्।
स्नेहार्द्राभ्यांवसतिमधुरो भूरिभावेन ताभ्यां
माभीरीभिः प्रणयखचितो भूरिभावोपयुक्तः ॥ ४ ॥
आनन्दाब्धिर्नटवरवपुर्नन्दनापत्यरत्नं
दृष्ट्वा जीवनप्रकृतिसहजां श्रीमतीं मोदिनीं ताम्।
अन्यां लीलां स्वजनसुखदां कर्तुमिच्छुः स्वशक्त्या
भर्तेदानीं दशरथगृहे शोभते प्राप्तएषः ॥ ५ ॥
अस्यानुरोधात्सहजापि देवी प्राप्ता निजांशेन निमेश्च वंशे।
राजाधिराजोजनकस्यगेहे सुलोचनागर्भमनोज्ञरत्नम् ॥ ६ ॥
रम्यातिरम्ये मिथिलाख्यदेशे सुवर्णभूमौ खलु यज्ञवेद्याम्।
माणिक्यदिव्यत्कलशान्तरालतः समुद्गता कोटितडिच्छदेव ॥ ७ ॥
अथाविरासन् सरितो नव शीतसुधोदकाः।
त्रियुगा कमलेशी च गण्डक्यप्यद्यवारिणी ॥ ८ ॥
द्युम्ना घोषवती चैव वनघोषा च सप्तमी।
अष्टमी च स्वयं लक्ष्मीः कौशिकी नवमो स्मृता ॥ ९ ॥
सुवर्णहलकृष्टायां भूमौ वेद्यां मखस्य च।
सुवर्णकलशीमध्याज्जलधारा विनिर्ययुः ॥ १० ॥
तासां मध्ये विस्फुरन्ती कोटिचन्द्रार्कदीधितिः।
सद्यः प्रादुर्भूद्देवी सहजा जनकालये ॥ ११ ॥
रामप्रिया या प्रथमं प्रमोदवनकुञ्जगा।
नवभिर्दिव्यधाराभिरभिषिक्ता समंततः ॥ १२ ॥
३
- १८ -
रत्नपीठस्थिता लोकमहासाम्राज्यभाजनम् ।
तस्यामभ्युदितायां तु मुमुदे जनको नृपः ॥ १३ ॥
राज्ञी सुनयना वापि हर्षोत्फुल्लाननाभवत् ।
याज्ञवल्क्यश्च भगवान् दारास्तस्य महौजसः ॥ १४ ॥
अरुन्धती वशिष्ठश्चाप्यहल्या गौतमस्तथा ।
शतानन्दश्च योगीशो नव योगेश्वरास्तथा ॥ १५ ॥
निवसन्तो नित्यमेव जनकस्यालये चिरात् ।
ददृशुस्ते शुभं तस्या जन्म कर्म गुणान्वितम् ॥ १६ ॥
धवले माधवे मासि नवम्यां मङ्गले दिने ।
शुभे भद्राख्यनक्षत्रे शुभयोगे च जानकी ॥ १७ ॥
ऊर्मिलापि ततो रत्नकलशाच्चक्र उद्भवम् ।
माण्डवीश्रुतकीर्तिश्च वामदक्षिणपार्श्वयोः ॥ १८ ॥
अथो जनकराजस्य सदने दुन्दुभिरवाः ।
पटहध्वनयश्चापि वितेनुर्महती मुदम् ॥ १९ ॥
देवदुन्दुभयश्चापि नेदुर्व्याहतक्रमाः ।
सर्वं जगत्सुखमासीदानन्दामृतवर्षणात् ॥ २० ॥
कञ्जद्रुमाः पल्लविताः समंततो वसन्तलक्ष्मी समवातरद्भुवि ।
समञ्जरीकैस्तरुभी रसालैश्चम्पैयाद्यैर्विभरे पुष्पराशिः ॥ २१ ॥
धरणी सहसाऽऽगम्य पृथ्वीलोका स्मितानना ।
सुवेशं रूपमास्थाय जनकस्यापुरःस्थिता ॥ २२ ॥
रत्नपर्यङ्किकामध्येनिवष्ण्णां स्वसुतां पराम् ।
कमलामर्पयन्त्यस्मैप्रोवाच मुनिमण्डले ॥ २३ ॥
धरण्युवाच
भूरहं भगवत्पादकमलस्पर्शजाङ्कुरा ।
ममेयं हृदयात्सारभूता प्रेममयाकृतिः ॥ २४ ॥
समुद्गता नाम सीता मया तुभ्यं प्रदीयते ।
इयं श्रीः श्रीरामप्रेमभाजनं रक्ष्यतां त्वया ॥ २५ ॥
अनया ज्ञानगम्यस्य प्रेम्णा पारंगतो भवान् ।
प्राप्स्यसे तत् परंब्रह्म सच्चिदानन्दविग्रहम् ॥ २६ ॥
श्रीरामचन्द्रं रसिकं सर्वावतारसागरम् ।
स समायास्यति वै हि भगवान् पुरुषोत्तमः ॥ २७ ॥
- १९ -
चतुर्भिंरशैः संजाता तेनेयं परमेश्वरी ।
रच्यतां जनकाधीश कलधौततनुः सुता ॥ २८ ॥
इत्यर्पयित्वा जनकाय मेदिनी तिरोबभूव द्रुतमेव देवी ।
नैभ्यः पुनर्भूपतिः प्रियायै समर्पयामास सुलोचनायै ॥ २९ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोपाख्याने
षष्ठोऽध्यायः ॥ ६ ॥
∗</p>
सप्तमोध्यायः
लक्ष्मण उवाच
ततः सुनयना देवी सम्प्राप्य नृपतेः करात् ।
कन्यारत्नं प्रमुदिता बभूव महिषीवरा ॥ १ ॥
ततस्ताः सहजासख्यः सहर्षाः सरितो नव ।
ऊचुर्जनकराजानं सीतासंगमलालसाः ॥ २ ॥
त्रियुगोवाच
अहमस्याः सखी नित्यं निवसामि च सन्निधौ ।
अस्याः पिता त्वं संवृत्तो ममापि च तथैव हि ॥ ३ ॥
कमलेश्युवाच
अहं मन्दरशैलस्य कन्या या कमलेश्वरी ।
सहजाया नियसखी प्रादुर्भूता सहानया ॥
यथा स्याः साम्प्रतं तद्वन्ममापि त्वं पिता भव ॥ ४ ॥
गण्डक्युवाच
सालिग्रामशिलाक्षेत्रे गण्डक्यस्मि महानदी ।
सहजायाः सखी तेन ममापि त्वं पिता नृप ॥ ५ ॥
श्रधवारोवाच
अहमस्याः सखी काचिदधवाराभिधा सरित् ।
तव कन्याहमधुना मत्सखी सहजा पितः ॥ ६ ॥
धुम्नोवाच
अहं धुम्ना नदी तात सहजायाः परा सखी ।
यथा त्वमस्या जनको ममापि जनको भव ॥ ७ ॥
– २० –
घोषवत्युवाच
अहं तपनशैलस्य सुता घोषवती नदी।
सहजायाः सखी तेन ममापि त्वं पिता भव ॥ ८ ॥
वनघोषोवाच
अहमुत्तरशैलस्य तनया वनघोषिणी।
एतस्यास्तु पिता तद्वन् ममापि त्वं पिता भव ॥ ९ ॥
स्वयं लक्ष्मीरूवाच
अहं सीतांशभूतास्मि सदा संनिधिवर्तिनी।
आवयोर्विदितः स्वामी श्रीरामो रघुकुलप्रियः ॥ १० ॥
तदाज्ञया भूतलेऽस्मिन्नवतीर्णे निवेदय।
यथा त्वं जनकश्चास्या ममापि च तथा भव ॥ ११ ॥
कौशिक्युवाच
अहं कुशिकराजस्य तनया कौशिकीति सा।
अवतीर्णानया साकं ममापि त्व पिता भव ॥ १२ ॥
जनक उवाच
कदा वः संगमो जातो राघवप्रियमानया।
क च वः प्रेमसंवृद्धं भवतीनां पणो यतः ॥ १३ ॥
एकत्रैव निवासोऽभूद्विश्लेषो न कदाचन।
किं कृतं सुकृतं चापि येन श्रीसख्यमीदृशम् ॥ १४ ॥
श्रीर्नाम ब्रह्मणो धर्मः परस्यानन्दविग्रहः।
ब्रह्मानन्दस्वरूपेयं क प्राप्या प्राकृतैर्जनैः ॥ १५ ॥
यथा रामस्तथैवेयमित्याह धरणी च माम्।
इत्युक्ता जनकेनैताः सरितो नव शीतलाः ॥
ऊचुर्जनकराजाय कथानकमनुत्तमम् ॥ १६ ॥
त्रियुगोवाच
पितॄणां मानसी कन्या मेनाया अग्रजास्म्यहम्।
मेना हिमाद्रिं चकमे जाताहं च तपस्विनी ॥ १७ ॥
वर्षवातातपक्लेशसहा मुनिषु मानिनी।
कायक्लेशं प्रकुर्वाणा चचार परमं तपः ॥ १८ ॥
मदुग्रतपसा राजन् सर्वे देवाश्चकम्पिरे।
त्रैलोक्यं तापितमभूत्ततो ब्रह्मा समागतः ॥ १९ ॥
- २१ -
ब्रह्मोवाच
किमर्थमित्थं चार्वङ्गि चरसे दुस्तरं तपः।
ब्राह्मं वाप्यैन्द्रमथवा पदं कामयसे किमु ॥ २० ॥
तदहं ब्रह्मणो वाक्यं श्रुत्वा प्रोन्मीलितेक्षणा।
उक्तवत्युत्तरं राजन् यथा ब्रह्मा प्रसादितः ॥ २१ ॥
नाहं ब्राह्मं तथैवेन्दू कामयेऽन्यस्य वा पदम्।
रामस्य पदमिच्छन्ती यदगम्यं मुनेरपि ॥ २२ ॥
इत्युक्ते सहसा ब्रह्मा प्रसन्नोऽभूज्जगत्पतिः।
तपोऽस्त्वित्याशिषं दत्त्वा जगाम निजमालयम् ॥ २३ ॥
वटुवेशधरो विष्णुरन्ततो मामुपागतः।
कृष्णाजिनधरो दण्डी प्रोवाच स्थिरवद्वचः ॥ २४ ॥
वटुरुवाच
अये कमलपत्राक्षि कलधौततनुप्रभे।
कोकस्तनि सुजघने किं कामा चरसे तपः ॥ २५ ॥
त्वादृशी
- २२ -
एतत्स्वरूपायोग्यं ते तन्वि तीव्रतरं तपः।
यस्य प्रिया त्वं भविता तस्य श्रीर्भविता गृहे ॥ ३५ ॥
अहं मुनिरुदासीनस्तपसा तेऽस्मि चालितः।
इति श्रुत्वा वटोर्वाक्यमहमुक्तवती वचः ॥ ३६ ॥
नाहमिन्द्रादिपदवीं न वा तन्महिषीपदम्।
कामये किंतु गोविन्दचरणाब्जरजो भृशम् ॥ ३७ ॥
ब्रह्मादिभिः सहेशानैर्देवैरपि सुदुर्लभम्।
ततो मां स वटुः प्राह प्रहसन् रम्यया गिरा ॥ ३८ ॥
वटुरुवाच
हंत ते हृदयं तन्वि स्वाराज्यसुखभागिनाम्।
महिषीत्वमनादृत्य विष्णुं कामयते कथम् ॥ ३९ ॥
स्त्रीणां हि स्वपतिर्विष्णुर्येन पाणिग्रहो भवेत्।
लब्ध्वा तं सर्वतः शुद्धं किं कार्यं विष्णुना स्त्रियः ॥ ४० ॥
एकान्तचारी विषयैर्वियुक्तो विरक्तचित्तो यतिभिः सम्परीतः।
तत्रापि लोलां स्त्रियमेका दधानः किं ते प्रियत्वे सुतनु विष्णुरर्हः ॥ ४१ ॥
यः साम्राज्यपदं याति धरणीमण्डलेश्वरः।
अष्टादशद्वीपपतिः स्मरसुन्दरविग्रहः ॥ ४२ ॥
कौतुकी स्त्रीप्रियाचारो वेशालंकारभूषितः।
प्रेमानुरागनिपुणः स ते भर्तृपदोचितः ॥ ४३ ॥
साम्प्रतं ब्रह्मणः सृष्टौ देवासुरमनुष्यकैः।
गन्धर्वैर्ज्योतिषां चक्रैश्चन्द्रसूर्यादिभिस्तथा ॥ ४४ ॥
अहिभिर्भोगशोभाढ्यैर्मणिभूषितमस्तकैः ।
राजन्यैः क्षत्रियश्रेष्ठैर्वर्णैर्विप्रादिभिः पृथक् ॥ ४५ ॥
महती रचिता शोभा तेष्वेकं वृणु कंचन।
वरुणं च वरं प्राप्य सुन्दरं जलदैवतम् ॥ ४६ ॥
रत्नमालाविभूषाढ्यं नित्यं मोदिष्यसे चिरम्।
इन्द्रं वापि वरं प्राप्य सर्वदेवगणेश्वरम् ॥ ४७ ॥
ऐरावते समासीना मेघमण्डलगामिनी।
द्वितीया दामिनीवत्त्वं भविष्यसि महाप्रभा ॥ ४८ ॥
हवींषि श्रोत्रियागारेष्वहर्निशमवाप्स्यसि।
यथा त्वं यास्यसि प्रेम्णा न तथास्य प्रिया शची ॥ ४९ ॥
अग्नेश्चेत्त्वं वधूर्भूत्वा यास्यसि प्रेमपात्रताम्।
तदा स्वाहास्वधातोऽपि श्रेष्ठैव त्वं भविष्यसि ॥ ५० ॥
- २३ -
अथवा चेत् कुबेरस्य पत्नीभावं गमिष्यसि ।
तदा गन्धर्ववर्याणां स्वरानाकर्णयिष्यसि ॥ ५१ ॥
स सखा भालचन्द्रस्य शंकरस्य महात्मनः ।
तेन सार्धं च कैलासं गन्तासि मृगलोचने ॥ ५२ ॥
तत्र द्रक्ष्यसि वैकुण्ठादधिकं रामणीयकम् ।
अथवा शङ्करस्यैव पत्नी चेत्त्वं भविष्यसि ॥ ५३ ॥
तदा गङ्गामृदानीभ्यां भविता प्रेयसी परा ।
सूर्यं वापि ग्रहाधीशं चन्द्रं वा तारकापतिम् ॥ ५४ ॥
वरं सम्प्राप्य भवती प्राप्स्यसे परमं सुखम् ।
एषामन्यतमं चैव वरं वृणु सुलोचने ॥ ५५ ॥
भोगेषु ' चेत् सुकामत्वं नो चेद्विष्णुं वरिष्यसि ।
इत्युक्त्वा विरते तस्मिन् बभाषेऽहं वटुद्विजम् ॥ ५६ ॥
नाहं वटो भविष्यामि क्षरेषु निरता क्वचित् ।
आब्रह्मस्तम्बपर्यन्तं क्षरमेव न संशयः ॥ ५७ ॥
अक्षरं तत्परं ब्रह्म गणितानन्दमेव तत् ।
तस्मादगणितानन्दं परं ब्रह्माभिकामये ॥ ५८ ॥
तत्पुनः कृष्णरामाख्यगोविन्देति परं महः ।
अर्वाग्यतः प्रपञ्चोऽयं नामरूपफलात्मकः ॥ ५९ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मनि
सप्तमोऽध्यायः ॥ ७ ॥
✤
अष्टमोऽध्यायः
त्रियुगोवाच
इत्युक्ते तु मया वाक्ये भगवान् कमलेक्षणः ।
प्रादुरासीद्वटुः साक्षादादिनारायणो हरिः ॥ १ ॥
शङ्खचक्रगदापद्मधारीशाङ्गिर्विभूषितः ।
पल्लवारुणापादाब्जनखचन्द्रमरीचिभाः ॥ २ ॥
मणिमाणिक्यमञ्जीरराजहंसनिषेवितः ।
सरत्नकिंकिणीजालनतगुल्फयुगान्वितः ॥ ३ ॥
?
Wait, look at line 12:
क-रु-णा-र्ण-व-क-ल्लो-ल-दु-क्त-र-ङ्ग-प्र-भा-वि-तः
Wait, let's transcribe faithfully what is printed.
It clearly has: करुणारर्णवकल्लोलदुक्तरङ्गप्रभावितः or करुणार्णवकल्लोलदुक्तरङ्गप्रभावितः.
Wait, let's look at the letter between रु and र्ण:
It is णा: 'ण' with 'ा'. Then another 'र्ण' (ण with repha).
So it is printed: करुणारर्णवकल्लोलदुक्तरङ्गप्रभावितः.
Everything matches the printed page with extreme accuracy. Let's output.- २४ -
सुसूक्ष्मकटिनिर्बद्ध पीताम्बरसमावृतः ।
रत्नकाञ्चीगुणोन्नद्धकटिसूत्रविराजितः ॥ ४ ॥
सरिदावर्तगम्भीरनाभीपङ्कजभूषितः ।
वलित्रयसुशोभाढ्यः सिंहविक्रमणोदरः ॥ ५ ॥
रामेराजिलताशालिचित्रभः सोदरोदरः ।
श्रीवत्सवक्षाः श्रीसंगवामपार्श्वविराजितः ॥ ६ ॥
भृगुपादमहोराशिमहापादवि
- २५ -
तया सहितया¹ भूत्वा मम तोषं करिष्यसि।
अस्याः सख्यं परिप्राप्य मम सङ्गमवाप्स्यसि ॥ २१ ॥
इत्युक्त्वान्तर्दधे विष्णुः स्वयमन्तर्दधे विभुः।
यत्र यत्र भवत्येषा तत्र तत्र भवाम्यहम् ॥ २२ ॥
प्रमोदविपिने चैषा सहजानन्दिनी स्वयम्।
प्रमोदविपिने नाहं नन्दिनी नाम तत्सखी ॥ २३ ॥
इदानीं त्रियुगा नाम जातास्याः सख्यहं नृप।
रक्षणीया त्वया भद्र कन्यावन्निमिभूपते ॥ २४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मो-
पाख्यानेऽष्टमोऽध्यायः ॥ ८ ॥
🞵
नवमोऽध्यायः
कमलेश्युवाच
पुरा प्रमोदविपिने गोपराजसुता त्वियम्।
तत्र रामेण कामेन रतिवन्मोदतेतराम् ॥ १ ॥
रमणीयः सदा रामो रमणीनां रमापतिः।
भजते कोटिरूपेण या साक्षात्सहजेश्वरी ॥ २ ॥
इयं हि सहजा नाम रामस्यात्मा चिदाकृतेः।
सामरस्यान्दसिन्धुलहरीगणनिर्वृता ॥ ३ ॥
सम्पूर्णपुरुषो देवः पुरुषोत्तम ईश्वरः।
प्रमोदविपिने कुञ्जे शृङ्गारसुरपादपः ॥ ४ ॥
तेनाहं संगता तद्वच्छ्रूयतां राजपुङ्गव।
अहं शातातपमुनेः संगवो नाम बालकः ॥ ५ ॥
अश्रौषं रामचारित्रं गीयमानं पुरातनैः।
कपिलो देवलो व्यासो वसिष्ठः पुलहः क्रतुः ॥ ६ ॥
अत्रिश्चाङ्गिरसः कण्वश्च्यवनो नारदो भृगुः।
अष्टावक्रः पुलस्त्यश्च कुम्भजः शंकरो रविः ॥ ७ ॥
१. महानया इति पाठभेदः ।
४
- २६ -
स्वयंभूर्वै तथा ब्रह्मा तथैवान्ये प्रजेश्वराः ।
पृथक् पृथक् संहिताभिरेकं राममधीयते ॥ ८ ॥
तेषां ताः संहिताः श्रुत्वा रामे मतिरजायत ।
ऋक्सामयजुषामन्तेष्वेको रामः प्रतिष्ठितः ॥ ९ ॥
पदैर्वाक्यैर्महावाक्यैर्ग्रन्थेन च समंततः ।
श्रीरामः केवलं ब्रह्म समासव्यासतः स्मृतः ॥ १० ॥
इत्येवं जायमाना सा श्रीरामविषया मतिः ।
परं प्रेमाणमासाद्य व्यजृम्भत हृदत्तरे ॥ ११ ॥
ततो वियोगात् परमस्य पुंसः पत्युर्वियोगादिव सुन्दरीणाम् ।
दशा ममाजायत भावपूर्णा प्रमोदकुञ्जैकविहारशीला ॥ १२ ॥
ततस्तपःसमाधिभ्यां कर्मभिर्ज्ञानसम्पदा ।
रहितो विच्युतः स्वस्य वर्णाश्रमविधेरपि ॥ १३ ॥
अभ्रमं पृथिवी सर्वा जडोन्मत्तपिशाचवत् ।
व्यचरं नाचरं किंचित् सदसद्वा स्खलन्मतिः ॥ १४ ॥
श्रीमत्प्रमोदकुञ्जस्थः श्रीरामप्रेमविह्वलः ।
आयुःशेषं वीक्षमाणो रामनामपरायणः ॥ १५ ॥
रत्नशैलैकदेशे तु मुक्तवान् पाञ्चभौतिकम् ।
ततो मन्दरशैलस्य कन्यात्वं समुपैयिवान् ॥ १६ ॥
तत्र दृष्टवती रामं क्रीडन्तं शिखरोत्तमे ।
कदाचित् स्वपितुर्मूर्ध्नि क्रीडन्तीदिव्यविग्रहा ॥ १७ ॥
उद्दामकौस्तुभविराजितकण्ठदेशं भाले स्फुरन्मृगमदा मकरीमनोज्ञम् ।
सीतासहायमनुजेन निषेवितांसं पीताम्बरं मधुरमेचकमेघवर्णम् ॥ १८ ॥
उत्फुल्लपङ्कजदलायतलोचनान्तनिर्यत्कटाक्षशरपातविदीर्णधैर्यम् ।
माद्यत्पुलिन्दशवराचरभिल्लभार्यामध्यस्थितकृतमदामृगयाविनोदम् ॥ १९ ॥
तं वीक्ष्यचकमे पश्चात् कामतत्त्वेन कामिनम् ।
स मां कामश्लथां दृष्ट्वा अन्तरज्ञो महाशयः ।
उवाच वचनं देवः स्मयमानः शनैः शनैः ॥ २० ॥
श्रीराम उवाच
अहं जानामि ते भावं भावज्ञोऽखिलचेतसाम् ।
न पुनः सुलभोऽयं ते मनसा कामितो वरः ॥ २१ ॥
पुरा यत्ते कृतं मह्यं कीर्तनश्रवणादिकम् ।
तत्प्रभावाद्विदं प्राप्तं मद्दर्शनमनुत्तमम् ॥ २२ ॥
प्रथम खण्ड: दिव्य साकेत लोक एवं श्रीसीताराम नित्य-लीला
- २७ -
ब्रह्मादयोऽपि यत्प्राप्त्यै तेपिरे दुःसहं तपः।
इयं हि सहजानन्दा मम वामाङ्गसङ्गिनी ॥ २३ ॥
सीता रावणवाणाद्या मुमुहुर्यद्विलोकनात् ।
नेतां विना रमे कापि कामतत्वेन योषिति ॥ २४ ॥
इयं परब्रह्मणो मे परब्रह्मस्वरूपिणी ।
एकमेव द्विधा रूपं क्रीडया विद्धि मां परम् ॥ २५ ॥
इत्युक्त्वान्तर्दधे रामः प्रियया सह तत्क्षणात् ।
अन्तर्हिते परे पुंसि बभूव महती व्यथा ॥ २६ ॥
रिक्तयामास च मयि तूणीरं पञ्चसायकः ।
कामबाणोद्भवं पीडां विभ्राणा मूर्च्छितापतम् ॥ २७ ॥
ततो मां पर्वतपतिर्विचिन्वन् मन्दरो गतः ।
यत्राहं संस्थिता घोरे कानने शिखरोत्तमे ॥ २८ ॥
तत्र मां पतितां भूमौ निःश्वसन्तीं सुमूच्छिताम् ।
उत्थाप्य दोर्भ्यां दीर्घाभ्यां परिरभे दयातुरः ॥ २९ ॥
मूर्ध्नाऽऽघ्राय सुधाविन्दून् पातयामास मत्तनौ ।
सजातचेतना भूयः पितरं वीक्ष्य लज्जिता ॥ ३० ॥
ततो गद्गदकण्ठेन पिता प्रोवाच मन्दरः ।
किमर्थं मूर्च्छिता तन्वि धर्षिता वासि केनचित् ॥ ३१ ॥
दष्टा वा भुजगेनासि भोषिता वासि केनचित् ।
सम्मोहिता वा विजने रहिता स्वसखीजनैः ॥ ३२ ॥
त्रासिता हसिता वापि तथा किंवापमानिता ।
इमामवस्थां सम्प्राप्ता किमर्थमसि पुत्रिके ॥ ३३ ॥
न हि ते दुर्लभं किञ्चिन्मम पुत्र्या जगत्त्रये ।
ये देवास्त्रिदशश्रेष्ठास्ते मच्छिखरवासिनः ॥ ३४ ॥
पुरा समुद्रमथने वृत्तोऽहं दण्डतां गतः ।
मन्थदण्ड इति ख्यातस्त्रिषु लोकेष्वहं ततः ॥ ३५ ॥
मम मूलोपमूलानि सुधाक्तानि समंततः ।
दत्तश्च मे सुरैर्भागः पूर्णकुण्डं सुधामयम् ॥ ३६ ॥
अहं पादैः क्षितितलं शिखरैश्च नभस्तलम् ।
व्याप्य तिष्ठामि सततं कर्मपृष्ठैकसंश्रयः ॥ ३७ ॥
यत्ते मनोऽभिलषितमहं पूरयितास्मि तत् ।
तदाहं पितरं साक्षादेवमुक्तवती वचः ॥ ३८ ॥
- २८ -
मम श्रीरामचन्द्रेण लोकानन्देन कामिना।
आदिनारायणेनैव दर्शनं दत्तमुत्तमम् ॥ ३९ ॥
वामाङ्गसङ्गिनी तस्य श्रियं दृष्ट्वा मनोहराम्।
स्त्रीस्वभावेन चकमे कामतत्त्वेन कामिनम् ॥ ४० ॥
प्राग्जन्मतपसा दृष्टः प्रभुरन्तर्हितोऽधुना।
तद्दर्शनमोहोत्थमहादुःखेन मूर्च्छिताम् ॥ ४१ ॥
जानीहि मां शैलराज किं तत्र त्वं करिष्यसि।
नहि रामस्तपोध्यानकर्मज्ञानसमाधिभिः ॥ ४२ ॥
सुलभो विद्यते तात तेनाहं वञ्चितास्मि भोः।
वञ्चितास्मि च तेनाहं रूपेणा प्रतिमेन च ॥ ४३ ॥
मन्दर उवाच
या श्रीर्वामाङ्गसंस्थास्यतामाराधय सुव्रते।
ततस्तस्याः प्रसादेन लप्स्यसे रामसंनिधिम् ॥ ४४ ॥
रामो हि परमं ब्रह्म कालमायाक्षरातिगम्।
सम्पूर्णमक्षरातीतं पुरुषोत्तमशब्दितम् ॥ ४५ ॥
इत्युक्त्वा सान्त्वयित्वा च मां निनाय गृहं गिरिः।
ततः कालेन चाल्येन नारदोऽभ्याययौ ततः ॥ ४६ ॥
यत्राहं संस्थिता कन्या पितुः पार्श्वे दृढव्रता।
पूजितो नारदः पित्रा ततः प्रोवाच मत्कृते ॥ ४७ ॥
शृणु शैलेन्द्र पुत्री ते महाभागा यशस्विनी।
साक्षाच्छ्रीरामजायायाः सखीभावमुपैष्यसि ॥ ४८ ॥
तदर्थं तद्व्रतं कर्तुमुचितेयं शुचिस्मिता।
इत्येवमुक्त्वा प्रोवाच व्रतराजं मनोहरम् ॥ ४९ ॥
साक्षाच्छ्रीसहजानन्दाश्रीरामप्रियकारकम् ।
भाद्रशुक्लाष्टमीं प्राप्य यावदाश्विनकृष्णगाम् ॥ ५० ॥
अष्टमीं विधिवत्कुर्याद्व्रतं संकल्पपूर्वकम्।
श्रीसीतारामतुष्ट्यर्थं भुक्तिमुक्तिप्रदायकम् ॥ ५१ ॥
ताम्रपट्टे लिखित्वा तु मूर्तिं सीताभिरामयोः।
पाद्यार्घ्याचमनीयाद्यैः पूजयेद्विधिपूर्वकम् ॥ ५२ ॥
जानक्यै रामचन्द्राय सहजायैप्रियाय च।
सोतायै रघुनाथायनित्यमेव नमो मम ॥ ५३।
जानक्यै विद्महे दिव्ये सहजायै च धीमहि।
तत्रः सीते प्रचोदयात् संध्यामन्त्रोऽयमीरितः ॥ ५४ ॥
- २९ -
रामचन्द्रायधीमहि पुनःप्रियाय धीमहि ।
त्रिसंध्यं प्रजपेत्तन्नो रघुनाथः प्रचोदयात् ॥ ५५ ॥
एताभ्यां राजते पात्रे निधायः घुसृणादिकम् ।
कर्पूरचन्दनं तोयमर्घं दद्यात्प्रयत्नतः ॥ ५६ ॥
ततः पद्मपलाशान्तः कल्पयेन्मिष्टपिण्डिकाः ।
ताः सप्तैव द्विजे दत्त्वा स्वयमश्नीत सप्त च ॥ ५७ ॥
सीतासूक्तिं जपित्वा च दद्यात्पुष्पाञ्जलित्रयम् ।
तिलपायसपद्माक्षधृतैश्च जुहुयाच्छतम् ॥ ५८ ॥
दिने दिने गृणेद्गाथाः सीतारामप्रियस्तवाः ।
एवं पञ्चदशाहेन व्रतेन परितुष्यति ॥ ५९ ॥
श्रीसीतारामयुगलं दुर्लभं घटयेत्तराम् ।
इत्याभाष्य पितुः पार्श्वे बभूवान्तर्हितो मुनिः ॥ ६० ॥
तच्छ्रुत्वानुष्ठितवती व्रतराजमहं पुनः ।
समाप्ते व्रतराजे तु साक्षान्मे दर्शनं ददौ ॥ ६१ ॥
सीतारामाख्ययुगलं रतिकाम युगं यथा ।
दत्त्वा मां दिव्यदेहं तु स्वलीलारसमण्डले ॥ ६२ ॥
स मां प्रवेशयामास भौतिकं चाद्रवद्वपुः ।
द्रवीभूय नदी भूत्वा नित्यं प्रवहेतेतराम् ॥ ६३ ॥
मदात्मा तु स्वयं तस्याः सखीत्वं समुपेयिवान् ।
प्रमोदावनकुञ्जेषु रमे सहजया सह ॥ ६४ ॥
यत्रेयं गोपराजस्य तनया सहजाभिधा ।
तत्राहं कमला नाम सहजायाः प्रिया सखी ॥ ६५ ॥
इदानीमवतीर्णेयं प्रभुं ज्ञात्वावतारिणम् ।
तत्सार्द्धमहमप्याशु प्रादुर्भूतास्मि कुम्भतः ।
यथेयं ते प्रिया कन्या तथाहमपि गृह्यताम् ॥ ६६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोपाख्याने कमलेश्वरीप्रादुर्भावो नाम नवमोऽध्यायः ॥ ९ ॥
दशमोऽध्यायः
गण्डक्युवाच
अहं ब्रह्मतनोजार्ता गण्डकी नाम या नदी ।
ममास्याः संगमो नित्य प्रभुपादनिषेवणे ॥ १ ॥
पुरा श्रीपुष्पदन्तस्य गन्धर्वेन्द्रस्य कन्यका।
ईशं परिचरन्त्यास्मिस्तत्रैवाहं चिरं स्थिता ॥ २ ॥
रामतारकमन्त्रस्य पठ्यमानस्य शम्भुना।
श्रुत्वा पारायणं राजन् बभूवाहं समुत्सुका ॥ ३ ॥
सर्वथा वर्तमानापि बाल्ये वयसि मुग्धवत् ।
स्वबुद्ध्याह धृतवती रामेऽनन्यात्मिकां मतिम् ॥ ४ ॥
तया मत्या दृढप्रज्ञा ज्ञातसारा शिवाननात् ।
राममेकं प्रभुं बुद्ध्वा सेवां तस्य व्यधासिषम् ॥ ५ ॥
प्रतिसंचरसम्प्राप्तौ तत्संस्कारैकसंस्कृता ।
अत्रेर्ब्रह्मसुताज्जज्ञे तुंडिला नाम कन्यका ॥ ६ ॥
जन्मप्रभृति रामस्य प्रियलीलाविनोदवित् ।
तदर्थं तपसा ज्ञानात् कर्मणा च समाधिना ॥ ७ ॥
नित्यं हिमवतः पृष्ठे चरन्ती व्रतमुत्तमम् ।
अन्वभूवं घनश्यामं कदाचित्कोमलं परम् ॥ ८ ॥
श्रीरामं कौस्तुभमणिभासितोरस्कमीश्वरम् ।
व्यचलत् कामभावेन मनो मे तदनन्तरम् ॥ ९ ॥
ततः सोऽन्तर्हितो भूत्वा सकृद्दर्शननिष्ठुरः ।
आकाशवाण्या मां प्राह न मामेवमवाप्स्यसि ॥ १० ॥
विषयासक्तचित्तानां मायया विकृतात्मनाम् ।
न वै गम्योऽहमेवापि सदसत्परमः प्रभुः ॥ ११ ॥
किंतु मे परमा काचित्प्रेयसी सहजाभिधा ।
आराधनीया सततमेवं सिद्धिर्भविष्यति ॥ १२ ॥
तच्छ्रुत्वा दिव्यवागर्थं तथैवाकरवं पुनः ।
ततश्चिरेण सा देवी प्रसन्ना सह्जेश्वरी ॥ १३ ॥
वरेण छन्दयामास मन्मनोरथसिद्धिदा ।
सारस्वते नाम्नि कल्पे रमिष्यामि प्रमुद्घने ॥ १४ ॥
- ३१ -
प्रकटा रामचन्द्रेण रमणाय रमावत।
तत्राहं नन्दनाख्यस्य गोपस्य तनया सती ॥ १५॥
रमयिष्ये रामचन्द्रं तत्र त्वं मत्सखी भव।
ततोऽहं भौतिकं देहं द्रवीकृत्य जडात्मकम् ॥ १६॥
सत्यज्य स्वात्मना प्राप्ता प्रमोदविपिने जनिः।
लीलावती नाम सखी सहजासन्निधौ स्थिता ॥ १७॥
इदानीं पुनरुत्पन्ना विभाव्य जनकालये।
जातास्मि रत्नकलशीमध्यभागात्तया सह ॥ १८॥
यथा च पालनीये ते तथाहमपि पाल्यताम्।
साहं पर्वतशृङ्गाग्रा नदीरूपेण प्रस्थिता ॥ १९॥
विष्णुशैलं विनिर्भिद्य प्रवाहजलगामिनी।
शालग्रामं परिप्राप्य सुप्रतिष्ठितमा भुवि ॥ २०॥
यद्यप्यन्येष्वपि स्थानेषूपलब्धिः श्रिता हरेः।
शालग्रामे चक्रतीर्थे ग्राह्य एव न संशयः ॥ २१॥
इत्येवं विधिना मन्तो गृह्यते श्रीशिलातनुः।
रघुनाथराघवेन्द्रसीतारामादिभेदतः ॥ २२॥
जनकस्यालये नित्यं वसामि च सुपावने।
ततस्त्वं जनको राजन् कृपया परिपालय ॥ २३॥
विष्णोर्विराट्स्वरूपस्य गण्डदेशे स्थिता त्वहम्।
ततश्च गण्डकीनाम्ना विख्यातास्मि जगत्त्रये ॥ २४॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोपाख्याने गण्डकीसम्भवो नाम दशमोऽध्यायः ॥ १० ॥
❇
एकादशोऽध्यायः
अघवारोवाच
पुराहं सोमपीथस्य भार्गवस्य मुनेः सुता।
तपश्चरन्ती विपुलं विषयैर्निःस्पृहान्तरा ॥ १॥
पर्वते विपुलेऽरण्ये सुनासीरध्वजे वने।
पित्रा कदाचिदुक्ताहं भवेः परिणयोन्मुखी ॥ २॥
- ३२ -
विगणय्य पितुर्वाक्यं स्थिताहं तेन मे पिता ।
शशाप जलरूपैधि सततं त्वमचेतना ॥ ३ ॥
भूत्वा ततोऽम्मयी नित्यं प्रवहामि तदाश्रमे ।
अथ दीर्घेण कालेन साध्यमानः स्वभार्यया ॥ ४ ॥
अनुकलितः स मे मात्रा तुतोष तां प्रति क्वचित् ।
तुष्टं विज्ञाय योगीन्द्रं तमृषिं शंशितव्रतम् ॥ ५ ॥
मदर्थं शापमुक्त्यर्थं ययाचे भार्गवं द्विजम् ।
तामाह भार्गवः साक्षाज्जनकस्य गृहे प्रथाः ॥ ६ ॥
आद्या सीता स्वयं प्रीता तदा त्वं मोक्ष्यसेऽमुतः ।
पूर्वकल्पे त्वियं जाता प्रमोदविपिने क्वचित् ॥ ७ ॥
क्रीडन्ती तत्र कान्तेन गवेन्द्रस्य च सूनुना ।
ततस्तव गृहे जातां विभाव्यैनां महीपते ॥ ८ ॥
जातास्मि साकमनया तव कन्यास्मि साम्प्रतम् ।
अघवारेति मन्नाम
- ३३ -
शिवो भूत्वा समारूढो वृषभं नन्दिरूपिणम् ।
वृतो गणसमूहेन कैलासं समगात्ततः ॥ १९ ॥
तद्दृष्ट्वा गौतमा विप्राः काकयोनिमवापिताः ।
ममज्जुर्मज्जले दिव्ये तत्क्षणादघहारिणि ॥ २० ॥
कोटिवर्षोपभोग्यं तं शापं मुक्त्वा तु गौतमाः ।
पुनः स्वरूपतां प्रापुस्तद् दृष्ट्वा भार्गवो मुनिः ॥ २१ ॥
सम्भ्रमाविष्टचित्तस्तु नाम चक्रे तदा मम ।
अघं वार्यते सद्यो दर्शनस्पर्शनादिभिः ॥ २२ ॥
अघवारेति नामासौ भविष्यति जगत्त्रये ।
तेनाहमघवारेति प्रसिद्धास्मि सरिद्वरा ॥ २३ ॥
मृगयां विहरन् रामः कदाचिदनया सह ।
क्षुत्क्षामादिपरिक्लान्तो मम तीरमुपागतः ॥ २४ ॥
अहं हि दिव्येन वेशेन वेशयित्वा निजं वपुः ।
चिरं परिचचारास्मै रामाय च महात्मने ॥ २५ ॥
बिसैर्जलरुहैः कन्दैर्मधुरेणाम्बुना तथा ।
वन्यैः फलैः सुपक्वान्नैः स्वेच्छाशक्तिसमुद्भवैः ॥ २६ ॥
चिरमाराधितो रामस्तुतोष रमया सह ।
सम्यग्भक्तासि मे स्तुत्या चिरमाराधितस्त्वया ॥ २७ ॥
क्षुच्छामो च विनीतौ मे भृशं तुष्टोऽस्मि कूलिनि ।
आगामिनि महाकल्पे सारस्वतसमाह्वये ॥ २८ ॥
सर्वोद्धारार्थमनघे भवितास्मि रघोः कुले ।
इयं च भवितासीता मिमिवंशे त्वयोनिजा ॥ २९ ॥
भूत्वा तत्रानया साकं मम सांनिध्यमेष्यसि ।
इत्युक्त्वा प्रययौ रामो रमया सहितो वनम् ॥ ३० ॥
साहं कालं प्रतीक्षन्ती जातास्मि जनकाधुना ।
अनया सह गन्तास्मि पुरुषोत्तमसंनिधिम् ॥ ३१ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोपाख्याने अघवारासम्भवोनामैकादशोऽध्यायः ॥ ११ ॥
द्वादशोऽध्यायः
द्युम्नोवाच
सुकलो नाम गोपालः प्रमोदविपिने महत् ।
कुलं रूपं च बिभ्राणो धनं चाभिजनं तथा ॥ १ ॥
रामं नटन्तं संश्रुत्य प्रमोदविपिनान्तरे ।
गणैः स्त्रीणां मृगाक्षीणां प्रत्येकं श्लिष्टबाहुभिः ॥ २ ॥
बभूव गोपवंश्यस्य हृदये परमा स्पृहा ।
ईदृशाय मनोज्ञाय नायकाय महात्मने ॥ ३ ॥
सुन्दरी चेद्भूवेत्पुत्री ध्यात्वा सोयपतिं भजेत् ।
तदा तस्याः प्रसंगेन वयं यास्याम धन्यताम् ॥ ४ ॥
अयं हि पूर्णपुरुषो रामः कमललोचनः ।
कामतत्त्वैकलीलाभिः सेवते स्वात्मसम्पदम् ॥ ५ ॥
इति विज्ञाय रामस्य सहजं गोपराट् स्वयम् ।
रामलीलामुपासीन आरराध परां श्रियम् ॥ ६ ॥
परा श्री रामसौन्दर्यमोहितापूर्वमेव सा ।
उद्यमाद्गोपराजस्य तपोव्रतसमा
– ३५ –
ईषद्विभक्तावयवा दृष्टा रामेण संसदि।
मूर्च्छितोन्यपतद् रामो मुग्धवद्धरणीतले ॥ १५॥
सुखितस्य गवेन्द्रस्य कुमारं रूपसुन्दरम्।
धावित्वा गोकुलात्सद्यः पर्यरक्षन्मुनीश्वराः ॥ १६ ॥
सुखितश्चैव माङ्गल्या गोपीनां ॰च तथा गणाः।
धनं निर्मञ्छयांचक्रुः स्वात्मानमपि दुर्लभम् ॥ १७ ॥
केनचिद्द्यौतिकी छायाभूतावेशेति केनचित्।
दृष्टिप्रचारेति परैः कूटमुष्टीति केनचित् ॥ १८ ॥
बहुधा तर्कयामासुः प्रभो मायामयी गतिम्।
यस्यादिदं समुद्भूतं तत्र केचन जज्ञिरे ॥ १९ ॥
ततः पूर्वानुरागाख्यं प्रेम संववृधेतराम्।
बाल्यशेषं समुल्लङ्घ्य वर्तमानौ दिने दिने ॥ २० ॥
कैशोर्ये लोकसुखदे सर्वानन्दौ बभूवतुः।
अहो द्युम्नाख्यया गोपकन्यया हृदयं हृतम् ॥ २१ ॥
रामस्य स्वाभिरामस्येत्येवं स मुमुदेतराम्।
सुकलोनामगोपालोमन्यमानो जनुः फलम् ॥ २२ ॥
इति श्रुत्वा तु सहजा न सेहे व्यभिचारिताम्।
रामस्य विश्वारामस्य द्युम्नां दग्धुं मनो दधे ॥ २३ ॥
ततः कदाचिन्निविडे निकुञ्जे द्युम्नावतीं रामसहप्रसक्ताम्।
श्रुत्वा सपत्नीं स्वसखीमुखेभ्यो जवेन तं देशमुपाजगाम ॥ २४ ॥
अये त्वमस्यप्रियमीड्यरूपं भूपं यथा श्रीःपरराजधानी।
का त्वं वशीकृत्य रहोऽभिभुक्षे व्यक्तं तवेदं प्रबभूव चौर्यम् ॥ २५ ।
इत्युदीर्य रुषारक्ता संरब्धा सहजेश्वरी।
स्थावरीं योनिमापद्यस्वेत्येवं सहसाशपत् ॥ २६ ॥
अहं च तस्याः सौन्दर्यं सहजानन्दिनी श्रियः।
संवीक्ष्य द्रवतायाता नदीरूपा ततोऽभवम् ॥ २७॥
कदाचिन्मज्जले शीते चन्द्रचन्दनसौरभे।
ग्रीष्मे समाप्लुतो रामः प्रसाद चिरं स्थितम् ॥ २८ ॥
रामं प्रसन्नमालक्ष्य समुत्थाय नदीजलात्।
अहं पुरःस्फुरद्रूपा प्रार्थयामास तं प्रभुम् ॥ २९॥
राम राम गुणाराम स्वाराम सुखसम्पदाम्।
विरामय स्थावरत्वं मदीयमिदमीश्वर ॥ ३० ॥
- ३६ -
श्रीराम उवाच
व्यक्तं गता स्थावरता तवेयं स्त्रीरूपमासाद्य पुरो विभासि ।
महार्हमाणिक्यमयी विशालां मालां समंतादुरसा वहन्ती ॥ ३१ ॥
तदाहं रामसौन्दर्यसंदोहप्रवशीकृता ।
प्रत्युवाच प्रभुं स्मित्वा लोकोत्तरगुणाकृतिम् ॥ ३२ ॥
त्वमेव पूर्ववद् राम कान्तो भव ममानिशम् ।
प्रमोदवनवीथीषु रस्यावो दिव्यरंतिभिः ॥ ३३ ॥
श्रीराम उवाच
इदं तु सहजानन्दा प्राणेशी वेत्ति सर्वशः ।
विना तस्या अनुमतिं प्रतिजानामि नैव च ॥ ३४ ॥
यावत्सारस्वत कल्पं सहजाऽऽराध्यतां त्वया।
प्राप्ते सारस्वते कल्पे कृतकृत्या भविष्यसि ॥ ३५ ॥
साहमेतावदाराध्य प्रमोदवनकेलिनीम् ।
सहजां साधितवती रामकान्तवराप्तये ॥ ३६ ॥
इदानीं श्रीव्रजेशानीसहजाकरुणादृशा ।
रामं कान्त समासाद्य गमिष्यामि कृतार्थताम् ॥ ३७ ॥
दानेन ज्ञानकर्मभ्यां ध्यानेन तपसा तथा ।
समाधिनार्पणेनापि रामे भक्तिः प्रसाध्यते ॥