सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 49, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 49

– ३५ –
ईषद्विभक्तावयवा दृष्टा रामेण संसदि।
मूर्च्छितोन्यपतद् रामो मुग्धवद्धरणीतले ॥ १५॥
सुखितस्य गवेन्द्रस्य कुमारं रूपसुन्दरम्।
धावित्वा गोकुलात्सद्यः पर्यरक्षन्मुनीश्वराः ॥ १६ ॥
सुखितश्चैव माङ्गल्या गोपीनां ॰च तथा गणाः।
धनं निर्मञ्छयांचक्रुः स्वात्मानमपि दुर्लभम् ॥ १७ ॥
केनचिद्द्यौतिकी छायाभूतावेशेति केनचित्।
दृष्टिप्रचारेति परैः कूटमुष्टीति केनचित् ॥ १८ ॥
बहुधा तर्कयामासुः प्रभो मायामयी गतिम्।
यस्यादिदं समुद्भूतं तत्र केचन जज्ञिरे ॥ १९ ॥
ततः पूर्वानुरागाख्यं प्रेम संववृधेतराम्।
बाल्यशेषं समुल्लङ्घ्य वर्तमानौ दिने दिने ॥ २० ॥
कैशोर्ये लोकसुखदे सर्वानन्दौ बभूवतुः।
अहो द्युम्नाख्यया गोपकन्यया हृदयं हृतम् ॥ २१ ॥
रामस्य स्वाभिरामस्येत्येवं स मुमुदेतराम्।
सुकलोनामगोपालोमन्यमानो जनुः फलम् ॥ २२ ॥
इति श्रुत्वा तु सहजा न सेहे व्यभिचारिताम्।
रामस्य विश्वारामस्य द्युम्नां दग्धुं मनो दधे ॥ २३ ॥
ततः कदाचिन्निविडे निकुञ्जे द्युम्नावतीं रामसहप्रसक्ताम्।
श्रुत्वा सपत्नीं स्वसखीमुखेभ्यो जवेन तं देशमुपाजगाम ॥ २४ ॥
अये त्वमस्यप्रियमीड्यरूपं भूपं यथा श्रीःपरराजधानी।
का त्वं वशीकृत्य रहोऽभिभुक्षे व्यक्तं तवेदं प्रबभूव चौर्यम् ॥ २५ ।
इत्युदीर्य रुषारक्ता संरब्धा सहजेश्वरी।
स्थावरीं योनिमापद्यस्वेत्येवं सहसाशपत् ॥ २६ ॥
अहं च तस्याः सौन्दर्यं सहजानन्दिनी श्रियः।
संवीक्ष्य द्रवतायाता नदीरूपा ततोऽभवम् ॥ २७॥
कदाचिन्मज्जले शीते चन्द्रचन्दनसौरभे।
ग्रीष्मे समाप्लुतो रामः प्रसाद चिरं स्थितम् ॥ २८ ॥
रामं प्रसन्नमालक्ष्य समुत्थाय नदीजलात्।
अहं पुरःस्फुरद्रूपा प्रार्थयामास तं प्रभुम् ॥ २९॥
राम राम गुणाराम स्वाराम सुखसम्पदाम्।
विरामय स्थावरत्वं मदीयमिदमीश्वर ॥ ३० ॥