भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 42, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 42
- २८ -
मम श्रीरामचन्द्रेण लोकानन्देन कामिना।
आदिनारायणेनैव दर्शनं दत्तमुत्तमम् ॥ ३९ ॥
वामाङ्गसङ्गिनी तस्य श्रियं दृष्ट्वा मनोहराम्।
स्त्रीस्वभावेन चकमे कामतत्त्वेन कामिनम् ॥ ४० ॥
प्राग्जन्मतपसा दृष्टः प्रभुरन्तर्हितोऽधुना।
तद्दर्शनमोहोत्थमहादुःखेन मूर्च्छिताम् ॥ ४१ ॥
जानीहि मां शैलराज किं तत्र त्वं करिष्यसि।
नहि रामस्तपोध्यानकर्मज्ञानसमाधिभिः ॥ ४२ ॥
सुलभो विद्यते तात तेनाहं वञ्चितास्मि भोः।
वञ्चितास्मि च तेनाहं रूपेणा प्रतिमेन च ॥ ४३ ॥
मन्दर उवाच
या श्रीर्वामाङ्गसंस्थास्यतामाराधय सुव्रते।
ततस्तस्याः प्रसादेन लप्स्यसे रामसंनिधिम् ॥ ४४ ॥
रामो हि परमं ब्रह्म कालमायाक्षरातिगम्।
सम्पूर्णमक्षरातीतं पुरुषोत्तमशब्दितम् ॥ ४५ ॥
इत्युक्त्वा सान्त्वयित्वा च मां निनाय गृहं गिरिः।
ततः कालेन चाल्येन नारदोऽभ्याययौ ततः ॥ ४६ ॥
यत्राहं संस्थिता कन्या पितुः पार्श्वे दृढव्रता।
पूजितो नारदः पित्रा ततः प्रोवाच मत्कृते ॥ ४७ ॥
शृणु शैलेन्द्र पुत्री ते महाभागा यशस्विनी।
साक्षाच्छ्रीरामजायायाः सखीभावमुपैष्यसि ॥ ४८ ॥
तदर्थं तद्व्रतं कर्तुमुचितेयं शुचिस्मिता।
इत्येवमुक्त्वा प्रोवाच व्रतराजं मनोहरम् ॥ ४९ ॥
साक्षाच्छ्रीसहजानन्दाश्रीरामप्रियकारकम् ।
भाद्रशुक्लाष्टमीं प्राप्य यावदाश्विनकृष्णगाम् ॥ ५० ॥
अष्टमीं विधिवत्कुर्याद्व्रतं संकल्पपूर्वकम्।
श्रीसीतारामतुष्ट्यर्थं भुक्तिमुक्तिप्रदायकम् ॥ ५१ ॥
ताम्रपट्टे लिखित्वा तु मूर्तिं सीताभिरामयोः।
पाद्यार्घ्याचमनीयाद्यैः पूजयेद्विधिपूर्वकम् ॥ ५२ ॥
जानक्यै रामचन्द्राय सहजायैप्रियाय च।
सोतायै रघुनाथायनित्यमेव नमो मम ॥ ५३।
जानक्यै विद्महे दिव्ये सहजायै च धीमहि।
तत्रः सीते प्रचोदयात् संध्यामन्त्रोऽयमीरितः ॥ ५४ ॥