भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 50, कुल 423 में से
संदर्भ में पढ़ें- ३६ -
श्रीराम उवाच
व्यक्तं गता स्थावरता तवेयं स्त्रीरूपमासाद्य पुरो विभासि ।
महार्हमाणिक्यमयी विशालां मालां समंतादुरसा वहन्ती ॥ ३१ ॥
तदाहं रामसौन्दर्यसंदोहप्रवशीकृता ।
प्रत्युवाच प्रभुं स्मित्वा लोकोत्तरगुणाकृतिम् ॥ ३२ ॥
त्वमेव पूर्ववद् राम कान्तो भव ममानिशम् ।
प्रमोदवनवीथीषु रस्यावो दिव्यरंतिभिः ॥ ३३ ॥
श्रीराम उवाच
इदं तु सहजानन्दा प्राणेशी वेत्ति सर्वशः ।
विना तस्या अनुमतिं प्रतिजानामि नैव च ॥ ३४ ॥
यावत्सारस्वत कल्पं सहजाऽऽराध्यतां त्वया।
प्राप्ते सारस्वते कल्पे कृतकृत्या भविष्यसि ॥ ३५ ॥
साहमेतावदाराध्य प्रमोदवनकेलिनीम् ।
सहजां साधितवती रामकान्तवराप्तये ॥ ३६ ॥
इदानीं श्रीव्रजेशानीसहजाकरुणादृशा ।
रामं कान्त समासाद्य गमिष्यामि कृतार्थताम् ॥ ३७ ॥
दानेन ज्ञानकर्मभ्यां ध्यानेन तपसा तथा ।
समाधिनार्पणेनापि रामे भक्तिः प्रसाध्यते ॥