सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 46, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 46
  • ३२ -
    विगणय्य पितुर्वाक्यं स्थिताहं तेन मे पिता ।
    शशाप जलरूपैधि सततं त्वमचेतना ॥ ३ ॥
    भूत्वा ततोऽम्मयी नित्यं प्रवहामि तदाश्रमे ।
    अथ दीर्घेण कालेन साध्यमानः स्वभार्यया ॥ ४ ॥
    अनुकलितः स मे मात्रा तुतोष तां प्रति क्वचित् ।
    तुष्टं विज्ञाय योगीन्द्रं तमृषिं शंशितव्रतम् ॥ ५ ॥
    मदर्थं शापमुक्त्यर्थं ययाचे भार्गवं द्विजम् ।
    तामाह भार्गवः साक्षाज्जनकस्य गृहे प्रथाः ॥ ६ ॥
    आद्या सीता स्वयं प्रीता तदा त्वं मोक्ष्यसेऽमुतः ।
    पूर्वकल्पे त्वियं जाता प्रमोदविपिने क्वचित् ॥ ७ ॥
    क्रीडन्ती तत्र कान्तेन गवेन्द्रस्य च सूनुना ।
    ततस्तव गृहे जातां विभाव्यैनां महीपते ॥ ८ ॥
    जातास्मि साकमनया तव कन्यास्मि साम्प्रतम् ।
    अघवारेति मन्नाम