सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

२४८ आपस्तम्बधर्मसूत्रे [ (प.६.) क. १५ ]
नाऽनुपेतः ॥ १८ ॥
आन्नप्राशनाद्गर्भा नाऽप्रयता भवन्ति ॥ १९ ॥
अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शेऽपि ।
गौतमस्तु अपां मार्जनादिकमिच्छति । यथाह (१)'अन्यत्राऽपां मार्जनप्र-
धावनावोक्षणेभ्यः' ॥ १९ ॥
आ परिसंवत्सरादित्येके ॥ २० ॥
यावत् संवत्सरो न परिपूर्यते तावन्नाप्रयता गर्भा इत्येके मन्यते॥२०॥
यावता वा दिशो न प्रजानीयुः ॥ २१ ॥
यावद्दिग्विभागज्ञानं नाऽस्ति तावन्नाऽप्रयता भवन्ति ॥ २१ ॥
(२)ओपनयनादित्यपरम् ॥ २२ ॥
उपनयनादर्वाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥
अत्रोपपत्तिः—
अत्र ह्याधिकारश्शास्त्रैर्भवति ॥ २३ ॥
हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥
सा निष्ठा ॥ २४ ॥
उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसमानाधिकरण्यात्
स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥
स्मृतिश्च ॥ २५ ॥
अस्मिन्नर्थे स्मृतिरपि भवति—(४)उताऽब्रह्मचारी यथोपपादमूत्रपु-
रीषो भवति नाऽस्याऽचमकल्पो विद्यते इति (५)'प्रागुपनयनात्काम-
चारवादभक्ष' इति गौतमः ॥ २५ ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥
१. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयनादित्येके इति घ.
३ घ. पुस्तके 'भवतीति'इतीतिकरणान्तं सूत्रं पठित्वा'इति करणे हेतौ' इति व्याख्यातम् ।
४. 'उते'त्यादि 'विद्यत'इत्यन्तं घ. पुस्तक एवास्ति । ५. गौःध. २. १.

अथ सप्तमः पटलः ॥
सह देवमनुष्या अस्मिँल्लोके पुरा बभूवुः । अथ देवाः
कर्मभिर्दिवं जग्मुरहीयन्त मनुष्याः । तेषां ये तथा क-
र्माण्यारहन्ते सह देवैर्ब्रह्मणा चाऽमुष्मिन् लोके भव-
न्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच । (१)प्रजानि-
श्चेयसाय च ॥ १ ॥
(२)श्राद्धविधित्सया तस्य प्ररोचनार्थोऽयमर्थवादः । पुरा किल
देवाश्च मनुष्याश्चाऽस्मिन्नेव लोके सहैव बभूवुः । अथ त सहभावमसहमना देवा.
कर्मभिः श्रौतैस्स्मार्तैर्गा‌र्ह्यैश्च यथावदनुष्ठितैर्दिवं जग्मुः मनुष्यास्तु तथा क-
र्तुमसमर्था अहीयन्त हीना अभवन् इहैव लोके स्थिताः । यत एवं कर्म-
णां सामर्थ्यम् अत इदानीमपि तेषां मनुष्याणां मध्ये ये तथा कर्माण्यारहन्ते
कुर्वन्ति यथारभन्त देवाः, ते देवै ब्रह्मणा च सहामुष्मिन् लोक भवन्ति त्रिवि
ष्टपे मोदन्ते(३) । अथैवहीनान्मनुष्यान् दृष्ट्वा मनुर्वैवस्वतः श्राद्धशब्दं श्रा-
द्धमिति शब्दमानमेतत्कर्म प्रोवाच । किमर्थम् ? प्रजानिःश्रेयसाय, तादर्थ्ये च-
तुर्थी । प्रजानां निःश्रेयसार्थम् । निश्रेयसाचेति पाठे छान्दसो यकारस्य
चकारः।
अपर आह—छान्दसो लिङ्गव्यत्ययः । प्रजानिश्रेयसं चाऽस्य कर्मणः
फलमिति ॥ १ ॥
तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ॥ २ ॥
तत्र श्राद्धकर्मणि पितर पितृपितामहप्रपितामहाः देवताः । ब्राह्मणा-
स्तु भुञ्जाना आहवनीयार्थे आहवनीयकृत्ये वेदितव्याः । त्रीणि श्राद्धे क-
रणानि—होमो, ब्राह्मणभोजनं, पिण्डदानं चेति । अत्र भोजनस्य(४)प्र-
धानत्वख्यापनार्थोऽयमर्थवादः ॥ २ ॥
मासि मासि कार्यम् ॥ ३ ॥
तदिदं कर्म मासे मासे कर्तव्यम् । वीप्सावचनाद्यावज्जीविकोऽभ्यासः।
१. प्रजानिश्रेयसाय च इति पृथक्सूत्र च . पु. २. मासि श्राद्धविधित्सया इति ड. पु.
३. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः । एव हीयमानान् इति च. पु.
४. 'प्रधानतत्व' इति च पु.
आप० ध० ३२

२६० आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६.
अपरपक्षस्याऽपराह्नः श्रेयान् ॥ ४ ॥
अपरपक्षस्य यान्यहानि तेष्वपराह्नः प्रशस्ततरः ॥ ४ ॥
तथाऽपरपक्षस्य जघन्यान्‍यहानि ॥ ५ ॥
यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त-
तरम् ॥ ५ ॥
सर्वेष्वेवाऽपरपक्षस्याऽहस्सु क्रियमाणे पितॄन् प्रीणाति ।
कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ६ ॥
सर्वेष्वेवाहस्सु पितॄणां तृप्तिरविशिष्टा । यस्तु कर्ता प्रतिपदादिके काले
नियमेन श्राद्धं करोति सर्वेषु मासेषु प्रतिपद्येव द्वितीयायामेवेत्यादि
तस्य कर्तुस्तस्मात्कालाभिनियमात् फलविशेषो भवति ॥ ६ ॥
कोऽसावित्याह—
प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥
यः प्रतिपदि नियमेन श्राद्धं करोति तस्यापत्ये प्रजासन्ताने स्त्री-
प्रायं जायते । प्रायेण स्त्रियो जायन्ते ॥ ७ ॥
द्वितीये स्तेनाः ॥ ८ ॥
जायन्ते चोराः पुत्राः ॥ ८ ॥
(२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥
(३)व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् ॥ ९ ॥
चतुर्थे क्षुद्रपशुमान् ॥ १० ॥
क्षुद्राः पशवोऽजाव्यादयः तद्वान् कर्ता भवति । उत्तरत्राप्येकवचने(४)
कर्तुर्वाचो द्रष्टव्यः ॥ १० ॥
पञ्चमे पुमांसो बह्वपत्यो न चाऽनपत्यः प्रमीयते ॥११॥


१. तेषां यथोत्तरं श्रेयस्त्वम् ' इति ड. च. पु.
२. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः ।
३. व्रताध्ययनसम्पत्तिर्ब्रह्मवर्चसम् । आपस्तम्बस्तु तृतीयचतुर्थयोर्विपरीतफलमाह—
तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो घ पुस्तके ।
४ कर्तुंनुवाद०, इति घ. पु ।

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २५१
पुमास एव भवन्ति, (१) बहवश्च भवन्ति, न चाऽनपत्यः प्रमीयते जीव-
त्स्वेव पुत्रेषु सन्निहितेषु च स्वयं म्रियते । न तेषु मृतेषु, न देशान्तर
गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥
षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १२ ॥
अध्वशील. पान्थः । अक्षशीलः कितवः ॥ १२ ॥
सप्तमे कर्षे राद्धिः ॥ १३ ॥
कर्षः कृषिः । राद्धि. सिद्धिः ॥ १३ ॥
अष्टमे पुष्टिः ॥ १४ ॥
स्पष्टम् ॥ १४ ॥
नवम एकखुराः ॥ १५ ॥
अश्वादयः ॥ १५ ॥
दशमे व्यवहारे राद्धिः ॥ १६ ॥
व्यवहारो वाणिज्यम्, शास्त्रपरिज्ञानं वा ॥ १६ ॥
एकादशे कृष्णायसं त्रपुसीसम् ॥ १७ ॥
कृष्णमयः कृष्णायसम् । त्रपुसीसे लोहविशेषौ ॥ १७ ॥
द्वादशे पशुमान् ॥ १८ ॥
द्वादश्यां बहवः पशवो भवन्ति ॥ १८ ॥
त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यो
युवमारिणस्तु भवन्ति ॥ १९ ॥
त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी
यानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव म्रियन्ते(२) ॥ १९ ॥
चतुर्दश आयुष्ये राद्धिः ॥ २० ॥
संग्रामे जय. ॥ २० ॥
पञ्चदशे पुष्टिः ॥ २१ ॥
१. बहवश्च भवन्ति, भव्याः रूपविद्यादिभिशोभमाना भवन्ति, इति घ. ढ. पु ।
२. 'अयुवमारिण' इत्यन्ये इत्याधिक ख. ङ पु. ।

२८२ आपस्तम्बधर्मसूत्रे [,(प्र.७)क. १६,
स्पष्टम् ॥ २१ ॥
तत्र द्रव्याणि तिलमाषा व्रीहियवा आपो
मूलफलानि च ॥ २२ ॥
तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥
स्नेहवति त्वेवाऽन्ने तीव्रतरा पितॄणां प्रीतिर्द्रा-
घीयांसं च कालम् ॥ २३ ॥
यद्वा तद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितृ-
णां तीव्रतरा प्रकृष्टतरा प्रीतिर्भवति । सा च द्राघीयांस च कालमनुवर्तते ॥
तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥
धर्मार्जितं यद्द्रव्यं पात्रे च प्रतिपादितं तेनाऽपि तथा तीव्रतरा पितृ
णां प्रीतिर्दीघीयांस च कालमिति ॥ २४ ॥
संवत्सरं गव्येन प्रीतिः ॥ २५ ॥
उत्तरत्र मांसग्रहणादिहापि मांसस्य ग्रहणम् । गव्येन मांसेन संवत्सरं
पितॄणां प्रीतिर्भवति ॥ २५ ॥
भूयांसमतो माहिषेण ॥ २६ ॥
माहिषेण मांसेन, अतः सम्वत्सरात् भूयास बहुतरं कालं पितॄणां
प्रीतिर्भवति ॥ २६ ॥
एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥२७॥
एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणामजादीनामारण्यानां च शशा-
दीनां मांसं मेध्यं व्याख्यातम्—पितॄणां प्रीतिकरमिति । मेध्यग्रहणं प्रति-
षिद्धानां मा भूदिति ॥ २७ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५३
खड्गोपस्तरणे खड्गमांसेनाऽऽनन्त्यं कालम् ॥ १ ॥
खड्गचर्मोपस्तरणेष्यासनेषूपविष्टेभ्यो ब्राह्मणेभ्यो दत्तेन खड्गमां-
सेनानन्तं कालं प्रीतिर्भवति । आनन्त्यमिति पाठे स्वार्थे ष्यञ् ॥ १ ॥
तथा शतबलेर्मत्स्यस्य मांसेन ॥ २ ॥
शतबलिर्बहुशल्यको रोहिताख्यः ॥ २ ॥
वार्ध्रीणसस्य च ॥ ३ ॥
व्याख्यातो वार्ध्रीणसः । तस्य मांसेनाऽऽनन्त्यं कालं प्रीतिर्भवति ॥ ३ ॥
प्रयतः प्रसन्नमनास्सृष्टो भोजयेद्ब्राह्मणान् ब्रह्मविदो
योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान् ॥ ४ ॥
प्रयतः स्नानाचमनादिना शुद्धः । प्रसन्नमनाः अव्याकुलमनाः । सृष्टः उत्सा-
हवान् । (१)'सृष्टश्चेद्व्राह्मणवधे हत्वाऽपी'तिदर्शनात् । (२)'वृत्तिसर्गताय-
नेषु क्रमः' इत्यत्र च सर्गे उत्साहः । एवम्भूतो ब्राह्मणान् भोजयेत् । कीदृ-
शान्? ब्रह्मविद आत्मविदः । योन्यादिभिरसम्बन्धान् योनिसम्बन्धा मातु-
लादयः । गोत्रसम्बन्धा सगोत्राः । मन्त्रसम्बन्धा ऋत्विजा याज्याश्च । अन्ते-
वासिसम्बन्धाश्शिष्या आचार्याश्च ॥ ४ ॥
गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ॥
यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल-
भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्यः
किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५ ॥
एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥
एतेन सोदर्येण अन्तेवासिनः बहुवचननिर्देशात् पूर्वत्र निर्दिष्टा योन्या-
दिभिस्सम्बन्धास्सर्व एव व्याख्याता.—अन्येषामभावे समुदेता भोजयि-
तव्या इति ।
अत्र मनुः—
(३)'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्तु विज्ञेयः सदा सद्भिरनुष्ठितः ॥
१. गौ ध. २२. ११. २. पा. सू. १ ३. ३८. ३. म. स्मृ. ३. १४७,

२६४ आपस्तम्बधर्मसूत्रे [ (प.७.) क. १७.
(१)मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं(२) विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥' इति॥६॥
अथाप्युदाहरन्ति ॥ ७ ॥
सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मज्ञा वचनमुदाहरन्ति ॥ ७ ॥
सम्भोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति
नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या
शालान्तरे गौरिव नष्टवत्सा ॥ ८ ॥
परस्परं भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः
पिशाचभिक्षायाः । नैषा पितॄन् गच्छति नाऽपि देवान् । किं तु क्षीणपुण्या परलो-
कप्रयोजनरहिता सती इहैव चरति लोके यथा गौर्मृतवत्सा गृहाभ्यन्तर
एव चरति न बहिर्गच्छति तद्वदेतत् ॥ ८ ॥
तद्व्याचष्टे—
इहैव सम्भुञ्जतीति दक्षिणा कुलात्कुलं विनश्यतीति ॥ ९॥
सम्भुञ्जती परस्परभोजनस्य निमित्तभूता दक्षिणा श्राद्धे दानक्रिया
गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥ ९ ॥
अथ बहुषु तुल्यगुणेषूपस्थितेषु कः परैर्ग्राह्यः ?
तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन् ॥ १० ॥
यो वयसा वृद्धस्स तावद्ग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि-
प्समानश्च भवति स ग्राह्यः(३) । अद्रव्यकृशोऽपि अवृद्धोऽपि, द्वयोस्तु
समवाये यथारुचीति ॥ १० ॥
पूर्वेद्युर्निवेदनम् ॥ ११ ॥
श्राद्धदिनात्पूर्वेद्युरेव ब्राह्मणेभ्यो निवेदयितव्यम्—श्वः श्राद्धं भविता
तत्र भवताऽऽहवनीयार्थे प्रसादः कर्तव्य इति ॥ ११ ॥
अपरेद्युर्द्वितीयम् ॥ १२ ॥
अपरेद्युः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य श्राद्धमिति ॥ १२ ॥
१. म स्मृ. ३. १४८. २. विट्पतिर्जामाता ।
३. यद्वा वयो वृद्धो ग्राह्योऽद्रव्यकृशोऽपि । द्रव्यकृशोऽप्यवृद्धोऽपीति । इति पाठः च. पु. ।

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५
तृतीयमामन्त्रणम् ॥ १३ ॥
आमन्त्रणमाह्वानं भोजनकाले सिद्धमागम्‍यतामिति तत्तृतीयं भवति॥१३॥
त्रिःप्रायमेके श्राद्धमुपदिशन्ति ॥ १४ ॥
न केवलं निवेदनमेव त्रिर्भवति । किं तर्हि यच्च यावच्च श्राद्धे त
त्सर्वं त्रिरावर्त्यमित्येके मन्यन्ते । अत्र पक्षे होमभोजनपिण्डानामध्य्‌आ
वृत्तिस्तस्मिन्नेवापराह्णे ॥ १४ ॥
यथाप्रथममेवं द्वितीयं तृतीयं च ॥ १५ ॥
येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीयं तृतीयं च कर्तव्यम् ॥ १५ ॥
सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य ग्रास
वराध्यं प्राश्नीयाद्यथोक्तम् ॥ १६ ॥
सर्वेषु श्राद्धेषु त्रिष्वपि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद-
नशेषस्ततस्समवदाय ग्रासवराध्यं प्राश्नीयात् यथोक्तं गृह्ये(१) 'उत्तरेण यजुषा
शेषस्य ग्रासवराध्यं प्राश्नीया'दिति । तत्र प्रयोगः(२)पूर्वेद्युर्निवेदनम् ।
तद्वत् परेद्युः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्‍यतामिति । ततो
होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्समवदाय ग्रासाव-
राध्यंस्य(३)'प्राणे निविष्टे'ति प्राशनमिति ॥ १६ ॥
उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ॥१७॥
प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा ।
विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥'
इति वैयाकरणाः । तस्याः शरावत्या उदक्तीरवर्तिन उदीच्याः ।
तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपात्रादर्घ्य
पात्रादादायाऽर्घ्यदानमिति । (४)पितरिदं तेऽर्घ्यम्, पितामहेदं तेऽर्घ्यं,
प्रपितामहेदं तेऽर्घ्यमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी
१. आ. प. गृ. २१. ९. २. पूर्वेद्युर्नवावरेभ्यो निवेदन, इति च. पु. ।
३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृतत्वाय' इति मन्त्रः ।
४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्' ततस्तिलान् श्राद्धभूमौ
विकिरेत्, इति अधिक पाठो घ. ङ पुस्तकयो. ।
५. आश्व. गृ. ४ ८ ३. ।

२६६ | आपस्तम्बधर्मसूत्रे | [ (प्र.७.) क. १७.
व्यवृत्तिरित्युक्तं, तथापि प्रकरणसामर्थ्यात् सर्वेषामपि भवति ॥ १७ ॥
'उद्ध्रियतामग्नौ च क्रियता' मित्यामन्त्रयते ॥ १८ ॥
होमकाल 'उद्ध्रियतामग्नौ च क्रियतामि'त्यनेन मन्त्रेण ब्राह्मणान्मन्त्रयते।
मन्त्रे(१)'अधीष्टे च'ति लोट्प्रत्ययः ॥ १८ ॥
'काममुद्ध्रियतां काममग्नौ च क्रियता'मित्यतिसृष्ट
उद्धरेज्जुहुयाच्च ॥ १९ ॥
अथ ब्राह्मणाः काममुद्ध्रियता काममग्नौ च क्रियतामित्यतिसृजेयुः अनु-
जानीयु.। तश्चातिसृष्ट उद्धरेज्जुहुयाच्च । उद्धरणं नाम ब्राह्मणार्थे पक्वाद्न्ना-
दन्यस्मिन् पात्रे पृथक्करणम् । तत्सूत्रकारेण ज्ञापितमष्टकाश्राद्धे ॥१९॥
श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते ॥ २० ॥
(श्वभिरिति बहुवचनात् ग्रामशूकरादीनां तादृशानांग्रहणम् ।) अप-
पात्राः पतितादयः, प्रतिलोमादयश्च । तै. श्राद्धस्य दर्शनं परिचक्षते गर्हन्ते
शिष्टाः । अतो यथा ते न पश्येयुस्तथा(२)परिश्रिते कर्तव्यमिति ॥२०॥
श्वित्रश्शिपिविष्टः परतल्पगाम्यायुधीयपुत्रश्शू-
द्रोत्पन्नो ब्राह्मण्‍यामित्येते श्राद्धे भुञ्जानाः
पङ्क्तिदूषणा भवन्ति ॥ २१ ॥
(३)श्वित्रश्वित्री श्वेतकुष्ठी । शिपिविष्टः खलतिः । विवृत्तशेफ इत्यन्ये । पर-
तल्पगामी यः परतल्पं गत्वा अकृतप्रायश्चित्तः तस्य ग्रहणम् । आयुधीयपुत्र.
क्षत्रियवृत्तिमाश्रितो य आयुधेन जीवति ब्राह्मणः, तस्य पुत्रः। शूद्रेण
ब्राह्मण्‍यामुत्पन्नश्चण्डालः। न तस्य प्रसङ्गः । 'ब्राह्मणान् ब्रह्मविद' इत्यु-
क्तत्वात् । तस्मादेवं व्याख्येयम्-क्रमविवाहे यः शूद्रायां पूर्वमुत्पाद्य
पश्चात् ब्राह्मण्‍यामुत्पादयति तस्य पुत्रः शूद्रोत्पन्नो ब्राह्मण्‍यामिति । स
हि पिता शूद्रः सम्पन्नः । श्रूयते हि(४)'तज्जाया जाया भवति यदस्यां
जायते पुनर्दि'ति । स्मर्यते च-
(५)'यदुच्यते द्विजातीनां शूद्राहारपरिग्रहः ।
न तन्मम मतं यस्मात्तत्राऽयं जायते स्वयम् ॥' इति ।
१. पा सू. ३. ३. ११६. ( ) कुण्डलान्तर्गतो भागः घ. पुस्तक एवास्ति ।
२. 'परिश्रितेन' इति. क. च. पु. ।
३. श्वित्री. म श्वित्री कुष्ठी. इति घ. पु. । ४. ऐ. बा. ७. ३. १३.
५. या. स्मृ. १. ५७. ।

श्राद्धीयब्राह्मणः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५७
(१)एते श्विव्यादयः श्राद्धे भुञ्जानाः पङ्क्ति दूषयन्ति । अतस्ते न
भोज्या इति ॥ २१ ॥
त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्ये-
ष्ठसामिको वेदाध्यायनूचानपुत्रः श्रोत्रिय
इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपावना भवन्ति ॥२२॥
'मधुवाता ऋतायत' इत्येष तृचः(२)त्रिमधुः । तत्र हि प्रत्यृचं त्रयो
मधुशब्दाः । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिसुपर्णं (३) 'चतुष्कपर्दा
युवति सुपेशा' इत्यादिकस्तृचो बाह्वृचः । अन्ये तु तैत्तिरीयके (४) 'ब्रह्म
मेतु मा'मित्यादयः त्रयोऽनुवाका इत्याहुः । तत्र हि 'य इमं त्रिसुपर्णम-
याचितं ब्राह्मणाय दद्यादि'ति श्रूयते 'आसहस्रात् पङ्क्ति पुनन्ती'ति च ।
पूर्ववत्पुरुषे वृत्तिः । त्रिणाचिकेत. नाचिकेताऽग्निर्बह्वीषु शाखासु विधीयते
(५)तैत्तिरीयके, कठवल्लीषु, शतपथे च । तं यो वेद मन्त्रब्राह्मणेन सह स
त्रिणाचिकेत (६)नाचिकेताग्निश्श्वेतव्येत्यन्ये । विरजानुवाकाध्यायित्यन्ये, (७)-
प्राणापानेत्यादि । चतुर्मेधः अश्वमेधः, सर्वमेधः, पुरुषमेधः, पितृमेध, इति
चत्वारो मेधाः । तदध्यायी चतुर्मेधः । चतुर्णां यज्ञानामाहर्तेत्यन्ये । पञ्चाग्निः
१. इतः पूर्वं वृषलीपतिः वृषली शूद्रकन्या अदत्ता रजस्वला च वृषली तस्याः पतिः
निषिद्धद्रव्यविक्रेता तिलकम्बलरसविक्रेता । राजभृत्य. राज्ञस्सकाशात् भृतिं वेतनं गृह्णाति
स राजभृत्य. ॥ ब्राह्मणायमेवोत्पन्नस्सन् यस्योत्पादयिता सन्दिग्धः स तदुत्पन्न एवेति ।
शिपिविष्टादयः श्राद्धे भुजाना ,... इति पाठो घ. पुस्तके ।
२. मधु वाता ऋतायते, मधु नक्तमुतोषसि, मधुमान्नो वनस्पति.(तै. सं. ४. २. ९.)
इति तिस्र ऋचः त्रिमधु. ।
३ चतुष्कपर्दा युवतिः, एकस्सुपर्णस्ससमुद्रम्, सुपर्णं विप्राः, इति तिस्र. ऋचः (ऋ.
सं. ८. ६. १६.)
४ ब्रह्ममेतु माम्, ब्रह्ममेधया, ब्रह्ममेधवा, तै. आ. ( महानारायणोपनिषदि. )
( ३८, ३९, ४०.) इति त्रयोऽनुवाका त्रिसुपर्णः ।
५. तैत्तिरीयके. ब्राह्मणे तृतीयाष्टके एकादशे प्रपाठक आम्नातः । कठोपनिषदि प्रथ-
मादितिष्रु वल्लीषु, शतपथे ।
६. नाचिकेताग्निस्त्रैश्चेतेत्यन्ये, इति. च. पु.
७. प्राणापानव्योनादानसमाना मे शुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासं
स्वाहा. (तै. आ. ( महाना. ) ९५ ) इत्यादिः विरजानुवाकः ।
आप० ध० ३३

२५८ आपस्तम्बधर्मसूत्रे [(प्र. ७) क. १९.

सभ्यावसथ्याभ्यां सह ।(१)पञ्चानां काठकाग्नीनामध्येता वा । ज्येष्ठसाम
तलवकारिणां प्रसिद्धं उदु त्य,चित्रमित्येतयोर्गीतम् । तद्वायतीति ज्येष्ठ-
समागः । ज्येष्ठसामिक इति पाठे व्रीह्यादित्वात् ठन् । वेदाध्यायी स्वाध्या-
यपरः । अनूचानपुत्रः त्रैविद्यपुत्रः । श्रोत्रिय इत्यपि पठन्ति । तदादरार्थं
द्रष्टव्यम् । एते श्राद्धे भुञ्जानाः पङ्क्तिं शोधयन्ति । वेदाध्यायीत्यस्यानन्तर
मितिशब्दं पठन्ति । सोऽपपाठः । एतेन पञ्चाग्नीत्यविभक्तिकपाठो
व्याख्यातः ॥ २२ ॥
न च नक्तं श्राद्धं कुर्वीत ॥ २३ ॥
श्राद्धकर्मण्यारब्धे कारणाद्विलम्बे मध्ये यदादित्योऽस्तमियात्
तदा श्राद्धशेषं न कुर्वीत, अपरेद्युर्दिवैव कुर्वीतेति ॥ २३ ॥
आरब्धे चाऽभोजनमासमापनात् (अन्यत्र
राहुदर्शनात्) ॥ २४ ॥
पूर्वेद्युर्निवेदनप्रभृत्यापिण्डनिधानान्मध्ये कर्तुर्भोजनप्रतिषेधः । अ-
नन्तरमन्यत्र राहुदर्शनादिति पठन्ति । ‘न च नक्त’मित्यस्यापवादः राहु-
दर्शने नक्तमपि कुर्वीतेति । उदीच्यास्त्वेतत्प्रायेण न पठन्ति । तथा च
पूर्वैर्न व्याख्यातम् । प्रत्युत ‘न च नक्त’मित्येतत् सोमग्रहणविषयमिति
व्याख्यातम् । पठ्यमानं तु न च नक्तमित्यस्यानन्तरं पठितुं युक्तम्॥२४॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तदशी कण्डिका ॥ १७ ॥

इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥


१. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या० पञ्च चयनविशेषाः
तैत्तिरीयब्राह्मणे ३ याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु
समन्त्रका आम्नाता० पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्या-
ध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः ।

अथाष्टमः पटलः ॥
विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥
विलयनं नवनीतमलम्। यस्य दध्नो हस्तादिना मन्थनमात्रं न
जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुकाः-
(१)'तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्'ति ।
यन्त्रपीडितानां तिलानां कल्कः पिण्याकम् । मधुमांसे प्रसिद्धे । मांस-
मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १ ॥
कृष्णधान्यं शूद्रान्नं ये चान्येऽनार्यसम्मताः ॥ २ ॥
कृष्णधान्यं(२)माषादि । न कृष्णा व्रीहयः । शूद्रान्नं पक्कमपक्वं च । ये
चान्येऽनार्यत्वेनाभोज्यत्वेन सम्मताः तांश्च वर्जयेत् ॥ २ ॥
(३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥
अहविष्यं कोद्रवादि । अनृतं मिथ्यावचनम् । क्रोधः कोपः येन च कृते
नोक्तेन वा परं क्रोधयेत्, तच्च वर्जयेत् ॥ ३ ॥
स्मृतिमिच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशै-
तानि वर्जयेत् ॥ ४ ॥
स्मृतिरधिगतस्य स्मरणम् । यशः ख्यातिः । मेधा प्रज्ञा । द्वादशैतानि
विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ-
नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचनं विलयनादे-
रपि परिग्रहार्थम्, अहविष्यादिकमेवानन्तरोक्तं मा ग्राहीदिति ॥ ४ ॥
अधोनाभ्युपरि जान्वाच्छाद्य त्रिषवणमुदकमुपस्पृश-
न्नग्निकृद्वृत्तिरच्छाद्योपगतस्थानासनिकस्सं-
वत्सरमेतद्व्रतं चरेदेतदष्टाचत्वारिंशत्स-
म्मितमित्याचक्षते ॥ ५ ॥
१. अमरको. २. का. वै. ५३.
२. कुलुत्थादि इति घ. च. पुस्तकयो , कृष्णकुलुत्थादि. इति ड. पु.
३. 'अहविष्यं'मित्यादि 'वर्जये' दित्यन्तमेकसूत्रं क. पुस्तके परम् ।

४. द्वितीय प्रश्न (पटल ६-८): राजधर्म व दण्ड-नीति

२६० आपस्तम्बधर्मसूत्रे [(प.८.)क.१८.
अधोनाभ्युपरि जान्वाच्छाद्येति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु
सवनेषु प्रातर्मध्यन्दिने सायमिति उदकमुपस्पृशन् स्नान कुर्वन् । अनग्नि-
पक्ववृत्ति., वृत्तिः शरीरयात्रा, सा अग्निपक्वेन न कार्या । अग्निग्रहणात्
कालपक्वस्याऽऽम्रादेरदोषः । अच्छाद्योपगतः छायामनुपगच्छन् । स्थानास
निकः स्थानासनवान् । दिवास्थानं रात्रावासनं न कदा चिच्छयनम् ।
एतत् 'विलयनं मथित'मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत् । एत
द्ब्रतमष्टाचत्वारिंशद्वर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य
फलं तावदस्यापीत्याचक्षते धर्मज्ञाः । न केवल स्मृत्यादिकमेव प्रयो
जनमिति ।
अपर आह—'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम-
स्य । 'अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि
णो गृहस्थस्य च भवति ।
तथा च बौधायनः—
(१)'अष्टाचत्वारिंशत्समितमित्याचक्षते तस्य सङ्क्षेपः संवत्सरः ।
तं संवत्सरमनुव्याख्यास्यामः—स यदि ब्रह्मचारी स्यान्नियमेव प्रति-
पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि वापयि
त्वा तीर्थे गत्वा स्नात्वे'त्यादि ॥ ५ ॥
नित्यश्राद्धम् ॥ ६ ॥
अथाऽहरहः कर्तव्यं श्राद्धमुच्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥
बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥
तन्नित्यश्राद्धं बहिर्ग्रामात्कर्तव्यं तस्याऽन्नसंस्कारः शुचौ देशे अन्नं
संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आर्याः प्रयता इति पूर्व-
मेव प्रायत्यस्य विहितत्वात् ॥ ७ ॥
तत्र नवानि द्रव्याणि ॥ ८ ॥
तत्र नित्यश्राद्धे द्रव्याणि नवान्येव ग्राह्याणि ॥ ८ ॥
कानि पुनस्तानि ?
यैरन्नं संस्क्रियते येषु च भुज्यते ॥ ९ ॥
यैर्भाण्डैरन्नं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥ ९ ॥
१. नेदमयोपल+यमानबौधायनीये धर्मसूत्र उपलभ्यते ।

नित्यश्राद्धम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६१
तानि च भुक्तवद्भ्यो दद्यात् ॥ १० ॥
तानि भाण्डानि कांस्यादीनि च भुक्तवद्भ्यो ब्राह्मणेभ्यो दद्यात् । एवं
प्रत्यहम् ॥ १० ॥
समुदेतांश्च भोजयेत् ॥ ११ ॥
समुदेतवचनं गुणाधिक्यार्थम् ॥ ११ ॥
न चाऽतद्गुणायोच्छिष्टं प्रयच्छेत् ॥ १२ ॥
भाण्डेषु यत् भुक्तशिष्टं तदिहोच्छिष्टम् । तदप्यतद्गुणाय भुक्तवतां ये
गुणास्तद्रहिताय न दद्यात् तद्गुणायैव दद्यादिति(१) ॥ १२ ॥
एवं संवत्सरम् ॥ १३ ॥
एवमेतन्नित्यश्राद्धं संवत्सरं कर्तव्यमहरहः ॥ १३ ॥
तेषामुत्तमं लोहेनाजेन कार्यम् ॥ १४ ॥
तेषां संवत्सरस्याऽह्नां उत्तममहस्समाप्तिदिनम् । लोहेन लोहितवर्णेन
अजेन श्राद्धं कर्तव्यम् । दृश्यते चाप्यन्यत्राऽस्मिन्नर्थे लोहशब्दः-(२)
‘लोहस्तूपरो भवत्यप्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वे’ति । च-
मकेषु च भवति (३)‘श्यामं च मे लोहं च म’ इति ॥ १४ ॥
मानं च कारयेत्प्रतिच्छन्नम् ॥ १५ ॥
मानं धिष्ण्यं वेदिका । दृश्यते हि मिनोतेरस्मिन्नर्थे प्रयोगः
अग्रेणाऽऽग्नीध्रं चतुर उपस्नावं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चा-
न्निन्नतमिति। स एवायमुपसर्गरहितस्य प्रयोग । तं मानं कारयेत् कर्म-
करैः, प्रतिच्छन्नं च तद्वति तिरस्करिण्यादिना। इदमपि ग्रामाद्बहिरेव ॥
तस्योत्तरार्धे ब्राह्मणान् भोजयेत् ॥ १६ ॥
तस्य मानस्योत्तरस्मिन्नर्धे ब्राह्मणा भोजयितव्याः ॥ १६ ॥
उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च
पितॄन्नित्युपदिशन्ति ॥ १७ ॥
१. तदलाभे एतानि भुक्तवद्भ्यो ददाति उच्छिष्टानि श्राद्धे भुक्तवद्भ्य एव दद्यात् ॥
इत्यधिक घ. पुस्तके । २. लौहेन इति घ. पु.
३ तै स. ४. ७. ५. ‘‘अग्नाविष्णू सजोषसा’’इत्याद्या एकादशानुवाकाः चमका इ-
त्युच्यन्ते ‘चमे’ शब्दघटित्वात् ।

२६२ आपस्तम्बधर्मसूत्रे [ (प.८.) क. १९.
तस्यैवं कृतस्य कर्मणो महिम्ना उभयान् पश्यति, कांश्च कांश्च ब्राह्मणान्भु-
ञ्जानान् तस्मिन्नेव च माने पितॄन् यथा। ब्राह्मणान् भुञ्जानान् प्रत्यक्षेण
पश्यति तथा माने समागतान् पितॄनपि प्रत्यक्षेण पश्यतीत्युपदि-
शन्ति धर्मज्ञाः ॥ १७ ॥
कृताकृतमत ऊर्ध्वम् ॥ १८ ॥
अत ऊर्ध्वं मासिश्राद्धं क्रियताम्, मा वा कारि । अकरणेऽपि न
प्रत्यवाय इति ॥ १८ ॥
श्राद्धेन तृप्तिं निवेदयन्ते पितरः ॥ १९ ॥
हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते
ज्ञापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥
अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिरुच्छिष्टं दद्युरित्यन्त एकः।
तिष्येण पुष्टिकामः ॥ २० ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्नेऽष्टादशी कण्डिका ॥ १८ ॥
गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्र-
क्षाल्य मुखं कर्णौ प्राश्य च यद्वातो नाऽतिवाति तदा-
सनोऽजिनं बस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणा-
मुखो भुञ्जीत ॥ १ ॥
पुष्टिकामः पुरुषो वक्ष्यमाणं प्रयोगं कुर्यात् । तिष्येण(१) 'नक्षत्रे च
लुपि'त्यधिकरणे तृतीया । तिष्ये नक्षत्रे गौराणां सर्षपाणां चूर्णानि कर्म-
करैः कारयेत् । कारयित्वा तच्चूर्णैः पाणी पादौ प्रक्षाल्य मुखं कर्णौ च प्रक्षा-
ल्य चूर्णशेषं प्राश्नीयात् । प्रास्येदिति पाठे प्रास्येत् विकिरेत् । एतावत्
प्रतितिष्यं विशेषकृत्यम् । परं तु प्रत्यहं कर्तव्यम् । प्राश्य च यदासनं वा-
तो नातिवाति अधो नातीत्य वाति तदासनस्तादृशासनः भुञ्जीतेति व-
क्ष्यमाणेन सम्बन्धः । तत्र बस्ताजिनमासनं स्यादिति मुख्य कल्पः ।
वाग्यतो दक्षिणां दिशमभिमुखो भुञ्जीत ॥ १ ॥
अनायुष्यं त्वेवंमुखस्य भोजनं मातुरित्युपादिशन्ति ॥२॥
१. पा. सू. २. ३.४५.

पुंस्त्वर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६३
यदेवंमुखस्य दक्षिणामुखस्य भोजनं तत् भोक्तुर्या माता तस्या
अनायुष्यमनायुष्यकरमिति धर्मज्ञा उपदिशन्ति । तस्मान्मातृमता नैवं कृतं
कार्यमिति ॥ २ ॥
औदुम्बरश्चमसः सुवर्णनाभः प्रशस्तः ॥ ३ ॥
चमु भक्षणे । यत्र चम्यते स चमसो भोजनपात्रम् । औदुम्बरस्ता-
म्रमयः सुवर्णेन मध्येऽलंकृतस्स प्रशस्तः प्रशस्तो भोजने ॥ ॥ ३ ॥
नचाऽन्येनाऽपि भोक्तव्यम् ॥ ४ ॥
नचान्येनापि कर्तुः पित्रापि तत्र पात्रे भोक्तव्यम् । अपिर्धात्वार्था
नुवादी । भोक्तव्य इति पुंलिङ्गपाठेऽप्येष एवार्थः ॥ ४ ॥
यावद्ग्रासं सन्नयन्नस्कन्दयन्नाऽपजिहीताऽपजिहीत वा
कृत्स्नं ग्रासं ग्रसति सहाङ्गुष्ठम् ॥ ५ ॥
यावदेव सकृत् ग्रसितुं शक्यं तावदेव सन्नयन् पिण्डीकुर्वन् । अस्कन्द-
यन् भूमावन्नलेपानपातयन् कृत्स्न ग्रासं ग्रसीतेत्यन्वयः । सहाङ्गुष्ठम् आ
स्येऽपि ग्रासप्रवेशे यथाऽङ्गुष्ठोऽप्यनुप्रविशति तथा सर्वानैव ग्रासानु
क्तेन प्रकारेण ग्रसति ग्रसतो मध्ये क्रियान्तरविधिः-नाऽपजिहीत भोजन
पात्रं सव्येन पाणिना न विमुञ्चेत् । अपजिहीत वा विमुञ्चेद्वा । किमर्थमिदम्
यावता न प्रकारान्तरं सम्भवति, सत्यं, 'प्रक्रमात्तु नियम्यत' इति
न्यायेन य एव प्रकारः प्रथमे भोजने स एवाऽऽन्तादनुष्ठातव्य इत्येवमर्थ-
मिदम् ॥ ५ ॥
न च मुखशब्दं कुर्यात् ॥ ६ ॥
भोजनदशायामिदम् । एवमुत्तरम् ॥ ६ ॥
पाणिं च नाऽवधूनुयात् ॥ ७ ॥
पाणिरत्र दक्षिणः ॥ ७ ॥
आचम्य चोध्र्वौ पाणी धारयेदाप्रोदकीभावात् ॥ ८ ॥
भुक्त्वाऽऽचम्य पाणी ऊर्ध्वौ धारयेत् यावत् प्रगतोदकौ शुष्कोदकौ
भवतः ॥ ८ ॥
ततोऽग्निमुपस्पृशेत् ॥ ९ ॥
भुक्त्वा नियमेनाग्निरुपस्पृष्टव्यः ॥ ६ ॥

२६४ आपस्तम्बधर्मसूत्रे [(प.८.)क.१९]
दिवाच न भुञ्जीताऽन्यन्मूलफलेभ्यः ॥ १० ॥
मूलानि कन्दाः । फलान्याम्रादीनि । तेभ्योऽन्यद्दिवा न भुञ्जीत । तद्भक्ष-
णे न दोषः ॥ १० ॥
स्थालीपाकानुद्देश्यानि च वर्जयेत् ॥ ११ ॥
(१)तेन सर्पिष्मता ब्राह्मणं भोजये' दित्यादौ ब्राह्मणो भूत्वा न भु-
ञ्जीत अनुद्देश्यानि च पितृभ्यो देवताभ्यश्च सङ्कल्पितानि च न भुञ्जीत । ११ ।
सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ॥ १२ ॥
उत्तराच्छादनमुपरिवासः । तेन यज्ञोपवीतेन यज्ञोपवीतं कृत्वा भुञ्जीत ।
नाऽस्य भोजने "अपि वा सूत्रमेवोपवीतार्थ" इत्ययं कल्पो भवतीत्येके ।
समुच्चय इत्यन्ये ॥ १२ ॥
नैयमिकं तु श्राद्धं स्नेहवदेव दद्यात् ॥ १३ ॥
यन्नियमेन कर्तव्यं मासि श्राद्धं, तत् स्नेहद्रव्ययुक्तमेव दद्यात् । न
शुष्कम् ॥ १३ ॥
तत्र विशेषः-
सर्पिर्मांसमिति प्रथमः कल्पः ॥ १४ ॥
स्पष्टम् ॥ १४ ॥
अभावे तैलं शाकमिति ॥ १५ ॥
सर्पिषोऽभावे तैल मांसस्याऽभावे शाकम् । इतिशब्दाद्यच्चान्यदेवं
युक्तम् ॥ १५ ॥
मघासु चाधिकं श्राद्धकल्पेन सर्पिर्ब्राह्मणान् भोजयेत् ॥१६॥
मघासु पूर्वपक्षेऽपि श्राद्धविधानेन सर्पिर्मिश्रमन्नं ब्राह्मणान् भोजयेत् ॥१६॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनविंशी काण्डका ॥ १९ ॥
१. आप गृ. ७. १५.

पुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५
मासि श्राद्धे तिलानां द्रोणंद्रोणं येनोपायेन
शक्नुयात् तेनोपयोजयेत् ॥ १ ॥
येनोपायैनोपयोजयितुं शक्नुयात् अभ्यङ्गे, उद्वर्तने, भक्ष्ये, भोज्ये चेति
तेनोपायेन मासिश्राद्धे तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म-
णस्य तिलानां द्रोणं द्रोणमुपयोजयितुमशक्यत्वात् समुदितानुपयोजये
त् । द्रौणंद्रोणमिति वीप्सावचनं तु प्रतिमासिश्राद्धमुपयोजनार्थमिति
केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित-
व्या इति ॥ १ ॥
समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥
व्याख्यातमिदम् । दद्युरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् ।
वचनव्यत्ययो वा ॥ २ ॥
अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाप्तेः-
उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य ति-
ष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराज-
मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा
पुष्ट्यर्थेन सिद्धिं वाचयीत ॥ ३ ॥
पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षस्य
पूर्वपक्षस्य सम्बन्धिन। तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा
(१)महाराजं वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान
होम । स्विष्टकृदादिजयादयः । परिषेचनान्ते तेन सर्पिष्मता स्थाली-
पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेदं वचनम् । भोजयित्वा सिद्धिं
वाचयीत पुष्टिरस्त्विति ॥ ३ ॥
एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥
एवमिदं स्थालीपाकश्नपणादिसिद्धिवाचनान्तमहरहः कर्तव्यमापरस्मा-
त्तिष्यात् यावदपरस्तिष्य आगच्छति ॥ ४ ॥
द्वौ द्वितीये ॥ ५ ॥
१ कुबेराय वैश्रवाणाय । महाराजाय नमः। ( तै आर. १. ३१. ) इति मन्त्रे
वैश्रवणस्य महाराजपदेन सामानाधिकरण्यात् ॥
आप० ध० ३४

२६६ आपस्तम्बधर्मसूत्रे [(प.८)क.२०.
द्वितीये तिष्ये प्राप्ते द्वौ भोजयेत् । अन्यत्समानम् । एवमातृतीयात् ॥५॥
त्रींस्तृतीये ॥ ६ ॥
तृतीये तिष्ये त्रीन् भोजयेदाचतुर्थात् ॥ ६ ॥
एवं संवत्सरमभ्युच्चयेन ॥ ७ ॥
एवमेतत्कर्म यावत्संवत्सरः पूर्यते तावत् कर्तव्यम् । ब्राह्मणभोजन
चाऽभ्युच्चयेन भवति। चतुर्थप्रभृति चत्वारः, पञ्चमप्रभृति पञ्चेत्यादि॥७॥
एवं कृते फलमाह-
महान्तं पोषं पुष्यति ॥ ८ ॥
महत्या पुष्ट्या युक्तो भवति ॥ ८ ॥
आदित एवोपवासः ॥ ९ ॥
उपवासस्त्वादित एव पुष्ये भवति । न प्रतिपुष्यम् ॥ ९ ॥
आत्ततेजसां भोजनं वर्जयेत् ॥ १० ॥
आत्ततेजांसि तक्रवाजिनादीनि । तानि नोपभुञ्जीत ॥ १० ॥
भस्मतुषाधिष्ठानम् ॥ ११ ॥
वर्जयेदित्येव । भस्मतुषांश्च नाऽधितिष्ठेत् नाऽऽक्रामेत् ॥ ११ ॥
पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ १२ ॥
एकेन पादेन पादान्तरस्य प्रक्षालनं अधिष्ठानं च वर्जयेत् न कुर्यात् ॥१२॥
प्रेङ्खोलनं च पादयोः ॥ १३ ॥
प्रेङ्खोलन दोलनमितस्ततश्चालनम् ॥ १३ ॥
जानुनि चाऽत्याधानं जङ्घायाः ॥ १४ ॥
एकस्मिन् जानुनि इतरस्या जङ्घायाः अत्याधानमवस्थापनं च वर्जयेत्॥१४
नखैश्च नखवादनः ॥ १५ ॥
स्पष्टम् ॥ १५ ॥
स्फोटनानि चाऽकारणात् ॥ १६ ॥
पर्वसन्धीनां स्फोटनानि वर्जयेत् अकारणात्, कारणं श्रमवातादि ।
वादनस्फोटनानीति समासपाठेऽप्येष एवार्थः ॥ १६ ॥

पृष्ट्यर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६७
यच्चान्यत्परिचक्षते ॥ १७ ॥
यच्चान्यदेवं उक्तव्यतिरिक्तं तृणच्छेदनादि शिष्टाः परिचक्षते गर्हन्ते
तदपि वर्जयेत् ॥ १७ ॥
योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च ॥ १८ ॥
एकश्चशब्दोऽनर्थकः । केचिन्नैव पठन्ति । धर्माविरुद्धा ये द्रव्यप-
रिग्रहास्तेषु च योक्ता उत्पादयिता स्यान्निरीहस्स्यात् ॥ १८ ॥
प्रतिपादयिता च तीर्थे ॥ १९ ॥
तीर्थं गुणवत् पात्रं, यज्ञो वा । तत्र द्रव्यस्याऽर्जितस्य प्रतिपाद-
यिता स्यात् ॥ १९ ॥
यन्ता चाऽतीर्थे यतो न भयं स्यात् ॥ २० ॥
यन्ता नियन्ता अप्रदाता अतीर्थे अप्रदाता च स्यात् । यतः पुरुषादप्र-
दानेऽपि न भयं स्यात् । भयसम्भवे तु पिशुनादिभ्यो देयम् ॥ २० ॥
सङ्ग्रहीता च मनुष्यान् ॥ २१ ॥
अर्थप्रदानप्रियवचनानुसरणादिभिर्मनुष्याणां सङ्ग्रहणशीलस्स्यात्२१
भोक्ता च धर्माविप्रतिषिद्धान् भोगान् ॥ २२ ॥
धर्माविरुद्धा ये भोगाः स्रक्चन्दनस्वभार्यासेवनादयः, तेषां च
भोगशीलस्स्यात् ॥ २२ ॥
एवमुभौ लोकावभिजयति ॥ २३ ॥
एवं महत्या पुष्ट्या युक्त उक्तप्रकारमनुतिष्ठन्नुभौ लोकावभिजयति
भोगेनेमं लोकं, तीर्थे प्रतिपादनेन चाऽमुं लोकमिति ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने विंशी काण्डिका ॥ २० ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां द्वितीयप्रश्नेऽष्टमः पटलः ॥ ८ ॥