आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 267, कुल 399 में से
संदर्भ में पढ़ें२६६ | आपस्तम्बधर्मसूत्रे | [ (प्र.७.) क. १७.
व्यवृत्तिरित्युक्तं, तथापि प्रकरणसामर्थ्यात् सर्वेषामपि भवति ॥ १७ ॥
'उद्ध्रियतामग्नौ च क्रियता' मित्यामन्त्रयते ॥ १८ ॥
होमकाल 'उद्ध्रियतामग्नौ च क्रियतामि'त्यनेन मन्त्रेण ब्राह्मणान्मन्त्रयते।
मन्त्रे(१)'अधीष्टे च'ति लोट्प्रत्ययः ॥ १८ ॥
'काममुद्ध्रियतां काममग्नौ च क्रियता'मित्यतिसृष्ट
उद्धरेज्जुहुयाच्च ॥ १९ ॥
अथ ब्राह्मणाः काममुद्ध्रियता काममग्नौ च क्रियतामित्यतिसृजेयुः अनु-
जानीयु.। तश्चातिसृष्ट उद्धरेज्जुहुयाच्च । उद्धरणं नाम ब्राह्मणार्थे पक्वाद्न्ना-
दन्यस्मिन् पात्रे पृथक्करणम् । तत्सूत्रकारेण ज्ञापितमष्टकाश्राद्धे ॥१९॥
श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते ॥ २० ॥
(श्वभिरिति बहुवचनात् ग्रामशूकरादीनां तादृशानांग्रहणम् ।) अप-
पात्राः पतितादयः, प्रतिलोमादयश्च । तै. श्राद्धस्य दर्शनं परिचक्षते गर्हन्ते
शिष्टाः । अतो यथा ते न पश्येयुस्तथा(२)परिश्रिते कर्तव्यमिति ॥२०॥
श्वित्रश्शिपिविष्टः परतल्पगाम्यायुधीयपुत्रश्शू-
द्रोत्पन्नो ब्राह्मण्यामित्येते श्राद्धे भुञ्जानाः
पङ्क्तिदूषणा भवन्ति ॥ २१ ॥
(३)श्वित्रश्वित्री श्वेतकुष्ठी । शिपिविष्टः खलतिः । विवृत्तशेफ इत्यन्ये । पर-
तल्पगामी यः परतल्पं गत्वा अकृतप्रायश्चित्तः तस्य ग्रहणम् । आयुधीयपुत्र.
क्षत्रियवृत्तिमाश्रितो य आयुधेन जीवति ब्राह्मणः, तस्य पुत्रः। शूद्रेण
ब्राह्मण्यामुत्पन्नश्चण्डालः। न तस्य प्रसङ्गः । 'ब्राह्मणान् ब्रह्मविद' इत्यु-
क्तत्वात् । तस्मादेवं व्याख्येयम्-क्रमविवाहे यः शूद्रायां पूर्वमुत्पाद्य
पश्चात् ब्राह्मण्यामुत्पादयति तस्य पुत्रः शूद्रोत्पन्नो ब्राह्मण्यामिति । स
हि पिता शूद्रः सम्पन्नः । श्रूयते हि(४)'तज्जाया जाया भवति यदस्यां
जायते पुनर्दि'ति । स्मर्यते च-
(५)'यदुच्यते द्विजातीनां शूद्राहारपरिग्रहः ।
न तन्मम मतं यस्मात्तत्राऽयं जायते स्वयम् ॥' इति ।
१. पा सू. ३. ३. ११६. ( ) कुण्डलान्तर्गतो भागः घ. पुस्तक एवास्ति ।
२. 'परिश्रितेन' इति. क. च. पु. ।
३. श्वित्री. म श्वित्री कुष्ठी. इति घ. पु. । ४. ऐ. बा. ७. ३. १३.
५. या. स्मृ. १. ५७. ।