आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 277, कुल 399 में से
संदर्भ में पढ़ें२६६ आपस्तम्बधर्मसूत्रे [(प.८)क.२०.
द्वितीये तिष्ये प्राप्ते द्वौ भोजयेत् । अन्यत्समानम् । एवमातृतीयात् ॥५॥
त्रींस्तृतीये ॥ ६ ॥
तृतीये तिष्ये त्रीन् भोजयेदाचतुर्थात् ॥ ६ ॥
एवं संवत्सरमभ्युच्चयेन ॥ ७ ॥
एवमेतत्कर्म यावत्संवत्सरः पूर्यते तावत् कर्तव्यम् । ब्राह्मणभोजन
चाऽभ्युच्चयेन भवति। चतुर्थप्रभृति चत्वारः, पञ्चमप्रभृति पञ्चेत्यादि॥७॥
एवं कृते फलमाह-
महान्तं पोषं पुष्यति ॥ ८ ॥
महत्या पुष्ट्या युक्तो भवति ॥ ८ ॥
आदित एवोपवासः ॥ ९ ॥
उपवासस्त्वादित एव पुष्ये भवति । न प्रतिपुष्यम् ॥ ९ ॥
आत्ततेजसां भोजनं वर्जयेत् ॥ १० ॥
आत्ततेजांसि तक्रवाजिनादीनि । तानि नोपभुञ्जीत ॥ १० ॥
भस्मतुषाधिष्ठानम् ॥ ११ ॥
वर्जयेदित्येव । भस्मतुषांश्च नाऽधितिष्ठेत् नाऽऽक्रामेत् ॥ ११ ॥
पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ १२ ॥
एकेन पादेन पादान्तरस्य प्रक्षालनं अधिष्ठानं च वर्जयेत् न कुर्यात् ॥१२॥
प्रेङ्खोलनं च पादयोः ॥ १३ ॥
प्रेङ्खोलन दोलनमितस्ततश्चालनम् ॥ १३ ॥
जानुनि चाऽत्याधानं जङ्घायाः ॥ १४ ॥
एकस्मिन् जानुनि इतरस्या जङ्घायाः अत्याधानमवस्थापनं च वर्जयेत्॥१४
नखैश्च नखवादनः ॥ १५ ॥
स्पष्टम् ॥ १५ ॥
स्फोटनानि चाऽकारणात् ॥ १६ ॥
पर्वसन्धीनां स्फोटनानि वर्जयेत् अकारणात्, कारणं श्रमवातादि ।
वादनस्फोटनानीति समासपाठेऽप्येष एवार्थः ॥ १६ ॥