आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 276, कुल 399 में से
संदर्भ में पढ़ेंपुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५
मासि श्राद्धे तिलानां द्रोणंद्रोणं येनोपायेन
शक्नुयात् तेनोपयोजयेत् ॥ १ ॥
येनोपायैनोपयोजयितुं शक्नुयात् अभ्यङ्गे, उद्वर्तने, भक्ष्ये, भोज्ये चेति
तेनोपायेन मासिश्राद्धे तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म-
णस्य तिलानां द्रोणं द्रोणमुपयोजयितुमशक्यत्वात् समुदितानुपयोजये
त् । द्रौणंद्रोणमिति वीप्सावचनं तु प्रतिमासिश्राद्धमुपयोजनार्थमिति
केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित-
व्या इति ॥ १ ॥
समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥
व्याख्यातमिदम् । दद्युरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् ।
वचनव्यत्ययो वा ॥ २ ॥
अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाप्तेः-
उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य ति-
ष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महाराज-
मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा
पुष्ट्यर्थेन सिद्धिं वाचयीत ॥ ३ ॥
पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षस्य
पूर्वपक्षस्य सम्बन्धिन। तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा
(१)महाराजं वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान
होम । स्विष्टकृदादिजयादयः । परिषेचनान्ते तेन सर्पिष्मता स्थाली-
पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेदं वचनम् । भोजयित्वा सिद्धिं
वाचयीत पुष्टिरस्त्विति ॥ ३ ॥
एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥
एवमिदं स्थालीपाकश्नपणादिसिद्धिवाचनान्तमहरहः कर्तव्यमापरस्मा-
त्तिष्यात् यावदपरस्तिष्य आगच्छति ॥ ४ ॥
द्वौ द्वितीये ॥ ५ ॥
१ कुबेराय वैश्रवाणाय । महाराजाय नमः। ( तै आर. १. ३१. ) इति मन्त्रे
वैश्रवणस्य महाराजपदेन सामानाधिकरण्यात् ॥
आप० ध० ३४